मूलम्
यᳶ पि॒तुर॑नु॒जाया॑ᳶ पु॒त्रः ।
स पु॒रस्ता॑न्नयति ।
यो मा॒तुर॑नु॒जाया॑ᳶ पु॒त्रः ।
स प॒श्चान्न॑यति ।
विश्वास-प्रस्तुतिः
यᳶ पि॒तुर॑नु॒जाया॑ᳶ पु॒त्रस् स पु॒रस्ता॑न्नयति ।
यो मा॒तुर॑नु॒जाया॑ᳶ पु॒त्रस् स प॒श्चान्न॑यति ।
मूलम्
यᳶ पि॒तुर॑नु॒जाया॑ᳶ पु॒त्रस् स पु॒रस्ता॑न्नयति ।
यो मा॒तुर॑नु॒जाया॑ᳶ पु॒त्रस् स प॒श्चान्न॑यति ।
भट्टभास्कर-टीका
आनयन्ति ततश्श्वानं यजमानस्य पूरुषाः ।
विष्वग्बन्धेन बद्धाङ्गं चतुरक्षं विवक्षितम् ॥
अक्ष्णोरुपरि यश्श्वेतबिन्दुद्वितयलाच्छितः ।
तं समाचक्षते श्वानं चतुरक्षं विचक्षणाः ॥
1तदानयनप्रकारमाह - यः पितुरिति ॥ पितुः अनुजा अवरजा तस्याः पुत्रः पुरस्तात् अग्रे नयति कर्षति मातुरनुजायाः पुत्रः पश्चात्कर्षति । एवं विष्वग्गतिकं श्वानं कर्षन्तौ पैतृष्वसेयमातृष्वसेयौ अस्मात् यजमानात् पाप्मानं विष्वञ्चं विवृहतः विश्लेषयतः ।
विश्वास-प्रस्तुतिः
विष्व॑ञ्चमे॒वास्मा॑त्पा॒प्मानव्ँ॒विवृ॑हतः ।
यो अर्व॑न्त॒ञ्जिघाँ॑सति॒ तम॒भ्य॑मीति॒ वरु॑ण॒ इति॒ श्वान॑ञ्चतुर॒क्षम्प्रसौ॑ति ।
प॒रो मर्त॑ᳶ प॒रश्श्वेति॒ शुन॑श्चतुर॒क्षस्य॒ प्रह॑न्ति ।
मूलम्
विष्व॑ञ्चमे॒वास्मा॑त्पा॒प्मानव्ँ॒विवृ॑हतः ।
यो अर्व॑न्त॒ञ्जिघाँ॑सति॒ तम॒भ्य॑मीति॒ वरु॑ण॒ इति॒ श्वान॑ञ्चतुर॒क्षम्प्रसौ॑ति ।
प॒रो मर्त॑ᳶ प॒रश्श्वेति॒ शुन॑श्चतुर॒क्षस्य॒ प्रह॑न्ति ।
भट्टभास्कर-टीका
प्रसौतीति श्वानं हन्तुं अनुजानाति पौंश्चलेयम् । अयं प्रयोगः -
सैध्रक मुसलं हस्ते गृह्णन् दासीसुतस्ततः ।
सौवर्णावृतजानुस्तु पृष्ठतोऽश्वमनुव्रजेत् ॥
प्रवेशयन्त्यश्वमथाप्सु मुञ्चन्
श्वानं जले यत्र शुनोऽप्रतिष्ठा ।
अध्वर्युणाऽथ प्रसुतो जहीति
स पौंश्चलेयोऽस्य शुनः प्रहन्ति ॥
‘जासिनि प्रहण’ इति षष्ठी । प्रहन्तीति हत्वा अश्वपदानामधस्तात् उपास्यतीत्यर्थः । ‘अश्वस्याधस्पदसुपास्यति’ इत्यस्य शेषत्वात् ।
विश्वास-प्रस्तुतिः
श्वेव॒ वै पा॒प्मा भ्रातृ॑व्यः ।
पा॒प्मान॑मे॒वास्य॒ भ्रातृ॑व्यँ हन्ति ।
मूलम्
श्वेव॒ वै पा॒प्मा भ्रातृ॑व्यः ।
पा॒प्मान॑मे॒वास्य॒ भ्रातृ॑व्यँ हन्ति ।
भट्टभास्कर-टीका
श्वेव वा इति । अनिष्टहेतुत्वात् । तस्मात् शुनो वधेन यजमानस्य पाप्मा हतो भवति ॥
विश्वास-प्रस्तुतिः
सै॒ध्र॒कम्मुस॑लम्भवति ॥13॥
मूलम्
सै॒ध्र॒कम्मुस॑लम्भवति ॥13॥
भट्टभास्कर-टीका
2सैध्रकमिति ॥ सिध्रको नाम महासारो वृक्षः तद्विकारेण मुसलेन हन्ति ।
विश्वास-प्रस्तुतिः
कर्म॑कर्मै॒वास्मै॑ साधयति ।
मूलम्
कर्म॑कर्मै॒वास्मै॑ साधयति ।
भट्टभास्कर-टीका
कर्मकर्मेति ॥ सर्वमभिमतं कर्म साधयति अस्यै यजमानाय सैध्रकेण श्ववधं कुर्वन्, तस्य महासारत्वेन सर्वात्मना पाप्मनो हतत्वात् ।
विश्वास-प्रस्तुतिः
पौँ॒श्च॒ले॒यो ह॑न्ति ।
पुँ॒श्च॒ल्वाव्ँ वै दे॒वाश्शुच॒न्न्य॑दधुः ।
मूलम्
पौँ॒श्च॒ले॒यो ह॑न्ति ।
पुँ॒श्च॒ल्वाव्ँ वै दे॒वाश्शुच॒न्न्य॑दधुः ।
भट्टभास्कर-टीका
पौंश्चलेयः पुंश्चल्या अपत्यं पौंश्चलेयः । ‘स्त्रीभ्यो ढक्’ इति ढक् । पुंश्चल्वामिति वर्णव्यत्ययेन ऊकारः । औणादिको वा ऊकारः ।
विश्वास-प्रस्तुतिः
शु॒चैवास्य॒ शुचँ॑ हन्ति ।
मूलम्
शु॒चैवास्य॒ शुचँ॑ हन्ति ।
भट्टभास्कर-टीका
शुचैवेति । पौंश्चलेयस्य पुंश्चलीनिहितशोकस्थानीयत्वात्, शोकेनैव स्वयं यजमानशोको हन्तव्य इति युक्तम् ॥
विश्वास-प्रस्तुतिः
“पा॒प्मा वा ए॒तमी॑प्स॒ती"त्या॑हुः ।
मूलम्
“पा॒प्मा वा ए॒तमी॑प्स॒ती"त्या॑हुः ।
भट्टभास्कर-टीका
3पाप्मा वा इति ॥ ईप्सति प्राप्तुमिचछति । हिंसाया बहुत्वात्, महाभ्युदयहेतुत्वेन मत्सरिणां वा बहुत्वात् ।
मूलम्
यो॑ऽश्वमे॒धेन॒ यज॑त॒ इति॑ ।
अश्व॑स्याधस्प॒दमुपा॑स्यति ।
विश्वास-प्रस्तुतिः
यो॑ऽश्वमे॒धेन॒ यज॑त॒ इत्य्॒ अश्व॑स्याधस्प॒दमुपा॑स्यति ।
मूलम्
यो॑ऽश्वमे॒धेन॒ यज॑त॒ इत्य्॒ अश्व॑स्याधस्प॒दमुपा॑स्यति ।
भट्टभास्कर-टीका
अधस्पदमिति पादानामधस्तात् । ‘अधश्शिरसी पदे ’ इति सत्वम् ॥ उपास्यति निदधाति ।
विश्वास-प्रस्तुतिः
व॒ज्री वा अश्व॑ᳶ प्राजाप॒त्यः ।
वज्रे॑णै॒व पा॒प्मान॒म्भ्रातृ॑व्य॒मव॑क्रामति ।
मूलम्
व॒ज्री वा अश्व॑ᳶ प्राजाप॒त्यः ।
वज्रे॑णै॒व पा॒प्मान॒म्भ्रातृ॑व्य॒मव॑क्रामति ।
भट्टभास्कर-टीका
वज्री वा इति । वज्रिणा तुल्योऽयमश्वः बहुसारत्वात् । तस्मात् वज्रेण सारवता अश्वेन अनेन वज्रिणः वज्रेण पाप्मानं अवक्रामति अधस्पदं शुन उपासनेन ॥
विश्वास-प्रस्तुतिः
द॒क्षि॒णाऽप॑प्लावयति ॥14॥
पा॒प्मान॑मे॒वास्मा॒च्छम॑ल॒मप॑प्लावयति ।
मूलम्
द॒क्षि॒णाऽप॑प्लावयति ॥14॥
पा॒प्मान॑मे॒वास्मा॒च्छम॑ल॒मप॑प्लावयति ।
भट्टभास्कर-टीका
4दक्षिणेति ॥ अश्वस्य दक्षिणपार्श्वे जलस्थं हतं श्वानं अपप्लावयति अपक्रामयति पाप्मानं शमलं शमनं विनाशकं कर्मणाम् । अस्मात् यजमानात् अपप्लावयति अपगमयति ॥
विश्वास-प्रस्तुतिः
ऐ॒षी॒क उ॑दू॒हो भ॑वति ।
आयु॒र्वा इ॒षीकाः॑ ।
आयु॑रे॒वास्मि॑न्दधति ।
अ॒मृतव्ँ॒वा इ॒षीकाः॑ ।
अ॒मृत॑मे॒वास्मि॑न्दधति ।
वे॒त॒स॒शा॒खोप॒सम्ब॑द्धा भवति ।
अ॒प्सुयो॑नि॒र्वा अश्वः॑ ।
अ॒प्सु॒जो वे॑त॒सः ।
स्वादे॒वैनय्ँ॒योने॒र्निर्मि॑मीते ।
मूलम्
ऐ॒षी॒क उ॑दू॒हो भ॑वति ।
आयु॒र्वा इ॒षीकाः॑ ।
आयु॑रे॒वास्मि॑न्दधति ।
अ॒मृतव्ँ॒वा इ॒षीकाः॑ ।
अ॒मृत॑मे॒वास्मि॑न्दधति ।
वे॒त॒स॒शा॒खोप॒सम्ब॑द्धा भवति ।
अ॒प्सुयो॑नि॒र्वा अश्वः॑ ।
अ॒प्सु॒जो वे॑त॒सः ।
स्वादे॒वैनय्ँ॒योने॒र्निर्मि॑मीते ।
भट्टभास्कर-टीका
5ऐषीक इति ॥ इषीकाभिः निर्मितः उदूहः उदूह्यते अश्वो येन स उदूहः वरत्रया निबद्धः तस्मिन् आर्द्रा वेतसशाखा वरत्रया उपसंबद्धा भवति ।
विश्वास-प्रस्तुतिः
पु॒रस्ता॑त्प्र॒त्यञ्च॑म॒भ्युदू॑हति ।
मूलम्
पु॒रस्ता॑त्प्र॒त्यञ्च॑म॒भ्युदू॑हति ।
भट्टभास्कर-टीका
स च तथा महान् कार्यः यथा द्वे शते जनाः दक्षिणतो धारयन्ति द्वे शते उत्तरतः एवं चतुर्भिश्शतैः धारितेन तेन पुरस्तात् प्रत्यञ्चं प्रत्यङ्मुखं अश्वं अभ्युदूहति तीरं प्रति प्रणुदन्ति उदूहं धारयन्तो जनाः । गतमन्यत् ।
विश्वास-प्रस्तुतिः
पु॒रस्ता॑दे॒वास्मि॑न्प्र॒तीच्य॒मृत॑न्दधाति ।
मूलम्
पु॒रस्ता॑दे॒वास्मि॑न्प्र॒तीच्य॒मृत॑न्दधाति ।
भट्टभास्कर-टीका
पुरस्तादेवेति । पुरस्तादेवारभ्य प्रतीचि प्रतीचीनेऽपि पयसि अमृतं अमरणत्वं दधाति ऐषीक उदूहः ॥
विश्वास-प्रस्तुतिः
अ॒हञ्च॒ त्वञ्च॑ वृत्रह॒न्निति॑ ब्र॒ह्मा यज॑मानस्य॒ हस्त॑ङ्गृह्णाति ।
ब्र॒ह्म॒क्ष॒त्रे ए॒व सन्द॑धाति ।
अ॒भिक्रत्वे॑न्द्र भू॒रध॒ज्मन्नित्य॑ध्व॒र्युर्यज॑मानव्ँ वाचयत्य॒भिजि॑त्यै ॥ 15॥
मूलम्
अ॒हञ्च॒ त्वञ्च॑ वृत्रह॒न्निति॑ ब्र॒ह्मा यज॑मानस्य॒ हस्त॑ङ्गृह्णाति ।
ब्र॒ह्म॒क्ष॒त्रे ए॒व सन्द॑धाति ।
अ॒भिक्रत्वे॑न्द्र भू॒रध॒ज्मन्नित्य॑ध्व॒र्युर्यज॑मानव्ँ वाचयत्य॒भिजि॑त्यै ॥ 15॥
भट्टभास्कर-टीका
5अहं चेति ॥ एते हस्तग्रहणवाचने उदूहाभ्यूहनात् प्राग्द्रष्टव्ये ॥
इति तैत्तिरीयब्राह्मणे तृतीये अष्टमे अश्वमेधे चतुर्थोऽनुवाकः ॥