२१

विश्वास-प्रस्तुतिः

ए॒क॒विँ॒शो॑ऽग्निर्भ॑वति ।
ए॒क॒विँ॒शस्स्तोमः॑ ।
एक॑विँशति॒र्यूपाः॑ ।

मूलम्

ए॒क॒विँ॒शो॑ऽग्निर्भ॑वति ।
ए॒क॒विँ॒शस्स्तोमः॑ ।
एक॑विँशति॒र्यूपाः॑ ।

भट्टभास्कर-टीका

1एकविंश इत्यादि ॥ एकविंशतिपुरुषप्रमाणोऽग्निरेकविंशतिविधः एकविंशः । एकविंशस्तोत्रीयपरिमाणस्सर्वस्तोमो भवति मध्यमस्याह्न उक्थ्यस्यैवेदं लक्षणं, परिमाणे डप्रत्ययः । एकविंशतिर्यूपाः उपशयपात्नीवतविशालपूपव्यतिरिक्ताः ॥

विश्वास-प्रस्तुतिः

यथा॒ वा अश्वा॑ वर्ष॒भा वा॒ वृषा॑णस्सँस्फु॒रेर॑न् ।
ए॒वमे॒व तत्स्तोमा॒स्सँस्फु॑रन्ते ।

मूलम्

यथा॒ वा अश्वा॑ वर्ष॒भा वा॒ वृषा॑णस्सँस्फु॒रेर॑न् ।
ए॒वमे॒व तत्स्तोमा॒स्सँस्फु॑रन्ते ।

भट्टभास्कर-टीका

2एवमग्रिस्तोमयूपानामेकविंशत्वेन समपरिमाणत्वं विधाय तद्विधानं, अनेन वक्ष्यमाणेनाग्न्यादीनां द्वादशत्वं विधास्यन् स्तोमानां एकविंशतित्वं दूषयति - यथेति ॥ अश्वा वा ऋषभा वा यथा वृषाणस्सेक्तारः सेकशक्तिनिमित्तदर्पमदातिशयान्धाः संस्फुरेरन् धर्षणोन्मुखा एव जृम्भन्ते एवमेते एकविंशास्स्तोमाः संस्फुरन्ते ।

मूलम्

यदे॑कविँ॒शाः ।
ते यत्स॑मृ॒च्छेर॑न् ।
ह॒न्येता॑स्य य॒ज्ञः ।

विश्वास-प्रस्तुतिः

यदे॑कविँ॒शास् ते यत्स॑मृ॒च्छेर॑न्न् ह॒न्येता॑स्य य॒ज्ञः ।

मूलम्

यदे॑कविँ॒शास् ते यत्स॑मृ॒च्छेर॑न्न् ह॒न्येता॑स्य य॒ज्ञः ।

भट्टभास्कर-टीका

तादृशाः ते यदि कदाचित् समृच्छेरन् संगतास्स्युः महाश्वा इव च महोक्षा इव च तदा हन्येत विमृद्येत अस्य यज्ञः ।

विश्वास-प्रस्तुतिः

“द्वा॒द॒श ए॒वाग्निस्स्या॒दि"त्या॑हुः ।
द्वा॒द॒शस्स्तोमः॑ ॥82॥
एका॑दश॒ यूपाः॑ ।

मूलम्

“द्वा॒द॒श ए॒वाग्निस्स्या॒दि"त्या॑हुः ।
द्वा॒द॒शस्स्तोमः॑ ॥82॥
एका॑दश॒ यूपाः॑ ।

भट्टभास्कर-टीका

तस्मात् द्वादश एवाग्नयस्स्युः भवितुमर्हन्तीति आहुः पुराविदः एकविंशतिवत् नात्युद्रिक्ता द्वादशा इति भावः । यूपानामपि द्वादशप्रायत्वात् त्रयाणां तुल्यप्रमाणत्वम् ॥

मूलम्

यद्द्वा॑द॒शो॑ऽग्निर्भव॑ति ।
द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे ।

यद्दश॒ यूपा॒ भव॑न्ति ।
दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ।

य ए॑काद॒शः ।
स्तन॑ ए॒वास्यै॒ सः ॥83॥
दु॒ह ए॒वैना॒न्तेन॑ ।

विश्वास-प्रस्तुतिः

यद्द्वा॑द॒शो॑ऽग्निर्भव॑ति॒ द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे ।

यद्दश॒ यूपा॒ भव॑न्ति॒ दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ।

य ए॑काद॒शस् स्तन॑ ए॒वास्यै॒ सः ॥ दु॒ह ए॒वैना॒न्तेन॑ ।

मूलम्

यद्द्वा॑द॒शो॑ऽग्निर्भव॑ति॒ द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे ।

यद्दश॒ यूपा॒ भव॑न्ति॒ दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ।

य ए॑काद॒शस् स्तन॑ ए॒वास्यै॒ सः ॥ दु॒ह ए॒वैना॒न्तेन॑ ।

भट्टभास्कर-टीका

3यदित्यादि ॥ गतम् । अस्या इति विराजः । दुहे दुग्धे ‘लोपस्त आत्मनेपदेषु’ इति तलोपः ॥

मूलम्

तदा॑हुः ।
यद्द्वा॑द॒शो॑ऽग्निस्स्या॑द्द्वाद॒शस्स्तोम॒ एका॑दश॒ यूपाः॑ ।

विश्वास-प्रस्तुतिः

तदा॑हु॒र् “यद्द्वा॑द॒शो॑ऽग्निस्स्या॑द्द्वाद॒शस्स्तोम॒ एका॑दश॒ यूपाः॑” ।

मूलम्

तदा॑हु॒र् “यद्द्वा॑द॒शो॑ऽग्निस्स्या॑द्द्वाद॒शस्स्तोम॒ एका॑दश॒ यूपाः॑” ।

भट्टभास्कर-टीका

4तदाहुरिति ॥ द्वादशत्वपक्षं दूषयति । तत्राहुरन्य इत्यर्थः।

विश्वास-प्रस्तुतिः

यथा॒ स्थूरि॑णा या॒यात् ।
ता॒दृक्तत् ।
“ए॒क॒विँ॒श ए॒वाग्निस्स्या॒"दित्या॑हुः ।
ए॒क॒विँ॒शस्स्तोमः॑ ।
एक॑विँशति॒र्यूपाः॑ ।

मूलम्

यथा॒ स्थूरि॑णा या॒यात् ।
ता॒दृक्तत् ।
“ए॒क॒विँ॒श ए॒वाग्निस्स्या॒"दित्या॑हुः ।
ए॒क॒विँ॒शस्स्तोमः॑ ।
एक॑विँशति॒र्यूपाः॑ ।

भट्टभास्कर-टीका

यथेति । स्थूरिः पष्ठवाही शकटादिः स यथा येन प्रकारेण धुर्येण युक्तो दुर्बल एव यानविषये एतत्तुल्यमिदं गन्तव्यप्राप्त्यसाधनत्वात्, शकटादिभिस्सम एव याति न विषमे, तस्मात् एकविंश एवाग्न्यादयो भवितुमर्हन्तीत्याहुर्यज्ञविदः ।

मूलम्

यथा॒ प्रष्टि॑भि॒र्याति॑ ।
ता॒दृगे॒व तत् ॥84॥

विश्वास-प्रस्तुतिः

यथा॒ प्रष्टि॑भि॒र्याति॑ ता॒दृगे॒व तत् ॥84॥

मूलम्

यथा॒ प्रष्टि॑भि॒र्याति॑ ता॒दृगे॒व तत् ॥84॥

भट्टभास्कर-टीका

यथा प्रष्टिभिः शिरोधारिभिः बहुभिर्याति तादृगेव तत् भवति समे विषमे च यानसामर्थ्यात् ॥

मूलम्

यो वा अ॑श्वमे॒धे ति॒स्रᳵ क॒कुभो॒ वेद॑ ।
क॒कुद्ध॒ राज्ञा॑म्भवति ।

विश्वास-प्रस्तुतिः

यो वा अ॑श्वमे॒धे ति॒स्रᳵ क॒कुभो॒ वेद॑ क॒कुद्ध॒ राज्ञा॑म्भवति ।

ए॒क॒विँ॒शो॑ऽग्निर्भ॑वति ।
ए॒क॒विँ॒शस्स्तोमः॑ ।
एक॑विँशति॒र्यूपाः॑ ।

ए॒ता वा अ॑श्वमे॒धे ति॒स्रᳵ क॒कुभः॑ ।

मूलम्

यो वा अ॑श्वमे॒धे ति॒स्रᳵ क॒कुभो॒ वेद॑ क॒कुद्ध॒ राज्ञा॑म्भवति ।

ए॒क॒विँ॒शो॑ऽग्निर्भ॑वति ।
ए॒क॒विँ॒शस्स्तोमः॑ ।
एक॑विँशति॒र्यूपाः॑ ।

ए॒ता वा अ॑श्वमे॒धे ति॒स्रᳵ क॒कुभः॑ ।

भट्टभास्कर-टीका

5ककुभ इति ॥ ऋषभावयवानां ककुदिव तत्स्थानीयाः प्रधानावयवाः ककुभः, तासां वेदिता राज्ञां मध्ये प्रधानभूतो भवति कर्ता ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वेद॑ ।
क॒कुद्ध॒ राज्ञा॑म्भवति ।

मूलम्

य ए॒वव्ँ वेद॑ ।
क॒कुद्ध॒ राज्ञा॑म्भवति ।

भट्टभास्कर-टीका

अस्य चार्थस्य यो वेदिता सोऽपि राज्ञां ककुत् भवति । ऋषभस्य ककुदिव राज्ञामुदात्तताहेतुर्भवति ॥

मूलम्

यो वा अश्व॑मे॒धे त्रीणि॑ शी॒र्षाणि॒ वेद॑ ।
शिरो॑ ह॒ राज्ञा॑म्भवति ।

विश्वास-प्रस्तुतिः

यो वा अश्व॑मे॒धे त्रीणि॑ शी॒र्षाणि॒ वेद॒ शिरो॑ ह॒ राज्ञा॑म्भवति ।
ए॒क॒विँ॒शो॑ऽग्निर्भ॑वति ।

ए॒क॒विँ॒शस्स्तोमः॑ ।
एक॑विँशति॒र्यूपाः॑ ।
ए॒तानि॒ वा अ॑श्वमे॒धे त्रीणि॑ शी॒र्षाणि॑ ।
य ए॒वव्ँ वेद॑ ।
शिरो॑ ह॒ राज्ञा॑म्भवति ॥85॥

मूलम्

यो वा अश्व॑मे॒धे त्रीणि॑ शी॒र्षाणि॒ वेद॒ शिरो॑ ह॒ राज्ञा॑म्भवति ।
ए॒क॒विँ॒शो॑ऽग्निर्भ॑वति ।

ए॒क॒विँ॒शस्स्तोमः॑ ।
एक॑विँशति॒र्यूपाः॑ ।
ए॒तानि॒ वा अ॑श्वमे॒धे त्रीणि॑ शी॒र्षाणि॑ ।
य ए॒वव्ँ वेद॑ ।
शिरो॑ ह॒ राज्ञा॑म्भवति ॥85॥

भट्टभास्कर-टीका

6एवं प्रधानावयवत्वेन रूपयित्वा इदानीमुच्छ्रितत्वेन रूपयति - शीर्षाणीति ॥ ‘शीर्षं छन्दसि’ इति शीर्षादेशः । शरीरावयवानां मध्ये शिर इव राज्ञां मध्ये उच्छ्रितो भवति कर्ता । वेदिता चास्यार्थस्य शरीरस्य शिर इव राज्ञां उच्छ्रितहेतुर्भवति । तस्मात् एकविंशोऽग्निः कर्तव्यः । तत्र ब्रूमः

करणीकारिकाः -
त्रिस्स्तानात्प्राकृतादग्नेराश्वमेधिक उच्यते ।
कुर्यात्पुरुषमानेषु तस्य विकरणीं ततः ॥

चतुरस्रे समे क्षेत्रे प्रमाणं पुरुषो यथा ।
जानीयादक्ष्णया रज्जुं तस्य द्विकरणीं बुधः ॥

कर्णवर्गो यतो बाहुः कोटिवर्गावुभौ युतौ ।
विस्तारः पुरुषा यस्मिन् आयामो द्विकरण्यथ ।
अक्ष्णया रज्जुरेतस्य त्रिकरण्युपजायते ॥

करोति पुरुषस्थानस्थिता सप्तविधा तु सा ॥ तस्या एव चतुर्थांशश्चतुर्भागीयकल्पना ।
तस्यार्धेनैव तत्पादाः कल्पनीया विजानता ॥ तस्याः पञ्चमभागाद्यैः तद्भागीयादिकल्पना ॥

इति तैत्तिरीयब्राह्मणे तृतीये अष्टमे अश्वमेधे एकविंशोऽनुवाकः ॥