विश्वास-प्रस्तुतिः
“वि॒भूर्मा॒त्रा प्र॒भूᳶ पि॒त्रे"त्य॑श्वना॒मानि॑ जुहोति ।
उ॒भयो॑रे॒वैनल्ँ॑ लो॒कयो॑र्नाम॒धेय॑ङ्गमयति ।
मूलम्
“वि॒भूर्मा॒त्रा प्र॒भूᳶ पि॒त्रे"त्य॑श्वना॒मानि॑ जुहोति ।
उ॒भयो॑रे॒वैनल्ँ॑ लो॒कयो॑र्नाम॒धेय॑ङ्गमयति ।
भट्टभास्कर-टीका
1विभूर्मात्रेत्यादि ॥
अत्राश्वमेधप्रभवप्रयुक्तप्रयोक्ष्यमाणाखिलकर्ममन्त्रैः ।
अन्नाहुतीर्ये विदधत्यथैषां मन्त्रानुपूर्वीं विदधात्यनेन ।
संख्याहुतीस्तास्सकृदेव हुत्वा परार्धपर्यन्तमथ क्रमेण ।
हुत्वाऽश्वनामप्रभृतीनि रात्रेः शेषोऽथ संख्याहुतिभिस्समाप्यः ॥
विभूर्मात्रेत्याद्या होमाः अश्वनामाख्याः अश्वनाम्नः स्तुतिरूपत्वात् तेषां होमाः । ‘इयं वै माता । असौ पिता’ इति द्यावापृथिव्योः एनं यजमानं नामधेयं गमयति प्रापयति प्रशस्तनामधेयवन्तं करोति अश्ववनाम्नां होमेन । यद्वा - यत्रास्य नाम प्रथितं तत्रैत गमयति यत्रायं गच्छति तत्रास्य प्रशस्तं नाम गमयति ॥
विश्वास-प्रस्तुतिः
“आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहे"त्यु॑द्द्रा॒वाञ्जु॑होति ।
सर्व॑मे॒वैन॒मस्क॑न्नँ सुव॒र्गल्ँ लो॒कङ्ग॑मयति ।
मूलम्
“आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहे"त्यु॑द्द्रा॒वाञ्जु॑होति ।
सर्व॑मे॒वैन॒मस्क॑न्नँ सुव॒र्गल्ँ लो॒कङ्ग॑मयति ।
भट्टभास्कर-टीका
2उद्द्रावानिति ॥ छत्रिन्यायेन उद्द्रावशब्दयोगात् । एनं यजमानं अस्कन्नं कदाचिदपि अप्रच्युतं स्वर्गं गमयति उद्द्रवणस्वभावत्वात् । अत एव तेन समुदायलक्षणा ॥
विश्वास-प्रस्तुतिः
“अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहे"ति॑ पूर्वहो॒माञ्जु॑होति ।
पूर्व॑ ए॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑ क्रामति ।
मूलम्
“अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहे"ति॑ पूर्वहो॒माञ्जु॑होति ।
पूर्व॑ ए॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑ क्रामति ।
भट्टभास्कर-टीका
3पूर्वहोमानिति ॥ अश्वहोमापेक्षं पूर्वत्वम् । तेषां होमात्प्रथममेव द्विषन्तमतिक्रामति प्रथमभावित्वात् ॥
विश्वास-प्रस्तुतिः
“पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहे"त्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
मूलम्
“पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहे"त्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
भट्टभास्कर-टीका
4यथायजुरिति । यथामन्त्रं तद्देवताहोमफलं लभत एव ॥
विश्वास-प्रस्तुतिः
“अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहे"ति॑ पूर्वदी॒क्षा जु॑होति ।
पूर्व॑ ए॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑क्रामति ॥63॥
मूलम्
“अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहे"ति॑ पूर्वदी॒क्षा जु॑होति ।
पूर्व॑ ए॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑क्रामति ॥63॥
भट्टभास्कर-टीका
5पूर्वदीक्षा इति ॥ पूर्वकालभाविनो दीक्षाख्या होमाः ॥
विश्वास-प्रस्तुतिः
पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्ये॑कविँ॒शिनी॑न्दी॒क्षाञ्जु॑होति ।
मूलम्
पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्ये॑कविँ॒शिनी॑न्दी॒क्षाञ्जु॑होति ।
भट्टभास्कर-टीका
6एकविंशिनीमिति । । एकविंशतिमन्त्रपरिमाणा । ‘विंशतेश्च’ इति डिनिः ।
विश्वास-प्रस्तुतिः
एक॑विँशति॒र्वै दे॑वलो॒काः ।
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ ।
त्रय॑ इ॒मे लो॒काः ।
अ॒सावा॑दि॒त्य ए॑कविँ॒शः ।
ए॒ष सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
मूलम्
एक॑विँशति॒र्वै दे॑वलो॒काः ।
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ ।
त्रय॑ इ॒मे लो॒काः ।
अ॒सावा॑दि॒त्य ए॑कविँ॒शः ।
ए॒ष सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
भट्टभास्कर-टीका
एकविंशतिर्वा इत्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
भुवो॑ दे॒वाना॒ङ्कर्म॒णेत्यृ॑तुदी॒क्षा जु॑होति ।
ऋ॒तूने॒वास्मै॑ कल्पयति ।
मूलम्
भुवो॑ दे॒वाना॒ङ्कर्म॒णेत्यृ॑तुदी॒क्षा जु॑होति ।
ऋ॒तूने॒वास्मै॑ कल्पयति ।
भट्टभास्कर-टीका
7ऋतुदीक्षा ऋतुशब्दवद्भी मन्त्रैः साध्याः । कल्पयति यथायथं प्रवर्तयति ॥
विश्वास-प्रस्तुतिः
“अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहे"ति॑ जुहो॒त्यन॑न्तरित्यै ॥64॥
मूलम्
“अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहे"ति॑ जुहो॒त्यन॑न्तरित्यै ॥64॥
भट्टभास्कर-टीका
8अनन्तरित्यै अनन्तर्हितत्वाय यजमानस्य ‘प्रजापतिरसि’ इति तद्भावेन सर्वेषु कालेषु ख्यातत्वात् ॥
मूलम्
अ॒र्वाङ्य॒ज्ञस्सङ्क्रा॑म॒त्वित्याप्ती॑र्जुहोति ।
सु॒व॒र्गस्य॑ लो॒कस्याप्त्यै॑ ।
भू॒तम्भव्य॑म्भवि॒ष्यदिति॒ पर्या॑प्तीर्जुहोति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ पर्या॑प्त्यै ।
आ मे॑ गृ॒हा भ॑व॒न्त्वित्या॒भूर्जु॑होति ।
सु॒व॒र्गस्य॑ लो॒कस्याभू॑त्यै ।
अ॒ग्निना॒ तपोऽन्व॑भव॒दित्य॑नु॒भूर्जु॑होति ।
सु॒व॒र्गस्य॑ लो॒कस्यानु॑भूत्यै ।
विश्वास-प्रस्तुतिः
अ॒र्वाङ्य॒ज्ञस्सङ्क्रा॑म॒त्वित्याप्ती॑र्जुहोति सुव॒र्गस्य॑ लो॒कस्याप्त्यै॑ ।
भू॒तम्भव्य॑म्भवि॒ष्यदिति॒ पर्या॑प्तीर्जुहोति सुव॒र्गस्य॑ लो॒कस्य॒ पर्या॑प्त्यै ।
आ मे॑ गृ॒हा भ॑व॒न्त्वित्या॒भूर्जु॑होति सुव॒र्गस्य॑ लो॒कस्याभू॑त्यै ।
अ॒ग्निना॒ तपोऽन्व॑भव॒दित्य॑नु॒भूर्जु॑होति सुव॒र्गस्य॑ लो॒कस्यानु॑भूत्यै ।

9आप्तयः सर्वाप्तिसाधनत्वात् । पर्याप्तयः पर्याप्तविभूतिसाधनत्वात् । आभुवः ‘गृहादीनामाभिमुख्येन भवनहेतुत्वात् । अनुभुवः तपःप्रभृतीनामनुभवसाधनत्वात् ।
विश्वास-प्रस्तुतिः
स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहेति॒ सम॑स्तानि वैश्वदे॒वानि॑ जुहोति ।
सम॑स्तमे॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑क्रामति ॥65॥
मूलम्
स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहेति॒ सम॑स्तानि वैश्वदे॒वानि॑ जुहोति ।
सम॑स्तमे॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑क्रामति ॥65॥
भट्टभास्कर-टीका
वैश्वदेवानि प्रजापत्यादि- विश्वदेवाराधनत्वात् । समस्तग्रहणं दीक्षाहुत्यादिष्वंशेन विनियोगात् ॥
विश्वास-प्रस्तुतिः
“द॒द्भ्यस्स्वाहा॒ हनू॑भ्याँ॒ स्वाहे"त्य॑ङ्गहो॒माञ्जु॑होति ।
अङ्गे॑अङ्गे॒ वै पुरु॑षस्य पा॒प्मोप॑श्लिष्टः ।
अङ्गा॑दङ्गादे॒वैन॑म्पा॒प्मन॒स्तेन॑ मुञ्चति ।
मूलम्
“द॒द्भ्यस्स्वाहा॒ हनू॑भ्याँ॒ स्वाहे"त्य॑ङ्गहो॒माञ्जु॑होति ।
अङ्गे॑अङ्गे॒ वै पुरु॑षस्य पा॒प्मोप॑श्लिष्टः ।
अङ्गा॑दङ्गादे॒वैन॑म्पा॒प्मन॒स्तेन॑ मुञ्चति ।
भट्टभास्कर-टीका
10अग्नेअङ्गे सर्वस्मिन्नङ्गे । सर्वाङ्गहोमात् सर्वाङ्गप्रभवात् पापान्मुक्तो भवति यजमानः ॥
विश्वास-प्रस्तुतिः
“अ॒ञ्ज्ये॒ताय॒ स्वाहा॑ कृ॒ष्णाय॒ स्वाहा॑ श्वे॒ताय॒ स्वाहे"त्य॑श्वरू॒पाणि॑ जुहोति ।
रू॒पैरे॒वैनँ॒ सम॑र्धयति ।
“ओष॑धीभ्य॒स्स्वाहा॒ मूले॑भ्य॒स्स्वाहे"त्यो॑षधिहो॒माञ्जु॑होति ।
मूलम्
“अ॒ञ्ज्ये॒ताय॒ स्वाहा॑ कृ॒ष्णाय॒ स्वाहा॑ श्वे॒ताय॒ स्वाहे"त्य॑श्वरू॒पाणि॑ जुहोति ।
रू॒पैरे॒वैनँ॒ सम॑र्धयति ।
“ओष॑धीभ्य॒स्स्वाहा॒ मूले॑भ्य॒स्स्वाहे"त्यो॑षधिहो॒माञ्जु॑होति ।
भट्टभास्कर-टीका
11 ‘अञ्ज्येताय स्वाहा, कृष्णाय स्वाहा श्वेतायस्वाहा’ इत्यनुवाकद्वयस्य प्रतीकग्रहणगम् ।
विश्वास-प्रस्तुतिः
द्व॒य्यो वा ओष॑धयः ।
पुष्पे॑भ्यो॒ऽन्याᳶ फल॑ङ्गृ॒ह्णन्ति॑ ।
मूले॑भ्यो॒ऽन्याः ।
मूलम्
द्व॒य्यो वा ओष॑धयः ।
पुष्पे॑भ्यो॒ऽन्याᳶ फल॑ङ्गृ॒ह्णन्ति॑ ।
मूले॑भ्यो॒ऽन्याः ।
भट्टभास्कर-टीका
गृह्णन्तीति । ‘एकान्याभ्याम्’ इति निघाताभावः ।
विश्वास-प्रस्तुतिः
ता ए॒वोभयी॒रव॑रुन्धे ॥66॥
मूलम्
ता ए॒वोभयी॒रव॑रुन्धे ॥66॥
भट्टभास्कर-टीका
ता एवेति । द्विप्रकारौषध्युपादानात् ॥
मूलम्
वन॒स्पति॑भ्य॒स्स्वाहेति॑ वनस्पतिहो॒माञ्जु॑होति ।
आ॒र॒ण्यस्या॒न्नाद्य॒स्याव॑रुध्यै ।
विश्वास-प्रस्तुतिः
वन॒स्पति॑भ्य॒स्स्वाहेति॑ वनस्पतिहो॒माञ्जु॑होत्य् आर॒ण्यस्या॒न्नाद्य॒स्याव॑रुध्यै ।
मूलम्
वन॒स्पति॑भ्य॒स्स्वाहेति॑ वनस्पतिहो॒माञ्जु॑होत्य् आर॒ण्यस्या॒न्नाद्य॒स्याव॑रुध्यै ।
भट्टभास्कर-टीका
12आरण्यस्येति ॥ वनानां पतयो वनस्पतयः इति तेषामरण्यप्रभवत्वात् ॥
विश्वास-प्रस्तुतिः
मे॒षस्त्वा॑ पच॒तैर॑व॒त्वित्यपा॑व्यानि जुहोति ।
प्रा॒णा वै दे॒वा अपा॑व्याः ।
प्रा॒णाने॒वाव॑रुन्धे ।
मूलम्
मे॒षस्त्वा॑ पच॒तैर॑व॒त्वित्यपा॑व्यानि जुहोति ।
प्रा॒णा वै दे॒वा अपा॑व्याः ।
प्रा॒णाने॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
13अपाव्यानीति ॥ सर्वस्य पावनत्वात् । स्वयं केनचिदपाव्या मेषादयः तत्प्रतिपादकत्वात् मन्राणामपाव्यत्वात् तदवरोधः ॥
विश्वास-प्रस्तुतिः
कूप्या॑भ्य॒स्स्वाहा॒द्भ्यस्स्वाहेत्य॒पाँ होमा॑ञ्जुहोति ।
अ॒प्सु वा आपः॑ ।
अन्नव्ँ॒वा आपः॑ ।
अ॒द्भ्यो वा अन्न॑ञ्जायते ।
मूलम्
कूप्या॑भ्य॒स्स्वाहा॒द्भ्यस्स्वाहेत्य॒पाँ होमा॑ञ्जुहोति ।
अ॒प्सु वा आपः॑ ।
अन्नव्ँ॒वा आपः॑ ।
अ॒द्भ्यो वा अन्न॑ञ्जायते ।
मूलम्
यदे॒वाद्भ्योऽन्न॒ञ्जाय॑ते ।
तदव॑रुन्धे ॥67॥
विश्वास-प्रस्तुतिः
यदे॒वाद्भ्योऽन्न॒ञ्जाय॑ते॒ तदव॑रुन्धे ॥67॥
मूलम्
यदे॒वाद्भ्योऽन्न॒ञ्जाय॑ते॒ तदव॑रुन्धे ॥67॥
भट्टभास्कर-टीका
14कूप्याभ्यस्स्वाहा, अद्भ्यस्वाहेत्यपां होमान् जुहोतीत्यनुवाकद्वयो पादानम् । अपां होमेन अप्कारणकं सर्वमन्नमवरुन्धे । तत्राप्छब्देन अप्कारणकमन्नमुच्यते । व्यापकत्वाद्वा अन्नस्य । निमित्तात्सप्तमी । अन्ननिष्पत्त्यर्थं हि आपः कूप्यादीन् व्याप्य वर्तन्ते । तस्मात् स्वयमन्नमेवापः तत्कारणत्वात्, तदेवाह - अद्भ्यः खलु अन्नं जायते तस्मादद्भ्यो जायते यदन्नं तदवरुन्धे ॥
इति तैत्तिरीयब्राह्मणे तृतीये अष्टमे अश्वमेधे सप्तदशोऽनुबाकः ॥