विश्वास-प्रस्तुतिः
सा॒वि॒त्रम॒ष्टाक॑पालम्प्रा॒तर्निर्व॑पति ।
मूलम्
सा॒वि॒त्रम॒ष्टाक॑पालम्प्रा॒तर्निर्व॑पति ।
भट्टभास्कर-टीका
1सावित्रमित्यादि ॥ यस्मिन् अहनि रत्निभ्योऽश्वपरिदानं तत उत्तरेद्युः तृतीयायां वा प्रातः सवित्रे अष्टाकपालं निर्वपति ।
विश्वास-प्रस्तुतिः
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रम्प्रा॑तस्सव॒नम् ।
प्रा॒त॒स्स॒व॒नादे॒वैन॑ङ्गायत्रि॒याश्छन्द॒सोऽधि॒ निर्मि॑मीते ।
मूलम्
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रम्प्रा॑तस्सव॒नम् ।
प्रा॒त॒स्स॒व॒नादे॒वैन॑ङ्गायत्रि॒याश्छन्द॒सोऽधि॒ निर्मि॑मीते ।
भट्टभास्कर-टीका
अष्टाक्षरेति । अष्टत्वान्वयेन प्रातस्सवनात् गायत्र्याः छन्दसः एनं अश्वमेधं अधिकगुणं निर्मिमीते उत्पादयति ।
विश्वास-प्रस्तुतिः
अथो॑ प्रातस्सव॒नमे॒व तेना॑प्नोति ।
गा॒य॒त्रीञ्छन्दः॑ ।
स॒वि॒त्रे प्र॑सवि॒त्र एका॑दशकपालम्म॒ध्यन्दि॑ने ।
एका॑दशाक्षरा त्रि॒ष्टुप् ।
त्रैष्टु॑भ॒म्माध्य॑न्दिनँ॒ सव॑नम् ।
माध्य॑न्दिनादे॒वैनँ॒ सव॑नात्त्रि॒ष्टुभ॒श्छन्द॒सोऽधि॒ निर्मि॑मीते ॥44॥

अपि च तेन अष्टाकपालेन प्रातस्सवनं गायत्रीं छन्दः आप्नोति ॥
विश्वास-प्रस्तुतिः
अथो॒ माध्य॑न्दिनमे॒व सव॑न॒न्तेना॑प्नोति ।
त्रि॒ष्टुभ॒ञ्छन्दः॑ ।
मूलम्
अथो॒ माध्य॑न्दिनमे॒व सव॑न॒न्तेना॑प्नोति ।
त्रि॒ष्टुभ॒ञ्छन्दः॑ ।
भट्टभास्कर-टीका
2अथ तस्मिन्नेवाह्नि मध्यंदिने सवित्रे प्रसवित्रे एकादशकपालं निर्वपेत् । गतमन्यत् ।
विश्वास-प्रस्तुतिः
स॒वि॒त्र आ॑सवि॒त्रे द्वाद॑शकपालमपरा॒ह्णे ।
द्वाद॑शाक्षरा॒ जग॑ती ।
जाग॑तन्तृतीयसव॒नम् ।
तृ॒ती॒य॒स॒व॒नादे॒वैन॒ञ्जग॑त्या॒श्छन्द॒सोऽधि॒ निर्मि॑मीते ।
मूलम्
स॒वि॒त्र आ॑सवि॒त्रे द्वाद॑शकपालमपरा॒ह्णे ।
द्वाद॑शाक्षरा॒ जग॑ती ।
जाग॑तन्तृतीयसव॒नम् ।
तृ॒ती॒य॒स॒व॒नादे॒वैन॒ञ्जग॑त्या॒श्छन्द॒सोऽधि॒ निर्मि॑मीते ।
भट्टभास्कर-टीका
अथ अपराह्णे सवित्र आसवित्रे द्वादशकपालं निर्वपेत् । गतमन्यत् । त्रिष्टुब्जगतीशब्दौ उत्सादी ॥
विश्वास-प्रस्तुतिः
अथो॑ तृतीयसव॒नमे॒व तेना॑प्नोति ।
जग॑ती॒ञ्छन्दः॑ ।
ई॒श्व॒रो वा अश्व॒ᳶ प्रमु॑क्त॒ᳶ परा॑म्परा॒वत॒ङ्गन्तोः॑ ।
“इ॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहे"ति॒ चत॑स्र॒ आहु॑तीर्जुहोति ॥45॥
चत॑स्रो॒ दिशः॑ ।

3ईश्वर इति ॥ सायमपि चतुर्षु पत्सु एता धृतीः जुहोति ।
विश्वास-प्रस्तुतिः
दि॒ग्भिरे॒वैन॒म्परि॑गृह्णाति ।
मूलम्
दि॒ग्भिरे॒वैन॒म्परि॑गृह्णाति ।
भट्टभास्कर-टीका
दिग्भिरिति । चतुष्ट्वान्वयात् चतसृभिः दिग्भिरेवायं परिगृहीतो भवति ॥
विश्वास-प्रस्तुतिः
आश्व॑त्थो व्र॒जो भ॑वति ।
मूलम्
आश्व॑त्थो व्र॒जो भ॑वति ।
भट्टभास्कर-टीका
4आश्वत्थ इति ॥ अश्वत्थनिर्मिता अश्वशाला अश्वत्थफलका स्मृता । ‘अनुदात्तादेश्च’ इत्यञ् ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर्दे॒वेभ्यो॒ निला॑यत ।
अश्वो॑ रू॒पङ्कृ॒त्वा ।
मूलम्
प्र॒जाप॑तिर्दे॒वेभ्यो॒ निला॑यत ।
अश्वो॑ रू॒पङ्कृ॒त्वा ।
भट्टभास्कर-टीका
प्रजापतिरित्यादि । निलायत निरगच्छत्, अश्वो भूत्वा रूपं च तदीयं कृत्वा । ‘उपसर्गस्यायतौ’ इति लत्वम् ।
विश्वास-प्रस्तुतिः
सो॑ऽश्व॒त्थे सव्ँ॑वत्स॒रम॑तिष्ठत् ।
तद॑श्व॒त्थस्या॑श्वत्थ॒त्वम् ।
मूलम्
सो॑ऽश्व॒त्थे सव्ँ॑वत्स॒रम॑तिष्ठत् ।
तद॑श्व॒त्थस्या॑श्वत्थ॒त्वम् ।
मूलम्
यदाश्व॑त्थो व्र॒जो भव॑ति ।
स्व ए॒वैनय्ँ॒योनौ॒ प्रति॑ष्ठापयति ॥46॥
विश्वास-प्रस्तुतिः
यदाश्व॑त्थो व्र॒जो भव॑ति॒ स्व ए॒वैनय्ँ॒योनौ॒ प्रति॑ष्ठापयति ॥46॥
मूलम्
यदाश्व॑त्थो व्र॒जो भव॑ति॒ स्व ए॒वैनय्ँ॒योनौ॒ प्रति॑ष्ठापयति ॥46॥
भट्टभास्कर-टीका
सोऽश्वत्थ इत्यादि । गतम् ॥
इति तृतीये अष्टमे अश्वमेधे द्वादशोऽनुवाकः ॥