विश्वास-प्रस्तुतिः
प्र॒जाप॑तिरश्वमे॒धम॑सृजत ।
सो॑ऽस्मात्सृ॒ष्टोऽपा॑क्रामत् ।
मूलम्
प्र॒जाप॑तिरश्वमे॒धम॑सृजत ।
सो॑ऽस्मात्सृ॒ष्टोऽपा॑क्रामत् ।
भट्टभास्कर-टीका
1प्रजापतिरश्वमेधमित्यादि ॥ प्रजापतिसृष्टोऽश्वमेधः तत्सकाशात् अपाक्रामत् अपागच्छत् ।
विश्वास-प्रस्तुतिः
तम॑ष्टाद॒शिभि॒रनु॒ प्रायु॑ङ्क्त ।
तमा॑प्नोत् ।
मूलम्
तम॑ष्टाद॒शिभि॒रनु॒ प्रायु॑ङ्क्त ।
तमा॑प्नोत् ।
भट्टभास्कर-टीका
अथ प्रजापतिः तमश्वमेधं अनु लक्षीकृत्य अष्टादशिभिः प्रायुङ्क्त अष्टादशिनामग्नौ प्रक्षेपलक्षणं अनन्तरप्रयोगं कृतवान् । अष्टादश परिमाणमेषामित्यष्टादशिनः ‘शञ्छतोर्डिनिः’ इति डिनिप्रत्ययः । ‘रोहितो धूम्ररोहितः’ इत्यादिभिः दशरनुवाकैः उक्ताः अशीत्यधिकं शतमष्टादशिनः ।
विश्वास-प्रस्तुतिः
य॒ज्ञमे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे ।
मूलम्
य॒ज्ञमे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे ।
भट्टभास्कर-टीका
तैः तं अश्वमेधं आप्त्वा पुनरपि तैः अष्टादशिभिः तमश्वमेधं अवारुन्ध विधेयोकृत्यात्मसमीपे स्थापितवान् ।
मूलम्
सव्ँ॒व॒त्स॒रस्य॒ वा ए॒षा प्र॑ति॒मा ।
यद॑ष्टाद॒शिनः॑ ।
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒रस्य॒ वा ए॒षा प्र॑ति॒मा यद॑ष्टाद॒शिनः॑ ।
मूलम्
सव्ँ॒व॒त्स॒रस्य॒ वा ए॒षा प्र॑ति॒मा यद॑ष्टाद॒शिनः॑ ।
भट्टभास्कर-टीका
यदित्यादि । गतम् । संवत्सरस्येति प्रतिमा प्रतिच्छन्दः ।
विश्वास-प्रस्तुतिः
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ ॥1॥
सव्ँ॒व॒त्स॒रो॑ऽष्टाद॒शः ।
मूलम्
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ ॥1॥
सव्ँ॒व॒त्स॒रो॑ऽष्टाद॒शः ।
मूलम्
यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते॑ ।
सव्ँ॒व॒त्स॒रमे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे ।
विश्वास-प्रस्तुतिः
यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते॑ सव्ँव॒त्स॒रमे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे ।
मूलम्
यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते॑ सव्ँव॒त्स॒रमे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे ।
भट्टभास्कर-टीका
कथमित्याह - द्वादशेति । मासाः द्वादश ऋतवः पञ्च हेमन्तशिशिरयोरेकत्वात्, समुदायात्मा संवत्सर एकः, एवमष्टादशसंख्यान्वयात् संवत्सरस्य प्रतिमा । तस्मात् अष्टादशभिः संवत्सरस्यैवाप्तिरवरोधश्च भवति ॥
विश्वास-प्रस्तुतिः
अ॒ग्नि॒ष्ठे॑ऽन्यान्प॒शूनु॑पाक॒रोति॑ ।
इत॑रेषु॒ यूपे॑ष्वष्टाद॒शिनोऽजा॑मित्वाय ।
मूलम्
अ॒ग्नि॒ष्ठे॑ऽन्यान्प॒शूनु॑पाक॒रोति॑ ।
इत॑रेषु॒ यूपे॑ष्वष्टाद॒शिनोऽजा॑मित्वाय ।
भट्टभास्कर-टीका
2अग्निष्ठेन्यानिति ॥ अन्यान् अष्टादशव्यतिरिक्तान् ग्राम्यान् पशून् अग्निष्ठे अग्रिसमीपस्थे मध्यमयूपे उपाकरोति । अथ इतरेषु विंशतौ अष्टादशिनः उपाकरोति अजामित्वाय अनालस्याय तद्भवति कृतकरणाभावात् ।
विश्वास-प्रस्तुतिः
नव॑न॒वाल॑भ्यन्ते सवीर्य॒त्वाय॑ ।
मूलम्
नव॑न॒वाल॑भ्यन्ते सवीर्य॒त्वाय॑ ।
भट्टभास्कर-टीका
नवनवेति । अष्टादश पशून् नव नव प्रतिविभज्य अग्निष्ठस्योत्तरे यूपे नव आलभ्यन्ते अथ दक्षिणे नव, पुनरग्निष्ठस्य दक्षिणदक्षिणे नव, उत्तरोत्तरे च नव । एवं व्यत्यासेन आदशमात् । सवीर्यत्वाय समानवीर्यत्वाय यूपानां तद्भवति । ‘समानस्य छन्दसि’ इति सभावः ॥
विश्वास-प्रस्तुतिः
मूलम्
भट्टभास्कर-टीका
3यदाऽऽरण्यैरिति ॥ यदाऽऽरण्यैः पशुभिः संस्थापयेत् यागान्तं कर्म समापयेत् तदा तेषां विरुद्धस्वभावत्वात् अत्यन्तसंश्लिष्टौ पितापुत्रावपि अस्य राज्ये व्यवस्येतां विरुद्धाध्यवसायौ स्याताम् ।
विश्वास-प्रस्तुतिः
व्यध्वा॑नᳵ क्रामेयुः ।
विदू॑र॒ङ्ग्राम॑योर्ग्रामा॒न्तौ स्या॑ताम् ॥2॥
मूलम्
व्यध्वा॑नᳵ क्रामेयुः ।
विदू॑र॒ङ्ग्राम॑योर्ग्रामा॒न्तौ स्या॑ताम् ॥2॥
भट्टभास्कर-टीका
अध्वानश्च विक्रामेयुः अध्ववर्तिनो जनाः अध्वानः तात्स्थ्यात् ताच्छब्द्यं, मञ्चाः क्रोशन्तीतिवत्, ते विरुद्धं क्रामयेयुः परस्परस्य बाधका भवेयुः तादृशत्वादारण्यानामपि । विदूरमिति द्वयोः ग्रामयोः द्वौ ग्रामान्तौ ग्रामसीमानौ ग्रामयोर्विदूरं यथा तथा स्याताम् प्रवर्तेयाताम् अरण्यप्रायत्वेनानावृतत्वात् निजसीमातिक्रमेण वृत्तेः । यथा द्वयोरेव सर्वेषामिति तेन पुनर्ग्रामग्रहणम् ।
विश्वास-प्रस्तुतिः
ऋ॒क्षीका॑ᳶ पुरुषव्या॒घ्राᳶ प॑रिमो॒षिण॑ आव्या॒धिनी॒स्तस्क॑रा॒ अर॑ण्ये॒ष्वाजा॑येरन् ।
मूलम्
ऋ॒क्षीका॑ᳶ पुरुषव्या॒घ्राᳶ प॑रिमो॒षिण॑ आव्या॒धिनी॒स्तस्क॑रा॒ अर॑ण्ये॒ष्वाजा॑येरन् ।
भट्टभास्कर-टीका
ऋक्षीकादयो हिंस्रजन्तवः । त एवारण्येष्वाजायेरन् सर्वतो जायेरन्, न तु मृगवानरतापसमयूरादयः । पुंव्याघ्राः पुरुषव्याघ्राः । परिमोषिणो मार्गचोराः । आव्याधिन्यः सर्वतस्ताडयित्र्यस्सेनाः, या गणशो वर्तमानाः हिंसन्ति ‘वा छन्दसि ’ इति पूर्वसवर्णदीर्घत्वम् । तस्कराः मायाविनो हर्तारः ‘तद्बृहतोः’ इति सुट् ॥
मूलम्
तदा॑हुः ।
अप॑शवो॒ वा ए॒ते ।
यदा॑र॒ण्याः ।
यदा॑र॒ण्यैस्सँ॑स्था॒पये॑त् ।
क्षि॒प्रे यज॑मान॒मर॑ण्यम्मृ॒तँ ह॑रेयुः ।
अर॑ण्यायतना॒ ह्या॑र॒ण्याᳶ प॒शव॒ इति॑ ।
विश्वास-प्रस्तुतिः
तदा॑हुर् - “अप॑शवो॒ वा ए॒ते ।
यदा॑र॒ण्याः ।
यदा॑र॒ण्यैस्सँ॑स्था॒पये॑त् क्षि॒प्रे यज॑मान॒मर॑ण्यम्मृ॒तँ ह॑रेयुः ।
अर॑ण्यायतना॒ ह्या॑र॒ण्याᳶ प॒शव॒” इति॑ ।
मूलम्
तदा॑हुर् - “अप॑शवो॒ वा ए॒ते ।
यदा॑र॒ण्याः ।
यदा॑र॒ण्यैस्सँ॑स्था॒पये॑त् क्षि॒प्रे यज॑मान॒मर॑ण्यम्मृ॒तँ ह॑रेयुः ।
अर॑ण्यायतना॒ ह्या॑र॒ण्याᳶ प॒शव॒” इति॑ ।
भट्टभास्कर-टीका
4तदाहुरिति ॥ तत्र आरण्यसंस्थापनायां दोषान्तरमप्याहुः । अपशवः पशुकार्याकरणादारण्याः । तस्मात् आरण्यसंस्थापनायां पशुयागो न कृत इति वृधा आरण्यपशुहिंसाकारिणं क्षिप्रे काले मृतं यजमानं अरण्यं हरेयुः प्रापयेयुः । अरण्यस्थाना ह्यारण्याः पशवो भवन्ति । आरण्यपशुयाजिनो यजमानस्य इदमेव फलं स्यात् ।
मूलम्
यत्प॒शून्नालभे॑त ।
अन॑वरुद्धा अस्य प॒शव॑स्स्युः ।
यत्पर्य॑ग्निकृतानुत्सृ॒जेत् ॥3॥
य॒ज्ञ॒वे॒श॒सङ्कु॑र्यात् ।
विश्वास-प्रस्तुतिः
यत्प॒शून्नालभे॑त + अन॑वरुद्धा अस्य प॒शव॑स्स्युः ।
यत्पर्य॑ग्निकृतानुत्सृ॒जेद् यज्ञवेश॒सङ्कु॑र्यात् ।
मूलम्
यत्प॒शून्नालभे॑त + अन॑वरुद्धा अस्य प॒शव॑स्स्युः ।
यत्पर्य॑ग्निकृतानुत्सृ॒जेद् यज्ञवेश॒सङ्कु॑र्यात् ।
भट्टभास्कर-टीका
यत्पशूनिति । अथ यद्यारण्यानां पशूनां आलम्भ एव न क्रियते आलभ्य तैत्संस्थापने दोषो भवति चेद्वरमनालम्भ एवेति भावः ।
तन्न सुन्दरमित्याह - अनवरुद्धा इति । आलम्भनमात्रमकुर्वाणस्य अस्य यजमानस्य आरण्याः पशवोऽनवरुद्धा अविधेयास्स्युः ।
मूलम्
यत्प॒शूना॒लभ॑ते ।
तेनै॒व प॒शूनव॑रुन्धे ।
यत्पर्य॑ग्निकृतानुत्सृ॒जत्यय॑ज्ञवेशसाय ।
अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति ।
विश्वास-प्रस्तुतिः
यत्प॒शूना॒लभ॑ते ।
तेनै॒व प॒शूनव॑रुन्धे ।
यत्पर्य॑ग्निकृतानुत्सृ॒जत्यय॑ज्ञवेशसाय ।
अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति ।
मूलम्
यत्प॒शूना॒लभ॑ते ।
तेनै॒व प॒शूनव॑रुन्धे ।
यत्पर्य॑ग्निकृतानुत्सृ॒जत्यय॑ज्ञवेशसाय ।
अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति ।
भट्टभास्कर-टीका
यदित्यादि । गतम् । अथ मतं आलभ्यैवारण्याः पशवः पर्यग्निकरणानन्तरमुत्स्रष्टव्याः, तत उभय्यपि दोषप्रसक्तिर्न भविष्यतीत्याक्षिपति ।
विश्वास-प्रस्तुतिः
न य॑ज्ञवेश॒सम्भ॑वति ।
न यज॑मान॒मर॑ण्यम्मृ॒तँ ह॑रन्ति ।
ग्रा॒म्यैस्सँ स्था॑पयति ।
ए॒ते वै प॒शवः॒ क्षेमो॒ नाम॑ ।
सम्पि॑तापु॒त्रावव॑स्यतः ।
समध्वा॑नᳵ क्रामन्ति ।
स॒म॒न्ति॒कङ्ग्राम॑योर्ग्रामा॒न्तौ भ॑वतः ।
नर्क्षीका॑ᳶ पुरुषव्या॒घ्राᳶ प॑रिमो॒षिण॑ आव्या॒धिनी॒स्तस्क॑रा॒ अर॑ण्ये॒ष्वाजा॑यन्ते ॥4॥
मूलम्
न य॑ज्ञवेश॒सम्भ॑वति ।
न यज॑मान॒मर॑ण्यम्मृ॒तँ ह॑रन्ति ।
ग्रा॒म्यैस्सँ स्था॑पयति ।
ए॒ते वै प॒शवः॒ क्षेमो॒ नाम॑ ।
सम्पि॑तापु॒त्रावव॑स्यतः ।
समध्वा॑नᳵ क्रामन्ति ।
स॒म॒न्ति॒कङ्ग्राम॑योर्ग्रामा॒न्तौ भ॑वतः ।
नर्क्षीका॑ᳶ पुरुषव्या॒घ्राᳶ प॑रिमो॒षिण॑ आव्या॒धिनी॒स्तस्क॑रा॒ अर॑ण्ये॒ष्वाजा॑यन्ते ॥4॥
भट्टभास्कर-टीका
यज्ञवेशसमिति । यागार्थमालम्भनं, तत्रालब्धानामयागं कुर्वन् यज्ञविनाशकार्येव स्यात् । कुतस्त्यमिदं पूर्वापरविप्रतिषिद्धं प्रयोगज्ञानमिति भावः । वेशश्शब्दात् ‘अनसन्तान्नपुंसकात्’ इत्यच् समासान्तः ॥
विश्वास-प्रस्तुतिः
मूलम्
भट्टभास्कर-टीका
5समाधत्ते - यदिति ॥ आलब्धव्यास्तावदारण्याः पशवः तेन पशवोऽवरुध्यन्ते । अथ यत्पर्यग्निकृतानुत्सृजति पर्यग्निकरणं कृत्वैव, न त्वालम्भनानन्तरं, तदयज्ञवेशसाय भवति पर्यग्निकरणव्याजेन अग्नावेवैते हूयन्ते इति नालब्धायागदोषप्रसङ्ग इति भावः । तस्मादालम्भात् अवरुद्धाः पशवो भवन्ति । यागस्य च कृतत्वान्न यज्ञवेशसं भवति । आरण्यैस्संस्थापनात् न यजमानस्य मृतत्वं, आरण्यानामहिंसितत्वात् न चास्यारण्यैर्हरणं अनारण्ययाजित्वात् । न च कर्मणः संस्थाशून्यता ग्राम्यैः पशुभिः क्षेमहेतुभिः संस्थापनात् । ततश्च पितापुत्रौ समवस्यतः संगतमविरुद्धमेवावस्यतः अविमतिषिद्धमती भवतः । अध्वानश्च संक्रामन्ति अध्वचारिणस्सम्यक् निर्बाधं चरन्ति । ग्रामयोश्च ग्रामान्तौ संगतान्तिकं यथा तथा भवतः प्रत्यासन्नावेव भवतः श्रद्धे-यत्वेनावृतत्वात् । ऋक्षीकादयश्च हिंस्राः अरण्येष्वपि नैव जायन्ते ॥
इति तैत्तिरीये ब्राह्मणे तृतीयेऽष्टके नवमप्रपाठके प्रथमोऽनुवाकः ॥