०४

विश्वास-प्रस्तुतिः

“यु॒ञ्जन्ति॑ ब्र॒ध्न"मित्या॑ह ।

मूलम्

“यु॒ञ्जन्ति॑ ब्र॒ध्न"मित्या॑ह ।

भट्टभास्कर-टीका

1युञ्जन्ति ब्रध्नमिति दक्षिणस्यां युगधुरि अश्वमलंकृतं युनक्ति ॥

विश्वास-प्रस्तुतिः

अ॒सौ वा आ॑दि॒त्यो ब्र॒ध्नः । आ॒दि॒त्यमे॒वास्मै॑ युनक्ति ।

मूलम्

अ॒सौ वा आ॑दि॒त्यो ब्र॒ध्नः । आ॒दि॒त्यमे॒वास्मै॑ युनक्ति ।

भट्टभास्कर-टीका

असौ वा इत्यादि । ब्रह्मवादिगुणयोगादादित्यादियोजनत्वेन अश्व योजनं रूपयति । अस्मै यजमानाय आदित्यादिमानयं यथा स्यादिति । एतदर्थमेवादित्यादीन् स्वकार्येषु व्यापारयतीत्यर्थः । बृंहाणात् ब्रध्नः आदित्यः ।

विश्वास-प्रस्तुतिः

“अ॒रु॒ष"मित्या॑ह । अ॒ग्निर्वा अ॑रु॒षः । अ॒ग्निमे॒वास्मै॑ युनक्ति ।

मूलम्

“अ॒रु॒ष"मित्या॑ह । अ॒ग्निर्वा अ॑रु॒षः । अ॒ग्निमे॒वास्मै॑ युनक्ति ।

भट्टभास्कर-टीका

आरोचनादरुषोऽग्रिः ।

विश्वास-प्रस्तुतिः

“चर॑न्त॒"मित्या॑ह । वा॒युर्वै चर॑न् । वा॒युमे॒वास्मै॑ युनक्ति ।

मूलम्

“चर॑न्त॒"मित्या॑ह । वा॒युर्वै चर॑न् । वा॒युमे॒वास्मै॑ युनक्ति ।

भट्टभास्कर-टीका

सदा चरणात् चरन् वायुः ।

विश्वास-प्रस्तुतिः

“परि॑त॒स्थुष॒” इत्या॑ह ॥12॥
इ॒मे वै लो॒काᳶ परि॑त॒स्थुषः॑ । इ॒माने॒वास्मै॑ लो॒कान् यु॑नक्ति ।

मूलम्

“परि॑त॒स्थुष॒” इत्या॑ह ॥12॥
इ॒मे वै लो॒काᳶ परि॑त॒स्थुषः॑ । इ॒माने॒वास्मै॑ लो॒कान् यु॑नक्ति ।

भट्टभास्कर-टीका

परितः स्यितियोगात् परितस्थिवांसो लोकाः, विभक्तिव्यत्ययः ॥

विश्वास-प्रस्तुतिः

“रोच॑न्ते रोच॒ना दि॒वी"त्या॑ह । नक्ष॑त्राणि॒ वै रो॑च॒ना दि॒वि । नक्ष॑त्राण्ये॒वास्मै॑ रोचयति ।

मूलम्

“रोच॑न्ते रोच॒ना दि॒वी"त्या॑ह । नक्ष॑त्राणि॒ वै रो॑च॒ना दि॒वि । नक्ष॑त्राण्ये॒वास्मै॑ रोचयति ।

भट्टभास्कर-टीका

2रोचन्त इति पृष्ठमश्वस्य मृज्यते ॥ एतदर्थमेव दिवि नक्षत्राणि रोचयति प्रकाशयति ।

विश्वास-प्रस्तुतिः

“यु॒ञ्जन्त्य॑स्य॒ काम्ये"त्या॑ह । कामा॑ने॒वास्मै॑ युनक्ति ।

मूलम्

“यु॒ञ्जन्त्य॑स्य॒ काम्ये"त्या॑ह । कामा॑ने॒वास्मै॑ युनक्ति ।

भट्टभास्कर-टीका

युञ्जन्त्यस्येति प्रष्टी युनक्ति । कामान् अभिप्रेतानर्थान् । इमे इयं च असौ च इमे द्यावापृथिव्यौ । ‘त्यदादीनां यत्परम्’ इतीदमश्शेषः ।

विश्वास-प्रस्तुतिः

“हरी॒ विप॑क्ष॒से"त्या॑ह । इ॒मे वै हरी॒ विप॑क्षसा । इ॒मे ए॒वास्मै॑ युनक्ति ॥ 13॥

मूलम्

“हरी॒ विप॑क्ष॒से"त्या॑ह । इ॒मे वै हरी॒ विप॑क्षसा । इ॒मे ए॒वास्मै॑ युनक्ति ॥ 13॥

भट्टभास्कर-टीका

हरी हरणकुशले । विपक्षसा विविधपार्श्वे ।

विश्वास-प्रस्तुतिः

“शोणा॑ धृ॒ष्णू नृ॒वाह॒से"त्या॑ह । अ॒हो॒रा॒त्रे वै नृ॒वाह॑सा । अ॒हो॒रा॒त्रे ए॒वास्मै॑ युनक्ति ।

मूलम्

“शोणा॑ धृ॒ष्णू नृ॒वाह॒से"त्या॑ह । अ॒हो॒रा॒त्रे वै नृ॒वाह॑सा । अ॒हो॒रा॒त्रे ए॒वास्मै॑ युनक्ति ।

भट्टभास्कर-टीका

धृष्णू धारणशीले नृवाहसा नराणां वहनकुशले ।

विश्वास-प्रस्तुतिः

ए॒ता ए॒वास्मै॑ दे॒वता॑ युनक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

मूलम्

ए॒ता ए॒वास्मै॑ दे॒वता॑ युनक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

भट्टभास्कर-टीका

एवमेता दैवता अस्मै यजमानाय अस्याभिमतसंपादनार्थं युनक्ति अश्वादियोजनव्याजेन, तत्स्वर्गस्य सम्यक्प्राप्तये भवति ॥

विश्वास-प्रस्तुतिः

“के॒तुङ्कृ॒ण्वन्न॑के॒तव॒” इति॑ ध्व॒जम्प्रति॑मुञ्चति । यश॑ ए॒वैनँ॒ राज्ञा॑ङ्गमयति ।

मूलम्

“के॒तुङ्कृ॒ण्वन्न॑के॒तव॒” इति॑ ध्व॒जम्प्रति॑मुञ्चति । यश॑ ए॒वैनँ॒ राज्ञा॑ङ्गमयति ।

भट्टभास्कर-टीका

3प्रतिमुञ्चति रथे स्थापयति ॥ राज्ञां मध्ये एनमेव राजानं यशो गमयति जयत्येष इति यावत् ।

विश्वास-प्रस्तुतिः

“जी॒मूत॑स्येव भवति॒ प्रती॑क॒"मित्या॑ह । य॒था॒य॒जुरे॒वैतत् ।

मूलम्

“जी॒मूत॑स्येव भवति॒ प्रती॑क॒"मित्या॑ह । य॒था॒य॒जुरे॒वैतत् ।

भट्टभास्कर-टीका

प्रसिद्धत्वात् यथायजुरिति । ‘अनाविद्धया तनुवा जयत्वम्’ इत्यादि यथा मन्त्रो वदति तथा तद्भवत्येव ।

विश्वास-प्रस्तुतिः

“ये ते॒ पन्था॑नस्सवितᳶ पू॒र्व्यास॒” इत्य॑ध्व॒र्युर्यज॑मानव्ँ वाचयत्य॒भिजि॑त्यै ॥ 14॥

मूलम्

“ये ते॒ पन्था॑नस्सवितᳶ पू॒र्व्यास॒” इत्य॑ध्व॒र्युर्यज॑मानव्ँ वाचयत्य॒भिजि॑त्यै ॥ 14॥

भट्टभास्कर-टीका

अभिजित्या इति । मार्गविशेषलाभात् देवतापक्षपाताच्च अभिजयः ॥

विश्वास-प्रस्तुतिः

परा॒ वा ए॒तस्य॑ य॒ज्ञ ए॑ति । यस्य॑ प॒शुरु॒पाकृ॑तो॒ऽन्यत्र॒ वेद्या॒ एति॑ ।

मूलम्

परा॒ वा ए॒तस्य॑ य॒ज्ञ ए॑ति । यस्य॑ प॒शुरु॒पाकृ॑तो॒ऽन्यत्र॒ वेद्या॒ एति॑ ।

भट्टभास्कर-टीका

4परा वा इत्यादि ॥ उपाकृरतोऽश्वो हविर्भूतो वेद्या अन्यत्र सदि गच्छेत् एतस्य यजमानस्य यज्ञः परैति विनश्यति, तस्मात् ‘एतम्’ इति रथसमीपमश्वं नयति ।

विश्वास-प्रस्तुतिः

“ए॒तँ स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒माव॑र्तयासि” न॒ इत्या॑ह । वा॒युर्वै स्तोता॑ । वा॒युमे॒वास्य॑ प॒रस्ता॑द्दधा॒त्यावृ॑त्त्यै ।

मूलम्

“ए॒तँ स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒माव॑र्तयासि” न॒ इत्या॑ह । वा॒युर्वै स्तोता॑ । वा॒युमे॒वास्य॑ प॒रस्ता॑द्दधा॒त्यावृ॑त्त्यै ।

भट्टभास्कर-टीका

तत्र ‘एतं स्तोतः’ इत्यादिवचनात् अश्वस्य पश्चाद्वायुस्स्थापितो भवति, तच्चास्य आवृत्यै भवति । वायुः खलु ‘स्तोतः’ डति मन्त्रे आमन्त्र्यते प्राणादिवृत्तिभावेन ताल्वाद्यभिघातेन शब्दोत्पादनात् स्तोता शब्दयिता वायुः उच्यते ॥

मूलम्

यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वव्ँ वा ए॒तदश्व॑स्य स्कन्दति ।

यद॑स्यो॒पाकृ॑तस्य॒ लोमा॑नि॒ शीय॑न्ते । यद्वाले॑षु का॒चाना॒वय॑न्ति । लोमा॑न्ये॒वास्य॒ तत्सम्भ॑रन्ति ॥15॥

विश्वास-प्रस्तुतिः

यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑त्य् ए॒वव्ँ वा ए॒तदश्व॑स्य स्कन्दति ।
यद॑स्यो॒पाकृ॑तस्य॒ लोमा॑नि॒ शीय॑न्ते॒ यद्वाले॑षु का॒चाना॒वय॑न्ति॒ लोमा॑न्ये॒वास्य॒ तत्सम्भ॑रन्ति ॥

मूलम्

यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑त्य् ए॒वव्ँ वा ए॒तदश्व॑स्य स्कन्दति ।
यद॑स्यो॒पाकृ॑तस्य॒ लोमा॑नि॒ शीय॑न्ते॒ यद्वाले॑षु का॒चाना॒वय॑न्ति॒ लोमा॑न्ये॒वास्य॒ तत्सम्भ॑रन्ति ॥

भट्टभास्कर-टीका

5यथा वा इत्यादि ॥ उपाकरणोत्तरकालं अश्वस्य लोमनिपतनं गृहीतस्य हविषः स्कन्दनस्थानीयं, तस्मात् वालेषु अश्वस्य दीर्घलोमसु काचान् मणीन् सौवर्णराजतमौक्तिकान् महिषीवावातापरिवृक्त्य आवयन्ति प्रोतान् कुर्वन्ति । तत्सर्वेषां लोम्नां संभरणाय सम्यग्धारणाय भवति -

सौवर्णान् महिषीमणीन् दशशतानस्यावयत्यावहात्
वावाता वयते मणीन् दशशतान् प्रत्यग्वहाद्राजतान् ।
प्रत्यक्श्रोणिसहस्रमेव परिवृक्त्यस्यावयेन्मौक्तिकान्
सख्यश्शङ्खमणीनश्वेषु समुपग्रथ्नन्त्यविस्रस्तये ॥

महिष्यास्सचिवस्थाने राजपुत्र्यश्शतं स्मृताः ।
वावाताया अराजोग्रदारास्साहायके शतम् ॥

दारास्तु सूतग्रामण्यां परिवृक्त्यास्सहायताम् ।
शतं कुर्वन्ति पञ्चाशत् पञ्चाशद्वर्गयोर्द्वयोः ॥

विश्वास-प्रस्तुतिः

भूर्भुव॒स्सुव॒रिति॑ प्राजाप॒त्याभि॒राव॑यन्ति । प्रा॒जा॒प॒त्यो वा अश्वः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयन्ति ।

मूलम्

भूर्भुव॒स्सुव॒रिति॑ प्राजाप॒त्याभि॒राव॑यन्ति । प्रा॒जा॒प॒त्यो वा अश्वः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयन्ति ।

भट्टभास्कर-टीका

6भूरित्यादि ॥ ‘स भूरिति व्याहरत्’ इति प्रजापतिना प्रथमदृष्टत्वात् प्राजापत्या व्याहृतयः अश्वः प्राजापत्य इति स्वयैव देवतया आवनं समृद्ध्यै भवति ।

विश्वास-प्रस्तुतिः

भूरिति॒ महि॑षी । भुव॒ इति॑ वा॒वाता॑ । सुव॒रिति॑ परिवृ॒क्ती । ए॒षाल्ँ लो॒काना॑म॒भिजि॑त्यै ।

मूलम्

भूरिति॒ महि॑षी । भुव॒ इति॑ वा॒वाता॑ । सुव॒रिति॑ परिवृ॒क्ती । ए॒षाल्ँ लो॒काना॑म॒भिजि॑त्यै ।

भट्टभास्कर-टीका

महिष्यादित्रयस्य क्रमेण व्यहृतित्रयान्वयो लोकत्रयाभिजयाय भवति ॥

विश्वास-प्रस्तुतिः

हि॒र॒ण्यया॑ᳵ का॒चा भ॑वन्ति । ज्योति॒र्वै हिर॑ण्यम् । रा॒ष्ट्रम॑श्वमे॒धः ॥16॥

मूलम्

हि॒र॒ण्यया॑ᳵ का॒चा भ॑वन्ति । ज्योति॒र्वै हिर॑ण्यम् । रा॒ष्ट्रम॑श्वमे॒धः ॥16॥

भट्टभास्कर-टीका

7हिरण्ययाः हिरण्मयाः ‘ऋत्व्यवास्त्व्य’ इति सूत्रे हिरण्ययेति निपात्यते । पक्षान्तरमिदं राजतानामप्युपलक्षणं वा ।

विश्वास-प्रस्तुतिः

ज्योति॑श्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति । स॒हस्र॑म्भवन्ति । स॒हस्र॑सम्मितस्सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।

मूलम्

ज्योति॑श्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति । स॒हस्र॑म्भवन्ति । स॒हस्र॑सम्मितस्सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।

भट्टभास्कर-टीका

समीची संगते एकविषये दधाति । मणीनां सहस्रत्वं महार्घत्वेन सहस्रतुल्यस्य स्वर्गस्य अभिजयाय भवति ॥

विश्वास-प्रस्तुतिः

अप॒ वा ए॒तस्मा॒त्तेज॑ इन्द्रि॒यम्प॒शव॒श्श्रीᳵ क्रा॑मन्ति । यो॑ऽश्वमे॒धेन॒ यज॑ते ।

मूलम्

अप॒ वा ए॒तस्मा॒त्तेज॑ इन्द्रि॒यम्प॒शव॒श्श्रीᳵ क्रा॑मन्ति । यो॑ऽश्वमे॒धेन॒ यज॑ते ।

भट्टभास्कर-टीका

8अप वा इत्यादि ॥ अश्वमेधेन यजमानात्तेजआदिचतुष्टयमपक्रामति दीर्घकालं राज्यपरित्यागात् ।

विश्वास-प्रस्तुतिः

वस॑वस्त्वाऽञ्जन्तु गाय॒त्रेण॒ छन्द॒सेति॒ महि॑ष्य॒भ्य॑नक्ति ।

मूलम्

वस॑वस्त्वाऽञ्जन्तु गाय॒त्रेण॒ छन्द॒सेति॒ महि॑ष्य॒भ्य॑नक्ति ।

विश्वास-प्रस्तुतिः

तेजो॒ वा आज्य॑म् । तेजो॑ गाय॒त्री । तेज॑सै॒वास्मै॒ तेजोऽव॑रुन्धे ॥17॥

रु॒द्रास्त्वा॑ऽञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॒सेति॑ वा॒वाता॑ । तेजो॒ वा आज्य॑म् ।
इ॒न्द्रि॒यन्त्रि॒ष्टुप् । तेज॑सै॒वास्मा॑ इन्द्रि॒यमव॑रुन्धे ।

तत्र च ‘वसवस्त्वा’ इत्यादिभिरञ्जनं चतुष्टयलाभाय भवति । सहोत्पत्त्यादिना तेजआदेर्गायत्र्यादेश्च अभेद उपचर्यते ।

विश्वास-प्रस्तुतिः

आ॒दि॒त्यास्त्वा॑ऽञ्जन्तु॒ जाग॑तेन॒ छन्द॒सेति॑ परिवृ॒क्ती । तेजो॒ वा आज्य॑म् । प॒शवो॒ जग॑ती । तेज॑सै॒वास्मे॑ प॒शूनव॑रुन्धे ।

मूलम्

आ॒दि॒त्यास्त्वा॑ऽञ्जन्तु॒ जाग॑तेन॒ छन्द॒सेति॑ परिवृ॒क्ती । तेजो॒ वा आज्य॑म् । प॒शवो॒ जग॑ती । तेज॑सै॒वास्मे॑ प॒शूनव॑रुन्धे ।

भट्टभास्कर-टीका

‘तेजो वा आज्यम्’ इति वाक्यशेषात् आज्येनाभ्यञ्जन्तीति गम्यते । तस्य च तेजोहेतुत्वात्तेजस्त्वम् ।

विश्वास-प्रस्तुतिः

पत्न॑यो॒ऽभ्य॑ञ्जन्ति । श्रि॒या वा ए॒तद्रू॒पम् ॥ 18॥
यत्पत्न॑यः । श्रिय॑मे॒वास्मि॒न्तद्द॑धति ।

मूलम्

पत्न॑यो॒ऽभ्य॑ञ्जन्ति । श्रि॒या वा ए॒तद्रू॒पम् ॥ 18॥
यत्पत्न॑यः । श्रिय॑मे॒वास्मि॒न्तद्द॑धति ।

भट्टभास्कर-टीका

पत्नय इति । छान्दसं ह्रस्वत्वम् । श्रीवृद्धिहेतुत्वात्पत्नीना श्रीत्वम् ॥

विश्वास-प्रस्तुतिः

नास्मा॒त्तेज॑ इन्द्रि॒यम्प॒शव॒श्श्रीरप॑ क्रामन्ति । लाजी ३ ञ्छाची ३ न् यशो॑म॒माँ (4) इत्यति॑रिक्त॒मन्न॒मश्वा॑यो॒पाह॑रन्ति । प्र॒जामे॒वान्ना॒दीङ्कु॑र्वते ।

“ए॒तद्दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापत॒” इत्या॑ह । प्र॒जाया॑मे॒वान्नाद्य॑न्दधते ।

9अतिरिक्तमिति ॥ नक्तहोमशेषं यन्निहितं तदन्नमश्वाय पत्न्य उपाहरन्ति समीपे दधति भक्षणार्थम् । सर्वां प्रजामन्नादनसमर्थां कुर्वते सर्वस्यामपि प्रजायां प्रभूतं अन्नाद्यं स्थापयति एतन्मन्त्रमभावात् ।

विश्वास-प्रस्तुतिः

यदि॒ नाव॒जिघ्रे॑त् ।
अ॒ग्निᳶ प॒शुरा॑सी॒दित्यव॑घ्रापयेत् ।
अव॑ है॒व जि॑घ्रति ।

मूलम्

यदि॒ नाव॒जिघ्रे॑त् ।
अ॒ग्निᳶ प॒शुरा॑सी॒दित्यव॑घ्रापयेत् ।
अव॑ है॒व जि॑घ्रति ।

भट्टभास्कर-टीका

यदि नेति । उपाहृतमन्नमिति केचित् । उपपाय्यमाना अप इत्यन्ये । एतन्मन्त्रप्रभावात् अवजिघ्रत्येव ॥

विश्वास-प्रस्तुतिः

“आक्रा॑न्वा॒जी क्रमै॒रत्य॑क्रमीद् वा॒जी द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॒"मित्यश्व॒मनु॑मन्त्रयते । ए॒षाल्ँ लो॒काना॑म॒भिजि॑त्यै ।

मूलम्

“आक्रा॑न्वा॒जी क्रमै॒रत्य॑क्रमीद् वा॒जी द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॒"मित्यश्व॒मनु॑मन्त्रयते । ए॒षाल्ँ लो॒काना॑म॒भिजि॑त्यै ।

भट्टभास्कर-टीका

10अनुमन्त्रयत इति ॥ अन्नोपहरणानन्तरम् ।

विश्वास-प्रस्तुतिः

“समि॑द्धो अ॒ञ्जन्कृद॑रम्मती॒ना"मित्यश्व॑स्या॒प्रियो॑ भवन्ति सरूप॒त्वाय॑ ॥19॥

मूलम्

“समि॑द्धो अ॒ञ्जन्कृद॑रम्मती॒ना"मित्यश्व॑स्या॒प्रियो॑ भवन्ति सरूप॒त्वाय॑ ॥19॥

भट्टभास्कर-टीका

आप्रिय इति प्रयाजानां याज्याः, आप्रीतिहेतुत्वादाप्रियः । सरूपत्वाय समानरूपत्वाय भवन्ति ॥

इति तृतीये नवमे अश्वमेधे चतुर्थोऽनुवाकः ॥