विश्वास-प्रस्तुतिः
प्र॒जाप॑तिरकामयताश्वमे॒धेन॑ यजे॒येति॑ ।
स तपो॑ऽतप्यत ।
मूलम्
प्र॒जाप॑तिरकामयताश्वमे॒धेन॑ यजे॒येति॑ ।
स तपो॑ऽतप्यत ।
भट्टभास्कर-टीका
1प्रजापतिरकामयतेत्यादि वैश्वदेवानां विधिं औद्ग्रहणैस्सह अनुवाकद्वयेन विधत्ते ॥ स तपोऽतप्यतेति । अयं क्रमः - वैशाख्यां पौर्णमास्यां विहारादि कृत्वा प्रातःकालीनसावित्राष्टाकपालानन्तरं रक्षकैस्सहाश्वं रमणाय विमुञ्चति । ततस्ते तमनुगच्छन्ति रक्षन्ति च ।
ततो यजमानस्तत्रैव प्राग्वंशे संवत्सरपर्यन्तं प्रत्यहं त्रिसन्ध्यमिष्टित्रयं कुर्वन् हविरुच्छिष्टाशनो नक्तंदिवं वीणागाथिनौ ब्राह्मणराजन्यौ दिवानक्तं च गापयन् अश्वागमनं प्रतीक्षन् संवत्सरमासीत । तथा च वक्ष्यति - ‘यत्संवत्सरमिष्टिभिर्यजते । अश्वमेव तदन्विच्छति । सावित्रियो भवन्ति’ इति ‘अहोरात्राभ्यामेवैनमन्विच्छति’ इत्युपसंहारः । अन्यत्रापि - ‘पशुं भूतं मेधायालभन्त । तमालभ्योपावसन् । प्रातर्यष्टास्मह इति । एकं वा एतद्देवानामहः । यत्संवत्सरः । तस्मादश्वः पुरस्तात्संवत्सर आलभ्यते’ इति । ततोऽश्वागमनानन्तरं दीक्षा । सा च सप्तदिवससाध्या प्रत्यहं दीक्षणीयेष्टद्या सह कार्या ‘यद्दीक्षणीयायाध्रौवमाज्यं ततो दीक्षाहुतीः स्रुवेण चतस्रो जुहोति’ इत्युक्तत्वात् । औद्ग्रहणानि - ‘प्रजापतिर्यज्ञमसृजत सोऽस्मात्सृष्टः पराङैत्स प्रयजुरव्लीनात्मसाम तमृगुदयच्छद्यदृगुदयच्छत्तदौद्ग्रहणस्यौद्ग्रणत्वम्’ इति । ‘आकूत्यै प्रयुजेऽग्नये स्वाहा’ इति स्रुवाहुतयश्चतस्र एवात्र गृह्यन्ते । न तु पञ्चमी । तस्याः स्रुचा होमः । ‘स्रुवेण चतस्रो जुहोति दीक्षितत्वाय स्रुचा पञ्चमीम्’ इत्युक्तत्वात् ।
मूलम्
तस्य॑ तेपा॒नस्य॑ ।
स॒प्तात्मनो॑ दे॒वता॒ उद॑क्रामन् ।
विश्वास-प्रस्तुतिः
तस्य॑ तेपा॒नस्य॑ स॒प्तात्मनो॑ दे॒वता॒ उद॑क्रामन् ।
मूलम्
तस्य॑ तेपा॒नस्य॑ स॒प्तात्मनो॑ दे॒वता॒ उद॑क्रामन् ।
भट्टभास्कर-टीका
इतः परं वैश्वदेवानामौद्ग्रहणानां च विधिः - तेपानस्य तप्तवतः । लिटः कानच् । सप्त देवताः सप्त शीर्षण्याः प्राणाः आत्मनः पुरुषसकाशात् उदक्रामन् आत्मानं हित्वा गताः ।
विश्वास-प्रस्तुतिः
सा दी॒क्षाऽभ॑वत् ।
मूलम्
सा दी॒क्षाऽभ॑वत् ।
भट्टभास्कर-टीका
अथ सा दीक्षा अभवत् ता देवता दीक्षात्वेन परिणता अभूवन् । वक्ष्यति च - ‘प्राणा दीक्षा’ इति ।
विश्वास-प्रस्तुतिः
स ए॒तानि॑ वैश्वदे॒वान्य॑पश्यत् ।
तान्य॑जुहोत् ।
मूलम्
स ए॒तानि॑ वैश्वदे॒वान्य॑पश्यत् ।
तान्य॑जुहोत् ।
भट्टभास्कर-टीका
अथ स उत्क्रान्तप्राणः प्रजापतिः एतानि वैश्वदेतानि ‘स्वाहाऽऽधिमाधीताय’ इत्यादीनि जुहोति । एतद्गतम् ।
मूलम्
तैर्वै स दी॒क्षामवा॑रुन्ध ।
यद्वै॑श्वदे॒वानि॑ जु॒होति॑ ।
दी॒क्षामे॒व तैर्यज॑मा॒नोऽव॑रुन्धे ॥37॥
विश्वास-प्रस्तुतिः
यद्वै॑श्वदे॒वानि॑ जु॒होति॑ दी॒क्षामे॒व तैर्यज॑मा॒नोऽव॑रुन्धे ॥37॥
मूलम्
यद्वै॑श्वदे॒वानि॑ जु॒होति॑ दी॒क्षामे॒व तैर्यज॑मा॒नोऽव॑रुन्धे ॥37॥
भट्टभास्कर-टीका
दीक्षामवरुन्धे इति । तस्याः प्राणरूपत्वात् प्राणानप्यवरुन्धे इत्यर्थाद्गम्यते ।
विश्वास-प्रस्तुतिः
स॒प्त जु॑होति ।
स॒प्त हि ता दे॒वता॑ उ॒दक्रा॑मन् ।
मूलम्
स॒प्त जु॑होति ।
स॒प्त हि ता दे॒वता॑ उ॒दक्रा॑मन् ।
भट्टभास्कर-टीका
सप्त जुहोति । सप्तधा एकविंशतिं वैश्वदेवानि विभज्य त्रीणित्रीणि जुहोति ।
विश्वास-प्रस्तुतिः
अ॒न्व॒हञ्जु॑होति ।
अ॒न्व॒हमे॒व दी॒क्षामव॑रुन्धे ।
मूलम्
अ॒न्व॒हञ्जु॑होति ।
अ॒न्व॒हमे॒व दी॒क्षामव॑रुन्धे ।
भट्टभास्कर-टीका
अन्वहं दिनेदिने प्राणानामुत्क्रान्तानां प्रीणनं कृतं भवत्यन्वहं होमात्, दिनेदिने दीक्षाऽवरुद्धा भवति । संवत्सरस्यास्य तु या उत्तमा अमावास्या विधेया तस्यां इह दीक्षणीयां त्रैधातवीयां प्रवदन्ति ।
विश्वास-प्रस्तुतिः
त्रीणि॑ वैश्वदे॒वानि॑ जुहोति ।
च॒त्वार्यौ॑द्ग्रह॒णानि॑ ।
स॒प्त सम्प॑द्यन्ते ।
स॒प्त वै शी॑र्ष॒ण्या॑ᳶ प्रा॒णाः ।
प्रा॒णा दी॒क्षा ।
प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑रुन्धे ॥38॥
मूलम्
त्रीणि॑ वैश्वदे॒वानि॑ जुहोति ।
च॒त्वार्यौ॑द्ग्रह॒णानि॑ ।
स॒प्त सम्प॑द्यन्ते ।
स॒प्त वै शी॑र्ष॒ण्या॑ᳶ प्रा॒णाः ।
प्रा॒णा दी॒क्षा ।
प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑रुन्धे ॥38॥
भट्टभास्कर-टीका
सप्तदिनानि दीक्षाहुतयः, तदेव त्रीणीति । ‘स्वाहाऽऽधिमाधीताय'20 इत्यादीनि त्रीणि वैश्वदेवानि । ‘आकूत्यै प्रयुजे'18 इत्यादीनि चत्वार्यौद्ग्रहणानि ॥
विश्वास-प्रस्तुतिः
एक॑विँशतिव्ँ वैश्वदे॒वानि॑ जुहोति ।
एक॑विँशति॒र्वै दे॑वलो॒काः ।
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ ।
त्रय॑ इ॒मे लो॒काः ।
मूलम्
एक॑विँशतिव्ँ वैश्वदे॒वानि॑ जुहोति ।
एक॑विँशति॒र्वै दे॑वलो॒काः ।
द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तवः॑ ।
त्रय॑ इ॒मे लो॒काः ।
भट्टभास्कर-टीका
2एकविंशतिमिति ॥ दिनेदिने त्रीणित्रीणि । देवानां भोगाधारत्वात् मासादीनां देवलोकत्वम् ।
मूलम्
अ॒सावा॑दि॒त्य ए॑कविँ॒शः ।
ए॒ष सु॑व॒र्गो लो॒कः ।
तद्दैव्य॑ङ्क्ष॒त्रम् ।
विश्वास-प्रस्तुतिः
अ॒सावा॑दि॒त्य ए॑कविँ॒श ए॒ष सु॑व॒र्गो लो॒कस् तद्दैव्य॑ङ्क्ष॒त्रम् ।
मूलम्
अ॒सावा॑दि॒त्य ए॑कविँ॒श ए॒ष सु॑व॒र्गो लो॒कस् तद्दैव्य॑ङ्क्ष॒त्रम् ।
भट्टभास्कर-टीका
एकविंश इति । योऽयमेकविंश आदित्यः एष सुवर्गो लोकः एष एव तद्दैव्यं देवसंबन्धि क्षत्रं बलं, एतदधीनत्वात्तस्य ।
विश्वास-प्रस्तुतिः
सा श्रीः ।
मूलम्
सा श्रीः ।
भट्टभास्कर-टीका
एष एव सा श्रीः दैवी विभूतिः ।
विश्वास-प्रस्तुतिः
तद्ब्र॒ध्नस्य॑ वि॒ष्टप॑म् ।
तत्स्वारा॑ज्यमुच्यते ॥39॥
मूलम्
तद्ब्र॒ध्नस्य॑ वि॒ष्टप॑म् ।
तत्स्वारा॑ज्यमुच्यते ॥39॥
भट्टभास्कर-टीका
एष एव तद्ब्रध्नस्य लोकस्य स्वर्गस्यापि विष्टपं उच्छ्रितस्थानं, यत्र स्वर्गोपि विष्टब्धः । एष एव हि तत्स्वाराज्यं अपवर्ग इत्युच्यते, स्वातन्त्र्यैकरसं पदं यदाहुर्वेदाः ॥
विश्वास-प्रस्तुतिः
त्रिँ॒शत॑मौद्ग्रह॒णानि॑ जुहोति ।
मूलम्
त्रिँ॒शत॑मौद्ग्रह॒णानि॑ जुहोति ।
भट्टभास्कर-टीका
3त्रिंशतमिति ॥ ‘तं वैश्वदेवान्येवोदयच्छन्’ इति वक्ष्यमाणत्वात् वैश्वदेवानामप्युद्ग्रहणत्वम् । उद्ग्रहणार्थान्यौद्ग्रहणानि । ‘स्वाहाऽऽधिम्’ इत्यादीनि एकविंशतिः । तथा आकूत्यादीनि चत्वार्यौद्ग्रहणानि तत्स्था अपि नव देवता अभेदेनोच्यन्ते । यथा - अग्निरेकस्सर्वेषु, अकूत्यादिचतुर्षु द्वेद्वे, तथा चाष्टौ । एवं त्रिंशदौद्ग्रहणदेवताभिधानान्यौद्ग्रहणानि । केचिदाहुः - एकविंशतिः वैश्वदेवानि, अग्नेर्दीक्षाः सप्त, एका ऋतुदीक्षा, एका पूर्णाहुतिरिति । प्राकृतौद्ग्रहणव्यतिरिक्तानि त्रिंशदिति । परे पुनराहुः - ‘वाचा मे वाग्दीक्षतां स्वाहा’ इत्यादीनि पञ्च, आकृत्यादीनि चत्वारि, वैश्वदेवानि एकविंशतिरिति ।
विश्वास-प्रस्तुतिः
त्रिँ॒शद॑क्षरा वि॒राट् ।
अन्नव्ँ॑वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ।
मूलम्
त्रिँ॒शद॑क्षरा वि॒राट् ।
अन्नव्ँ॑वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ।
भट्टभास्कर-टीका
त्रिंशदक्षरेत्यादि गतम् ॥
विश्वास-प्रस्तुतिः
त्रे॒धा वि॒भज्य॑ दे॒वता॑ञ्जुहोति ।
मूलम्
त्रे॒धा वि॒भज्य॑ दे॒वता॑ञ्जुहोति ।
भट्टभास्कर-टीका
4त्रेधेति ॥ वैश्वदेवेषु एकैकां देवतां प्रजापतिप्रभृतिकां त्रेधा त्रिप्रकारविशिष्टां विभज्य जुहोति ।
विश्वास-प्रस्तुतिः
त्र्या॑वृतो॒ वै दे॒वाः ।
त्र्या॑वृत इ॒मे लो॒काः ।
मूलम्
त्र्या॑वृतो॒ वै दे॒वाः ।
त्र्या॑वृत इ॒मे लो॒काः ।
भट्टभास्कर-टीका
त्र्यावृतः त्रिधा आवृतः द्युपृथिव्यन्तरिक्षस्था देवा एकादश । एकादश लोकाश्च त्र्यावृताः त्रिप्रकारवृत्तयः ।
विश्वास-प्रस्तुतिः
ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ।
ए॒षाल्ँ लो॒काना॒ङ्कॢप्त्यै॑ ।
मूलम्
ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ।
ए॒षाल्ँ लो॒काना॒ङ्कॢप्त्यै॑ ।
भट्टभास्कर-टीका
आप्तिः लाभः, कॢप्तिः अविपर्यस्तधर्मता ॥
विश्वास-प्रस्तुतिः
अप॒ वा ए॒तस्मा॑त्प्रा॒णाᳵ क्रा॑मन्ति ॥40॥
यो दी॒क्षाम॑तिरे॒चय॑ति ।
स॒प्ता॒हम्प्रच॑रन्ति ।
स॒प्त वै शी॑र्ष॒ण्या॑ᳶ प्रा॒णाः ।
प्रा॒णा दी॒क्षा ।
प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑रुन्धे ।
पू॒र्णा॒हु॒तिमु॑त्त॒माञ्जु॑होति ।
मूलम्
अप॒ वा ए॒तस्मा॑त्प्रा॒णाᳵ क्रा॑मन्ति ॥40॥
यो दी॒क्षाम॑तिरे॒चय॑ति ।
स॒प्ता॒हम्प्रच॑रन्ति ।
स॒प्त वै शी॑र्ष॒ण्या॑ᳶ प्रा॒णाः ।
प्रा॒णा दी॒क्षा ।
प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑रुन्धे ।
पू॒र्णा॒हु॒तिमु॑त्त॒माञ्जु॑होति ।
भट्टभास्कर-टीका
5अप वा इत्यादि ॥ दीक्षां दीक्षणीयां योऽतिरेचयति वर्धयति सामर्थ्यात् सप्ताहातिरेको निन्द्यते । तस्मात् सप्ताहमेव प्रचरन्ति ॥
विश्वास-प्रस्तुतिः
सर्वव्ँ॒ वै पू॑र्णाहु॒तिः ।
सर्व॑मे॒वाप्नो॑ति ।
मूलम्
सर्वव्ँ॒ वै पू॑र्णाहु॒तिः ।
सर्व॑मे॒वाप्नो॑ति ।
भट्टभास्कर-टीका
6पूर्णाहुतिः - सर्वं वा इत्यादि ॥ वैश्वदेवानन्तर्भावात् पुनर्वचनम् । सर्वमिति । सर्वाभिमतहेतुत्वात् ताच्छब्द्यम् ।
विश्वास-प्रस्तुतिः
अथो॑ इ॒यव्ँ वै पू॑र्णाहु॒तिः ।
अ॒स्यामे॒व प्रति॑तिष्ठति ॥41॥
मूलम्
अथो॑ इ॒यव्ँ वै पू॑र्णाहु॒तिः ।
अ॒स्यामे॒व प्रति॑तिष्ठति ॥41॥
भट्टभास्कर-टीका
अथो अपि च इयं पृथिव्येव पूर्णाहुतिः सर्वाभिमतहेतुत्वसाम्यात् ॥
इति तैत्तिरीयब्राह्मणे तृतीये अष्टके अष्टमे प्रपाठके अश्वमेधे प्रथमे दशमोऽनुवाकः ॥