विश्वास-प्रस्तुतिः
पुरु॑षो॒ वै य॒ज्ञः ।
य॒ज्ञᳶ प्र॒जाप॑तिः ।
यदश्वे॑ प॒शून्नि॑यु॒ञ्जन्ति॑ ।
य॒ज्ञादे॒व तद्य॒ज्ञम्प्रयु॑ङ्क्ते ।
अश्व॑न्तूप॒रङ्गो॑मृ॒गम् ।
तान॑ग्नि॒ष्ठ आल॑भते ।
मूलम्
पुरु॑षो॒ वै य॒ज्ञः ।
य॒ज्ञᳶ प्र॒जाप॑तिः ।
यदश्वे॑ प॒शून्नि॑यु॒ञ्जन्ति॑ ।
य॒ज्ञादे॒व तद्य॒ज्ञम्प्रयु॑ङ्क्ते ।
अश्व॑न्तूप॒रङ्गो॑मृ॒गम् ।
तान॑ग्नि॒ष्ठ आल॑भते ।
भट्टभास्कर-टीका
1पुरुषो वा इति ॥ पुरुषः परमात्मा स एव स्वयं यज्ञः सर्वपरिस्पन्दाधारत्वात्, यज्ञः एव स्वयं प्रजापतिः प्राजापत्योश्वः प्रधानसाधनत्वात् । तथा सति यदश्वे यूपस्थानीये निश्चले पशून् पर्यङ्ग्यान् नियुञ्जन्ति तद्यज्ञादेव यज्ञमेवोपसंप्राप्य यज्ञं प्रयुङ्क्ते, यज्ञसाधनत्वात् पशवो यज्ञाः । प्राजापत्यस्यास्य अश्वस्य यज्ञत्वात् यज्ञ एव यज्ञः प्रयुक्तो भवति । ल्यब्लोपे पञ्चमी ।
अस्मिन् पक्षे ‘पुरुषो वै यज्ञः’ इत्यवक्तव्यं स्यात्, तस्मात् अन्यथा व्याख्यायते - ‘वाताद्यज्ञः प्रयुज्यताम्’ इति यज्ञात्सर्वयज्ञाधारात् पुरुषादुपादाय अश्वे यज्ञं प्रयुङ्क्ते । इदानीं यज्ञः प्रजापतिरित्यनेन किमिति चेत् यज्ञसाधनानां यज्ञत्वमनेन साधयति ॥
विश्वास-प्रस्तुतिः
से॒ना॒मु॒खमे॒व तत्सँश्य॑ति ।
तस्मा॑द्राजमु॒खम्भी॒ष्मम्भावु॑कम् ।
मूलम्
से॒ना॒मु॒खमे॒व तत्सँश्य॑ति ।
तस्मा॑द्राजमु॒खम्भी॒ष्मम्भावु॑कम् ।
भट्टभास्कर-टीका
2अश्वादींस्त्रीनग्निष्ठे यूपे आलभते नियुनक्ति । सेनामुखमिति । सेना बलं तस्य मुखं उपक्रमः तत्संश्यति तीक्ष्णीकरोति’ तस्मात् संशितत्वात् बलादभिन्नत्वाच्च राज्ञो मुखं भीष्मं भयानकं भावुकं भवितुं शीलवत् । ‘लषपतपद’ इत्युकञ् । बिभेत्यस्मादिति भीष्मं ‘भियष्षुग्वा’ इति मक् ॥
विश्वास-प्रस्तुतिः
आ॒ग्ने॒यङ्कृ॒ष्णग्री॑वम्पु॒रस्ता॑ल्ल॒लाटे॑ ।
पू॒र्वा॒ग्निमे॒व तङ्कु॑रुते ॥89॥
तस्मा॑त्पूर्वा॒ग्निम्पु॒रस्ता॑त्स्थापयन्ति ।
मूलम्
आ॒ग्ने॒यङ्कृ॒ष्णग्री॑वम्पु॒रस्ता॑ल्ल॒लाटे॑ ।
पू॒र्वा॒ग्निमे॒व तङ्कु॑रुते ॥89॥
तस्मा॑त्पूर्वा॒ग्निम्पु॒रस्ता॑त्स्थापयन्ति ।
भट्टभास्कर-टीका
3आग्नेयादयः छागाः ललाटे अश्वस्यालभत इति सर्वत्र । पुरस्तात् पूर्वभागे नासिकापुटयोरूर्ध्वं पुरस्ताद्भागे आग्नेयम् ।
विश्वास-प्रस्तुतिः
पौ॒ष्णम॒न्वञ्च॑म् ।
अन्नव्ँ॒ वै पू॒षा ।
तस्मा॑त्पूर्वा॒ग्नावा॑हा॒र्य॑माह॑रन्ति ।
मूलम्
पौ॒ष्णम॒न्वञ्च॑म् ।
अन्नव्ँ॒ वै पू॒षा ।
तस्मा॑त्पूर्वा॒ग्नावा॑हा॒र्य॑माह॑रन्ति ।
भट्टभास्कर-टीका
पौष्णं तु अन्वञ्चं तेनानुगतं ललाट एव । तस्मात् आहवनीयं पूर्वस्यां दिशि स्थापयन्ति । पौष्णस्यान्नात्मनो ललाट एव नियोजनात् आहार्यं होतव्यं सर्वं पूर्वाग्नावेवाहरन्ति जुह्वति । अत्र सर्वत्र उक्तस्थाननियोजनासंभवे तत्स्थानस्मृतिमात्रमेव कृत्वा अग्निष्वेव नियोजनम् ॥
विश्वास-प्रस्तुतिः
ऐ॒न्द्रा॒पौ॒ष्णमु॒परि॑ष्टात् ।
ऐ॒न्द्रो वै रा॑ज॒न्योऽन्न॑म्पू॒षा ।
अ॒न्नाद्ये॑नै॒वैन॑मुभ॒यत॒ᳶ परि॑गृह्णाति ।
मूलम्
ऐ॒न्द्रा॒पौ॒ष्णमु॒परि॑ष्टात् ।
ऐ॒न्द्रो वै रा॑ज॒न्योऽन्न॑म्पू॒षा ।
अ॒न्नाद्ये॑नै॒वैन॑मुभ॒यत॒ᳶ परि॑गृह्णाति ।
भट्टभास्कर-टीका
4उपरिष्टादिति ॥ ग्रीवाया उपरिभागे । केचिदाहुः ‘ललाटप्रदेशमतीत्य ऊर्ध्वप्रदेशे’ इति । तयोरन्नात्मनोः पौष्णयोर्मध्ये राजन्यात्मन ऐन्द्रस्य स्थितत्वात् अन्नाद्येनोभयतः परिगृह्णाति यजमानम् ।
विश्वास-प्रस्तुतिः
तस्मा॑द्राज॒न्यो॑ऽन्ना॒दोभावु॑कः ।
मूलम्
तस्मा॑द्राज॒न्यो॑ऽन्ना॒दोभावु॑कः ।
भट्टभास्कर-टीका
तस्मात् राजन्यः समृद्धान्नादनशीलः ॥
विश्वास-प्रस्तुतिः
आ॒ग्ने॒यौ कृ॒ष्णग्री॑वौ बाहु॒वोः ।
बा॒हु॒वोरे॒व वी॒र्यन्धत्ते ॥90॥
तस्मा॑द्राज॒न्यो॑ बाहुब॒लीभावु॑कः ।
मूलम्
आ॒ग्ने॒यौ कृ॒ष्णग्री॑वौ बाहु॒वोः ।
बा॒हु॒वोरे॒व वी॒र्यन्धत्ते ॥90॥
तस्मा॑द्राज॒न्यो॑ बाहुब॒लीभावु॑कः ।
भट्टभास्कर-टीका
5बाहुवोरिति ॥ तन्वादित्वादुवङ् ॥
विश्वास-प्रस्तुतिः
त्वा॒ष्ट्रौ लो॑मशस॒क्थौ स॒क्थ्योः ।
स॒क्थ्योरे॒व वी॒र्य॑न्धत्ते ।
तस्मा॑द्राज॒न्य॑ ऊरुब॒लीभावु॑कः ।
मूलम्
त्वा॒ष्ट्रौ लो॑मशस॒क्थौ स॒क्थ्योः ।
स॒क्थ्योरे॒व वी॒र्य॑न्धत्ते ।
तस्मा॑द्राज॒न्य॑ ऊरुब॒लीभावु॑कः ।
भट्टभास्कर-टीका
6लोमशसक्थाविति ॥ लोमवदूरू । ‘सक्थं चाक्रान्तात्’ इत्यच् समासान्तः ।
सक्थ्योरिति । ‘ई च द्विवचने’ इतीकारः ॥
विश्वास-प्रस्तुतिः
शि॒ति॒पृ॒ष्ठौ बा॑र्हस्प॒त्यौ पृ॒ष्ठे ।
ब्र॒ह्म॒व॒र्च॒समे॒वोपरि॑ष्टाद्धत्ते ।
मूलम्
शि॒ति॒पृ॒ष्ठौ बा॑र्हस्प॒त्यौ पृ॒ष्ठे ।
ब्र॒ह्म॒व॒र्च॒समे॒वोपरि॑ष्टाद्धत्ते ।
भट्टभास्कर-टीका
7शितिपृष्ठौ श्वेतपृष्ठौ । ‘शितेर्नित्या बह्वच्’ इत्युत्तरपदान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
अथो॑ क॒वचे॑ ए॒वैते अ॒भित॒ᳶ पर्यू॑हते ।
तस्मा॑द्राज॒न्य॑स्सन्न॑द्धो वी॒र्य॑ङ्करोति ।
मूलम्
अथो॑ क॒वचे॑ ए॒वैते अ॒भित॒ᳶ पर्यू॑हते ।
तस्मा॑द्राज॒न्य॑स्सन्न॑द्धो वी॒र्य॑ङ्करोति ।
भट्टभास्कर-टीका
अथो अपि च कवचद्वयस्थानीयौ एतौ पशू अभितः उभयोः पार्श्वयोः पर्यूहते आमुञ्चते कवचद्वयं वा सर्वशरीरे पर्यूहते अध्यूहते तद्वीर्यं वीरकर्म शत्रुनिग्रहादि करोति ॥
विश्वास-प्रस्तुतिः
धा॒त्रे पृ॑षोद॒रम॒धस्ता॑त् ।
प्र॒ति॒ष्ठामे॒वैताङ्कु॑रुते ।
अथो॑ इ॒यव्ँ वै धा॒ता ।
अ॒स्यामे॒व प्रति॑तिष्ठति ।
मूलम्
धा॒त्रे पृ॑षोद॒रम॒धस्ता॑त् ।
प्र॒ति॒ष्ठामे॒वैताङ्कु॑रुते ।
अथो॑ इ॒यव्ँ वै धा॒ता ।
अ॒स्यामे॒व प्रति॑तिष्ठति ।
भट्टभास्कर-टीका
8पृषोदरं श्वेतबिन्दुचितोदरं, ‘उदराश्वेषुषु’ इत्युत्तरपदान्तोदात्तत्वम्, ‘पृषोदरादीनि यथोपदिष्टम्’ इति व्यञ्जनलोपः । अधस्तादिति उदरे । प्रतिष्ठामिति अधोभागसाम्यात् । गतमन्यत् ॥
विश्वास-प्रस्तुतिः
सौ॒र्यम्ब॒लक्ष॒म्पुच्छे॑ ।
उ॒त्से॒धमे॒व तङ्कु॑रुते ।
तम्मा॑दुत्से॒धम्भ॒ये प्र॒जा अ॒भिसँश्र॑यन्ति ॥91॥
मूलम्
सौ॒र्यम्ब॒लक्ष॒म्पुच्छे॑ ।
उ॒त्से॒धमे॒व तङ्कु॑रुते ।
तम्मा॑दुत्से॒धम्भ॒ये प्र॒जा अ॒भिसँश्र॑यन्ति ॥91॥
भट्टभास्कर-टीका
9बलक्षं वलक्षं श्वेतं श्वेताक्षमिति । अश्वस्योत्सेधमुच्छ्रितत्वं उच्छ्रितसौर्यसम्बन्धेन करोति सर्वभयनिवृत्तिसामर्थ्यमश्वस्य यथा स्यादिति । तस्मात् उत्सेधस्य भयनिवृत्तिहेतुतया श्रुतिप्रतिपादितत्वात् अद्यापि भये परचक्रादौ समुपस्थिते उत्सेधं उच्छ्रितं पर्वतादिकं प्रजाः भयनिवृत्तये अभिसंश्रयन्ति आभिमुख्येन भजन्ते ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये तैत्तिरीयब्राह्मणे तृतीयेऽष्टके अष्टमप्रपाठके अश्वमेधे त्रयोविंशोऽनुवाकः ॥
समाप्तश्च प्रपाठकः ॥