२२

मूलम्

दे॒वा वा अ॑श्वमे॒धे पव॑माने ।
सु॒व॒र्गल्ँ लो॒कन्न प्राजा॑नन् ।

विश्वास-प्रस्तुतिः

दे॒वा वा अ॑श्वमे॒धे पव॑माने सुव॒र्गल्ँ लो॒कन्न प्राजा॑नन् ।
तमश्व॒ᳶ प्राजा॑नात् ।

मूलम्

दे॒वा वा अ॑श्वमे॒धे पव॑माने सुव॒र्गल्ँ लो॒कन्न प्राजा॑नन् ।
तमश्व॒ᳶ प्राजा॑नात् ।

मूलम्

यद॑श्वमे॒धेऽश्वे॑न॒ मेध्ये॒नोद॑ञ्चो बहिष्पवमा॒नँ सर्प॑न्ति सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै ।

विश्वास-प्रस्तुतिः

यद॑श्वमे॒धेऽश्वे॑न॒ मेध्ये॒नोद॑ञ्चो बहिष्पवमा॒नँ सर्प॑न्ति सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै ।

मूलम्

यद॑श्वमे॒धेऽश्वे॑न॒ मेध्ये॒नोद॑ञ्चो बहिष्पवमा॒नँ सर्प॑न्ति सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै ।

भट्टभास्कर-टीका

1देवा वा अश्वमेध इत्यादि ॥ बहिष्पवमाने स्वर्गं लोकं नाजानन् देवाः स्वर्गसाधनमस्य रूपं नाजानन् इत्यर्थः । अश्वस्तु तं प्राजानाम् तस्मात् अश्वेन सह अश्ववालमन्वारभ्य उदञ्चः सर्पन्ति बहिष्पवमानं तत्स्वर्गस्य प्रज्ञानाय भवति ॥

विश्वास-प्रस्तुतिः

न वै म॑नु॒ष्य॑स्सुव॒र्गल्ँ लो॒कमञ्ज॑सा वेद ।
अश्वो॒ वै सु॑व॒र्गल्ँ लो॒कमञ्ज॑सा वेद ।
यदु॑द्गा॒तोद्गाये॑त् ।

मूलम्

न वै म॑नु॒ष्य॑स्सुव॒र्गल्ँ लो॒कमञ्ज॑सा वेद ।
अश्वो॒ वै सु॑व॒र्गल्ँ लो॒कमञ्ज॑सा वेद ।
यदु॑द्गा॒तोद्गाये॑त् ।

भट्टभास्कर-टीका

2न वा इत्यादि ॥ गतम् । अञ्जसा आर्जवेन । अक्षेत्रज्ञः क्षेत्राभियोगरहितः, स यथा अन्येन अनृजुना मार्गेण प्रतिपादयेत् अमार्गेण प्रस्थापयेत् क्लेशयति इष्टदेशं न प्रापयति तुल्यं तत् यत् बहिष्पवमानक्षेत्रे स्वगमार्गज्ञानविधुरो मनुष्य उद्गाता उद्गायेत्, तस्मान्मनुष्यमुद्गातारमपरुद्ध्य निर्वास्य अश्वं वृणीते उद्गीथाय उद्गातृकार्यार्थम् । औणादिकः थप्रत्ययः ।

मूलम्

यथा क्षे॑त्रज्ञो॒ऽन्येन॑ प॒था प्र॑तिपा॒दये॑त् ।
ता॒दृक्तत् ॥86॥

उ॒द्गा॒तार॑मप॒रुध्य॑ ।
अश्व॑मुद्गी॒थाय॑ वृणीते ।

यथा॑ क्षेत्र॒ज्ञोऽञ्ज॑सा॒ नय॑ति ।
ए॒वमे॒वैन॒मश्व॑स्सुव॒र्गल्ँ लो॒कमञ्ज॑सा नयति ।

पुच्छ॑म॒न्वार॑भन्ते ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

विश्वास-प्रस्तुतिः

यथा क्षे॑त्रज्ञो॒ऽन्येन॑ प॒था प्र॑तिपा॒दये॑त् ता॒दृक्तत् ॥

उ॒द्गा॒तार॑मप॒रुध्य॑ + अश्व॑मुद्गी॒थाय॑ वृणीते ।

यथा॑ क्षेत्र॒ज्ञोऽञ्ज॑सा॒ नय॑त्य् ए॒वमे॒वैन॒मश्व॑स्सुव॒र्गल्ँ लो॒कमञ्ज॑सा नयति ।

मूलम्

यथा क्षे॑त्रज्ञो॒ऽन्येन॑ प॒था प्र॑तिपा॒दये॑त् ता॒दृक्तत् ॥

उ॒द्गा॒तार॑मप॒रुध्य॑ + अश्व॑मुद्गी॒थाय॑ वृणीते ।

यथा॑ क्षेत्र॒ज्ञोऽञ्ज॑सा॒ नय॑त्य् ए॒वमे॒वैन॒मश्व॑स्सुव॒र्गल्ँ लो॒कमञ्ज॑सा नयति ।

भट्टभास्कर-टीका

यथेत्यादि । गतम् ।

विश्वास-प्रस्तुतिः

पुच्छ॑म॒न्वार॑भन्ते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

मूलम्

पुच्छ॑म॒न्वार॑भन्ते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

भट्टभास्कर-टीका

समष्ट्यै ऋजुमार्गज्ञत्वादश्वस्य सम्यक् स्वर्गावाप्त्यै भवति ॥

विश्वास-प्रस्तुतिः

हिङ्क॑रोति ।
सामै॒वाकः॑ ।

मूलम्

हिङ्क॑रोति ।
सामै॒वाकः॑ ।

भट्टभास्कर-टीका

3हिं करोतीति ॥ ‘वडबा उपरुन्धन्ति’ इति वक्ष्यति ता दृष्ट्वा यदश्वो हिं करोति हर्षेणाभिहिंकरोति सामैवैतत्करोति गानस्थानीयो हिंकारः ।

विश्वास-प्रस्तुतिः

हिङ्क॑रोति ।
उ॒द्गी॒थ ए॒वास्य॒ सः ॥87॥

मूलम्

हिङ्क॑रोति ।
उ॒द्गी॒थ ए॒वास्य॒ सः ॥87॥

भट्टभास्कर-टीका

हिं करोतीति । परिगानादिसामव्यावृत्त्यर्थं पुनर्वचनम् । अस्य उद्गातृत्वेन वृतस्य उद्गीथः उद्गानस्थानीय एव हिंकारः ।

विश्वास-प्रस्तुतिः

वड॑बा॒ उप॑रुन्धन्ति ।
मि॒थु॒न॒त्वाय॒ प्रजा॑त्यै ।

मूलम्

वड॑बा॒ उप॑रुन्धन्ति ।
मि॒थु॒न॒त्वाय॒ प्रजा॑त्यै ।

भट्टभास्कर-टीका

वडबा अश्वस्त्रियः उपरुन्धन्ति अश्वस्य समीपे दृष्टिपथे स्थापयन्ति मिथुनत्वाय मिथुनीभावाय, प्रजात्यर्थं च तद्भवति ।

विश्वास-प्रस्तुतिः

अथो॒ यथो॑पगा॒तार॑ उप॒गाय॑न्ति ।
ता॒दृगे॒व तत् ।

मूलम्

अथो॒ यथो॑पगा॒तार॑ उप॒गाय॑न्ति ।
ता॒दृगे॒व तत् ।

भट्टभास्कर-टीका

अथो अपि उपरुद्धबडबा अश्वस्य हिंकारं श्रुत्वा यत् प्रत्यभिहिंकुर्वन्ति तदुद्गातॄणामुपगानस्थानीयम् ॥

विश्वास-प्रस्तुतिः

“उद॑गासी॒दश्वो॒ मेध्य॒” इत्या॑ह ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
प्र॒जाप॑तिरुद्गी॒थः ।
उ॒द्गी॒थमे॒वाव॑रुन्धे ।

मूलम्

“उद॑गासी॒दश्वो॒ मेध्य॒” इत्या॑ह ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
प्र॒जाप॑तिरुद्गी॒थः ।
उ॒द्गी॒थमे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

4उदगासीदिति ॥ अयमश्वो मेधार्ह उदगासीत् उद्गानमकार्षीदिति हिंकारानन्तरमाह । ‘यमरमनम’ इति सक् । अश्वः प्राजापत्यः तद्देवत्यः उद्गीथः स्वयं प्रजापतिरेव लोकवृद्धिहेतुत्वात्, तस्मात् अश्वस्योदगासीदिति वचनेन प्राजापत्यात्मकमुद्गीथमवरुन्धे ।

विश्वास-प्रस्तुतिः

अथो॑ ऋक्सा॒मयो॑रे॒व प्रति॑तिष्ठति ।

मूलम्

अथो॑ ऋक्सा॒मयो॑रे॒व प्रति॑तिष्ठति ।

भट्टभास्कर-टीका

अथो अपिच ऋक्सामयोः सर्वासु ऋक्सामसु च प्रतिष्ठितो भवति यजमानः प्राजापत्योद्गीथलाभात् ॥

विश्वास-प्रस्तुतिः

हिर॑ण्येनो॒पाक॑रोति ।

मूलम्

हिर॑ण्येनो॒पाक॑रोति ।

भट्टभास्कर-टीका

5हिरण्येनेति ॥ बहिस्स्थानस्थितहिरण्येन स्तोत्रमुपाकरोति आरम्भयति ।

विश्वास-प्रस्तुतिः

ज्योति॒र्वै हिर॑ण्यम् ।
ज्योति॑रे॒व मु॑ख॒तो द॑धाति ।
यज॑माने च प्र॒जासु॑ च ।

मूलम्

ज्योति॒र्वै हिर॑ण्यम् ।
ज्योति॑रे॒व मु॑ख॒तो द॑धाति ।
यज॑माने च प्र॒जासु॑ च ।

भट्टभास्कर-टीका

मुखतः आरम्भतः प्रभृति यजमाने प्रजासु च ज्योतिर्दधाति ।

विश्वास-प्रस्तुतिः

अथो॒ हिर॑ण्यज्योतिरे॒व यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति ॥88॥

मूलम्

अथो॒ हिर॑ण्यज्योतिरे॒व यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति ॥88॥

भट्टभास्कर-टीका

अपि च यजमानो हिरण्यज्योतिः हिरण्यसदृशज्योतिः हितरमणीगीयज्योतिर्वा स्वर्गं गच्छति ॥

इति तृतीये अष्टमे अश्वमेधे द्वाविंशोऽनुवाकः ॥