मूलम्
यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति ।
ए॒वव्ँ वा ए॒तदश्व॑स्य स्कन्दति ।
विश्वास-प्रस्तुतिः
यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑त्य् ए॒वव्ँ वा ए॒तदश्व॑स्य स्कन्दति ।
यत्प्रोक्षि॑त॒मना॑लब्धमुत्सृ॒जन्ति॑ ।
मूलम्
यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑त्य् ए॒वव्ँ वा ए॒तदश्व॑स्य स्कन्दति ।
यत्प्रोक्षि॑त॒मना॑लब्धमुत्सृ॒जन्ति॑ ।
भट्टभास्कर-टीका
1यथा वा इत्यादि ॥ व्याख्यातम् ।
यत्प्रोक्षितमिति विशेषः ।
मूलम्
यद॑श्वचरि॒तानि॑ जु॒होति॑ ।
स॒र्व॒हुत॑मे॒वैन॑ङ्करो॒त्यस्क॑न्दाय ।
अस्क॑न्नँ॒ हि तत् ।
यद्धु॒तस्य॒ स्कन्द॑ति ।
ई॒ङ्का॒राय॒ स्वाहेङ्कृ॑ताय॒ स्वाहेत्या॑ह ।
ए॒तानि॒ वा अ॑श्वचरि॒तानि॑ ।
विश्वास-प्रस्तुतिः
यद॑श्वचरि॒तानि॑ जु॒होति॑ सर्व॒हुत॑मे॒वैन॑ङ्करो॒त्यस्क॑न्दा॒यास्क॑न्नँ॒ हि तत् ।
यद्धु॒तस्य॒ स्कन्द॑ति +“ईङ्का॒राय॒ स्वाहे”+“ङ्कृ॑ताय॒ स्वाहे"त्या॑ह ।
ए॒तानि॒ वा अ॑श्वचरि॒तानि॑ ।
मूलम्
यद॑श्वचरि॒तानि॑ जु॒होति॑ सर्व॒हुत॑मे॒वैन॑ङ्करो॒त्यस्क॑न्दा॒यास्क॑न्नँ॒ हि तत् ।
यद्धु॒तस्य॒ स्कन्द॑ति +“ईङ्का॒राय॒ स्वाहे”+“ङ्कृ॑ताय॒ स्वाहे"त्या॑ह ।
ए॒तानि॒ वा अ॑श्वचरि॒तानि॑ ।
भट्टभास्कर-टीका
अश्वचरितानीति । अश्वस्य चरितानां चेष्टानां ईङ्कारादीनां प्रतिपादका मन्त्राः अश्वचरितानि तैः कार्यान् होमान् जुहोति । सर्वचरितानामेव इदानीं हुतत्वात् सर्वावस्थोप्यश्वो हुत एवेति स्कन्नदोषाभावः ।
विश्वास-प्रस्तुतिः
च॒रि॒तैरे॒वैनँ॒ सम॑र्धयति ॥28॥
मूलम्
च॒रि॒तैरे॒वैनँ॒ सम॑र्धयति ॥28॥
भट्टभास्कर-टीका
मूलम्
तदेवाह - चरितैरेवैनं समर्थयतीति । सर्वचरितस्यैव होमस्समृद्धिं करोतीति ॥
मूलम्
तदा॑हुः ।
अना॑हुतयो॒ वा अ॑श्वचरि॒तानि॑ ।
नैता हो॑त॒व्या॑ इति॑ ।
विश्वास-प्रस्तुतिः
तदा॑हु॒र् -“अना॑हुतयो॒ वा अ॑श्वचरि॒तानि॒ नैता हो॑त॒व्या॑ट” इति॑ ।
मूलम्
तदा॑हु॒र् -“अना॑हुतयो॒ वा अ॑श्वचरि॒तानि॒ नैता हो॑त॒व्या॑ट” इति॑ ।
भट्टभास्कर-टीका
2तदाहुरिति ॥ तत्राहुरित्यर्थः । अनाहुतित्वात् नैता होतव्याः साध्यमानक्रियारूपत्वादासां देवताभावात् ।
मूलम्
अथो॒ खल्वा॑हुः ।
हो॒त॒व्या॑ ए॒व ।
विश्वास-प्रस्तुतिः
अथो॒ खल्वा॑हुर् होत॒व्या॑ ए॒व ।
मूलम्
अथो॒ खल्वा॑हुर् होत॒व्या॑ ए॒व ।
भट्टभास्कर-टीका
अथो अन्ये खल्वाहुः होतव्या एवेति ।
मूलम्
अत्र॒ वावैवव्ँ वि॒द्वान॑श्वमे॒धँ सँस्था॑पयति ।
यद॑श्वचरि॒तानि॑ जु॒होति॑ ।
तस्मा॑द्धोत॒व्या॑ इति॑ ।
विश्वास-प्रस्तुतिः
अत्र॒ वावैवव्ँ वि॒द्वान॑श्वमे॒धँ सँस्था॑पयति ।
यद॑श्वचरि॒तानि॑ जु॒होति॒ तस्मा॑द्धोत॒व्या॑ इति॑ ।
मूलम्
अत्र॒ वावैवव्ँ वि॒द्वान॑श्वमे॒धँ सँस्था॑पयति ।
यद॑श्वचरि॒तानि॑ जु॒होति॒ तस्मा॑द्धोत॒व्या॑ इति॑ ।
भट्टभास्कर-टीका
किमासां होमेन क्रियत इत्याह - अत्रेति । उक्तेन प्रकारेण सर्वचरितसहितस्याश्वस्य अत्रैव होमः क्रियते इति विदुषोऽत्रैव कर्मसंस्थापनं प्रयोजनं अस्कन्नत्वाय । तस्मादस्मै प्रयोजनाय होतव्या एवेति ॥
विश्वास-प्रस्तुतिः
ब॒हि॒र्धा वा ए॑नमे॒तदा॒यत॑नाद्दधाति ।
भ्रातृ॑व्यमस्मै जनयति ॥29॥
मूलम्
ब॒हि॒र्धा वा ए॑नमे॒तदा॒यत॑नाद्दधाति ।
भ्रातृ॑व्यमस्मै जनयति ॥29॥
भट्टभास्कर-टीका
3बहिर्धेति ॥ कस्मिन्काले एता होतव्याः इत्येतदनेन प्रतिपाद्यते । एनं यजमानायतनात् स्वस्थानात् बहिर्धा बहिर्देशे दधाति स्थापयति स्वस्थानान्निर्वासयति । स्वार्थिको धाल् छान्दसः ।
मूलम्
यस्या॑नायत॒ने॑ऽन्यत्रा॒ग्नेराहु॑तीर्जु॒होति॑ ।
सा॒वि॒त्रि॒या इष्ट्या॑ᳶ पु॒रस्ता॑त्स्विष्ट॒कृतः॑ ।
आ॒ह॒व॒नीये॑ऽश्वचरि॒तानि॑ जुहोति ।
आ॒यत॑न ए॒वास्याहु॑तीर्जुहोति ।
नास्मै॒ भ्रातृ॑व्यञ्जनयति ।
विश्वास-प्रस्तुतिः
यस्या॑नायत॒ने॑ऽन्यत्रा॒ग्नेराहु॑तीर्जु॒होति॑ सावित्रि॒या इष्ट्या॑ᳶ पु॒रस्ता॑त्स्विष्ट॒कृतः॑ आहव॒नीये॑ऽश्वचरि॒तानि॑ जुहोति ।
आ॒यत॑न ए॒वास्याहु॑तीर्जुहोति ।
नास्मै॒ भ्रातृ॑व्यञ्जनयति ।
मूलम्
यस्या॑नायत॒ने॑ऽन्यत्रा॒ग्नेराहु॑तीर्जु॒होति॑ सावित्रि॒या इष्ट्या॑ᳶ पु॒रस्ता॑त्स्विष्ट॒कृतः॑ आहव॒नीये॑ऽश्वचरि॒तानि॑ जुहोति ।
आ॒यत॑न ए॒वास्याहु॑तीर्जुहोति ।
नास्मै॒ भ्रातृ॑व्यञ्जनयति ।
भट्टभास्कर-टीका
कस्मै? यस्य यजमानस्य संबन्धिनः अग्नेः अनायतने आयतनत्वरहिते अन्यत्र देशे आहुतीर्जुहोति ततश्चास्य भ्रातृव्यं शत्रुं जनयेदग्निः, तस्मात् ‘सवित्रे प्रातरष्टाकपालम्’ इति या प्रथमा सावित्रीष्टिः तस्याः स्विष्टकृतः पुरस्तादाहवनीय एवाश्वचरितानि होतव्यानि, तत उक्तदोषाभावः ॥
मूलम्
तदा॑हुः ।
य॒ज्ञ॒मु॒खेय॑ज्ञमुखे होत॒व्याः॑ ।
य॒ज्ञस्य॒ कॢप्त्यै॑ ।
सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या॒ इति॑ ।
विश्वास-प्रस्तुतिः
तदा॑हुर् “यज्ञमु॒खेय॑ज्ञमुखे होत॒व्याः॑, य॒ज्ञस्य॒ कॢप्त्यै॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या॒” इति॑ ।
मूलम्
तदा॑हुर् “यज्ञमु॒खेय॑ज्ञमुखे होत॒व्याः॑, य॒ज्ञस्य॒ कॢप्त्यै॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या॒” इति॑ ।
भट्टभास्कर-टीका
4तदाहुरिति पूर्वपक्षः - यज्ञमुखे यज्ञमुखे सर्वेष्टीनामारम्भे होतव्या अश्वचरिताहुतयः यज्ञसामर्थ्याय, यज्ञफलस्य च स्वर्गस्य च तेनैव हेतुना ख्यातये प्रकाशनाय ॥
मूलम्
अथो॒ खल्वा॑हुः ॥30॥
यद्य॑ज्ञमु॒खेय॑ज्ञमुखे जुहु॒यात् ।
प॒शुभि॒र्यज॑मान॒व्व्यँ॑र्धयेत् ।
अव॑ सुव॒र्गाल्लो॒कात्प॑द्येत ।
पापी॑यान्त्स्या॒दिति॑ ।
स॒कृदे॒व हो॑त॒व्याः॑ ।
न यज॑मानम्प॒शुभि॒र्व्य॑र्धयति ।
अ॒भि सु॑व॒र्गल्ँ लो॒कञ्ज॑यति ।
न पापी॑यान्भवति ।
विश्वास-प्रस्तुतिः
अथो॒ खल्वा॑हुर् “यद्य॑ज्ञमु॒खेय॑ज्ञमुखे जुहु॒यात् प॒शुभि॒र्यज॑मान॒वँ् व्य॑र्धयेत् ।
अव॑ सुव॒र्गाल्लो॒कात्प॑द्येत॒ पापी॑यान्त्स्या॒दिति॑ ।
मूलम्
अथो॒ खल्वा॑हुर् “यद्य॑ज्ञमु॒खेय॑ज्ञमुखे जुहु॒यात् प॒शुभि॒र्यज॑मान॒वँ् व्य॑र्धयेत् ।
अव॑ सुव॒र्गाल्लो॒कात्प॑द्येत॒ पापी॑यान्त्स्या॒दिति॑ ।
भट्टभास्कर-टीका
5अथो इत्येतद्दूषणेन पक्षान्तरपरिग्रहः । सर्वेष्ट्यारम्भे होमोपशव्यः स्वर्गाच्चावपद्येत यजमानः पापतरः स्यात् अयष्टुरपि ।
विश्वास-प्रस्तुतिः
स॒कृदे॒व हो॑त॒व्याः॑ ।
न यज॑मानम्प॒शुभि॒र्व्य॑र्धयति ।
अ॒भि सु॑व॒र्गल्ँ लो॒कञ्ज॑यति ।
न पापी॑यान्भवति ।
मूलम्
स॒कृदे॒व हो॑त॒व्याः॑ ।
न यज॑मानम्प॒शुभि॒र्व्य॑र्धयति ।
अ॒भि सु॑व॒र्गल्ँ लो॒कञ्ज॑यति ।
न पापी॑यान्भवति ।
भट्टभास्कर-टीका
तस्मात् सकृत् आद्यायामेव होतव्याः तत उक्तदोषाभावः ॥
विश्वास-प्रस्तुतिः
अ॒ष्टाच॑त्वारिँशतमश्वरू॒पाणि॑ जुहोति ।
अ॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती ।
जाग॒तोऽश्व॑ᳶ प्राजाप॒त्यस्समृ॑द्ध्यै ।
मूलम्
अ॒ष्टाच॑त्वारिँशतमश्वरू॒पाणि॑ जुहोति ।
अ॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती ।
जाग॒तोऽश्व॑ᳶ प्राजाप॒त्यस्समृ॑द्ध्यै ।
भट्टभास्कर-टीका
6अष्टाचत्वारिंशतमिति ॥ अनन्तरं ‘अञ्ज्येताय स्वाहा’ इत्यष्टाचत्वारिंशतं अश्वरूपाणि अश्वरूपप्रतिपादकमन्त्रसाध्यान् होमान् जुहोति । जागत इति तस्याः पशव्यत्वात् । उत्सादित्वादञ् ॥
विश्वास-प्रस्तुतिः
ए॒कमति॑रिक्तञ्जुहोति ।
तस्मा॒देक॑ᳶ प्र॒जास्वर्धु॑कः ॥31॥
मूलम्
ए॒कमति॑रिक्तञ्जुहोति ।
तस्मा॒देक॑ᳶ प्र॒जास्वर्धु॑कः ॥31॥
भट्टभास्कर-टीका
7एकमतिरिक्तमिति ॥ सर्वस्मै स्वाहेति । असमवदानार्थं पृथग्ग्रहणम् । तस्मादद्यत्वेऽपि बह्वीषु प्रजासु एक एव अर्धुकः बुद्धिशीलो भवति । छान्दस उकञ् ॥
इति तैत्तिरीयब्राह्मणे भट्टभास्करीये तृतीये अष्टमे अश्वमेधे अष्टमोऽनुवकः ॥