विश्वास-प्रस्तुतिः
“वि॒भूर्मा॒त्रा प्र॒भूᳶ पि॒त्रे"त्या॑ह ।
इ॒यव्ँ वै मा॒ता ।
अ॒सौ पि॒ता ।
आ॒भ्यामे॒वैन॒म्परि॑ददाति ।
मूलम्
“वि॒भूर्मा॒त्रा प्र॒भूᳶ पि॒त्रे"त्या॑ह ।
इ॒यव्ँ वै मा॒ता ।
अ॒सौ पि॒ता ।
आ॒भ्यामे॒वैन॒म्परि॑ददाति ।
भट्टभास्कर-टीका
1विभूर्मात्रेति ॥ द्वितीये दिने प्रोक्षणानन्तरं ‘विभूर्मात्रा’ इत्यादीनि अश्वनामानि अश्वस्य दक्षिणे कर्णे यजमानं वाचयतीति । तानि व्याचष्टे । पृथिवीद्युलोकनिबन्धनविभवनप्रभवननामद्वयसंकीर्तनेन द्यावापृथिव्यां एनं अश्वं परिददाति रक्षार्थं न्यासीकरोति ।
विश्वास-प्रस्तुतिः
“अश्वो॑ऽसि॒ हयो॒ऽसी"त्या॑ह ।
शास्त्ये॒वैन॑मे॒तत् ।
तस्मा॑च्छि॒ष्टाᳶ प्र॒जा जा॑यन्ते ।
मूलम्
“अश्वो॑ऽसि॒ हयो॒ऽसी"त्या॑ह ।
शास्त्ये॒वैन॑मे॒तत् ।
तस्मा॑च्छि॒ष्टाᳶ प्र॒जा जा॑यन्ते ।
भट्टभास्कर-टीका
व्यापकत्वविक्रान्तत्वकीर्तनेन तादृग्गुणत्वमस्य शास्ति बोधयति तथा वर्तयितुम् । तस्मादद्यत्वेऽपि सर्वाः प्रजाः शिष्टाः बोधिता जायन्ते ॥
विश्वास-प्रस्तुतिः
“अत्यो॒ऽसी"त्या॑ह ।
तस्मा॒दश्व॒स्सर्वा॑न्प॒शूनत्ये॑ति ।
मूलम्
“अत्यो॒ऽसी"त्या॑ह ।
तस्मा॒दश्व॒स्सर्वा॑न्प॒शूनत्ये॑ति ।
भट्टभास्कर-टीका
2अत्य इति ॥ सततगन्तृत्वसंकीर्तनेन सर्वान् पशून् अत्येति सततगामित्वयशसाऽतिक्रामति अश्वः ।
विश्वास-प्रस्तुतिः
तस्मा॒दश्व॒स्सर्वे॑षाम्पशू॒नाँ श्रैष्ठ्य॑ङ्गच्छति ॥ 32॥
मूलम्
तस्मा॒दश्व॒स्सर्वे॑षाम्पशू॒नाँ श्रैष्ठ्य॑ङ्गच्छति ॥ 32॥
भट्टभास्कर-टीका
श्रैष्ठ्यमिति । सततगन्तृत्वेन आलस्याभावात्प्रशस्यतमो भवति ।
विश्वास-प्रस्तुतिः
प्र यश॒श्श्रैष्ठ्य॑माप्नोति ।
य ए॒वव्ँ वेद॑ ।
मूलम्
प्र यश॒श्श्रैष्ठ्य॑माप्नोति ।
य ए॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
एवं वेदिता च यशश्श्रैष्ठ्यं च प्राप्नोति ।
विश्वास-प्रस्तुतिः
“नरो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सी"त्या॑ह ।
रू॒पमे॒वास्यै॒तन्म॑हि॒मानव्ँ॒ व्याच॑ष्टे ।
मूलम्
“नरो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सी"त्या॑ह ।
रू॒पमे॒वास्यै॒तन्म॑हि॒मानव्ँ॒ व्याच॑ष्टे ।
भट्टभास्कर-टीका
रूपमेवेति । नाम्नां रूपमेव अश्वस्य महिमानं व्याचष्टे न व्याख्येयम् । कार्याणां नयनसमर्थो नरः । गमनकुशलः अर्वा । सङ्ग्रामेषु समवायकुशलः सप्तिः । वेगवान् वाजीति ।
विश्वास-प्रस्तुतिः
“ययु॒र्नामा॒ऽसी"त्या॑ह ।
ए॒तद्वा अश्व॑स्य प्रि॒यन्ना॑म॒धेय॑म् ।
प्रि॒येणै॒वैन॑न्नाम॒धेये॑ना॒भिव॑दति ।
मूलम्
“ययु॒र्नामा॒ऽसी"त्या॑ह ।
ए॒तद्वा अश्व॑स्य प्रि॒यन्ना॑म॒धेय॑म् ।
प्रि॒येणै॒वैन॑न्नाम॒धेये॑ना॒भिव॑दति ।
भट्टभास्कर-टीका
एतद्वा इति । यानशीलो ययुरिति । प्रियेण प्रीणनेन नाम्ना अश्वमभिवदति आभिमुख्येन वदति इष्टे प्रवर्तयति मित्रीकरोतीति यावत् ।
विश्वास-प्रस्तुतिः
तस्मा॒दप्या॑मि॒त्रौ स॒ङ्गत्य॑ ।
नाम्ना॒ चेद्ध्वये॑ते ।
मि॒त्रमे॒व भ॑वतः ॥33॥
मूलम्
तस्मा॒दप्या॑मि॒त्रौ स॒ङ्गत्य॑ ।
नाम्ना॒ चेद्ध्वये॑ते ।
मि॒त्रमे॒व भ॑वतः ॥33॥
भट्टभास्कर-टीका
तस्मात् प्रियेण नाम्ना अभिमतेन आह्वयेते चेत् परस्परस्य मित्रं भवतः ॥
विश्वास-प्रस्तुतिः
“आ॒दि॒त्याना॒म्पत्वाऽन्वि॒ही"त्या॑ह ।
आ॒दि॒त्याने॒वैन॑ङ्गमयति ।
“अ॒ग्नये॒ स्वाहा॒ स्वाहे॑न्द्रा॒ग्निभ्या॒"मिति॑ पूर्वहो॒माञ्जु॑होति ।
मूलम्
“आ॒दि॒त्याना॒म्पत्वाऽन्वि॒ही"त्या॑ह ।
आ॒दि॒त्याने॒वैन॑ङ्गमयति ।
“अ॒ग्नये॒ स्वाहा॒ स्वाहे॑न्द्रा॒ग्निभ्या॒"मिति॑ पूर्वहो॒माञ्जु॑होति ।
भट्टभास्कर-टीका
3पूर्वहोमानिति ॥ आहवनीयविहरणानन्तरं होमान्तरात्पूर्वमेव क्रियमाणत्वात् । अग्नये स्वाहेत्याद्याः पञ्च पूर्वहोमाः । प्रथम उपरिष्टात्स्वाहाकारः । अन्ये पुरस्तात्स्वाहाकाराः ।
विश्वास-प्रस्तुतिः
पूर्व॑ ए॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑क्रामति ।
मूलम्
पूर्व॑ ए॒व द्वि॒षन्त॒म्भ्रातृ॑व्य॒मति॑क्रामति ।
भट्टभास्कर-टीका
पूर्व इति । प्रथमभावी ।
विश्वास-प्रस्तुतिः
“भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वे"त्युत्सृ॑जति सर्व॒त्वाय॑ ।
मूलम्
“भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वे"त्युत्सृ॑जति सर्व॒त्वाय॑ ।
भट्टभास्कर-टीका
भूरसीति । पुनरश्वसमीपं गत्वा अनेन मन्त्रेण अश्वं रशनाभ्यां उत्सृजति रशनाबन्धं विमुञ्चति सर्वत्वाय सर्वात्मत्वाय सर्वगामित्वाय वा बन्धस्य तादृशत्वात् ॥
विश्वास-प्रस्तुतिः
“देवा॑ आशापाला ए॒तन्दे॒वेभ्योऽश्व॒म्मेधा॑य॒ प्रोक्षि॑तङ्गोपाय॒ते"त्या॑ह ।
मूलम्
“देवा॑ आशापाला ए॒तन्दे॒वेभ्योऽश्व॒म्मेधा॑य॒ प्रोक्षि॑तङ्गोपाय॒ते"त्या॑ह ।
भट्टभास्कर-टीका
4देवा आशापाला इति रत्निभ्यः परिदानम् ॥
विश्वास-प्रस्तुतिः
श॒तव्ँ वै तल्प्या॑ राजपु॒त्रा दे॒वा आ॑शापा॒लाः ।
तेभ्य॑ ए॒वैन॒म्परि॑ददाति ।
मूलम्
श॒तव्ँ वै तल्प्या॑ राजपु॒त्रा दे॒वा आ॑शापा॒लाः ।
तेभ्य॑ ए॒वैन॒म्परि॑ददाति ।
भट्टभास्कर-टीका
तल्प्याः पाणिगृहीत्याः पुत्राः । राज्ञा सह शयनासनार्हा इति केचित् । दिगादित्वात् यत् । इदं शतं अश्वस्य आशापालाः चतसृषु दिक्षु रक्षामन्त्रोक्ता देवा इत्यर्थः । देवनशीलाः देवाः । चतुर्णा शतानामिदमुपलक्षणम्, प्राधान्यादस्योपादानम् । वक्ष्यति ‘चतुश्शता रक्षन्ति’ इति ॥
सन्ना भवन्तः क्षितिपालपुत्राः सन्नद्धसूताः शतमस्य तल्प्याः ।
गोपायितारश्शतमेवमुग्राः सन्नाहितास्तादृशसूतयुक्ताः ॥
वैश्याश्शतं प्रान्तचराः पथस्स्युः वरूथिनस्स्युः शतमेव शूद्राः ।
तास्स्वैरचारं परिपालयन्तः नावर्तयन्तेऽनुचरन्ति सर्वे ॥
पृच्छेयुः पथि तेऽश्वमेधविषयं भो ब्राह्मणाः वः कियत्
मन्त्रब्राह्मणकालवेदनमिति स्युर्वेत्यकिंचिद्विदः ।
आदेयं तुरगस्य तद्भवनतः स्यात् खाद्यपेयादिकं
तेषां क्षत्रियवैश्यवेश्मत इह ग्राह्यं कृतान्नं भवेत् ॥
रथकारगृहेऽश्वस्य वसतस्सायमस्य तु ।
चतुर्षु पत्सु होतव्याः चतस्रो धृतयः क्रमात् ॥
विश्वास-प्रस्तुतिः
ई॒श्व॒रो वा अश्व॒ᳶ प्रमु॑क्त॒ᳶ परा॑म्परा॒वत॒ङ्गन्तोः॑ ।
मूलम्
ई॒श्व॒रो वा अश्व॒ᳶ प्रमु॑क्त॒ᳶ परा॑म्परा॒वत॒ङ्गन्तोः॑ ।
भट्टभास्कर-टीका
5तां विधातुमाह - ईश्वर इत्यादि ॥ प्रमुक्तः रशनाबन्धाद्विमुक्तः परां परावतं दूरं गन्तुं ईश्वरः शक्नुयात् । ‘उपसर्गच्छन्दसि’ इति वतिः, ‘ईश्वरे तोसुन्कसुनौ’ इति तोसुन् ।
विश्वास-प्रस्तुतिः
“इ॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहे"ति॑ चतृ॒षु प॒त्सु जु॑होति ॥34॥
मूलम्
“इ॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहे"ति॑ चतृ॒षु प॒त्सु जु॑होति ॥34॥
भट्टभास्कर-टीका
तस्मात् अश्वस्य बन्धनस्थानीयाः ‘इह धृतिः’ इत्याद्याः धृतयः चतुर्षु पत्सु होतव्याः । अन्त्यलोपवर्णविकारौ छान्दसौ ।
विश्वास-प्रस्तुतिः
ए॒ता वा अश्व॑स्य॒ बन्ध॑नम् ।
ताभि॑रे॒वैन॑म्बध्नाति ।
तस्मा॒दश्व॒ᳶ प्रमु॑क्तो॒ बन्ध॑न॒माग॑च्छति ।
तस्मा॒दश्व॒ᳶ प्रमु॑क्तो॒ बन्ध॑न॒न्न ज॑हाति ।
मूलम्
ए॒ता वा अश्व॑स्य॒ बन्ध॑नम् ।
ताभि॑रे॒वैन॑म्बध्नाति ।
तस्मा॒दश्व॒ᳶ प्रमु॑क्तो॒ बन्ध॑न॒माग॑च्छति ।
तस्मा॒दश्व॒ᳶ प्रमु॑क्तो॒ बन्ध॑न॒न्न ज॑हाति ।
भट्टभास्कर-टीका
ताभिश्च एनं बध्नाति । तस्मात्प्रमुक्तोपि होमरज्जुबद्धत्वात् बन्धनदेशमागच्छति । आगतश्च बन्धनदेशं यावदुदयं न जहाति तत्रैव वसति ॥
मूलम्
रा॒ष्ट्रव्ँ वा अ॑श्वमे॒धः ।
रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते ।
येऽश्व॒म्मेध्यँ॒ रक्ष॑न्ति ।
तेषाय्ँ॒य उ॒दृच॒ङ्गच्छ॑न्ति ।
विश्वास-प्रस्तुतिः
रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते॒ येऽश्व॒म्मेध्यँ॒ रक्ष॑न्ति॒ तेषाय्ँ॒य उ॒दृच॒ङ्गच्छ॑न्ति ।
मूलम्
रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते॒ येऽश्व॒म्मेध्यँ॒ रक्ष॑न्ति॒ तेषाय्ँ॒य उ॒दृच॒ङ्गच्छ॑न्ति ।
भट्टभास्कर-टीका
6राष्ट्रं वा इत्यादि ॥ राष्ट्रमेव अश्वमेधः सार्वभौमकार्यत्वात् । तस्मात् राष्ट्रनिमित्तं एते व्यायच्छन्ते यतन्ते ये अश्वं मेध्यं रक्षन्ति ।
मूलम्
रा॒ष्ट्रादे॒व ते रा॒ष्ट्रङ्ग॑च्छन्ति ।
अथ॒ य उ॒दृच॒न्न गच्छ॑न्ति ॥35॥
रा॒ष्ट्रादे॒व ते व्यव॑च्छिद्यन्ते ।
विश्वास-प्रस्तुतिः
अथ॒ य उ॒दृच॒न्न गच्छ॑न्ति रा॒ष्ट्रादे॒व ते व्यव॑च्छिद्यन्ते ।
मूलम्
अथ॒ य उ॒दृच॒न्न गच्छ॑न्ति रा॒ष्ट्रादे॒व ते व्यव॑च्छिद्यन्ते ।
भट्टभास्कर-टीका
तस्मात् राष्ट्रमेव रक्षितुं यतन्ते, अरक्षितेऽस्मिन् असार्वभौमत्वप्रसङ्गात्, तस्मात् तेषां मध्ये ये उदृचं समाप्तिं यावदन्तं रक्षाकर्मनिर्वहणं गच्छन्ति ते राष्ट्रात् राष्ट्रस्थानीयाश्वमेधाविघ्नलाभात् राष्ट्रमेव गच्छन्ति सार्वभौमत्वमेव स्थापयन्ति । ल्यब्लोपे पञ्चमी । ये तु उदृचं न गच्छन्ति राष्ट्रादेव ते प्रच्युताः ।
विश्वास-प्रस्तुतिः
परा॒ वा ए॒ष सि॑च्यते यो॑ऽब॒लो॑ऽश्वमे॒धेन॒ यज॑ते ।
मूलम्
परा॒ वा ए॒ष सि॑च्यते यो॑ऽब॒लो॑ऽश्वमे॒धेन॒ यज॑ते ।
भट्टभास्कर-टीका
तस्मात् यः अबलः बलशून्यः अश्वमेधेन यष्टुमिच्छति सः परासिच्यते विनश्यति, स्वरूपमेव तस्य विनश्यति, न कर्मसिद्ध्यभाव एव ॥
मूलम्
यद॒मित्रा॒ अश्वव्ँ॑वि॒न्देर॑न् ।
ह॒न्येता॑स्य य॒ज्ञः ।
च॒तु॒श्श॒ता र॑क्षन्ति ।
य॒ज्ञस्याघा॑ताय ।
अथा॒न्यमा॒नीय॒ प्रोक्षे॑युः ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ॥36॥
विश्वास-प्रस्तुतिः
यद॒मित्रा॒ अश्वव्ँ॑वि॒न्देर॑न्न् ह॒न्येता॑स्य य॒ज्ञः ।
च॒तु॒श्श॒ता र॑क्षन्ति य॒ज्ञस्याघा॑ताय ।
मूलम्
यद॒मित्रा॒ अश्वव्ँ॑वि॒न्देर॑न्न् ह॒न्येता॑स्य य॒ज्ञः ।
च॒तु॒श्श॒ता र॑क्षन्ति य॒ज्ञस्याघा॑ताय ।
भट्टभास्कर-टीका
7तत्कथमित्याह - यदिति ॥ यस्मात् अश्वं अस्य दुर्बलस्य अमित्राः विन्देरन् लभेरन् गृह्णीयुः ततो हन्येतास्य यज्ञः, ततो यज्ञहान्या राष्ट्रहानिः, ततोऽस्य स्वरूपमेव प्रच्युतमिति । यद्वा - यद्यमित्राः अश्वं विन्देरन् लभेरन् गृह्णीयुः ततो यज्ञ एव हतस्स्यात् तस्मात् समस्तारिनिराकरणनिपुणाः चतुश्शताः चतुश्शतप्रमाणाः । ‘द्विगोः’ इति लुक् । पूर्वोक्ताः राजपुत्रादयः अश्वं रक्षन्ति यज्ञस्य केनचिदपि विघातो मा भूदिति ।
विश्वास-प्रस्तुतिः
अथा॒न्यमा॒नीय॒ प्रोक्षे॑युः ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ॥36॥
मूलम्
अथा॒न्यमा॒नीय॒ प्रोक्षे॑युः ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ॥36॥
भट्टभास्कर-टीका
अथ एवं चतुश्शतपुरुषरक्ष्यमाणोऽपि यद्यमित्रगृहीतोऽश्वस्स्यात्, अन्यमश्वं तद्रूपवर्णवयसं मातृमत्त्वादिगुणयुक्तं आनीय प्रोक्षेयुः ‘प्रजापतये त्वा जुष्टम्’ इत्यादि । सैव ततो दोषात् प्रायश्चित्तिः मोक्षहेतुः कर्म, न तु यज्ञहानिः ॥
इति तैत्तिरीयब्राह्मणे तृतीये अष्टमे अश्वमेधे नवमोऽनुवकः ॥