विश्वास-प्रस्तुतिः
च॒त्वार॑ ऋ॒त्विज॒स्समु॑क्षन्ति ।
आ॒भ्य ए॒वैन॑ञ्चत॒सृभ्यो॑ दि॒ग्भ्यो॑ऽभिसमी॑रयन्ति ।
मूलम्
च॒त्वार॑ ऋ॒त्विज॒स्समु॑क्षन्ति ।
आ॒भ्य ए॒वैन॑ञ्चत॒सृभ्यो॑ दि॒ग्भ्यो॑ऽभिसमी॑रयन्ति ।
भट्टभास्कर-टीका
1चत्वार इति ॥ चत्वारः वक्ष्यमाणाः ऋत्विजः अध्वर्युब्रह्महोत्रुद्गातारः समुक्षन्ति संहत्योक्षन्ति सिञ्चन्ति । आभ्य चतसृभ्योपि दिग्भ्यः एनं अश्वं अभिसमीरयन्ति आभिमुख्येन तत्र तत्र दिशि समीरयन्ति उत्साहयन्ति ॥
विश्वास-प्रस्तुतिः
श॒तेन॑ राजपु॒त्रैस्स॒हाध्व॒र्युः ।
पु॒रस्ता॑त्प्र॒त्यङ्तिष्ठ॒न्प्रोक्ष॑ति ।
अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा ।
अ॒यँ राजा॑ वृ॒त्रव्ँव॑ध्या॒दिति॑ ।
मूलम्
श॒तेन॑ राजपु॒त्रैस्स॒हाध्व॒र्युः ।
पु॒रस्ता॑त्प्र॒त्यङ्तिष्ठ॒न्प्रोक्ष॑ति ।
अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा ।
अ॒यँ राजा॑ वृ॒त्रव्ँव॑ध्या॒दिति॑ ।
भट्टभास्कर-टीका
2तत्कथमित्याह - शतेनेति ॥ उदकस्थमेवाश्वं एतैस्सहिताः अध्वर्युप्रभृतयः प्रोक्षन्ति - ‘अनेनाश्वेन’ इत्यादिभिर्मन्त्रेः । राजपुत्रादयः तूष्णीं प्रोक्षन्ति । राजपुत्राः अभिषिक्तक्षत्रियपुत्राः स्वयं राज्यार्हः । मन्त्रार्थस्तु - अयं राजा अनेन मेधार्हेणाश्वेन इष्ट्वा वृत्रं वारकं पापं शत्रुं वा वध्यात् हन्तुं समर्थोऽस्तु ।
विश्वास-प्रस्तुतिः
रा॒ज्यव्ँ वा अ॑ध्व॒र्युः ।
क्ष॒त्रँ रा॑जपु॒त्रः ।
रा॒ज्येनै॒वास्मि॑न्क्ष॒त्रन्द॑धाति ।
श॒तेना॑ रा॒जभि॑रु॒ग्रैस्स॒ह ब्र॒ह्मा ॥16॥
मूलम्
रा॒ज्यव्ँ वा अ॑ध्व॒र्युः ।
क्ष॒त्रँ रा॑जपु॒त्रः ।
रा॒ज्येनै॒वास्मि॑न्क्ष॒त्रन्द॑धाति ।
श॒तेना॑ रा॒जभि॑रु॒ग्रैस्स॒ह ब्र॒ह्मा ॥16॥
भट्टभास्कर-टीका
राज्यं वा इत्यादि । राज्यस्थितिहेतुत्वात् राज्याय परिदानाच्च ताच्छब्द्यम् । क्षत्रं वीर्यं तद्योगात्ताच्छब्द्यम् । राज्यभूतेनाध्वर्युणा क्षत्रभूतैः राजपुत्रैः सह प्रोक्षणात् राज्येनैवास्मिन् यजमाने वीर्यं स्थापयति ॥
विश्वास-प्रस्तुतिः
द॒क्षि॒ण॒त उद॒ङ्तिष्ठ॒न्प्रोक्ष॑ति ।
अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा ।
अ॒यँ राजा॑प्रतिधृ॒ष्यो॑ऽस्त्विति॑ ।
मूलम्
द॒क्षि॒ण॒त उद॒ङ्तिष्ठ॒न्प्रोक्ष॑ति ।
अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा ।
अ॒यँ राजा॑प्रतिधृ॒ष्यो॑ऽस्त्विति॑ ।
भट्टभास्कर-टीका
3ब्रह्मा दक्षिणतः प्रोक्षति ॥ अराजभिः अनभिषेकार्हैः राजन्यैः उग्रानुलोमैश्च संभूय शतसंख्यैः । अव्ययपूर्वपदप्रकृतिस्वरत्वाभावः छान्दसः, चादित्वाद्वा उत्तरपदान्तोदात्तत्वम् । अप्रतिधृष्यः परैरभिभवितुमशक्यः । ‘कृत्योकेष्णुच्चार्वादयश्च’ इत्युतरपदान्तोदात्तत्वम् । ‘स्वरितो वाऽनुदात्ते पदादौ’ स्वर्यः उदात्त ओकारः ।
विश्वास-प्रस्तुतिः
बलव्ँ॒ वै ब्र॒ह्मा ।
बल॑मरा॒जोग्रः ।
बले॑नै॒वास्मि॒न्बल॑न्दधाति ।
मूलम्
बलव्ँ॒ वै ब्र॒ह्मा ।
बल॑मरा॒जोग्रः ।
बले॑नै॒वास्मि॒न्बल॑न्दधाति ।
भट्टभास्कर-टीका
बलं वा इति । तद्वत्त्वात् ताच्छब्द्यमुभयोः । राज्ञो बलवत्त्वाद्वा ॥
विश्वास-प्रस्तुतिः
श॒तेन॑ सूतग्राम॒णिभि॑स्स॒ह होता॑ ।
प॒श्चात्प्राङ्तिष्ठ॒न्प्रोक्ष॑ति ।
अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा ।
मूलम्
श॒तेन॑ सूतग्राम॒णिभि॑स्स॒ह होता॑ ।
प॒श्चात्प्राङ्तिष्ठ॒न्प्रोक्ष॑ति ।
अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा ।
भट्टभास्कर-टीका
4होता पश्चात्प्रोक्षति ॥ सुतैः सारथिभिः ग्रामणीभिः बलचक्रस्य नेतृभिश्च ।
विश्वास-प्रस्तुतिः
अ॒यँ राजा॒ऽस्यै वि॒शः ॥17॥
मूलम्
अ॒यँ राजा॒ऽस्यै वि॒शः ॥17॥
भट्टभास्कर-टीका
अस्यै विश इत्यादि । विट् प्रजा राष्ट्रं वा ।
विश्वास-प्रस्तुतिः
ब॒हु॒ग्वै ब॑ह्व॒श्वायै॑ बह्वजावि॒कायै॑ ।
ब॒हु॒व्री॒हि॒य॒वायै॑ बहुमाषति॒लायै॑ ।
ब॒हु॒हि॒र॒ण्यायै॑ बहुह॒स्तिका॑यै ।
ब॒हु॒दा॒स॒पू॒रु॒षायै॑ रयि॒मत्यै॒ पुष्टि॑मत्यै ।
ब॒हु॒रा॒य॒स्पो॒षायै॒ राजा॒स्त्विति॑ ।
मूलम्
ब॒हु॒ग्वै ब॑ह्व॒श्वायै॑ बह्वजावि॒कायै॑ ।
ब॒हु॒व्री॒हि॒य॒वायै॑ बहुमाषति॒लायै॑ ।
ब॒हु॒हि॒र॒ण्यायै॑ बहुह॒स्तिका॑यै ।
ब॒हु॒दा॒स॒पू॒रु॒षायै॑ रयि॒मत्यै॒ पुष्टि॑मत्यै ।
ब॒हु॒रा॒य॒स्पो॒षायै॒ राजा॒स्त्विति॑ ।
भट्टभास्कर-टीका
बहुगुः प्रभूतगुः । ‘गोस्त्रियोः’ इति ह्रस्वत्वम् । ‘बहोर्नञ्वत्’ इति नञ्वद्भावः, ‘नञ् सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । एवं सर्वत्र ।
विश्वास-प्रस्तुतिः
भू॒मा वै होता॑ ।
भू॒मा सू॑तग्राम॒ण्यः॑ ।
भू॒म्नैवास्मि॑न्भू॒मान॑न्दधाति ।
भू॒मा वै होता॑ ।
भू॒मा सू॑तग्राम॒ण्यः॑ ।
भू॒म्नैवास्मि॑न्भू॒मान॑न्दधाति ।
मूलम्
भू॒मा वै होता॑ ।
भू॒मा सू॑तग्राम॒ण्यः॑ ।
भू॒म्नैवास्मि॑न्भू॒मान॑न्दधाति ।
भू॒मा वै होता॑ ।
भू॒मा सू॑तग्राम॒ण्यः॑ ।
भू॒म्नैवास्मि॑न्भू॒मान॑न्दधाति ।
भट्टभास्कर-टीका
भूमा वा इति । भूमा वृद्धिः तद्धेतुत्वात्ताच्छब्द्यम् ॥
विश्वास-प्रस्तुतिः
भू॒मा वै होता॑ ।
भू॒मा सू॑तग्राम॒ण्यः॑ ।
भू॒म्नैवास्मि॑न्भू॒मान॑न्दधाति ।
मूलम्
भू॒मा वै होता॑ ।
भू॒मा सू॑तग्राम॒ण्यः॑ ।
भू॒म्नैवास्मि॑न्भू॒मान॑न्दधाति ।
भट्टभास्कर-टीका
5उद्गाता उत्तरतः प्रोक्षति - क्षत्तारः वैश्येन शूद्रायां जाताः, संग्रहीतारः राजास्थानीयाः कोशवृद्धिकारिणः ।
विश्वास-प्रस्तुतिः
आयु॒र्वा उ॑द्गा॒ता ।
आयुः॑ क्षत्तसङ्ग्रही॒तारः॑ ।
आयु॑षै॒वास्मि॒न्नायु॑र्दधाति ।
श॒तँश॑तम्भवन्ति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
मूलम्
आयु॒र्वा उ॑द्गा॒ता ।
आयुः॑ क्षत्तसङ्ग्रही॒तारः॑ ।
आयु॑षै॒वास्मि॒न्नायु॑र्दधाति ।
श॒तँश॑तम्भवन्ति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
भट्टभास्कर-टीका
आयुर्वा इति । तद्धेतुत्वात्ताच्छब्द्यम् । गतमन्यत् ॥
विश्वास-प्रस्तुतिः
च॒तु॒श्श॒ता भ॑वन्ति ।
चत॑स्रो॒ दिशः॑ ।
दि॒क्ष्वे॑व प्रति॑ तिष्ठति ॥19॥
मूलम्
च॒तु॒श्श॒ता भ॑वन्ति ।
चत॑स्रो॒ दिशः॑ ।
दि॒क्ष्वे॑व प्रति॑ तिष्ठति ॥19॥
भट्टभास्कर-टीका
6चतुश्शता इति ॥ चत्वारि शतानि परिमाणमेषामिति । द्विगोर्लुक् ॥
विश्वास-प्रस्तुतिः
मूलम्
भट्टभास्कर-टीका
इति तैत्तिरीय ब्राह्मणे तृतीये अष्टके अष्टमे प्रपाठके अश्वमेधे प्रथमे पश्चमोऽनुवाकः ॥