१८

विश्वास-प्रस्तुतिः

अम्भाँ॑सि जुहोति ।
अ॒यव्ँ वै लो॒कोऽम्भाँ॑सि ।
तस्य॒ वस॒वोऽधि॑पतयः ।
अ॒ग्निर्ज्योतिः॑ ।

मूलम्

अम्भाँ॑सि जुहोति ।
अ॒यव्ँ वै लो॒कोऽम्भाँ॑सि ।
तस्य॒ वस॒वोऽधि॑पतयः ।
अ॒ग्निर्ज्योतिः॑ ।

मूलम्

यदम्भाँ॑सि जु॒होति॑ ।
इ॒ममे॒व लो॒कमव॑रुन्धे ।

विश्वास-प्रस्तुतिः

यदम्भाँ॑सि जु॒होति॑ + इ॒ममे॒व लो॒कमव॑रुन्धे ।

वसू॑नाँ॒ सायु॑ज्यङ्गच्छति ।
अ॒ग्निञ्ज्योति॒रव॑रुन्धे ।

मूलम्

यदम्भाँ॑सि जु॒होति॑ + इ॒ममे॒व लो॒कमव॑रुन्धे ।

वसू॑नाँ॒ सायु॑ज्यङ्गच्छति ।
अ॒ग्निञ्ज्योति॒रव॑रुन्धे ।

भट्टभास्कर-टीका

1अम्भांसीत्यादि ॥ ‘अम्भोभ्यस्स्वाहा’ इति बहुवचनेन होमोऽभिप्रेतः । अयं खलु मनुष्यलोकः सर्वेषां अम्भसां आधारत्वात् अम्भांसि, तदाधारत्वात्ताच्छब्द्यम् । अदनीयान्यन्नानि अम्भांसि । अदेः ‘उदके नुम्भौ च’ इत्यसुन् । तस्य वसवः अन्नस्वामिनः अग्निः द्योतयिता ॥

विश्वास-प्रस्तुतिः

नभाँ॑सि जुहोति ।
अ॒न्तरि॑क्षव्ँ॒ वै नभाँ॑सि ॥68॥
तस्य॑ रु॒द्रा अधि॑पतयः ।
वा॒युर्ज्योतिः॑ ।

मूलम्

नभाँ॑सि जुहोति ।
अ॒न्तरि॑क्षव्ँ॒ वै नभाँ॑सि ॥68॥
तस्य॑ रु॒द्रा अधि॑पतयः ।
वा॒युर्ज्योतिः॑ ।

मूलम्

यन्नभाँ॑सि जु॒होति॑ ।
अ॒न्तरि॑क्षमे॒वाव॑रुन्धे ।

विश्वास-प्रस्तुतिः

यन्नभाँ॑सि जु॒होत्य् अ॒न्तरि॑क्षमे॒वाव॑रुन्धे ।
रु॒द्राणाँ॒ सायु॑ज्यङ्गच्छति ।
वा॒युञ्ज्योति॒रव॑रुन्धे ।

मूलम्

यन्नभाँ॑सि जु॒होत्य् अ॒न्तरि॑क्षमे॒वाव॑रुन्धे ।
रु॒द्राणाँ॒ सायु॑ज्यङ्गच्छति ।
वा॒युञ्ज्योति॒रव॑रुन्धे ।

भट्टभास्कर-टीका

2नभांसीति ॥ ‘नभोभ्यस्स्वाहा'33 इति जुहोति । नभश्चारिणः नभांसि । गतमन्यत् ॥

विश्वास-प्रस्तुतिः

महाँ॑सि जुहोति ।
अ॒सौ वै लो॒को महाँ॑सि ।
तस्या॑दि॒त्या अधि॑पतयः ।
सूर्यो॒ ज्योतिः॑ ॥69॥

मूलम्

महाँ॑सि जुहोति ।
अ॒सौ वै लो॒को महाँ॑सि ।
तस्या॑दि॒त्या अधि॑पतयः ।
सूर्यो॒ ज्योतिः॑ ॥69॥

मूलम्

यन्महाँ॑सि जु॒होति॑ ।
अ॒मुमे॒व लो॒कमव॑रुन्धे ।

विश्वास-प्रस्तुतिः

यन्महाँ॑सि जु॒होत्य् अ॒मुमे॒व लो॒कमव॑रुन्धे ।

आ॒दि॒त्यानाँ॒ सायु॑ज्यङ्गच्छति ।

मूलम्

यन्महाँ॑सि जु॒होत्य् अ॒मुमे॒व लो॒कमव॑रुन्धे ।

आ॒दि॒त्यानाँ॒ सायु॑ज्यङ्गच्छति ।

भट्टभास्कर-टीका

3महांसीति ॥ ‘महोभ्यस्स्वाहा'33 इति जुहोति । महस्विनः तेजस्विनः पूजनीया वा देवा महांसि । समानमन्यत् ॥

विश्वास-प्रस्तुतिः

नमो॒ राज्ञे॒ नमो॒ वरु॑णा॒येति॑ य॒व्यानि॑ जुहोति ।
अ॒न्नाद्य॒स्याव॑रुध्यै ।

मूलम्

नमो॒ राज्ञे॒ नमो॒ वरु॑णा॒येति॑ य॒व्यानि॑ जुहोति ।
अ॒न्नाद्य॒स्याव॑रुध्यै ।

भट्टभास्कर-टीका

4यव्यानि ‘मां धेहि मयि धेहि’ इति यजमानस्य स्वामित्वेन सर्वाभिः प्रजाभिः मिश्रणसाधनत्वात् प्रजानां च अन्नसिद्धिहेतुत्वात् अन्नलाभः । यद्वा - राजा सोमः स च यवाद्योषधीशः इति तत्संबन्धात् द्रव्याणि यव्यानि ‘अन्नाद्यस्य’ इत्यृजुर्भवति ॥

विश्वास-प्रस्तुतिः

म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा इति॑ ग॒व्यानि॑ जुहोति ।
प॒शू॒नामव॑रुध्यै ।

मूलम्

म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा इति॑ ग॒व्यानि॑ जुहोति ।
प॒शू॒नामव॑रुध्यै ।

भट्टभास्कर-टीका

5गव्यानीति ॥ गोभ्यो हितानि गवां सुखसाधनत्वात् । उस्राः गावः सर्वेषां गवादीनां पशूनां लाभाय भवति ॥

विश्वास-प्रस्तुतिः

“प्रा॒णाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहे"ति॑ सन्ततिहो॒माञ्जु॑होति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै ॥70॥

मूलम्

“प्रा॒णाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहे"ति॑ सन्ततिहो॒माञ्जु॑होति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै ॥70॥

भट्टभास्कर-टीका

6सन्ततिहोमाः - ‘सन्तानेभ्यसवाहा’ इति ॥ सन्ततियोगात् । स्वर्गस्य सन्तत्यै अविच्छेदाय तद्भवति । प्राधान्यात् तेन समुदायलक्षणा ॥

विश्वास-प्रस्तुतिः

“सि॒ताय॒ स्वाहाऽसि॑ताय॒ स्वाहे"ति॒ प्रमु॑क्तीर्जुहोति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रमु॑क्त्यै ।

मूलम्

“सि॒ताय॒ स्वाहाऽसि॑ताय॒ स्वाहे"ति॒ प्रमु॑क्तीर्जुहोति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रमु॑क्त्यै ।

भट्टभास्कर-टीका

7प्रमुक्तयः - ‘प्रमुक्ताय स्वाहा’ इति ॥ प्रमुक्तियोगात् । यजमानार्थं स्वर्गस्य प्रमुक्त्यै ऐदमर्थ्येन भोक्त्रन्तरात् पृथक्करणम् । यद्वा - मुक्तिर्विरहः तन्निवृत्तिः प्रमुक्तिः प्रस्थानप्रपूरणादिवत् द्रष्टव्यम् ॥

विश्वास-प्रस्तुतिः

“पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहे"त्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।

“द॒त्वते॒ स्वाहा॑ऽद॒न्तका॑य॒ स्वाहे"ति॑ शरीरहो॒माञ्जु॑होति ।
पि॒तृ॒लो॒कमे॒व तैर्यज॑मानो॒ऽव॑रुन्धे ।

मूलम्

“पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहे"त्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।

“द॒त्वते॒ स्वाहा॑ऽद॒न्तका॑य॒ स्वाहे"ति॑ शरीरहो॒माञ्जु॑होति ।
पि॒तृ॒लो॒कमे॒व तैर्यज॑मानो॒ऽव॑रुन्धे ।

भट्टभास्कर-टीका

8पितृलोकमिति ॥ शरीरावयवहोमेन शरीरेष्वनुप्रविश्य तृप्तिभाजां पितृणां लोकावरोधः ॥

विश्वास-प्रस्तुतिः

कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्विति॑ परि॒धीन् यु॑नक्ति ।
इ॒मे वै लो॒काᳶ प॑रि॒धयः॑ ।
इ॒माने॒वास्मै॑ लो॒कान् यु॑नक्ति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥71॥

मूलम्

कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्विति॑ परि॒धीन् यु॑नक्ति ।
इ॒मे वै लो॒काᳶ प॑रि॒धयः॑ ।
इ॒माने॒वास्मै॑ लो॒कान् यु॑नक्ति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥71॥

भट्टभास्कर-टीका

9परिधीन् युनक्तीति ॥ स्वस्थाने युनक्ति स्थापयति प्रमादाच्चलितान् । यद्वा - हस्तेन सृष्ट्वा इत उत्तरान् होमान् जुहोति । इमान् लोकान् यजमानाय भोगार्थं योजयति स्वर्गस्य सम्यक् प्राप्तये भवति तल्लोकयोगेन कर्मजयात् ॥

विश्वास-प्रस्तुतिः

“यᳶ प्रा॑ण॒तो य आ॑त्म॒दा” इति॑ महि॒मानौ॑ जुहोति ।
सु॒व॒र्गो वै लो॒को महः॑ ।
सु॒व॒र्गमे॒व ताभ्याल्ँ॑ लो॒कय्ँयज॑मा॒नोऽव॑रुन्धे ।

मूलम्

“यᳶ प्रा॑ण॒तो य आ॑त्म॒दा” इति॑ महि॒मानौ॑ जुहोति ।
सु॒व॒र्गो वै लो॒को महः॑ ।
सु॒व॒र्गमे॒व ताभ्याल्ँ॑ लो॒कय्ँयज॑मा॒नोऽव॑रुन्धे ।

भट्टभास्कर-टीका

10 ‘यः प्राणतो’, ‘य आत्मदा’ इत्यनुवाकौ महिमनामानौ ‘तस्य ते द्यौर्महिमा’, ‘तस्य ते पृथिवी महिमा’ इति महिमशब्दवत्त्वात् । मह इति । महस्स्वतो भावो महिमा, स च महः पूजा । तद्धेतुत्वात् ताच्छब्द्यम् । ‘अन्येषामपि’ इति पूर्वपदस्य दीर्घत्वम् ॥

विश्वास-प्रस्तुतिः

आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मिति॒ सम॑स्तानि ब्रह्मवर्च॒सानि॑ जुहोति ।
ब्र॒ह्म॒व॒र्चसमे॒व तैर्यज॑मा॒नोऽव॑रुन्धे ।

जज्ञि॒ बीज॒मिति॑ जुहो॒त्यन॑न्तरित्यै ।

अ॒ग्नये॒ सम॑नमत्पृथि॒व्यै सम॑नम॒दिति॑ सन्नतिहो॒माञ्जु॑होति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्न॑त्यै ।

भू॒ताय॒ स्वाहा॑ भविष्य॒ते स्वाहेति॑ भूताभ॒व्यौ होमौ॑ जुहोति ।
अ॒यव्ँ वै लो॒को भू॒तम् ॥72॥
अ॒सौ भ॑वि॒ष्यत् ।
अ॒नयो॑रे॒व लो॒कयो॒ᳶ प्रति॑तिष्ठति ।

मूलम्

आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मिति॒ सम॑स्तानि ब्रह्मवर्च॒सानि॑ जुहोति ।
ब्र॒ह्म॒व॒र्चसमे॒व तैर्यज॑मा॒नोऽव॑रुन्धे ।

जज्ञि॒ बीज॒मिति॑ जुहो॒त्यन॑न्तरित्यै ।

अ॒ग्नये॒ सम॑नमत्पृथि॒व्यै सम॑नम॒दिति॑ सन्नतिहो॒माञ्जु॑होति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्न॑त्यै ।

भू॒ताय॒ स्वाहा॑ भविष्य॒ते स्वाहेति॑ भूताभ॒व्यौ होमौ॑ जुहोति ।
अ॒यव्ँ वै लो॒को भू॒तम् ॥72॥
अ॒सौ भ॑वि॒ष्यत् ।
अ॒नयो॑रे॒व लो॒कयो॒ᳶ प्रति॑तिष्ठति ।

भट्टभास्कर-टीका

11अयं वै लोको भूतं भूतजातयोगात् ताच्छब्द्यम् ।
असौ भविष्यदिति भविष्यच्छब्दः भविष्यत्त्वं व्युत्पादयति ।

विश्वास-प्रस्तुतिः

सर्व॒स्याप्त्यै॑ ।
सर्व॒स्याव॑रुध्यै ।

मूलम्

सर्व॒स्याप्त्यै॑ ।
सर्व॒स्याव॑रुध्यै ।

भट्टभास्कर-टीका

सर्वस्येति । लोकद्वयाधारत्वात् सर्वस्य । तयोः प्रतिष्ठितेन सर्वमाप्तं भवति । सर्वमवरुद्धं वशीकृतं भवति ॥

विश्वास-प्रस्तुतिः

यदक्र॑न्दᳶ प्रथ॒मञ्जाय॑मान॒ इत्य॑श्वस्तो॒मीय॑ञ्जुहोति ।
सर्व॒स्याप्त्यै॑ ।
सर्व॑स्य॒ जित्यै॑ ।
सर्व॑मे॒व तेना॑प्नोति ।
सर्व॑ञ्जयति ।

यो॑ऽश्वमे॒धेन॒ यज॑ते ॥73॥
य उ॑ चैनमे॒वव्ँवेद॑ ।

मूलम्

यदक्र॑न्दᳶ प्रथ॒मञ्जाय॑मान॒ इत्य॑श्वस्तो॒मीय॑ञ्जुहोति ।
सर्व॒स्याप्त्यै॑ ।
सर्व॑स्य॒ जित्यै॑ ।
सर्व॑मे॒व तेना॑प्नोति ।
सर्व॑ञ्जयति ।

यो॑ऽश्वमे॒धेन॒ यज॑ते ॥73॥
य उ॑ चैनमे॒वव्ँवेद॑ ।

भट्टभास्कर-टीका

12अश्वस्तोमीयमिति ॥ अश्वस्तुतिप्रयोजनानुवाकोऽश्वस्तोमीयः । आप्तिर्लाभः । जयो वशीकारः । तदुभयमश्वस्तोमहोमात् भवति । यस्यादेवं तस्मात् अश्वमेधयाजी अश्वमेधमहिमवेदी च सर्वमाप्तव्यमाप्नोति, जयति च सर्वं जेतव्यम् ॥

विश्वास-प्रस्तुतिः

य॒ज्ञँ रक्षाँ॑स्यजिघाँसन् ।
स ए॒तान्प्र॒जाप॑तिर्नक्तँहो॒मान॑पश्यत् ।
तान॑जुहोत् ।
तैर्वै स य॒ज्ञाद्रक्षाँ॒स्यपा॑हन् ।

मूलम्

य॒ज्ञँ रक्षाँ॑स्यजिघाँसन् ।
स ए॒तान्प्र॒जाप॑तिर्नक्तँहो॒मान॑पश्यत् ।
तान॑जुहोत् ।
तैर्वै स य॒ज्ञाद्रक्षाँ॒स्यपा॑हन् ।

मूलम्

यन्न॑क्तँहो॒माञ्जु॒होति॑ ।
य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षाँ॒स्यप॑हन्ति ।

विश्वास-प्रस्तुतिः

यन्न॑क्तँहो॒माञ्जु॒होति॑ य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षाँ॒स्यप॑हन्ति ।

मूलम्

यन्न॑क्तँहो॒माञ्जु॒होति॑ य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षाँ॒स्यप॑हन्ति ।

भट्टभास्कर-टीका

13यज्ञमित्यादिनक्तहोमानां पूनर्विधानं सर्वस्या रात्रेर्नक्तहोमैरशून्यताविधानार्थम्। तेनैतत्सिद्धं - अश्वस्तोमीयानन्तरं ‘एकस्मै स्वाहा’ इत्येतेऽनुवाकाः पुनःपुनरभ्यासं रात्रिशेषं होतव्या इति ।

विश्वास-प्रस्तुतिः

उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्य॑न्त॒तो जु॑होति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥74॥

मूलम्

उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्य॑न्त॒तो जु॑होति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥74॥

भट्टभास्कर-टीका

अन्तत इति । रात्र्यवसाने । उदितायेत्यादि समुदिते ॥

इति तृतीय अष्टमे अश्वमेधे अष्टादशोऽनुवाकः ॥