१३

विश्वास-प्रस्तुतिः

“आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒"मित्या॑ह ।
ब्रा॒ह्म॒ण ए॒व ब्र॑ह्मवर्च॒सन्द॑धाति ।
तस्मा॑त्पु॒रा ब्रा॑ह्म॒णो ब्र॑ह्मवर्च॒स्य॑जायत ।

मूलम्

“आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒"मित्या॑ह ।
ब्रा॒ह्म॒ण ए॒व ब्र॑ह्मवर्च॒सन्द॑धाति ।
तस्मा॑त्पु॒रा ब्रा॑ह्म॒णो ब्र॑ह्मवर्च॒स्य॑जायत ।

भट्टभास्कर-टीका

1आब्रह्मन्निति जातमुख्यमुपतिष्ठते, तस्येदं ब्राह्मणम् । नाद्यैव ब्राह्मणो ब्रह्मवर्चसी, अपि तु पुराऽपीत्यर्थः । ब्राह्मणस्य ब्रह्मवर्चसित्वं अनादीति यावत् ॥

विश्वास-प्रस्तुतिः

“आऽस्मिन्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒थो जा॑यता॒"मित्या॑ह ।
रा॒ज॒न्य॑ ए॒व शौ॒र्यम्म॑हि॒मान॑न्दधाति ।
तस्मा॑त्पु॒रा रा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒थो॑ऽजायत ।

मूलम्

“आऽस्मिन्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒थो जा॑यता॒"मित्या॑ह ।
रा॒ज॒न्य॑ ए॒व शौ॒र्यम्म॑हि॒मान॑न्दधाति ।
तस्मा॑त्पु॒रा रा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒थो॑ऽजायत ।

भट्टभास्कर-टीका

2इषव्यः इषुषु साधुः । शूरः विक्रान्तः । महारथः रथचर्याकुशलः ॥

विश्वास-प्रस्तुतिः

“दोग्ध्री॑ धे॒नु"रित्या॑ह ।
धे॒न्वामे॒व पयो॑ दधाति ।
तस्मा॑त्पु॒रा दोग्ध्री॑ धे॒नुर॑जायत ।

मूलम्

“दोग्ध्री॑ धे॒नु"रित्या॑ह ।
धे॒न्वामे॒व पयो॑ दधाति ।
तस्मा॑त्पु॒रा दोग्ध्री॑ धे॒नुर॑जायत ।

भट्टभास्कर-टीका

3दोग्ध्री बहुक्षीरा । साधुकारिणि तृन् ।

मन्त

“वोढा॑ऽन॒ड्वानि"त्या॑ह ॥47॥
अ॒न॒डुह्ये॒व वी॒र्य॑न्दधाति ।
तस्मा॑त्पु॒रा वोढा॑ऽन॒ड्वान॑जायत ।

भट्टभास्कर-टीका

वोढा साधुवाही ।

विश्वास-प्रस्तुतिः

“आ॒शुस्सप्ति॒"रित्या॑ह ।
अश्व॑ ए॒व ज॒वन्द॑धाति ।
तस्मा॑त्पु॒राऽऽशुरश्वो॑ऽजायत ।

मूलम्

“आ॒शुस्सप्ति॒"रित्या॑ह ।
अश्व॑ ए॒व ज॒वन्द॑धाति ।
तस्मा॑त्पु॒राऽऽशुरश्वो॑ऽजायत ।

भट्टभास्कर-टीका

आशुः वेगवान् ।

विश्वास-प्रस्तुतिः

“पुर॑न्धि॒र्योषे"त्या॑ह ।
यो॒षित्ये॒व रू॒पन्द॑धाति ।

मूलम्

“पुर॑न्धि॒र्योषे"त्या॑ह ।
यो॒षित्ये॒व रू॒पन्द॑धाति ।

भट्टभास्कर-टीका

रूपमिति । पुरं रमणीयं शरीरं धीयतेऽस्यामिति पुरंधिः । ‘कर्मण्यधिकरणे च’ इति क्तिन् ।

विश्वास-प्रस्तुतिः

तस्मा॒त्स्त्री यु॑व॒तिᳶ प्रि॒या भावु॑का ।

मूलम्

तस्मा॒त्स्त्री यु॑व॒तिᳶ प्रि॒या भावु॑का ।

भट्टभास्कर-टीका

तस्मात् युवतिः स्त्री रूपवत्त्वात् सर्वस्य प्रिया प्रीणयित्री भावुका भवनशीला ।

विश्वास-प्रस्तुतिः

“जि॒ष्णू र॑थे॒ष्ठा” इत्या॑ह ।
आ ह॒ वै तत्र॑ जि॒ष्णू र॑थे॒ष्ठा जा॑यते ॥48॥

मूलम्

“जि॒ष्णू र॑थे॒ष्ठा” इत्या॑ह ।
आ ह॒ वै तत्र॑ जि॒ष्णू र॑थे॒ष्ठा जा॑यते ॥48॥

भट्टभास्कर-टीका

जिष्णुः जयशीलः ।
रथेष्ठाः रथस्थाता । आजायते सर्वत्र जायते ।

विश्वास-प्रस्तुतिः

यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

मूलम्

यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

भट्टभास्कर-टीका

यत्र एतेन अश्वमेधेन यजन्ते । ‘सुपि स्थः’ इति कः, ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक् ॥

विश्वास-प्रस्तुतिः

“स॒भेयो॒ युवे"त्या॑ह ।
यो वै पू॑र्ववय॒सी ।
स स॒भेयो॒ युवा॑ ।
तस्मा॒द्युवा॒ पुमा॑न्प्रि॒यो भावु॑कः ।

मूलम्

“स॒भेयो॒ युवे"त्या॑ह ।
यो वै पू॑र्ववय॒सी ।
स स॒भेयो॒ युवा॑ ।
तस्मा॒द्युवा॒ पुमा॑न्प्रि॒यो भावु॑कः ।

भट्टभास्कर-टीका

4पूर्ववयसीति ॥ मिश्रयितृवाचित्वमप्यस्यास्तीति तं निराकरोति - पूर्वं प्रथमं वयः यस्यास्ति स पूर्ववयसी । स खलु सभेयः सभायां साधुः युवा, स्थविरं हि सभासु नाद्रियन्ते ।

पूर्वं वयः पूर्ववयसम् । ‘अनसन्तान्नपुंसकात्’ इत्यच् समासान्तः । ‘अत इनिठनौ’, ‘ढश्छन्दसि’ इति सभाशब्दात् ढः । तस्मात् युवा पुमान् सभेयत्वात् प्रियः भावुकः ।

विश्वास-प्रस्तुतिः

“आऽस्य यज॑मानस्य वी॒रो जा॑यता॒"मित्या॑ह ।
आ ह॒ वै तत्र॒ यज॑मानस्य वी॒रो जा॑यते ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

मूलम्

“आऽस्य यज॑मानस्य वी॒रो जा॑यता॒"मित्या॑ह ।
आ ह॒ वै तत्र॒ यज॑मानस्य वी॒रो जा॑यते ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

भट्टभास्कर-टीका

गतमन्यत् ॥

विश्वास-प्रस्तुतिः

“नि॒का॒मेनि॑कामे नᳶ प॒र्जन्यो॑ वर्ष॒त्वि"त्या॑ह ।
नि॒का॒मेनि॑कामे ह॒ वै तत्र॑ प॒र्जन्यो॑ वर्षति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

मूलम्

“नि॒का॒मेनि॑कामे नᳶ प॒र्जन्यो॑ वर्ष॒त्वि"त्या॑ह ।
नि॒का॒मेनि॑कामे ह॒ वै तत्र॑ प॒र्जन्यो॑ वर्षति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

भट्टभास्कर-टीका

5निकामः प्रार्थना । ‘अनुदात्तं च’ इति द्वितीयस्यानुदात्तत्वम्, ताथादिना पूर्वस्यान्तोदात्तत्वम् ।

विश्वास-प्रस्तुतिः

“फ॒लिन्यो॑ न॒ ओष॑धयᳶ पच्यन्ता॒"मित्या॑ह ।
फ॒लिन्यो॑ ह॒ वै तत्रौष॑धयᳶ पच्यन्ते ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

मूलम्

“फ॒लिन्यो॑ न॒ ओष॑धयᳶ पच्यन्ता॒"मित्या॑ह ।
फ॒लिन्यो॑ ह॒ वै तत्रौष॑धयᳶ पच्यन्ते ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

भट्टभास्कर-टीका

फलिन्यः प्रभूतफलाः पच्यन्ते । कर्मकर्तरि यक् ।

विश्वास-प्रस्तुतिः

“यो॒ग॒क्षे॒मो न॑ᳵ कल्पता॒"मित्या॑ह ।
कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगक्षे॒मः ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥49॥

मूलम्

“यो॒ग॒क्षे॒मो न॑ᳵ कल्पता॒"मित्या॑ह ।
कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगक्षे॒मः ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥49॥

भट्टभास्कर-टीका

योगसहितः क्षेमः योगक्षेमः, शाकपार्थिवादित्वात् उत्तरपदलोपी समासः । अलब्धस्य लाभो योगः, लब्धस्य परिपालनं क्षेमः ॥

इति तृतीये अष्टमे त्रयोदशोऽनुवाकः ॥