१९

मूलम्

ए॒क॒यू॒पो वै॑काद॒शिनी॑ वा ।
अ॒न्येषाय्ँ॑ य॒ज्ञानाय्ँ॒यूपा॑ भवन्ति ।
ए॒क॒विँ॒शिन्य॑श्वमे॒धस्य॑ ।
सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।

विश्वास-प्रस्तुतिः

ए॒क॒यू॒पो वै॑काद॒शिनी॑ वा अ॒न्येषाय्ँ॑ य॒ज्ञानाय्ँ॒यूपा॑ भवन्ति ।

ए॒क॒विँ॒शिन्य॑श्वमे॒धस्य॑ सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।

मूलम्

ए॒क॒यू॒पो वै॑काद॒शिनी॑ वा अ॒न्येषाय्ँ॑ य॒ज्ञानाय्ँ॒यूपा॑ भवन्ति ।

ए॒क॒विँ॒शिन्य॑श्वमे॒धस्य॑ सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।

भट्टभास्कर-टीका

1एकयूपो वेत्यादि ॥ एको यूपः एकयूपः ‘पूर्वकालैक’ इति समासः । एकादशिनी एकादशपरिमाणवती यूपरीतिरेकादशिनो ‘शञ्छत्रोर्डिनिः’ इति डिनिप्रत्ययः । अन्येषां अश्वमेधव्यतिरिक्तानां एको वा एकादश यूपा वा भवन्ति । अश्वमेधस्य त्वेकविंशतिः यूपरीतिर्भवति । उपशयपात्नीवतविशालपूपव्यतिरिक्ता एकविंशतिपरिमाणाः यूपाः । ‘विंशतेश्च’ इति डिनिः । तत्स्वर्गस्य अभिजयाय भवति ‘असावादित्य एकविंशः । एष सुवर्गो लोकः’ इति ॥

विश्वास-प्रस्तुतिः

बै॒ल्वो वा॑ खादि॒रो वा॑ पाला॒शो वा॑ ।
अ॒न्येषाय्ँ॑ यज्ञक्रतू॒नाय्ँयूपा॑ भवन्ति ।

मूलम्

बै॒ल्वो वा॑ खादि॒रो वा॑ पाला॒शो वा॑ ।
अ॒न्येषाय्ँ॑ यज्ञक्रतू॒नाय्ँयूपा॑ भवन्ति ।

भट्टभास्कर-टीका

2बैल्वो वेति ॥ अग्निष्ठस्येदं लक्षणम् । यूपवन्तो यज्ञक्रतवः ।

विश्वास-प्रस्तुतिः

राज्जु॑दाल॒ एक॑विँशत्यरत्निरश्वमे॒धस्य॑ ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

नान्येषा॑म्पशू॒नान्ते॑ज॒न्या अ॑व॒द्यन्ति॑ ।
अव॑द्य॒न्त्यश्व॑स्य ॥75॥

मूलम्

राज्जु॑दाल॒ एक॑विँशत्यरत्निरश्वमे॒धस्य॑ ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

नान्येषा॑म्पशू॒नान्ते॑ज॒न्या अ॑व॒द्यन्ति॑ ।
अव॑द्य॒न्त्यश्व॑स्य ॥75॥

भट्टभास्कर-टीका

राज्जुदालः श्लेष्मातकः । ‘अनुदात्तादेश्च’ इत्यञ् । चतुर्विंशतिरङ्गुलयोऽरत्निः ।
समष्ट्या इति । उच्छ्रायस्यापि स्वर्गत्वात् । सम्यक्प्राप्तिः उपशयादयः प्राकृतपरिमाण एव ।

विश्वास-प्रस्तुतिः

पा॒प्मा वै ते॑ज॒नी ।
पा॒प्मनोऽप॑हत्यै ।
प्ल॒क्ष॒शा॒खाया॑म॒न्येषा॑म्पशू॒नाम॑व॒द्यन्ति॑ ।
वे॒त॒स॒शा॒खाया॒मश्व॑स्य ।

मूलम्

पा॒प्मा वै ते॑ज॒नी ।
पा॒प्मनोऽप॑हत्यै ।
प्ल॒क्ष॒शा॒खाया॑म॒न्येषा॑म्पशू॒नाम॑व॒द्यन्ति॑ ।
वे॒त॒स॒शा॒खाया॒मश्व॑स्य ।

भट्टभास्कर-टीका

तेजनी रुचिराख्या मांसस्रुक् स्व एवेति ।

विश्वास-प्रस्तुतिः

अ॒प्सुयो॑नि॒र्वा अश्वः॑ ।
अ॒प्सु॒जो वे॑त॒सः ।
स्व ए॒वास्य॒ योना॒वव॑द्यति ।

मूलम्

अ॒प्सुयो॑नि॒र्वा अश्वः॑ ।
अ॒प्सु॒जो वे॑त॒सः ।
स्व ए॒वास्य॒ योना॒वव॑द्यति ।

भट्टभास्कर-टीका

आत्मीये योनौ कार्येऽपि कारणस्य विद्यमानत्वात् ॥

विश्वास-प्रस्तुतिः

यूपे॑षु ग्रा॒म्यान्प॒शून्नि॑यु॒ञ्जन्ति॑ ।
आ॒रो॒केष्वा॑र॒ण्यान्धा॑रयन्ति ।
प॒शू॒नाव्व्ँयावृ॑त्त्यै ।
आ ग्रा॒म्यान्प॒शूल्लँभ॑न्ते ।
प्रार॒ण्यान्त्सृ॑जन्ति ।
पा॒प्मनोऽप॑हत्यै ॥76॥

मूलम्

यूपे॑षु ग्रा॒म्यान्प॒शून्नि॑यु॒ञ्जन्ति॑ ।
आ॒रो॒केष्वा॑र॒ण्यान्धा॑रयन्ति ।
प॒शू॒नाव्व्ँयावृ॑त्त्यै ।
आ ग्रा॒म्यान्प॒शूल्लँभ॑न्ते ।
प्रार॒ण्यान्त्सृ॑जन्ति ।
पा॒प्मनोऽप॑हत्यै ॥76॥

भट्टभास्कर-टीका

3ग्राम्याः ‘रोहितो घूम्ररोहितः’ इत्यादयः । तान् यूपेषु नियुञ्जन्ति । आरण्यांस्तु आरोकेषु आलोकेषु यूपान्तरावकाशेषु धारयन्ति संविधापयन्ति । आरण्याः ‘इन्द्राय राज्ञे सूकरः’ इत्यादयः । पुरुषमृगादीनां दुर्ग्रहाणां पटादौ लिखितानामुपचारमात्रं कर्तव्यमिति प्रदर्शनार्थं धारयन्तीत्युक्तम् । पञ्जरादिषु धारयन्तीत्यन्ये ग्नाम्यानालभन्ते नियुक्तानेव स्थापयन्ति । कृते पर्यग्निकरणे आरण्यान् प्रसृजन्ति उत्सृजन्ति पापापघाततुल्यं तद्भवति ॥

इति तैत्तिरीयब्राह्मणे तृतीये अष्टके अष्टमे प्रपाठके अश्वमेधे प्रथमे एकोनविंशोऽनुवाकः ॥