१६

विश्वास-प्रस्तुतिः

“प्र॒जाप॑तिव्ँ॒वा ए॒ष ई॑प्स॒ती"त्या॑हुः ।
यो॑ऽश्वमे॒धेन॒ यज॑त॒ इति॑ ।

अथो॑ आहुः ।
सर्वा॑णि भू॒तानीति॑ ।

मूलम्

“प्र॒जाप॑तिव्ँ॒वा ए॒ष ई॑प्स॒ती"त्या॑हुः ।
यो॑ऽश्वमे॒धेन॒ यज॑त॒ इति॑ ।

अथो॑ आहुः ।
सर्वा॑णि भू॒तानीति॑ ।

भट्टभास्कर-टीका

1प्रजापतिं वा इत्यादि ॥ एषः प्रजापतिं ईप्सति प्रजापतिमहिमानं आप्तुमिच्छति योऽश्वमेधेन यजते । अपि च सर्वाण्यपि भूतानि आप्तुमिच्छति । तत्र संख्याविशेषहोमेन तत्तत्संख्येयविशेषपदार्थप्रभवाभिजयः यजमानस्य भवति । तत्प्रकारप्रदर्शनार्थं पुनरप्येकत्वादीनां स्तुतिः क्रियते । पूर्वत्र तु युग्मायुग्मसंख्यान्वयहोमेन द्यावापृथिव्योः प्रतिष्ठोक्ता । अत्र तु सर्वभूताभिजय इति ॥

विश्वास-प्रस्तुतिः

“एक॑स्मै॒ स्वाहे"त्या॑ह ।
प्र॒जाप॑ति॒र्वा एकः॑ ।
तमे॒वाप्नो॑ति ।

मूलम्

“एक॑स्मै॒ स्वाहे"त्या॑ह ।
प्र॒जाप॑ति॒र्वा एकः॑ ।
तमे॒वाप्नो॑ति ।

भट्टभास्कर-टीका

2प्रजापतिर्वा एक इति ॥ तद्व्यतिरिक्तस्य प्रपञ्चान्तर्गतस्याभावात् ।

विश्वास-प्रस्तुतिः

“एक॑स्मै॒ स्वाहा॒ द्वाभ्याँ॒ स्वाहे"त्य॑भिपू॒र्वमाहु॑तीर्जुहोति ।
अ॒भि॒पू॒र्वमे॒व सु॑व॒र्गल्ँ लो॒कमे॑ति ।

मूलम्

“एक॑स्मै॒ स्वाहा॒ द्वाभ्याँ॒ स्वाहे"त्य॑भिपू॒र्वमाहु॑तीर्जुहोति ।
अ॒भि॒पू॒र्वमे॒व सु॑व॒र्गल्ँ लो॒कमे॑ति ।

भट्टभास्कर-टीका

अभिपूर्वमिति । एकत्वादिक्रमेण संख्याहोमात् ततत्संख्येयानि वस्तूनि एकादिक्रमेणाभिजित्य सुखैकभूमिं लोकं परं प्राप्तव्यं गच्छति यत्र न संख्यावच्छेदः । प्रजापतिव्यतिरिक्तैकत्वावच्छिन्नभावार्थं पुनरेकस्मा इत्युपात्तम् ॥

विश्वास-प्रस्तुतिः

ए॒को॒त्त॒रञ्जु॑होति ॥59॥
ए॒क॒वदे॒व सु॑व॒र्गल्ँ लो॒कमे॑ति ।

मूलम्

ए॒को॒त्त॒रञ्जु॑होति ॥59॥
ए॒क॒वदे॒व सु॑व॒र्गल्ँ लो॒कमे॑ति ।

भट्टभास्कर-टीका

3एकोत्तरमिति ॥ एकैकोत्तरमेकादिसंख्यां जुहोति तत्सामर्थ्यात् एकवदेव एकेनैव यत्नेन सर्वमभिजित्य स्वर्गं गच्छति । एकं वस्तु जेतुं यावान्यत्नस्तावानेव स्वर्गजयेऽपीति यावत् । उपलक्षणत्वात् द्व्युत्तरादयोऽपि गृह्यन्ते ।

विश्वास-प्रस्तुतिः

सन्त॑तञ्जुहोति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै ।

“श॒ताय॒ स्वाहे"त्या॑ह ।
श॒तायु॒र्वै पुरु॑षश्श॒तवी॑र्यः ।
आयु॑रे॒व वी॒र्य॑मव॑रुन्धे ।

“स॒हस्रा॑य॒ स्वाहे"त्या॑ह ।
आयु॒र्वै स॒हस्र॑म् ।
आयु॑रे॒वाव॑रुन्धे ।

“अ॒युता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा॑ प्र॒युता॑य॒ स्वाहे"त्या॑ह ॥60॥

मूलम्

सन्त॑तञ्जुहोति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै ।

“श॒ताय॒ स्वाहे"त्या॑ह ।
श॒तायु॒र्वै पुरु॑षश्श॒तवी॑र्यः ।
आयु॑रे॒व वी॒र्य॑मव॑रुन्धे ।

“स॒हस्रा॑य॒ स्वाहे"त्या॑ह ।
आयु॒र्वै स॒हस्र॑म् ।
आयु॑रे॒वाव॑रुन्धे ।

“अ॒युता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा॑ प्र॒युता॑य॒ स्वाहे"त्या॑ह ॥60॥

भट्टभास्कर-टीका

सन्ततमिति । संख्यान्तरेणाविच्छेदात् अविच्छेदेन स्वर्गं गच्छति । द्व्युत्तरादिष्वपि विजातीयव्यवच्छेदाभावेन सन्ततत्वं वेदितव्यम् । शतसहस्रयोरायुष्ट्वेन प्राधान्यात् पृथगुपादानम् ।

विश्वास-प्रस्तुतिः

त्रय॑ इ॒मे लो॒काः ।
इ॒माने॒व लो॒कानव॑रुन्धे ।

“अर्बु॑दाय॒ स्वाहे"त्या॑ह ।
वाग्वा अर्बु॑दम् ।
वाच॑मे॒वाव॑रुन्धे ।

“न्य॑र्बुदाय॒ स्वाहे"त्या॑ह ।
यो वै वा॒चो भू॒मा ।
तन्न्य॑र्बुदम् ।
वा॒च ए॒व भू॒मान॒मव॑रुन्धे ।

मूलम्

त्रय॑ इ॒मे लो॒काः ।
इ॒माने॒व लो॒कानव॑रुन्धे ।

“अर्बु॑दाय॒ स्वाहे"त्या॑ह ।
वाग्वा अर्बु॑दम् ।
वाच॑मे॒वाव॑रुन्धे ।

“न्य॑र्बुदाय॒ स्वाहे"त्या॑ह ।
यो वै वा॒चो भू॒मा ।
तन्न्य॑र्बुदम् ।
वा॒च ए॒व भू॒मान॒मव॑रुन्धे ।

भट्टभास्कर-टीका

त्रय इति । अयुतादिसंख्यासंबन्धः पृथिव्यादीनां तावत्कालावस्थानादिना द्रष्टव्यः । सर्वाश्चैताः शतादयः परार्धपर्यन्ताः सख्या दशोत्तराः । अत्र संख्यासंख्येययोरभेदेन निर्देशः ।

विश्वास-प्रस्तुतिः

“स॒मु॒द्राय॒ स्वाहे"त्या॑ह ॥61॥
स॒मु॒द्रमे॒वाप्नो॑ति ।

“मध्या॑य॒ स्वाहे"त्या॑ह ।
मध्य॑मे॒वाप्नो॑ति ।

“अन्ता॑य॒ स्वाहे"त्या॑ह ।
अन्त॑मे॒वाप्नो॑ति ।

“प॒रा॒र्धाय॒ स्वाहे"त्या॑ह ।
प॒रा॒र्धमे॒वाप्नो॑ति ।

मूलम्

“स॒मु॒द्राय॒ स्वाहे"त्या॑ह ॥61॥
स॒मु॒द्रमे॒वाप्नो॑ति ।

“मध्या॑य॒ स्वाहे"त्या॑ह ।
मध्य॑मे॒वाप्नो॑ति ।

“अन्ता॑य॒ स्वाहे"त्या॑ह ।
अन्त॑मे॒वाप्नो॑ति ।

“प॒रा॒र्धाय॒ स्वाहे"त्या॑ह ।
प॒रा॒र्धमे॒वाप्नो॑ति ।

भट्टभास्कर-टीका

समुद्रमेवेति । समुद्रादिसंख्यासंख्येमान् भावान्विजित्य प्रजापतिमेव प्राप्नोति ।

विश्वास-प्रस्तुतिः

“उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहे"त्या॑ह ।
रात्रि॒र्वा उ॒षाः ।
अह॒र्व्यु॑ष्टिः ।
अ॒हो॒रा॒त्रे ए॒वाव॑रुन्धे ।

मूलम्

“उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहे"त्या॑ह ।
रात्रि॒र्वा उ॒षाः ।
अह॒र्व्यु॑ष्टिः ।
अ॒हो॒रा॒त्रे ए॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

अहोरात्रे इति । अहश्च रात्रिश्च विधेयीकरोति ।

विश्वास-प्रस्तुतिः

अथो॑ अहोरा॒त्रयो॑रे॒व प्रति॑तिष्ठति ।

मूलम्

अथो॑ अहोरा॒त्रयो॑रे॒व प्रति॑तिष्ठति ।

भट्टभास्कर-टीका

अपि च तयोः प्रतिष्ठितश्च भवति । अत्राहुः - शरीरावच्छिन्नस्य पुरुषस्यायुश्शतम् ।
आयुषः अन्नस्य आयुस्सहस्रम् ।
पृथिव्या आयुरयुतम् । अन्तरिक्षस्यायुर्नियुतम् ।
दिव आयुः प्रयुतम् । वाच आयुरर्बुदम् ।
वाचो महिमा मनः तस्यायुर्न्यर्बुदम् ।
प्राणस्य आयु. समुद्रः ।
अहङ्कारस्मायुः मध्यः ।
चित्तस्यायुरन्तः । प्राजापत्यस्याहोरात्रस्य अर्धं यत् तस्यायुः परार्धम् । तदवयवानां उषःप्रभृतीन्यायूंषि ।
रात्र्युपक्रमत्वात् रात्रिः उषा ।
अहः रात्रेः मुखं यत्र सा व्युष्टिः ।
अह्नः प्रत्यासत्तिर्यत्र स उदेष्यन् । अह्न आरम्भ उद्यन् । अहोरात्रस्यावसानं अहोरात्रस्यार्धम् । आरब्धभूयिष्ठो दिवस उदितः । मध्यममहस्स्वर्गः । अहोरात्रचतुर्भागत्रयमहोरात्रो लोकः, यत्र विश्वं लोक्यते । एवमेताननुवाकान् पुनःपुनरभ्यस्य रात्रिशेषं जुहोति ।

विश्वास-प्रस्तुतिः

ता यदु॒भयी॒र्दिवा॑ वा॒ नक्तव्ँ॑वा जुहु॒यात् ।
अ॒हो॒रा॒त्रे मो॑हयेत् ।
उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते स्वाहो॑द्य॒ते स्वाहेत्यनु॑दिते जुहोति ।

मूलम्

ता यदु॒भयी॒र्दिवा॑ वा॒ नक्तव्ँ॑वा जुहु॒यात् ।
अ॒हो॒रा॒त्रे मो॑हयेत् ।
उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते स्वाहो॑द्य॒ते स्वाहेत्यनु॑दिते जुहोति ।

भट्टभास्कर-टीका

उभयीः प्राजापत्यस्याह्नो रात्रेश्च संबन्धिनीः सप्ताप्याहुतीः दिवैव नक्तमेव वा यदि जुहुयात् अहोरात्रे मोहयेत् विभागेन न व्यवस्थापयेत् संकीर्णे कुर्यात् । तस्मात्प्राजापत्यरात्रिसंबन्धिनीरनुदिते सूर्ये जुहोति । उदितायेत्यादिका अह्नस्संबन्धिनीः उदिते जुहोति ।

विश्वास-प्रस्तुतिः

“उदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहे"त्युदि॑ते जुहोति ।
अ॒हो॒रा॒त्रयो॒रव्य॑तिमोहाय ॥62॥

मूलम्

“उदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहे"त्युदि॑ते जुहोति ।
अ॒हो॒रा॒त्रयो॒रव्य॑तिमोहाय ॥62॥

भट्टभास्कर-टीका

अहोरात्रयोरव्थतिमोहाय तद्भवति ॥

इति तैत्तिरीये ब्राह्मणे तृतीयेऽष्टके अष्टमप्रपाठके षोडशोऽनुवाकः ॥