०६

मूलम्‌

यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति ।
ए॒वव्ँ वा ए॒तदश्व॑स्य स्कन्दति ।
यन्नि॒क्तमना॑लब्धमुत्सृ॒जन्ति॑ ।
यत्स्तोक्या॑ अ॒न्वाह॑ ।
स॒र्व॒हुत॑मे॒वैन॑ङ्करो॒त्यस्क॑न्दाय ।
अस्क॑न्नँ॒ हि तत् ।
यद्धु॒तस्य॒ स्कन्द॑ति ।

विश्वास-प्रस्तुतिः

यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑त्य् ए॒वव्ँ वा ए॒तदश्व॑स्य स्कन्दति ।

यन्नि॒क्तमना॑लब्धमुत्सृ॒जन्ति॑ ।

यत्स्तोक्या॑ अ॒न्वाह॑ सर्व॒हुत॑मे॒वैन॑ङ्करो॒त्यस्क॑न्दाय ।

अस्क॑न्नँ॒ हि तत् ।
यद्धु॒तस्य॒ स्कन्द॑ति ।

मूलम्

यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑त्य् ए॒वव्ँ वा ए॒तदश्व॑स्य स्कन्दति ।

यन्नि॒क्तमना॑लब्धमुत्सृ॒जन्ति॑ ।

यत्स्तोक्या॑ अ॒न्वाह॑ सर्व॒हुत॑मे॒वैन॑ङ्करो॒त्यस्क॑न्दाय ।

अस्क॑न्नँ॒ हि तत् ।
यद्धु॒तस्य॒ स्कन्द॑ति ।

भट्टभास्कर-टीका

1यथा वा इत्यादि ॥ गृहीतस्य हविष इव अश्वस्य स्कन्दस्थानीयमिदं यत् निक्तं स्नानशोधितं अनालब्धं असंज्ञप्तं उत्सृजन्ति । तस्मात् एतद्दोषपरिहाराय अश्वस्य स्तोकान् विप्रुषः अनुमन्त्रयमाणाः स्तोक्याः ‘अग्रये स्वाहा सोमाय स्वाहा’ इत्याद्या वाय्वष्टमा दश अन्वाह । तेन अश्वं सर्वहुतं करोति इदानीमेव स्तोकसहितस्य सर्वस्याश्वस्य अग्न्यादिभ्यो हुतत्वात् ततो न कश्चित् स्कन्नत्वदोषः । हुते हि स्कन्नमस्कन्नमेव ॥

विश्वास-प्रस्तुतिः

स॒हस्र॒मन्वा॑ह ।
स॒हस्र॑सम्मितस्सुव॒र्गो लो॒कः सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ॥20॥

मूलम्

स॒हस्र॒मन्वा॑ह ।
स॒हस्र॑सम्मितस्सुव॒र्गो लो॒कः सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ॥20॥

भट्टभास्कर-टीका

2सहस्रमिति ॥ शतकृत्वः एतस्यानुवाकस्य आवृत्त्या । सहस्रसम्मित इति । बहुमूल्यत्वात् ॥

मूलम्

यत्परि॑मिता अनुब्रू॒यात् ।
परि॑मित॒मव॑ रुन्धीत ।

विश्वास-प्रस्तुतिः

यत्परि॑मिता अनुब्रू॒यात् परि॑मित॒मव॑ रुन्धीत ।

अप॑रिमिता॒ अन्वा॑ह ।

मूलम्

यत्परि॑मिता अनुब्रू॒यात् परि॑मित॒मव॑ रुन्धीत ।

अप॑रिमिता॒ अन्वा॑ह ।

मूलम्

अप॑रिमितस्सुव॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

विश्वास-प्रस्तुतिः

अप॑रिमितस्सुव॒र्गो लो॒कस् सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

मूलम्

अप॑रिमितस्सुव॒र्गो लो॒कस् सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

भट्टभास्कर-टीका

3यदिति ॥ परिमितानुवचने सहस्रस्यैवावरोधः । अपरिमितानुवचने तादृक्स्वर्गलाभः ॥

मूलम्

स्तोक्या॑ जुहोति ।
या ए॒व वर्ष्या॒ आपः॑ ।
ता अव॑ रुन्धे ।

विश्वास-प्रस्तुतिः

स्तोक्या॑ जुहोति ।

मूलम्

स्तोक्या॑ जुहोति ।

भट्टभास्कर-टीका

4स्तोक्या जुहोतीति ॥ जवात्पततां स्तोकानां स्तोक्याभिरभिमन्त्रणं होमत्वेन रूपयति ।

विश्वास-प्रस्तुतिः

या ए॒व वर्ष्या॒ आप॒स् ता अव॑ रुन्धे ।

मूलम्

या ए॒व वर्ष्या॒ आप॒स् ता अव॑ रुन्धे ।

भट्टभास्कर-टीका

या एवेति होमफलम्॥

विश्वास-प्रस्तुतिः

अ॒स्याञ्जु॑होति ।
इ॒यव्ँ वा अ॒ग्निर्वै॑श्वान॒रः ॥21॥
अ॒स्यामे॒वैना॒ᳶ प्रति॑ष्ठापयति ।

मूलम्

अ॒स्याञ्जु॑होति ।
इ॒यव्ँ वा अ॒ग्निर्वै॑श्वान॒रः ॥21॥
अ॒स्यामे॒वैना॒ᳶ प्रति॑ष्ठापयति ।

भट्टभास्कर-टीका

5अस्यामिति ॥ पृथिव्याः अग्नित्वेन रूपणं अस्यां पृथिव्यामेव एनाः वर्ष्याः अपः प्रतिष्ठिताः करोति ॥

मूलम्

उ॒वाच॑ ह प्र॒जाप॑तिः ।
स्तोक्या॑सु॒ वा अ॒हम॑श्वमे॒धँ सँस्था॑पयामि ।
तेन॒ तत॒स्सँस्थि॑तेन चरा॒मीति॑ ।

विश्वास-प्रस्तुतिः

उ॒वाच॑ ह प्र॒जाप॑ति॒स् “स्तोक्या॑सु॒ वा अ॒हम॑श्वमे॒धँ सँस्था॑पयामि ।
तेन॒ तत॒स्सँस्थि॑तेन चरा॒मी"ति॑ ।

मूलम्

उ॒वाच॑ ह प्र॒जाप॑ति॒स् “स्तोक्या॑सु॒ वा अ॒हम॑श्वमे॒धँ सँस्था॑पयामि ।
तेन॒ तत॒स्सँस्थि॑तेन चरा॒मी"ति॑ ।

भट्टभास्कर-टीका

6उवाचेत्यादि ॥ स्तोक्यानुवचन एव समस्तोऽश्वमेधस्समाप्तः, परन्तु प्रतिपत्तिकर्ममात्रमिति ॥

विश्वास-प्रस्तुतिः

“अ॒ग्नये॒ स्वाहे"त्या॑ह ।
अ॒ग्नय॑ ए॒वैन॑ञ्जुहोति ।

“सोमा॑य॒ स्वाहे"त्या॑ह ।
सोमा॑यै॒वैन॑ञ्जुहोति ।

“स॒वि॒त्रे स्वाहे"त्या॑ह ।
स॒वि॒त्र ए॒वैन॑ञ्जुहोति ॥22॥

“सर॑स्वत्यै॒ स्वाहे"त्या॑ह ।
सर॑स्वत्या ए॒वैन॑ञ्जुहोति ।

“पू॒ष्णे स्वाहे"त्या॑ह ।
पू॒ष्ण ए॒वैन॑ञ्जुहोति ।

“बृह॒स्पत॑ये॒ स्वाहे"त्या॑ह ।
बृह॒स्पत॑य ए॒वैन॑ञ्जुहोति ।

“अ॒पाम्मोदा॑य॒ स्वाहे"त्या॑ह ।
अ॒द्भ्य ए॒वैन॑ञ्जुहोति ।

“वा॒यवे॒ स्वाहे"त्या॑ह ।
वा॒यव॑ ए॒वैन॑ञ्जुहोति ॥23॥

“मि॒त्राय॒ स्वाहे"त्या॑ह ।
मि॒त्रायै॒वैन॑ञ्जुहोति ।

“वरु॑णाय॒ स्वाहे"त्या॑ह ।
वरु॑णायै॒वैन॑ञ्जुहोति ।

ए॒ताभ्य॑ ए॒वैन॑न्दे॒वता॑भ्यो जुहोति ।

मूलम्

“अ॒ग्नये॒ स्वाहे"त्या॑ह ।
अ॒ग्नय॑ ए॒वैन॑ञ्जुहोति ।

“सोमा॑य॒ स्वाहे"त्या॑ह ।
सोमा॑यै॒वैन॑ञ्जुहोति ।

“स॒वि॒त्रे स्वाहे"त्या॑ह ।
स॒वि॒त्र ए॒वैन॑ञ्जुहोति ॥22॥

“सर॑स्वत्यै॒ स्वाहे"त्या॑ह ।
सर॑स्वत्या ए॒वैन॑ञ्जुहोति ।

“पू॒ष्णे स्वाहे"त्या॑ह ।
पू॒ष्ण ए॒वैन॑ञ्जुहोति ।

“बृह॒स्पत॑ये॒ स्वाहे"त्या॑ह ।
बृह॒स्पत॑य ए॒वैन॑ञ्जुहोति ।

“अ॒पाम्मोदा॑य॒ स्वाहे"त्या॑ह ।
अ॒द्भ्य ए॒वैन॑ञ्जुहोति ।

“वा॒यवे॒ स्वाहे"त्या॑ह ।
वा॒यव॑ ए॒वैन॑ञ्जुहोति ॥23॥

“मि॒त्राय॒ स्वाहे"त्या॑ह ।
मि॒त्रायै॒वैन॑ञ्जुहोति ।

“वरु॑णाय॒ स्वाहे"त्या॑ह ।
वरु॑णायै॒वैन॑ञ्जुहोति ।

ए॒ताभ्य॑ ए॒वैन॑न्दे॒वता॑भ्यो जुहोति ।

भट्टभास्कर-टीका

7अग्नये स्वाहेत्यादि ॥ स्वाहाकारवतीभिरेताभिस्तोकानुमन्त्रणात् अग्न्यादिभ्यः एते स्तोकाः हुता भवन्ति । ततोऽत्रैव होमेनाराधिता अग्न्यादय इति समाप्तोऽश्वमेध इति प्रजापतिरुवाचेति ॥

विश्वास-प्रस्तुतिः

दश॑दश स॒म्पाद॑ञ्जुहोति ।
दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे ।

मूलम्

दश॑दश स॒म्पाद॑ञ्जुहोति ।
दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे ।

भट्टभास्कर-टीका

8दशदशेति ॥ दशदश संपाद्य शतकृत्वः आवृत्या सहस्रं संपाद्य न पुनरेकैकं नाम दशकृत्व आवृत्त्या सहस्रत्वमिति ॥

विश्वास-प्रस्तुतिः

प्र वा ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते ।
यᳶ परा॑ची॒राहु॑तीर्जु॒होति॑ ।
पुन॑ᳶपुनरभ्या॒वर्त॑ञ्जुहोति ।
अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ।

मूलम्

प्र वा ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते ।
यᳶ परा॑ची॒राहु॑तीर्जु॒होति॑ ।
पुन॑ᳶपुनरभ्या॒वर्त॑ञ्जुहोति ।
अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ।

भट्टभास्कर-टीका

2प्र वा इत्यादि ॥ अपुनरावृत्तहोमात् अस्मात् लोकात् प्रच्यवते इति तस्मात्पुनःपुनः अभ्यावर्तनम्, अभ्यावृत्त्या होमात् अस्मिन् लोके प्रतिष्ठितो भवति । दशकाभ्यावृत्त्या विराडवरोधः, सहस्रत्वसंपादनात् स्वर्गस्याभिजय इति ॥

विश्वास-प्रस्तुतिः

ए॒ताँ ह वाव सो॑ऽश्वमे॒धस्य॒ सँस्थि॑तिमुवा॒चास्क॑न्दाय ।
अस्क॑न्नँ॒ हि तत् ।
यद्य॒ज्ञस्य॒ सँस्थि॑तस्य॒ स्कन्द॑ति ॥24॥

मूलम्

ए॒ताँ ह वाव सो॑ऽश्वमे॒धस्य॒ सँस्थि॑तिमुवा॒चास्क॑न्दाय ।
अस्क॑न्नँ॒ हि तत् ।
यद्य॒ज्ञस्य॒ सँस्थि॑तस्य॒ स्कन्द॑ति ॥24॥

भट्टभास्कर-टीका

10एतां हेति ॥ सः प्रजापतिः एतामेव उक्तामाहुतिं स्कन्दनदोषपरिहारायाश्वमेधस्य समाप्तिहेतुमुवाच । संस्थितस्य यज्ञस्य संबन्धि यद्द्रव्यं स्कन्दति तदस्कन्दनमेवेति ॥

इति तैत्तिरीयब्राह्मणे तृतीये अष्टमे अश्वमेधे षष्ठोऽनुवाकः ॥