विश्वास-प्रस्तुतिः
राज्जु॑दालमग्नि॒ष्ठम्मि॑नोति ।
भ्रू॒ण॒ह॒त्याया॒ अप॑हत्यै ।
मूलम्
राज्जु॑दालमग्नि॒ष्ठम्मि॑नोति ।
भ्रू॒ण॒ह॒त्याया॒ अप॑हत्यै ।
भट्टभास्कर-टीका
1राज्जुदालमित्यादि ॥ अग्निसकाशे तिष्ठतीत्यग्निष्ठः तं मिनोति ऊर्ध्वं स्थापयति । राज्जुदालः श्लेष्मातकः तत् भ्रूणहत्यानां महापातकानां पापानां अपघाताय भवति । गर्भो भ्रूण इति केचित् । चतुर्वेदी भ्रूण इत्यन्ये । क्षत्रियो भ्रूण इत्यपरे । ‘हनस्त च’ इति क्यप् ।
विश्वास-प्रस्तुतिः
पौतु॑द्रवाव॒भितो॑ भवतः ।
पुण्य॑स्य ग॒न्धस्याव॑रुध्यै ।
मूलम्
पौतु॑द्रवाव॒भितो॑ भवतः ।
पुण्य॑स्य ग॒न्धस्याव॑रुध्यै ।
भट्टभास्कर-टीका
पौतुद्रवौ देवदारुमयौ अग्निष्ठमभितो भवतः पुण्यात्मनो गन्धस्यावरोधाय भवति ।
विश्वास-प्रस्तुतिः
भ्रू॒ण॒ह॒त्यामे॒वास्मा॑दप॒हत्य॑ ।
पुण्ये॑न ग॒न्धेनो॑भ॒यत॒ᳶ परि॑गृह्णाति ।
मूलम्
भ्रू॒ण॒ह॒त्यामे॒वास्मा॑दप॒हत्य॑ ।
पुण्ये॑न ग॒न्धेनो॑भ॒यत॒ᳶ परि॑गृह्णाति ।
भट्टभास्कर-टीका
यस्मादेते त्रयो यूपा भवन्ति तस्मात् भ्रूणहत्यादिकमपि महापापं अस्मात् यजमानादपहत्य पुण्यलक्षणेन गन्धेन एनं यजमानं उभयतः उभयोर्वयसोरुभयोर्वा लोकयोः परिगृह्णाति ॥
विश्वास-प्रस्तुतिः
षड्बै॒ल्वा भ॑वन्ति ।
ब्र॒ह्म॒व॒र्च॒सस्याव॑रुध्यै ।
षट्खा॑दि॒राः ।
तेज॒सोऽव॑रुध्यै ॥77॥
षट्पा॑ला॒शाः ।
सो॒म॒पी॒थस्याव॑रुध्यै ।
एक॑विँशति॒स्सम्प॑द्यन्ते ।
एक॑विँशति॒र्वै दे॑वलो॒काः ।
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ ।
त्रय॑ इ॒मे लो॒काः ।
अ॒सावा॑दि॒त्य एक॑विँ॒शः ।
ए॒ष सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
मूलम्
षड्बै॒ल्वा भ॑वन्ति ।
ब्र॒ह्म॒व॒र्च॒सस्याव॑रुध्यै ।
षट्खा॑दि॒राः ।
तेज॒सोऽव॑रुध्यै ॥77॥
षट्पा॑ला॒शाः ।
सो॒म॒पी॒थस्याव॑रुध्यै ।
एक॑विँशति॒स्सम्प॑द्यन्ते ।
एक॑विँशति॒र्वै दे॑वलो॒काः ।
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ ।
त्रय॑ इ॒मे लो॒काः ।
अ॒सावा॑दि॒त्य एक॑विँ॒शः ।
ए॒ष सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
भट्टभास्कर-टीका
2षडिति ॥ अभित इत्येव । पौतुद्रवावभितो दक्षिणतस्त्रय उत्तरतश्च त्रयो बैल्वा भवन्ति । एवं खादिरपालाशानां द्रष्टव्यः । एवमेषा यूपैकविंशतिः प्रदर्शिता । गतमन्यत् ॥
विश्वास-प्रस्तुतिः
श॒तम्प॒शवो॑ भवन्ति ॥78॥
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
मूलम्
श॒तम्प॒शवो॑ भवन्ति ॥78॥
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
भट्टभास्कर-टीका
3शतं पशव इति ॥ एकोनविंशत्यधिकपञ्चशतसंख्यानां पशूनां अवयुत्यानुवादस्स्तुत्यर्थः शतस्य । यद्वा - बहवश्चोदितसंख्याः पशवो भवन्तीत्यर्थः ।
विश्वास-प्रस्तुतिः
सर्वव्ँ॒ वा अ॑श्वमे॒ध्याप्नो॑ति ।
मूलम्
सर्वव्ँ॒ वा अ॑श्वमे॒ध्याप्नो॑ति ।
भट्टभास्कर-टीका
तदेवाह - सर्वं वा इति । सर्वमभिमतमर्थमश्वमेधयाजी प्राप्नोति । तस्मात् बहवः पशवो भवन्तीति चोदितसंख्यास्तुतिः ।
विश्वास-प्रस्तुतिः
अप॑रिमिता भवन्ति ।
अप॑रिमित॒स्याव॑रुध्यै ।
मूलम्
अप॑रिमिता भवन्ति ।
अप॑रिमित॒स्याव॑रुध्यै ।
भट्टभास्कर-टीका
पक्षान्तरमाह - अपरिमिता इति । सर्वं वा इत्युत्तरशेषो वा, सर्वं खल्वभिमतमश्वमेधयाजी प्राप्तुमर्हति । तस्मादपरिमिताः पशवो भवन्ति अपरिमितस्य फलस्य लाभाय ॥ अत्रैषा पशुसंख्या-
अश्वस्तूपरगोमृगौ तुरगपर्यङ्ग्या दश व्युत्तराः ।
सन्त्यष्टादशिनस्त्वशीतिशतकं द्वाविंशतिः द्वन्द्विनः ।
सन्त्येकादशिनस्तथा प्रकृतिजैर्द्वाविंशतिर्वैकृताः ।
चातुर्मास्यपशूनवैहि सशतां पञ्चाधिकां त्रिंशतम् ॥
भूयः पञ्चदशैव पञ्चदशिनो ग्राम्या नवत्युत्तरान्।
आरण्यान् त्रिशतान्यथर्तु (र्हितान्) पशवस्त्वष्टा दशारण्यजाः ।
ज्ञेयास्सूकरपूर्वकास्तु दशतोत्रैकादशैते शतं ।
सर्वे पञ्चशती भवन्ति पशवोऽथैकोनिता विंशतिः ॥
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
कस्मा॑त्स॒त्यात् ।
द॒क्षि॒ण॒तो॑ऽन्येषा॑म्पशू॒नाम॑व॒द्यन्ति॑ ।
उ॒त्त॒र॒तोऽश्व॒स्येति॑ ।
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ “कस्मा॑त्स॒त्यात् दक्षिण॒तो॑ऽन्येषा॑म्पशू॒नाम॑व॒द्यन्त्य्॑ उत्तर॒तोऽश्व॒स्ये"ति॑ ।
वा॒रुणो॒ वा अश्वः॑ ॥79॥
ए॒षा वै वरु॑णस्य॒ दिक् ।
स्वाया॑मे॒वास्य॑ दि॒श्यव॑द्यति ।
यदित॑रेषाम्पशू॒नाम॑व॒द्यति॑ ।
श॒त॒दे॒व॒त्य॑न्तेनाव॑रुन्धे ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ “कस्मा॑त्स॒त्यात् दक्षिण॒तो॑ऽन्येषा॑म्पशू॒नाम॑व॒द्यन्त्य्॑ उत्तर॒तोऽश्व॒स्ये"ति॑ ।
वा॒रुणो॒ वा अश्वः॑ ॥79॥
ए॒षा वै वरु॑णस्य॒ दिक् ।
स्वाया॑मे॒वास्य॑ दि॒श्यव॑द्यति ।
यदित॑रेषाम्पशू॒नाम॑व॒द्यति॑ ।
श॒त॒दे॒व॒त्य॑न्तेनाव॑रुन्धे ।
भट्टभास्कर-टीका
4द्वितीयेऽहनि उख्थ्ये एते पशव आलभ्यन्ते सौम्यत्वात् शान्तत्वात् वा । तस्मात् स्वायामेव दिशि अवदाय सादितं भवति । यतश्च इतरेषां सर्वेषामेव पशूनां दक्षिणतोऽवद्यति, बहुदेवत्यं यागफलं तेन लभते ॥
विश्वास-प्रस्तुतिः
चि॒ते॑ऽग्नावधि॑ वैत॒से कटेऽश्व॑ञ्चिनोति ।
मूलम्
चि॒ते॑ऽग्नावधि॑ वैत॒से कटेऽश्व॑ञ्चिनोति ।
भट्टभास्कर-टीका
5वेतसनिर्मिते कटे आस्तीर्णे अश्वं प्राञ्चं चिनोति प्राक्छिरसं शाययति ।
विश्वास-प्रस्तुतिः
अ॒प्सुयो॑नि॒र्वा अश्वः॑ ।
अ॒प्सु॒जो वे॑त॒सः ।
स्व ए॒वैनय्ँ॒योनौ॒ प्रति॑ष्ठापयति ।
पु॒रस्ता॑त्प्र॒त्यञ्च॑न्तूप॒रञ्चि॑नोति ।
प॒श्चात्प्रा॒चीन॑ङ्गोमृ॒गम् ॥80॥
मूलम्
अ॒प्सुयो॑नि॒र्वा अश्वः॑ ।
अ॒प्सु॒जो वे॑त॒सः ।
स्व ए॒वैनय्ँ॒योनौ॒ प्रति॑ष्ठापयति ।
पु॒रस्ता॑त्प्र॒त्यञ्च॑न्तूप॒रञ्चि॑नोति ।
प॒श्चात्प्रा॒चीन॑ङ्गोमृ॒गम् ॥80॥
भट्टभास्कर-टीका
अप्सुयोनिर्वा इत्यादि । गतम् । तूपरः शृङ्गहीनः तमग्नेः पुरस्तात् प्रत्यक्छिरसं चिनोति गोमृगः हिंसारुचिः बलीवर्दः, तमग्नेः पश्चात् प्राक्छिरसं चिनोति ।
विश्वास-प्रस्तुतिः
प्रा॒णा॒पा॒नावे॒वास्मि॑न्त्स॒म्यञ्चौ॑ दधाति ।
मूलम्
प्रा॒णा॒पा॒नावे॒वास्मि॑न्त्स॒म्यञ्चौ॑ दधाति ।
भट्टभास्कर-टीका
एवं कुर्वन् प्राणापानौ च यजमाने सम्यञ्चौ समीचीनगती स्थापयति ।
विश्वास-प्रस्तुतिः
अश्व॑न्तूप॒रङ्गो॑मृ॒गमिति॑ सर्व॒हुत॑ ए॒ताञ्जु॑होति ।
ए॒षाल्ँ लो॒काना॑म॒भिजि॑त्यै ।
मूलम्
अश्व॑न्तूप॒रङ्गो॑मृ॒गमिति॑ सर्व॒हुत॑ ए॒ताञ्जु॑होति ।
ए॒षाल्ँ लो॒काना॑म॒भिजि॑त्यै ।
भट्टभास्कर-टीका
सर्वहुतं इति । कर्मणि क्विप् । वैतसेन कटेनाश्वतूपरगोमृगान् सर्वहुतं जुहोति । लोकत्रयाभिजयाय तद्भवति ॥
विश्वास-प्रस्तुतिः
आ॒त्मना॒ऽभिजु॑होति ।
सात्मा॑नमे॒वैनँ॒ सत॑नुङ्करोति ।
मूलम्
आ॒त्मना॒ऽभिजु॑होति ।
सात्मा॑नमे॒वैनँ॒ सत॑नुङ्करोति ।
भट्टभास्कर-टीका
6आत्मनेति ॥ अत्मीयशरीरावयवसंबन्धिभिः ‘स्तेगाब्दंष्ट्राभ्याम्’ इत्येतैरनुवाकैर्हुतमश्वमाज्येन अभिजुहोति हुतस्योपरि जुहोतीत्यर्थः । एनं हुतमश्वं सात्मानं सशरीरं सतनुं सर्वशरीरावयवसहितं च करोति ।
विश्वास-प्रस्तुतिः
सात्मा॒ऽमुष्मिल्ँ॑ लो॒के भ॑वति ।
य ए॒वव्ँ वेद॑ ।
मूलम्
सात्मा॒ऽमुष्मिल्ँ॑ लो॒के भ॑वति ।
य ए॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
एवं वेदिता अमुष्मिन् लोके सात्मा सशरीर एव भवति गच्छति ।
विश्वास-प्रस्तुतिः
अथो॒ वसो॑रे॒व धारा॒न्तेनाव॑रुन्धे ।
मूलम्
अथो॒ वसो॑रे॒व धारा॒न्तेनाव॑रुन्धे ।
भट्टभास्कर-टीका
अथो अपिच वसोर्धारां धनपरंपरां तेन होमेन लभते कर्ता तस्य वेदिता च ॥
विश्वास-प्रस्तुतिः
“इ॒लु॒वर्दा॑य॒ स्वाहा॑ बलि॒वर्दा॑य॒ स्वाहे"त्या॑ह ।
सव्ँ॒व॒त्स॒रो वा इ॑लु॒वर्दः॑ ।
प॒रि॒व॒त्स॒रो ब॑लि॒वर्दः॑ ।
मूलम्
“इ॒लु॒वर्दा॑य॒ स्वाहा॑ बलि॒वर्दा॑य॒ स्वाहे"त्या॑ह ।
सव्ँ॒व॒त्स॒रो वा इ॑लु॒वर्दः॑ ।
प॒रि॒व॒त्स॒रो ब॑लि॒वर्दः॑ ।
भट्टभास्कर-टीका
7संवत्सरो वा इति ॥ इदानीं ध्रियत इति इलुवर्दः । परस्तात् ध्रियत इति परिवत्सरो द्वितीयो वत्सरो बलिवर्दः पृषोदरादित्वादभीष्टस्वरूपसिद्धिः ।
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒रादे॒व प॑रिवत्स॒रादायु॒रव॑रुन्धे ।
आयु॑रे॒वास्मि॑न्दधाति ।
मूलम्
सव्ँ॒व॒त्स॒रादे॒व प॑रिवत्स॒रादायु॒रव॑रुन्धे ।
आयु॑रे॒वास्मि॑न्दधाति ।
भट्टभास्कर-टीका
एवं संवत्सरपरिवत्सराभ्यां हेतुभ्यां तदात्मकं सर्वमायुरवरुन्धे न पुरुषायुषमध्ये म्रियते । तस्मादाभ्यां होमाभ्यामायुरस्मिन् यजमाने स्थापयति पूर्वैर्वसुधारालाभम् ।
विश्वास-प्रस्तुतिः
तस्मा॑दश्वमेधया॒जी ज॒रसा॑ वि॒स्रसा॒मुल्ँ लो॒कमे॑ति ॥81॥
मूलम्
तस्मा॑दश्वमेधया॒जी ज॒रसा॑ वि॒स्रसा॒मुल्ँ लो॒कमे॑ति ॥81॥
भट्टभास्कर-टीका
यस्मादेवं तस्मात् अश्वमेधयाजी जरसा तन्वा विस्रसा हस्तपादादिविस्त्रंसनेन च इत्थंभूतस्सर्वमायुरवाप्य कृतार्थः अमुं लोकं गच्छति । जराग्रहणं चायुःकार्त्स्न्यार्थम् । अभिनवदेह एव पुरुषायुर्जीवति ॥
इति तैत्तिरीये ब्राह्मणे तृतीयेऽष्टके अष्टमप्रपाठके विंशोऽनुवाकः ॥