०७

विश्वास-प्रस्तुतिः

“प्र॒जाप॑तये त्वा॒ जुष्ट॒म्प्रोक्षा॒मी"ति॑ पु॒रस्ता॑त्प्र॒त्यङ्तिष्ठ॒न्प्रोक्ष॑ति ।
प्र॒जाप॑ति॒र्वै दे॒वाना॑मन्ना॒दो वी॒र्या॑वान् ।

अ॒न्नाद्य॑मे॒वास्मि॑न्वी॒र्य॑न्दधाति ।
तस्मा॒दश्व॑ᳶ पशू॒नाम॑न्ना॒दो वी॒र्या॑वत्तमः ।

मूलम्

भट्टभास्कर-टीका

1अथाध्वर्युः अश्वाभिमुखस्तिष्ठन् अनुदिशं अश्वं प्रोक्षति - प्रजापतये त्वेत्यादिभिः ॥ देवानां मध्ये प्रजापतिः अन्नादः वीर्यावांश्च तस्मादनेन प्रोक्षणेन अन्नादनसामर्थ्यं वीर्यं च अस्मिन् अश्वे दधाति । तस्मात् पशूनां मध्ये अश्वोऽन्नादः वीर्यावत्तमश्च । ‘अन्येषामपि’ इति दीर्घत्वम् । एवं देगन्तरेषु योज्यम् ॥

विश्वास-प्रस्तुतिः

“इ॒न्द्रा॒ग्निभ्या॒न्त्वे"ति॑ दक्षिण॒तः ।
इ॒न्द्रा॒ग्नी वै दे॒वाना॒मोजि॑ष्ठौ॒ बलि॑ष्ठौ ।

ओज॑ ए॒वास्मि॒न्बल॑न्दधाति ।
तस्मा॒दश्व॑ᳶ पशू॒नामोजि॑ष्ठो॒ बलि॑ष्ठः ।

मूलम्

“इ॒न्द्रा॒ग्निभ्या॒न्त्वे"ति॑ दक्षिण॒तः ।
इ॒न्द्रा॒ग्नी वै दे॒वाना॒मोजि॑ष्ठौ॒ बलि॑ष्ठौ ।

ओज॑ ए॒वास्मि॒न्बल॑न्दधाति ।
तस्मा॒दश्व॑ᳶ पशू॒नामोजि॑ष्ठो॒ बलि॑ष्ठः ।

भट्टभास्कर-टीका

2ओजिष्ठौ बलिष्ठाविति ॥ ओजस्वितमौ बलवत्तमौ च । ‘विन्मतोर्लुक्’ इति इष्ठनि लोपे ‘टेः’ इति टिलोपः ॥

विश्वास-प्रस्तुतिः

“वा॒यवे॒ त्वे"ति॑ प॒श्चात् ।
वा॒युर्वै दे॒वाना॑मा॒शुस्सा॑रसा॒रित॑मः ॥25॥
ज॒वमे॒वास्मि॑न्दधाति ।

तस्मा॒दश्व॑ᳶ पशू॒नामा॒शुस्सा॑रसा॒रित॑मः ।
“विश्वे॑भ्यस्त्वा दे॒वेभ्य॒” इत्यु॑त्तर॒तः ।
विश्वे॒ वै दे॒वा दे॒वानाय्ँ॑यश॒स्वित॑माः ।
यश॑ ए॒वास्मि॑न्दधाति ।
तस्मा॒दश्व॑ᳶ पशू॒नाय्ँय॑श॒स्वित॑मः ।

3-4आशुः शीघ्रः सारसारितमः अतिशयेन सारिः उत्कर्षगामी ॥

विश्वास-प्रस्तुतिः

“दे॒वेभ्य॒स्त्वे"त्य॒धस्ता॑त् ।
दे॒वा वै दे॒वाना॒मप॑चिततमाः ।
अप॑चितिमे॒वास्मि॑न्दधाति ।
तस्मा॒दश्व॑ᳶ पशू॒नामप॑चिततमः ॥26॥

मूलम्

“दे॒वेभ्य॒स्त्वे"त्य॒धस्ता॑त् ।
दे॒वा वै दे॒वाना॒मप॑चिततमाः ।
अप॑चितिमे॒वास्मि॑न्दधाति ।
तस्मा॒दश्व॑ᳶ पशू॒नामप॑चिततमः ॥26॥

भट्टभास्कर-टीका

5अपचिततमाः पूजिततमाः ॥

विश्वास-प्रस्तुतिः

“सर्वे॑भ्यस्त्वा दे॒वेभ्य॒” इत्यु॒परि॑ष्टात् ।
सर्वे॒ वै दे॒वास्त्विषि॑मन्तो हर॒स्विनः॑ ।
त्विषि॑मे॒वास्मि॒न् हरो॑ दधाति ।
तस्मा॒दश्व॑ᳶ पशू॒नान्त्विषि॑मान्हर॒स्वित॑मः ।

मूलम्

“सर्वे॑भ्यस्त्वा दे॒वेभ्य॒” इत्यु॒परि॑ष्टात् ।
सर्वे॒ वै दे॒वास्त्विषि॑मन्तो हर॒स्विनः॑ ।
त्विषि॑मे॒वास्मि॒न् हरो॑ दधाति ।
तस्मा॒दश्व॑ᳶ पशू॒नान्त्विषि॑मान्हर॒स्वित॑मः ।

भट्टभास्कर-टीका

6त्विषिमन्तः दीप्तिमन्तः । हरस्विनः प्रकाशवन्तः ॥

विश्वास-प्रस्तुतिः

“दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वे"त्या॑ह ।
ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्य॒ᳶ प्रोक्ष॑ति ।

“स॒ते त्वाऽस॑ते त्वा॒ऽद्भ्यस्त्वौष॑धीभ्यस्त्वा॒ विश्वे॑भ्यस्त्वा भू॒तेभ्य॒” इत्या॑ह ।
तस्मा॑दश्वमेधया॒जिनँ॒ सर्वा॑णि भू॒तान्युप॑जीवन्ति ।

7दिवे त्वेत्यादिना शेषावयवप्रोक्षणम् ॥

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति - “यत्प्रा॑जाप॒त्योऽश्वः॑ ।
अथ॒ कस्मा॑देनम॒न्याभ्यो॑ दे॒वता॒भ्योऽपि॒ प्रोक्ष॒ती"ति॑ ।
अश्वे॒ वै सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः ।

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति - “यत्प्रा॑जाप॒त्योऽश्वः॑ ।
अथ॒ कस्मा॑देनम॒न्याभ्यो॑ दे॒वता॒भ्योऽपि॒ प्रोक्ष॒ती"ति॑ ।
अश्वे॒ वै सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः ।

भट्टभास्कर-टीका

8ब्रह्मवादिन इति ॥ अन्वायत्ताः अन्ववस्थिताः सर्वाः देवताः अश्वे, तस्मात् अन्याभ्योऽपि प्रजापतिव्यतिरिक्ताभ्योऽपि प्रोक्ष्यतेऽश्वः । ‘श्वीदितो निष्ठायाम्’ इतीट्प्रतिषेधः ।

विश्वास-प्रस्तुतिः

“तय्ँयद्विश्वे॑भ्यस्त्वा भू॒तेभ्य॒” इति॑ प्रो॒क्षति॑ ।
दे॒वता॑ ए॒वास्मि॑न्न॒न्वा या॑तयति ।
तस्मा॒दश्वे॒ सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः ॥27॥

मूलम्

“तय्ँयद्विश्वे॑भ्यस्त्वा भू॒तेभ्य॒” इति॑ प्रो॒क्षति॑ ।
दे॒वता॑ ए॒वास्मि॑न्न॒न्वा या॑तयति ।
तस्मा॒दश्वे॒ सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः ॥27॥

भट्टभास्कर-टीका

के पुनरश्वे सर्वा देवताः अन्वाहिता इत्याह - तं यदिति । विश्वेभ्यस्त्वा भूतेभ्य इति प्रोक्षेत् । तेन सर्वा देवताः अश्वे अन्वायातयति, तस्माद्बूमो अश्वे सर्वा देवता अन्वायत्ता इति ॥

इति तैत्तिरीयब्राह्मणे तृतीये अष्टमे अश्वमेधे सप्तमोऽनुवाकः ॥