११

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिरश्वमे॒धम॑सृजत ।
तँ सृ॒ष्टन्न किञ्च॒नोद॑यच्छत् ।
तव्ँ वै॑श्वदे॒वान्ये॒वोद॑यच्छन् ।

मूलम्

प्र॒जाप॑तिरश्वमे॒धम॑सृजत ।
तँ सृ॒ष्टन्न किञ्च॒नोद॑यच्छत् ।
तव्ँ वै॑श्वदे॒वान्ये॒वोद॑यच्छन् ।

भट्टभास्कर-टीका

1प्रजापतिरश्वमेधमित्वादि ॥ उद्यमनं सृष्टस्योद्घारणम् । वैश्वदेवान्येव तं सृष्टं अश्वमेधं उद्यन्तुं अशक्नुवन्, नान्यत्किंचन ।

मूलम्

यद्वै॑श्वदे॒वानि॑ जु॒होति॑ ।
य॒ज्ञस्योद्य॑त्यै ।

विश्वास-प्रस्तुतिः

यद्वै॑श्वदे॒वानि॑ जु॒होति॑ य॒ज्ञस्योद्य॑त्यै ।

स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहा॑ ।
स्वाहाऽधी॑त॒म्मन॑से॒ स्वाहा॑ ।
स्वाहा॒ मन॑ᳶ प्र॒जाप॑तये॒ स्वाहा॑ ।
काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहेति॑ प्राजाप॒त्ये मुख्ये॑ भवतः ।
प्र॒जाप॑तिमुखाभिरे॒वैन॑न्दे॒वता॑भि॒रुद्य॑च्छते ॥42॥
“अदि॑त्यै॒ स्वाहाऽदि॑त्यै म॒ह्यै॑ स्वाहाऽदि॑त्यै सुमृडी॒कायै॒ स्वाहे"त्या॑ह ।
इ॒यव्ँ वा अदि॑तिः ।

यदित्यादि गतम् । प्राजापत्ये प्रजापतिदेवत्ये द्वे त्रिके मुख्ये मुखभवे भवतः । तत्र मन्त्रेष्वाम्नाते अपि पठित्वैवं दर्शयति त्रिकाणि । तत्राधीतादिभिः षड्भिः पदैः अवस्थाभेदेन प्रजापतिरेवोच्यते । तेन प्रजापतिमुखाभिः प्रजापतिप्रभृतिभिः देवताभिः अश्वमेधं उद्यच्छते उद्भूतसामर्थ्यमारभते ॥

विश्वास-प्रस्तुतिः

अ॒स्या ए॒वैन॑म्प्रति॒ष्ठायोद्य॑च्छते ।
“सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै॑ स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहे"त्या॑ह ।

मूलम्

अ॒स्या ए॒वैन॑म्प्रति॒ष्ठायोद्य॑च्छते ।
“सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै॑ स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहे"त्या॑ह ।

भट्टभास्कर-टीका

2अस्या एवेति ॥ प्रतिष्ठाय प्रतिष्ठालाभेन अस्याः पृथिव्याः एनं अश्वमेधं उद्यच्छते ॥

विश्वास-प्रस्तुतिः

वाग्वै सर॑स्वती ।
वा॒चैवैन॒मुद्य॑च्छते ।
“पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहे"त्या॑ह ।

मूलम्

वाग्वै सर॑स्वती ।
वा॒चैवैन॒मुद्य॑च्छते ।
“पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहे"त्या॑ह ।

भट्टभास्कर-टीका

3वाग्वा इत्यादि ॥ गतम् ॥

विश्वास-प्रस्तुतिः

प॒शवो॒ वै पू॒षा ।
प॒शुभि॑रे॒वैन॒मुद्य॑च्छते ।
“त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहे"त्या॑ह ।
त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृत् ।
रू॒पमे॒व प॒शुषु॑ दधाति ।

4पशवो वै पूषेति ॥ तत्सिद्धिहेतुत्वात् ॥

विश्वास-प्रस्तुतिः

अथो॑ रू॒पैरे॒वैन॒मुद्य॑च्छते ।
“विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहे"त्या॑ह ।

मूलम्

अथो॑ रू॒पैरे॒वैन॒मुद्य॑च्छते ।
“विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहे"त्या॑ह ।

भट्टभास्कर-टीका

5रूपैरिति ॥ प्रशस्ता गुणा रूपाणि ॥

विश्वास-प्रस्तुतिः

य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञायै॒वैन॒मुद्य॑च्छते ।

मूलम्

य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञायै॒वैन॒मुद्य॑च्छते ।

भट्टभास्कर-टीका

6यज्ञो वा इति ॥ सर्वयज्ञाधारत्वात् ताच्छब्द्यम् । यज्ञाय सर्वयज्ञाधाराय यज्ञं इष्टं प्राप्तुं अश्वमेधं उद्यच्छते ॥

मूलम्

पू॒र्णा॒हु॒तिमु॑त्त॒माञ्जु॑होति ।
प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ॥43॥

विश्वास-प्रस्तुतिः

पू॒र्णा॒हु॒तिमु॑त्त॒माञ्जु॑होति॒ प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ॥43॥

मूलम्

पू॒र्णा॒हु॒तिमु॑त्त॒माञ्जु॑होति॒ प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ॥43॥

भट्टभास्कर-टीका

7पूर्णाहुतिः उत्तमा उद्यतस्य यज्ञस्य प्रत्युत्तब्ध्यै प्रत्युत्तम्भनाय भवति, सयत्वाय च भवति । षिञ् बन्धने । उत्तम्भनदण्डाग्रं सयः येन गृहीतमाधेयं न पतति ॥

इति तैत्तिरीये ब्राह्मणे तृतीयेऽष्टके अष्टमप्रपाठके एकादशोऽनुवाकः ॥