१५

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिरश्वमे॒धम॑सृजत ।
तँ सृ॒ष्टँ रक्षाँ॑स्यजिघाँसन् ।
स ए॒तान्प्र॒जाप॑तिर्न॒क्तँहो॒मान॑पश्यत् ।
तान॑जुहोत् ।
तैर्वै स य॒ज्ञाद्रक्षाँ॒स्यपा॑हन् ।

मूलम्

प्र॒जाप॑तिरश्वमे॒धम॑सृजत ।
तँ सृ॒ष्टँ रक्षाँ॑स्यजिघाँसन् ।
स ए॒तान्प्र॒जाप॑तिर्न॒क्तँहो॒मान॑पश्यत् ।
तान॑जुहोत् ।
तैर्वै स य॒ज्ञाद्रक्षाँ॒स्यपा॑हन् ।

मूलम्

यन्न॑क्तँहो॒माञ्जु॒होति॑ ।
य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षाँ॒स्यप॑ हन्ति ।

विश्वास-प्रस्तुतिः

यन्न॑क्तँहो॒माञ्जु॒होति॑ य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षाँ॒स्यप॑ हन्ति ।

मूलम्

यन्न॑क्तँहो॒माञ्जु॒होति॑ य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षाँ॒स्यप॑ हन्ति ।

भट्टभास्कर-टीका

1प्रजापतिरश्वमेधमित्यादि ॥ गतम् ।

विश्वास-प्रस्तुतिः

आज्ये॑न जुहोति ।
वज्रो॒ वा आज्य॑म् ।
वज्रे॑णै॒व य॒ज्ञाद्रक्षाँ॒स्यप॑हन्ति ॥56॥

मूलम्

आज्ये॑न जुहोति ।
वज्रो॒ वा आज्य॑म् ।
वज्रे॑णै॒व य॒ज्ञाद्रक्षाँ॒स्यप॑हन्ति ॥56॥

भट्टभास्कर-टीका

वज्रो वा इति । अनिष्टनिवारणसाधनत्वसाम्यात् ।

विश्वास-प्रस्तुतिः

आज्य॑स्य प्रति॒पद॑ङ्करोति ।

मूलम्

आज्य॑स्य प्रति॒पद॑ङ्करोति ।

भट्टभास्कर-टीका

प्रतिपदं उपक्रमं आज्यस्य करोति जुहोति प्रथमं आज्यस्य करोति । प्रथममनुवाकमित्येके । प्रत्यनुवाकं प्रथमाहुतिमित्यन्ये ।

विश्वास-प्रस्तुतिः

प्रा॒णो वा आज्य॑म् ।
मु॒ख॒त ए॒वास्य॑ प्रा॒णन्द॑धाति ।

मूलम्

प्रा॒णो वा आज्य॑म् ।
मु॒ख॒त ए॒वास्य॑ प्रा॒णन्द॑धाति ।

भट्टभास्कर-टीका

प्राणो वा इति । तत्स्थितिहेतुत्वात् ।

विश्वास-प्रस्तुतिः

अ॒न्न॒हो॒माञ्जु॑होति ।
शरी॑रवदे॒वाव॑रुन्धे ।

मूलम्

अ॒न्न॒हो॒माञ्जु॑होति ।
शरी॑रवदे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

शरीरवदिति । अन्नपरिणामत्वात् शरीरस्य, शरीरवत् सर्वं वस्तु गवादिकं लभते ।

विश्वास-प्रस्तुतिः

व्य॒त्यास॑ञ्जुहोति ।
उ॒भय॒स्याव॑रुध्यै ।

नक्त॑ञ्जुहोति ।
रक्ष॑सा॒मप॑हत्यै ।

मूलम्

व्य॒त्यास॑ञ्जुहोति ।
उ॒भय॒स्याव॑रुध्यै ।

नक्त॑ञ्जुहोति ।
रक्ष॑सा॒मप॑हत्यै ।

भट्टभास्कर-टीका

व्यत्यासमिति । व्यत्यस्य व्यत्यस्य आज्यं अन्नं आज्यं अन्नमिति । अयुजोऽनुवाकान् प्रथमादिनवमान्तान् आज्येन । युजस्तु द्वितीयादिदशमान्तानन्नेन ।

विश्वास-प्रस्तुतिः

आज्ये॑नान्त॒तो जु॑होति ॥57॥
प्रा॒णो वा आज्य॑म् ।

मूलम्

आज्ये॑नान्त॒तो जु॑होति ॥57॥
प्रा॒णो वा आज्य॑म् ।

भट्टभास्कर-टीका

अन्तत इति । अन्त्यानुवाकमित्येके । सर्वस्मा इत्येतत् प्रत्यनुवाकमित्यन्ये । ‘उषसे स्वाहा व्युष्ट्यै स्वाहा’ इत्यतः प्रागित्यपरे ।

विश्वास-प्रस्तुतिः

उ॒भ॒यत॑ ए॒वास्य॑ प्रा॒णन्द॑धाति ।
पु॒रस्ता॑च्चो॒परि॑ष्टाच्च ।
“एक॑स्मै॒ स्वाहे"त्या॑ह ।

मूलम्

उ॒भ॒यत॑ ए॒वास्य॑ प्रा॒णन्द॑धाति ।
पु॒रस्ता॑च्चो॒परि॑ष्टाच्च ।
“एक॑स्मै॒ स्वाहे"त्या॑ह ।

भट्टभास्कर-टीका

उभयत इति । आदावन्ते च आज्यस्य होमात् ।

विश्वास-प्रस्तुतिः

अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ।
“द्वाभ्याँ॒ स्वाहे"त्या॑ह ।
अ॒मुष्मि॑न्ने॒व लो॒के प्रति॑तिष्ठति ।

मूलम्

अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ।
“द्वाभ्याँ॒ स्वाहे"त्या॑ह ।
अ॒मुष्मि॑न्ने॒व लो॒के प्रति॑तिष्ठति ।

भट्टभास्कर-टीका

अस्मिन् इति । प्राथम्यात् प्रथमेनायुग्महोमेन मनुष्यलोके प्रतितिष्ठति । द्वितीयत्वात् द्वितीयेन युग्महोमेन अमुष्मिन् स्वर्गादिलोके प्रतितिष्ठति । उपलक्षणे चैते युग्मायुग्मसंख्यानाम् ।

विश्वास-प्रस्तुतिः

“द्वाभ्याँ॒ स्वाहे"त्या॑ह ।
अ॒मुष्मि॑न्ने॒व लो॒के प्रति॑तिष्ठति ।
अ॒स्मिँश्चा॒मुष्मिँ॑श्च ।

मूलम्

“द्वाभ्याँ॒ स्वाहे"त्या॑ह ।
अ॒मुष्मि॑न्ने॒व लो॒के प्रति॑तिष्ठति ।
अ॒स्मिँश्चा॒मुष्मिँ॑श्च ।

भट्टभास्कर-टीका

किमन्यतरलोकप्रतिष्ठैव? नेत्याह - उभयोरेवेति । उभयसंख्याहोमेन उभयलोकप्रीतष्ठेति भावः ॥

विश्वास-प्रस्तुतिः

“श॒ताय॒ स्वाहे"त्या॑ह ।
श॒तायु॒र्वै पुरु॑षश्श॒तवी॑र्यः ।
आयु॑रे॒व वी॒र्य॑मव॑रुन्धे ।

“स॒हस्रा॑य॒ स्वाहे"त्या॑ह ।
आयु॒र्वै स॒हस्र॑म् ।
आयु॑रे॒वाव॑रुन्धे ।

मूलम्

“श॒ताय॒ स्वाहे"त्या॑ह ।
श॒तायु॒र्वै पुरु॑षश्श॒तवी॑र्यः ।
आयु॑रे॒व वी॒र्य॑मव॑रुन्धे ।

“स॒हस्रा॑य॒ स्वाहे"त्या॑ह ।
आयु॒र्वै स॒हस्र॑म् ।
आयु॑रे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

2शतायुर्वा इति ॥ प्रत्यनुवाकं शतसंख्यान्वयात् शतसंख्ययोः पुरुषायुर्वीर्ययोर्लाभः ।

विश्वास-प्रस्तुतिः
मूलम्
भट्टभास्कर-टीका

आयुर्वा इति । एवं एकस्मा इत्यारभ्य नवभिरनुवाकैः सहस्रान्ताः संख्याः हुताः । बहुप्रकारत्वात् सहस्रमित्यायुरुच्यते । सर्वं अभिमतं आयुर्लभते सहस्रावधिकमिति यावत् ।

विश्वास-प्रस्तुतिः

“सर्व॑स्मै॒ स्वाहे"त्या॑ह ।
अप॑रिमितमे॒वाव॑रुन्धे ॥58॥

मूलम्

“सर्व॑स्मै॒ स्वाहे"त्या॑ह ।
अप॑रिमितमे॒वाव॑रुन्धे ॥58॥

भट्टभास्कर-टीका

अपरिमितमिति । इदं अस्यायुरिति यन्नियतं ततोऽप्यधिकं लभते ॥

इति तैत्तिरीयब्राह्मणे तृतीये अष्टके अष्टमे प्रपाठके अश्वमेधे प्रथमे पञ्चदशोऽनुवाकः ॥