विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत् ।
स आ॒त्मन्न॑श्वमे॒धम॑धत्त ।
मूलम्
प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत् ।
स आ॒त्मन्न॑श्वमे॒धम॑धत्त ।
भट्टभास्कर-टीका
1प्रजापपतिर्देवेभ्य इत्यादि ॥
पत्नी संयाजनान्तेऽहन्यग्निष्टोमे तु संस्थिते ।
प्रजापतिसमे गीतवीणागणकिभिर्नृपे ॥
अस्तंगते सहस्रांशौ वारुण्या त्वर्थनिर्मिताः ।
षट्त्रिंशतमथासन्दीस्तावन्तोऽध्वर्यवो वृताः ॥
अप्राकृताः स्रुवैर्दीर्घदण्डैः खदिरसम्भवैः ।
सर्वां तां रात्रिमन्नानि दशाज्यादीनि जुह्वति ॥
इदमिदानीं विदधाति । अश्वमेधव्यतिरिक्तान् यज्ञान् व्यादिश्य पृथक्पृथक् विभज्य अश्वमेधं आत्मन्येव स्थापितवान् ।
मूलम्
तन्दे॒वा अ॑ब्रुवन् ।
ए॒ष वाव य॒ज्ञः ।
यद॑श्वमे॒धः ।
अप्ये॒व नोत्रा॒स्त्विति॑ ।
विश्वास-प्रस्तुतिः
तन्दे॒वा अ॑ब्रुवन्न् - " ए॒ष वाव य॒ज्ञो यद॑श्वमे॒धः ।
अप्ये॒व नोत्रा॒स्त्वि"ति॑ ।
मूलम्
तन्दे॒वा अ॑ब्रुवन्न् - " ए॒ष वाव य॒ज्ञो यद॑श्वमे॒धः ।
अप्ये॒व नोत्रा॒स्त्वि"ति॑ ।
भट्टभास्कर-टीका
अथ तं देवा अब्रुवन् एषः अश्वमेधः एव यज्ञः अन्ये यज्ञाभासाः। तस्मात् अस्मिन् यज्ञे अस्माकं यत्किंचिदप्यस्त्वेव अल्पमस्त्विति यावत् । अस्माकमप्यस्त्विति वा तेभ्यः एतान् अन्नहोमान् वक्ष्यमाणान् ‘एकस्मै स्वाहा’ इत्यादीन् प्रादात् ।
विश्वास-प्रस्तुतिः
तेभ्य॑ ए॒तान॑न्नहो॒मान्प्राय॑च्छत् ।
तान॑जुहोत् ।
तैर्वै स दे॒वान॑प्रीणात् ।
मूलम्
तेभ्य॑ ए॒तान॑न्नहो॒मान्प्राय॑च्छत् ।
तान॑जुहोत् ।
तैर्वै स दे॒वान॑प्रीणात् ।
भट्टभास्कर-टीका
तेभ्यश्च तानजुहोत् तैश्च तानप्रीणयत् ।
मूलम्
यद॑न्नहो॒माञ्जु॒होति॑ ॥50॥
दे॒वाने॒व तैर्यज॑मानᳶ प्रीणाति ।
विश्वास-प्रस्तुतिः
यद॑न्नहो॒माञ्जु॒होति॑ दे॒वाने॒व तैर्यज॑मानᳶ प्रीणाति ।
मूलम्
यद॑न्नहो॒माञ्जु॒होति॑ दे॒वाने॒व तैर्यज॑मानᳶ प्रीणाति ।
भट्टभास्कर-टीका
यदित्यादि । गतम् ।
अवनीयानि होतव्यानि अन्नहोमाः ॥
मूलम्
आज्ये॑न जुहोति ।
अ॒ग्नेर्वा ए॒तद्रू॒पम् ।
यदाज्य॑म् ।
यदाज्ये॑न जु॒होति॑ ।
अ॒ग्निमे॒व तत्प्री॑णाति ।
विश्वास-प्रस्तुतिः
आज्ये॑न जुहोति ।
अ॒ग्नेर्वा ए॒तद्रू॒पम् यदाज्य॑म् ।
यदाज्ये॑न जु॒होत्य् अ॒ग्निमे॒व तत्प्री॑णाति ।
मूलम्
आज्ये॑न जुहोति ।
अ॒ग्नेर्वा ए॒तद्रू॒पम् यदाज्य॑म् ।
यदाज्ये॑न जु॒होत्य् अ॒ग्निमे॒व तत्प्री॑णाति ।
भट्टभास्कर-टीका
2रूपवत्प्रियतमत्वात् आज्यमग्निरूपम् । एवं सर्वत्र ।
मूलम्
मधु॑ना जुहोति ।
म॒ह॒त्यै वा ए॒तद्दे॒वता॑यै रू॒पम् ।
यन्मधु॑ ।
यन्मधु॑ना जु॒होति॑ ॥51॥
म॒ह॒तीमे॒व तद्दे॒वता॑म्प्रीणाति ।
विश्वास-प्रस्तुतिः
मधु॑ना जुहोति ।
म॒ह॒त्यै वा ए॒तद्दे॒वता॑यै रू॒पम् यन्मधु॑ ।
यन्मधु॑ना जु॒होति॑ मह॒तीमे॒व तद्दे॒वता॑म्प्रीणाति ।
मूलम्
मधु॑ना जुहोति ।
म॒ह॒त्यै वा ए॒तद्दे॒वता॑यै रू॒पम् यन्मधु॑ ।
यन्मधु॑ना जु॒होति॑ मह॒तीमे॒व तद्दे॒वता॑म्प्रीणाति ।
भट्टभास्कर-टीका
महती देवता महादेवः विश्वाधिक्यं महत्त्वम् ।
मूलम्
त॒ण्डु॒लैर्जु॑होति ।
वसू॑नाव्ँ॒वा ए॒तद्रू॒पम् ।
यत्त॑ण्डु॒लाः ।
यत्त॑ण्डु॒लैर्जु॒होति॑ ।
वसू॑ने॒व तत्प्री॑णाति ।
विश्वास-प्रस्तुतिः
त॒ण्डु॒लैर्जु॑होति ।
वसू॑नाव्ँ॒वा ए॒तद्रू॒पम् यत्त॑ण्डु॒लाः ।
यत्त॑ण्डु॒लैर्जु॒होति॒ वसू॑ने॒व तत्प्री॑णाति ।
मूलम्
त॒ण्डु॒लैर्जु॑होति ।
वसू॑नाव्ँ॒वा ए॒तद्रू॒पम् यत्त॑ण्डु॒लाः ।
यत्त॑ण्डु॒लैर्जु॒होति॒ वसू॑ने॒व तत्प्री॑णाति ।
भट्टभास्कर-टीका
तण्डुलाः व्रीहितण्डुलाः ।
मूलम्
पृथु॑कैर्जुहोति ।
रु॒द्राणाव्ँ॒वा ए॒तद्रू॒पम् ।
यत्पृथु॑काः ।
यत्पृथु॑कैर्जु॒होति॑ ॥52॥
रु॒द्राने॒व तत्प्री॑णाति ।
विश्वास-प्रस्तुतिः
पृथु॑कैर्जुहोति ।
रु॒द्राणाव्ँ॒वा ए॒तद्रू॒पम् यत्पृथु॑काः ।
यत्पृथु॑कैर्जु॒होति॑ रु॒द्राने॒व तत्प्री॑णाति ।
मूलम्
पृथु॑कैर्जुहोति ।
रु॒द्राणाव्ँ॒वा ए॒तद्रू॒पम् यत्पृथु॑काः ।
यत्पृथु॑कैर्जु॒होति॑ रु॒द्राने॒व तत्प्री॑णाति ।
भट्टभास्कर-टीका
पृथुकाः चिपिटकाः ।
मूलम्
ला॒जैर्जु॑होति ।
आ॒दि॒त्यानाव्ँ॒वा ए॒तद्रू॒पम् ।
यल्ला॒जाः ।
यल्ला॒जैर्जु॒होति॑ ।
आ॒दि॒त्याने॒व तत्प्री॑णाति ।
विश्वास-प्रस्तुतिः
ला॒जैर्जु॑होति ।
आ॒दि॒त्यानाव्ँ॒वा ए॒तद्रू॒पम् यल्ला॒जाः ।
यल्ला॒जैर्जु॒होत्य् आदि॒त्याने॒व तत्प्री॑णाति ।
मूलम्
ला॒जैर्जु॑होति ।
आ॒दि॒त्यानाव्ँ॒वा ए॒तद्रू॒पम् यल्ला॒जाः ।
यल्ला॒जैर्जु॒होत्य् आदि॒त्याने॒व तत्प्री॑णाति ।
भट्टभास्कर-टीका
लाजाः व्रीहिभवाः तण्डुलपरिणामाः ।
मूलम्
क॒रम्बै॑र्जुहोति ।
विश्वे॑षाव्ँ॒वा ए॒तद्दे॒वानाँ॑ रू॒पम् ।
यत्क॒रम्बाः॑ ।
यत्क॒रम्बै॑र्जु॒होति॑ ॥ 53॥
विश्वा॑ने॒व तद्दे॒वान्प्री॑णाति ।
विश्वास-प्रस्तुतिः
क॒रम्बै॑र्जुहोति ।
विश्वे॑षाव्ँ॒वा ए॒तद्दे॒वानाँ॑ रू॒पम् यत्क॒रम्बाः॑ ।
यत्क॒रम्बै॑र्जु॒होति॒ विश्वा॑ने॒व तद्दे॒वान्प्री॑णाति ।
मूलम्
क॒रम्बै॑र्जुहोति ।
विश्वे॑षाव्ँ॒वा ए॒तद्दे॒वानाँ॑ रू॒पम् यत्क॒रम्बाः॑ ।
यत्क॒रम्बै॑र्जु॒होति॒ विश्वा॑ने॒व तद्दे॒वान्प्री॑णाति ।
भट्टभास्कर-टीका
करम्बाः आज्यमिश्रितास्सक्तवः ।
मूलम्
धा॒नाभि॑र्जुहोति ।
नक्ष॑त्त्राणाव्ँ॒वा ए॒तद्रू॒पम् ।
यद्धा॒नाः ।
यद्धा॒नाभि॑र्जु॒होति॑ ।
नक्ष॑त्त्राण्ये॒व तत्प्री॑णाति ।
विश्वास-प्रस्तुतिः
धा॒नाभि॑र्जुहोति ।
नक्ष॑त्त्राणाव्ँ॒वा ए॒तद्रू॒पम् यद्धा॒नाः ।
यद्धा॒नाभि॑र्जु॒होति॒ नक्ष॑त्त्राण्ये॒व तत्प्री॑णाति ।
मूलम्
धा॒नाभि॑र्जुहोति ।
नक्ष॑त्त्राणाव्ँ॒वा ए॒तद्रू॒पम् यद्धा॒नाः ।
यद्धा॒नाभि॑र्जु॒होति॒ नक्ष॑त्त्राण्ये॒व तत्प्री॑णाति ।
भट्टभास्कर-टीका
धानाः यवप्रभवाः तण्डुलपाकाः ।
मूलम्
सक्तु॑भिर्जुहोति ।
प्र॒जाप॑ते॒र्वा ए॒तद्रू॒पम् ।
यत्सक्त॑वः ।
यत्सक्तु॑भिर्जु॒होति॑ ॥54॥
प्र॒जा॑पतिमे॒व तत्प्री॑णाति ।
विश्वास-प्रस्तुतिः
सक्तु॑भिर्जुहोति ।
प्र॒जाप॑ते॒र्वा ए॒तद्रू॒पम् यत्सक्त॑वः ।
यत्सक्तु॑भिर्जु॒होति॑ प्र॒जा॑पतिमे॒व तत्प्री॑णाति ।
मूलम्
सक्तु॑भिर्जुहोति ।
प्र॒जाप॑ते॒र्वा ए॒तद्रू॒पम् यत्सक्त॑वः ।
यत्सक्तु॑भिर्जु॒होति॑ प्र॒जा॑पतिमे॒व तत्प्री॑णाति ।
भट्टभास्कर-टीका
सक्तवः लाजपेषाः ।
मूलम्
म॒सूस्यै॑र्जुहोति ।
सर्वा॑साव्ँ॒वा ए॒तद्दे॒वता॑नाँ रू॒पम् ।
यन्म॒सूस्या॑नि ।
यन्म॒सूस्यै॑र्जु॒होति॑ ।
सर्वा॑ ए॒व तद्दे॒वता॑ᳶ प्रीणाति ।
विश्वास-प्रस्तुतिः
म॒सूस्यै॑र्जुहोति ।
सर्वा॑साव्ँ॒वा ए॒तद्दे॒वता॑नाँ रू॒पम् यन्म॒सूस्या॑नि ।
यन्म॒सूस्यै॑र्जु॒होति॒ सर्वा॑ ए॒व तद्दे॒वता॑ᳶ प्रीणाति ।
मूलम्
म॒सूस्यै॑र्जुहोति ।
सर्वा॑साव्ँ॒वा ए॒तद्दे॒वता॑नाँ रू॒पम् यन्म॒सूस्या॑नि ।
यन्म॒सूस्यै॑र्जु॒होति॒ सर्वा॑ ए॒व तद्दे॒वता॑ᳶ प्रीणाति ।
भट्टभास्कर-टीका
मसूस्यानि मसूस्यतण्डुलाः ।
मूलम्
प्रि॒य॒ङ्गु॒त॒ण्डु॒लैर्जु॑होति ।
प्रि॒याङ्गा॑ ह॒ वै नामै॒ते ।
ए॒तैर्वै दे॒वा अश्व॒स्याङ्गा॑नि॒ सम॑दधुः ।
यत्प्रि॑यङ्गुतण्डु॒लैर्जु॒होति॑ ।
अश्व॑स्यै॒वाङ्गा॑नि॒ सन्द॑धाति ।
विश्वास-प्रस्तुतिः
यत्प्रि॑यङ्गुतण्डु॒लैर्जु॒होत्य् अश्व॑स्यै॒वाङ्गा॑नि॒ सन्द॑धाति ।
मूलम्
यत्प्रि॑यङ्गुतण्डु॒लैर्जु॒होत्य् अश्व॑स्यै॒वाङ्गा॑नि॒ सन्द॑धाति ।
विश्वास-प्रस्तुतिः
प्रियङ्गुतण्डुलाः कङ्गुकणिकाः ।
प्रियाङ्गा ह वा इति । प्रियाङ्गत्वात् प्रियङ्गुत्वं अश्वाङ्गसन्धानसाधनत्वात् । पृषोदरादिः ।
मूलम्
प्रियङ्गुतण्डुलाः कङ्गुकणिकाः ।
प्रियाङ्गा ह वा इति । प्रियाङ्गत्वात् प्रियङ्गुत्वं अश्वाङ्गसन्धानसाधनत्वात् । पृषोदरादिः ।
विश्वास-प्रस्तुतिः
दशान्ना॑नि जुहोति ।
दशा॑क्षरा वि॒राट् ।
वि॒राट्कृ॒त्स्नस्या॒न्नाद्य॒स्याव॑रुध्यै ॥55॥
मूलम्
दशान्ना॑नि जुहोति ।
दशा॑क्षरा वि॒राट् ।
वि॒राट्कृ॒त्स्नस्या॒न्नाद्य॒स्याव॑रुध्यै ॥55॥
भट्टभास्कर-टीका
सर्वाणि मिश्रीकृत्य जुहोति - दशेति ।
इति तृतीये अष्टमे चतुर्दशोऽनुवाकः ॥