विश्वास-प्रस्तुतिः
अ॒स्मै वै लो॒काय॑ ग्रा॒म्याᳶ प॒शव॒ आल॑भ्यन्ते ।
अ॒मुष्मा॑ आर॒ण्याः ।
मूलम्
अ॒स्मै वै लो॒काय॑ ग्रा॒म्याᳶ प॒शव॒ आल॑भ्यन्ते ।
अ॒मुष्मा॑ आर॒ण्याः ।
मूलम्
यद्ग्रा॒म्यान्प॒शूना॒लभ॑ते ।
इ॒ममे॒व तैर्लो॒कमव॑रुन्धे ।
विश्वास-प्रस्तुतिः
यद्ग्रा॒म्यान्प॒शूना॒लभ॑त इ॒ममे॒व तैर्लो॒कमव॑रुन्धे ।
मूलम्
यद्ग्रा॒म्यान्प॒शूना॒लभ॑त इ॒ममे॒व तैर्लो॒कमव॑रुन्धे ।
मूलम्
यदा॑र॒ण्यान् ।
अ॒मुन्तैः।
विश्वास-प्रस्तुतिः
यदा॑र॒ण्यान् +++(आलभन्ते)+++।
अ॒मुन्तैः +++(अवरुन्धे)+++ ।
उ॒भया॑न्प॒शूनाल॑भते ।
गा॒म्याँश्चा॑र॒ण्याँश्च॑ ।
उ॒भयो॑र्लो॒कयो॒रव॑रुद्ध्यै ।
मूलम्
यदा॑र॒ण्यान् +++(आलभन्ते)+++।
अ॒मुन्तैः +++(अवरुन्धे)+++ ।
उ॒भया॑न्प॒शूनाल॑भते ।
गा॒म्याँश्चा॑र॒ण्याँश्च॑ ।
उ॒भयो॑र्लो॒कयो॒रव॑रुद्ध्यै ।
भट्टभास्कर-टीका
1अस्मै वा इयादि ॥ गतम् । यदारण्यानिति आलभन्त इत्येव । अमुं तैरिति । अवरुन्ध इत्येव । एवमन्यतरालम्भे अन्यतरावरोधः उभयालम्भेनोभयावरोधः ।
विश्वास-प्रस्तुतिः
उ॒भया॑न्प॒शूनाल॑भते ॥9॥
ग्रा॒म्याँश्चा॑र॒ण्याँश्च॑ ।
उ॒भय॑स्या॒न्नाद्य॒स्याव॑रुद्ध्यै ।
उ॒भया॑न्प॒शूनाल॑भते ।
ग्रा॒म्याँश्चा॑र॒ण्याँश्च॑ ।
उ॒भये॑षाम्पशू॒नामव॑रुद्ध्यै ।
मूलम्
उ॒भया॑न्प॒शूनाल॑भते ॥9॥
ग्रा॒म्याँश्चा॑र॒ण्याँश्च॑ ।
उ॒भय॑स्या॒न्नाद्य॒स्याव॑रुद्ध्यै ।
उ॒भया॑न्प॒शूनाल॑भते ।
ग्रा॒म्याँश्चा॑र॒ण्याँश्च॑ ।
उ॒भये॑षाम्पशू॒नामव॑रुद्ध्यै ।
भट्टभास्कर-टीका
फलान्तरविधानार्थं द्वितीयं तृतीयं च विदधाति । उभयालम्भनेन ग्राम्यारण्यात्मकस्योभयस्य अन्नस्य अवरोधः, उभयेषां पशूनां अवरोधश्च ॥
विश्वास-प्रस्तुतिः
त्रय॑स्त्रयो भवन्ति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ।
मूलम्
त्रय॑स्त्रयो भवन्ति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ।
भट्टभास्कर-टीका
2त्रयस्त्रय इति ॥ एकैकस्यै देवताय त्रयस्त्रयः पशवो भवन्ति । यथा रोहितादयस्त्रयः प्राजापत्याः बभ्र्वादयस्त्रयो रौद्राः तिस्रः कृष्णा वशा वारुण्य इत्यादि । तत्त्रित्वान्वयात् लोकत्रयाप्त्यै भवति ॥
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
कस्मा॑त्स॒त्यात् ॥10॥
अ॒स्मिल्ँ लो॒के ब॒हव॒ᳵ कामा॒ इति॑ ।
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ - “कस्मा॑त्स॒त्याद् अ॒स्मिल्ँ लो॒के ब॒हव॒ᳵ कामा॒” इति॑ ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ - “कस्मा॑त्स॒त्याद् अ॒स्मिल्ँ लो॒के ब॒हव॒ᳵ कामा॒” इति॑ ।
भट्टभास्कर-टीका
3ब्रह्मवादिन इत्यादि ॥ कस्मात् कारणात् अस्मिन् मनुष्यलोके एकैकस्य पुरुषस्य बहवः कामा रुचयो भवन्ति? इति ब्रह्मवादिनः पृच्छन्ति,
विश्वास-प्रस्तुतिः
यत्स॑मा॒नीभ्यो॑ दे॒वता॑भ्यो॒ऽन्ये॑ऽन्ये प॒शव॑ आल॒भ्यन्ते॑ ।
अ॒स्मिन्ने॒व तल्लो॒के कामा॑न्दधाति ।
तस्मा॑द॒स्मिल्ँ लो॒के ब॒हव॒ᳵ कामाः॑ ।
मूलम्
यत्स॑मा॒नीभ्यो॑ दे॒वता॑भ्यो॒ऽन्ये॑ऽन्ये प॒शव॑ आल॒भ्यन्ते॑ ।
अ॒स्मिन्ने॒व तल्लो॒के कामा॑न्दधाति ।
तस्मा॑द॒स्मिल्ँ लो॒के ब॒हव॒ᳵ कामाः॑ ।
भट्टभास्कर-टीका
उत्तरं - यदित्यादि । समानीभ्यो देवताभ्यः एकैकस्यै देवतायै अन्येऽन्ये पृथक्स्वभावाः पशव आलभ्यन्ते, यथा एकस्मै प्रजापतये रोहितादयस्त्रयः, तेनायमस्मिन् लोके बहून् कामान् दधाति स्थापयति यजमानः । तस्मात् अद्यत्वेऽपि बहवः कामा भवन्ति ॥
विश्वास-प्रस्तुतिः
त्र॒या॒णान्त्र॑याणाँ स॒ह व॒पा जु॑होति ।
मूलम्
त्र॒या॒णान्त्र॑याणाँ स॒ह व॒पा जु॑होति ।
भट्टभास्कर-टीका
4त्रयाणां त्रयाणामिति ॥ एकदेवत्यानां प्राजापत्यादीनाम् ।
विश्वास-प्रस्तुतिः
त्र्या॑वृतो॒ वै दे॒वाः ।
त्र्या॑वृत इ॒मे लो॒काः ।
ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ।
ए॒षाल्ँ लो॒काना॒ङ्कॢप्त्यै॑ ।
मूलम्
त्र्या॑वृतो॒ वै दे॒वाः ।
त्र्या॑वृत इ॒मे लो॒काः ।
ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ।
ए॒षाल्ँ लो॒काना॒ङ्कॢप्त्यै॑ ।
भट्टभास्कर-टीका
त्र्यावृत इत्यादि । व्याख्यातम् ॥
विश्वास-प्रस्तुतिः
पर्य॑ग्निकृतानार॒ण्यानुत्सृ॑ज॒न्त्यहिँ॑सायै ॥11॥
मूलम्
पर्य॑ग्निकृतानार॒ण्यानुत्सृ॑ज॒न्त्यहिँ॑सायै ॥11॥
भट्टभास्कर-टीका
5पर्यग्निकृतानिति विहितस्यानुवादः अहिंसाया इति हेतुकथनार्थः ॥
इति तैत्तिरीयब्राह्मणे तृतीये नवमे प्रपाठके अश्वमेधे तृतीयोऽनुवाकः ॥