०२

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिरकामयतो॒भौ लो॒कावव॑ रुन्धी॒येति॑ ।
स ए॒तानु॒भया॑न्प॒शून॑पश्यत् ।
ग्रा॒म्याँश्चा॑र॒ण्याँश्च॑ ।
तानाल॑भत ।
तैर्वै स उ॒भौ लो॒काववा॑रुन्ध ।
ग्रा॒म्यैरे॒व प॒शुभि॑रि॒मल्ँ लो॒कमवा॑रुन्ध ।
आ॒र॒ण्यैर॒मुम् ।

मूलम्

प्र॒जाप॑तिरकामयतो॒भौ लो॒कावव॑ रुन्धी॒येति॑ ।
स ए॒तानु॒भया॑न्प॒शून॑पश्यत् ।
ग्रा॒म्याँश्चा॑र॒ण्याँश्च॑ ।
तानाल॑भत ।
तैर्वै स उ॒भौ लो॒काववा॑रुन्ध ।
ग्रा॒म्यैरे॒व प॒शुभि॑रि॒मल्ँ लो॒कमवा॑रुन्ध ।
आ॒र॒ण्यैर॒मुम् ।

मूलम्

यद्ग्रा॒म्यान्प॒शूना॒लभ॑ते ।
इ॒ममे॒व तैर्लो॒कमव॑ रुन्धे ।

विश्वास-प्रस्तुतिः

यद्ग्रा॒म्यान्प॒शूना॒लभ॑ते ।
इ॒ममे॒व तैर्लो॒कमव॑ रुन्धे ।
यदा॑र॒ण्यान् ॥5॥
अ॒मुन्तैः ।

मूलम्

यद्ग्रा॒म्यान्प॒शूना॒लभ॑ते ।
इ॒ममे॒व तैर्लो॒कमव॑ रुन्धे ।
यदा॑र॒ण्यान् ॥5॥
अ॒मुन्तैः ।

भट्टभास्कर-टीका

1प्रजापतिरकामयतेमादि ॥ गतम् ॥

विश्वास-प्रस्तुतिः

अन॑वरुद्धो॒ वा ए॒तस्य॑ सव्ँवत्स॒र इत्या॑हुः ।
य इ॒तइ॑तश्चातुर्मा॒स्यानि॑ सव्ँवत्स॒रम्प्र॑यु॒ङ्क्त इति॑ ।
ए॒तावा॒न्वै सव्ँ॑वत्स॒रः ।
यच्चा॑तुर्मा॒स्यानि॑ ।
यदे॒ते चा॑तुर्मा॒स्याᳶ प॒शव॑ आल॒भ्यन्ते॑ ।
प्र॒त्यक्ष॑मे॒व तैस्सव्ँ॑वत्स॒रय्ँयज॑मा॒नोऽव॑रुन्धे ।

मूलम्

अन॑वरुद्धो॒ वा ए॒तस्य॑ सव्ँवत्स॒र इत्या॑हुः ।
य इ॒तइ॑तश्चातुर्मा॒स्यानि॑ सव्ँवत्स॒रम्प्र॑यु॒ङ्क्त इति॑ ।
ए॒तावा॒न्वै सव्ँ॑वत्स॒रः ।
यच्चा॑तुर्मा॒स्यानि॑ ।
यदे॒ते चा॑तुर्मा॒स्याᳶ प॒शव॑ आल॒भ्यन्ते॑ ।
प्र॒त्यक्ष॑मे॒व तैस्सव्ँ॑वत्स॒रय्ँयज॑मा॒नोऽव॑रुन्धे ।

भट्टभास्कर-टीका

2अनवरुद्ध इति ॥ अविधेयीकृतोऽस्य संवत्सर इत्याहुः पुराविदः । कस्य? य इतइतः अर्वागेव स्थापयित्वा यज्ञाङ्गतामनीत्वा चातुर्मास्यानि चातुर्मास्यपशून् अनालभ्य संवत्सरं संवत्सरसाध्यं संवत्सरात्मकं कर्म वा प्रयुङ्क्ते चातुमार्स्यात्मा हि संवत्सरः तैर्व्याप्तत्वात् । इतइति वर्जनवाची निपात इति के- चित् । ‘ततोऽन्यत्रापि दृश्यते’ इति द्वितीया । चातुर्मास्यालम्भे प्रत्यक्षमव्यवधानेनैव संवत्सरोऽवरुद्धो भवति । कृष्णग्रीवादयस्संचराः संचरात्मकाः चातुर्मास्यपशवः पञ्चत्रिंशदधिकं शतम् ॥

विश्वास-प्रस्तुतिः

वि वा ए॒ष प्र॒जया॑ प॒शुभि॑र्ऋध्यते ।
यस्सव्ँ॑वत्स॒रम्प्र॑यु॒ङ्क्ते ।

मूलम्

वि वा ए॒ष प्र॒जया॑ प॒शुभि॑र्ऋध्यते ।
यस्सव्ँ॑वत्स॒रम्प्र॑यु॒ङ्क्ते ।

भट्टभास्कर-टीका

3वि वा एष इत्यादिरैकादशिनानां विधिः ॥ प्रजया पशुभिश्चायं व्यृद्धो विहीनो भवति । कः? यः संवत्सरसाध्यं प्रयुङ्क्ते ब्रह्मचर्यरक्षणात् प्रजाव्यृद्धिः । प्रत्यवेक्षणाद्यभावात् पशुव्यृद्धिः ।

विश्वास-प्रस्तुतिः

सव्ँ॒व॒त्स॒रस्सु॑व॒र्गो लो॒कः ॥6॥
सु॒व॒र्गन्तु लो॒कन्नाप॑राध्नोति ।

मूलम्

सव्ँ॒व॒त्स॒रस्सु॑व॒र्गो लो॒कः ॥6॥
सु॒व॒र्गन्तु लो॒कन्नाप॑राध्नोति ।

भट्टभास्कर-टीका

ननु प्रजापशुहीनस्य स्वर्गाख्या वृद्धिस्स्यादित्याह - संवत्सर इति । स्वयं स्वर्ग एव संवत्सरात्मकं कर्म तद्धेतुत्वात्, तस्मात् स्वर्गं लोकं तु नापराध्नोति न भ्रेषयति । प्रजापशुव्यृद्धिरेव ।

विश्वास-प्रस्तुतिः

प्र॒जा वै प॒शव॑ एकाद॒शिनी॑ ।
यदे॒त ऐ॑कादशि॒नाᳶ प॒शव॑ आल॒भ्यन्ते॑ ।
सा॒क्षादे॒व प्र॒जाम्प॒शून् यज॑मा॒नोऽव॑रुन्धे ।

मूलम्

प्र॒जा वै प॒शव॑ एकाद॒शिनी॑ ।
यदे॒त ऐ॑कादशि॒नाᳶ प॒शव॑ आल॒भ्यन्ते॑ ।
सा॒क्षादे॒व प्र॒जाम्प॒शून् यज॑मा॒नोऽव॑रुन्धे ।

भट्टभास्कर-टीका

तत्र कस्समाधिरित्याह - प्रजा वा इति । एकादशिनी नाम स्वयं प्रजा पशवश्च तत्साधनत्वात् । तस्मात् ऐकादशिनानां पशूनां आलम्भनेन साक्षात् अव्यवधानेन प्रजां पशूंश्चावरुन्धे यजमानः । एकादश परिमाणमस्याः यूपरीतेः एकादशिनी ‘शञ्छतोर्डिनिः’ तत्सम्बन्धिनः पशवः ऐकादशिनः द्वये भवन्ति प्राकृताः आश्वमेधिकाश्च । प्राकृताः आग्नेयादिवारुणपर्यन्ता एकादश । आश्वमेधिकाः ‘अग्नयेऽनीकवते रोहिताञ्जिः’ इत्याद्या एकादश ॥

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर्वि॒राज॑मसृजत ।
सा सृ॒ष्टाऽश्व॑मे॒धम्प्रावि॑शत् ।
तान्द॒शिभि॒रनु॒ प्रायु॑ङ्क्त ।
तामा॑प्नोत् ।
तामा॒प्त्वा द॒शिभि॒रवा॑रुन्ध ।

मूलम्

प्र॒जाप॑तिर्वि॒राज॑मसृजत ।
सा सृ॒ष्टाऽश्व॑मे॒धम्प्रावि॑शत् ।
तान्द॒शिभि॒रनु॒ प्रायु॑ङ्क्त ।
तामा॑प्नोत् ।
तामा॒प्त्वा द॒शिभि॒रवा॑रुन्ध ।

भट्टभास्कर-टीका

4प्रजापतिरित्यादि ॥ विराट् अन्नं, सा सृष्ट्यनन्तरमेवाश्वमेधं प्राविशत् अश्वमेधमनुप्रविश्य तिरोहिता अभवत् । अथ प्रजापतिस्ता विराजमनु लक्षीकृत्य दशिभिः पशुभिः प्रायुङ्क्त प्रयोगमुपलक्षणं कृतवान् । दश परिमाणं एषां इति दशिनः । पूर्ववत् डिनिः । ‘इन्द्राय राज्ञे सूकरः’ इत्येकादशभिरनुवाकैः उक्ताः दशिनः एकादशाधिकं शतं पशवः ।

विश्वास-प्रस्तुतिः

यद्द॒शिन॑ आल॒भ्यन्ते॑ ॥7॥
वि॒राज॑मे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे ।

मूलम्

यद्द॒शिन॑ आल॒भ्यन्ते॑ ॥7॥
वि॒राज॑मे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे ।

भट्टभास्कर-टीका

यदित्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

एका॑दश द॒शत॒ आल॑भ्यन्ते ।
एका॑दशाक्षरा त्रि॒ष्टुप् ।
त्रैष्टु॑भाᳶ प॒शवः॑ ।
प॒शूने॒वाव॑रुन्धे ।

मूलम्

एका॑दश द॒शत॒ आल॑भ्यन्ते ।
एका॑दशाक्षरा त्रि॒ष्टुप् ।
त्रैष्टु॑भाᳶ प॒शवः॑ ।
प॒शूने॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

5एकादशदशत इति ॥ दशानां वर्गो दशत् ‘पञ्चद्दशतौ वर्गे वा’ इति निपात्यते । ननु ‘इन्द्राय राज्ञे'5 इत्यनुवाके एकादश पशवः, तत्कथं दशत्स्थात्, ततश्च एकादशदशतः कथं स्युः । भूयसा व्यपदेशो भवतीति ज्ञापयतीति मन्तव्यम् । अवयवधर्मेण समुदायो व्यपदिश्यत इति वा । यद्वा - अवयवसंख्या एव समुदाये वर्तन्त इति एतदनेन व्युत्पादयति । तेन ‘त्रिभिर्गार्हपत्यमादधाति । पञ्चभिराहवनीयम् । अष्टौ संपद्यन्ते’ इत्याद्युपपन्नं भवति । पञ्चैव हि तत्राक्षराणि । एकादशाक्षरेत्यादि । गतम् । त्रिष्टुप् छन्दः उत्सादिः ॥

विश्वास-प्रस्तुतिः

वै॒श्व॒दे॒वो वा अश्वः॑ ।
ना॒ना॒दे॒व॒त्याः॑ प॒शवो॑ भवन्ति ।
अश्व॑स्य सर्व॒त्वाय॑ ।
नाना॑रूपा भवन्ति ।
तस्मा॒न्नाना॑रूपाᳶ प॒शवः॑ ।
ब॒हु॒रू॒पा भ॑वन्ति ।
तस्मा॑द्बहुरू॒पाᳶ प॒शव॒स्समृ॑द्ध्यै ॥8॥

मूलम्

वै॒श्व॒दे॒वो वा अश्वः॑ ।
ना॒ना॒दे॒व॒त्याः॑ प॒शवो॑ भवन्ति ।
अश्व॑स्य सर्व॒त्वाय॑ ।
नाना॑रूपा भवन्ति ।
तस्मा॒न्नाना॑रूपाᳶ प॒शवः॑ ।
ब॒हु॒रू॒पा भ॑वन्ति ।
तस्मा॑द्बहुरू॒पाᳶ प॒शव॒स्समृ॑द्ध्यै ॥8॥

भट्टभास्कर-टीका

6वैश्वदेवो वा इत्यादि ॥ विश्वे देवाः अस्य देवताः । अस्य प्राजापत्यत्वात् देवतैक्येन तदभेदोपचारात् सर्वे पशवोऽश्वो भवति । अथ नानारूपाः पशवो भवन्ति यथा कश्चित् बभ्रुः कश्चिन् कृष्ण इति, तस्मात् अद्यापि नानारूपाः पशवो भवन्ति ।

अथ बहुरूपाः एकस्याः देवतायाः बहुभेदभिन्नरूपाः पशवो भवन्ति यथा प्राजापत्या एव - कश्चित् रोहितः कश्चित् धूम्ररोहितः इति, तस्मात् अद्यापि पशवो बहुरूपा भवन्ति । यथा एकस्यैव पशोः कश्चिदवयवः कृष्णः कश्चिल्लोहितः कश्विच्छुक्लः इति । ‘बहोर्नञ्वत्’ इति नञ्वद्भावात् ‘नञ् सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ॥

इति तैत्तिरीयब्राह्मणे तृतीये नवमे अश्वमेधे द्वितीयोऽनुवाकः ॥