विश्वास-प्रस्तुतिः
यो वै ब्रह्म॑णे दे॒वेभ्य॑ᳶ प्र॒जाप॑त॒येऽप्र॑तिप्रो॒च्याश्व॒म्मेध्य॑म्ब॒ध्नाति॑ ।
आ दे॒वता॑भ्यो वृश्च्यते ।
पापी॑यान्भवति ।
मूलम्
यो वै ब्रह्म॑णे दे॒वेभ्य॑ᳶ प्र॒जाप॑त॒येऽप्र॑तिप्रो॒च्याश्व॒म्मेध्य॑म्ब॒ध्नाति॑ ।
आ दे॒वता॑भ्यो वृश्च्यते ।
पापी॑यान्भवति ।
भट्टभास्कर-टीका
रशनाञ्जनतः पश्चादध्वर्युं परिदापयेत् ।
राज्याय स च राजा स्याद्यावत्संतिष्ठते क्रतुः ॥
मूलम्
यᳶ प्र॑ति॒प्रोच्य॑ ।
न दे॒वता॑भ्य॒ आवृ॑श्च्यते ।
वसी॑यान्भवति ।
यदाह॑ ।
ब्रह्म॒न्नश्व॒म्मेध्य॑म्भन्त्स्यामि दे॒वेभ्य॑ᳶ प्र॒जाप॑तये॒ तेन॑ राध्यास॒मिति॑ ।
ब्रह्म॒ वै ब्र॒ह्मा ।
ब्रह्म॑ण ए॒व दे॒वेभ्य॑ᳶ प्र॒जाप॑तये प्रति॒प्रोच्याश्व॒म्मेध्य॑म्बध्नाति ॥7॥
न दे॒वता॑भ्य॒ आ वृ॑श्च्यते ।
वसी॑यान्भवति ।
विश्वास-प्रस्तुतिः
यᳶ प्र॑ति॒प्रोच्य॒ न दे॒वता॑भ्य॒ आवृ॑श्च्यते॒ वसी॑यान्भवति ।
यदाह॒ - “ब्रह्म॒न्नश्व॒म्मेध्य॑म्भन्त्स्यामि दे॒वेभ्य॑ᳶ प्र॒जाप॑तये॒ तेन॑ राध्यास॒"मिति॑ ।
ब्रह्म॒ वै ब्र॒ह्मा ।
ब्रह्म॑ण ए॒व दे॒वेभ्य॑ᳶ प्र॒जाप॑तये प्रति॒प्रोच्याश्व॒म्मेध्य॑म्बध्नाति ॥7॥
न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ , वसी॑यान्भवति ।
मूलम्
यᳶ प्र॑ति॒प्रोच्य॒ न दे॒वता॑भ्य॒ आवृ॑श्च्यते॒ वसी॑यान्भवति ।
यदाह॒ - “ब्रह्म॒न्नश्व॒म्मेध्य॑म्भन्त्स्यामि दे॒वेभ्य॑ᳶ प्र॒जाप॑तये॒ तेन॑ राध्यास॒"मिति॑ ।
ब्रह्म॒ वै ब्र॒ह्मा ।
ब्रह्म॑ण ए॒व दे॒वेभ्य॑ᳶ प्र॒जाप॑तये प्रति॒प्रोच्याश्व॒म्मेध्य॑म्बध्नाति ॥7॥
न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ , वसी॑यान्भवति ।
भट्टभास्कर-टीका
1यो वै ब्रह्मण इत्यादि ॥ देवेभ्यो देवार्थं प्रजापत्यर्थं च भागत्वेन वर्तमानं इमं मेध्यं अश्वं ब्रह्मणे अप्रतिप्रोच्य अनिवेद्य यः बध्नाति सर्वाभ्यः देवताभ्यः आवृश्च्यते विच्छिन्नो भवति । यः अश्वमेधेन न इयक्षति ततोपि पापतरो भवति ।
प्रतिप्रोच्य बन्धने न कश्चिद्दोषः । तस्मात् ‘ब्रह्मन्नश्वम्’ इति मन्त्रेण ब्रह्माणमामन्त्र्य तेन प्रसुते बध्नाति । निगदव्याख्यातो मन्त्रः ॥
विश्वास-प्रस्तुतिः
“दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व” इति॑ रश॒नामाद॑त्ते॒ प्रसू॑त्यै ।
“अ॒श्विनो॑र्बा॒हुभ्या॒"मित्या॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।
“पू॒ष्णो हस्ता॑भ्या॒"मित्या॑ह॒ यत्यै॑ ।
मूलम्
“दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व” इति॑ रश॒नामाद॑त्ते॒ प्रसू॑त्यै ।
“अ॒श्विनो॑र्बा॒हुभ्या॒"मित्या॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।
“पू॒ष्णो हस्ता॑भ्या॒"मित्या॑ह॒ यत्यै॑ ।
भट्टभास्कर-टीका
2देवस्य त्वेति ॥ गतम् ॥
मूलम्
व्यृ॑द्धव्ँ॒वा ए॒तद्य॒ज्ञस्य॑ ।
यद॑य॒जुष्के॑ण क्रि॒यते॑ ।
इ॒माम॑गृभ्णन्रश॒नामृ॒तस्येत्यधि॑वदति॒ यजु॑ष्कृत्यै ।
य॒ज्ञस्य॒ समृ॑द्ध्यै ॥8॥
विश्वास-प्रस्तुतिः
यद॑य॒जुष्के॑ण क्रि॒यत॑ “इ॒माम॑गृभ्णन्रश॒नामृ॒तस्ये"त्यधि॑वदति॒ यजु॑ष्कृत्यै य॒ज्ञस्य॒ समृ॑द्ध्यै ॥8॥
मूलम्
यद॑य॒जुष्के॑ण क्रि॒यत॑ “इ॒माम॑गृभ्णन्रश॒नामृ॒तस्ये"त्यधि॑वदति॒ यजु॑ष्कृत्यै य॒ज्ञस्य॒ समृ॑द्ध्यै ॥8॥
भट्टभास्कर-टीका
3व्यृद्धमित्यादि ॥ व्याख्यातम् । अधिवदनं उपरिवदनं आदानानन्तरं अभिमन्त्रयमाणेन वदनम् । यजुषा मन्त्रेण कृतिः संस्कृतिः यजुष्कृतिः ॥
विश्वास-प्रस्तुतिः
तदा॑हुः ।
“द्वाद॑शारत्नी रश॒ना क॑र्त॒व्या ३ त्रयो॑दशार॒त्नी ३” रिति॑ ।
मूलम्
तदा॑हुः ।
“द्वाद॑शारत्नी रश॒ना क॑र्त॒व्या ३ त्रयो॑दशार॒त्नी ३” रिति॑ ।
भट्टभास्कर-टीका
4तदाहुरिति ॥ तत्राहुरित्यर्थः । इयं अश्वाभिधानी रशना किं द्वादशारत्नी कर्तव्या किं त्रयोदशारत्नीति विचारमाहुः ब्रह्मवादिनः । ‘विचार्यमाणानाम्’ इति उभयत्र प्लुतः ।
मूलम्
ऋ॒ष॒भो वा ए॒ष ऋ॑तू॒नाम् ।
यत्सव्ँ॑वत्स॒रः ।
तस्य॑ त्रयोद॒शो मासो॑ वि॒ष्टप॑म् ।
ऋ॒ष॒भ ए॒ष य॒ज्ञाना॑म् ।
यद॑श्वमे॒धः ।
यथा॒ वा ऋ॑ष॒भस्य॑ वि॒ष्टप॑म् ।
ए॒वमे॒तस्य॑ वि॒ष्टप॑म् ।
त्र॒यो॒द॒शम॑र॒त्निँ र॑श॒नाया॑मु॒पाद॑धाति ॥9॥
यथ॑र्ष॒भस्य॑ वि॒ष्टपँ॑ सँस्क॒रोति॑ ।
ता॒दृगे॒व तत् ।
विश्वास-प्रस्तुतिः
ऋ॒ष॒भो वा ए॒ष ऋ॑तू॒नाम् यत्सव्ँ॑वत्स॒रः ।
तस्य॑ त्रयोद॒शो मासो॑ वि॒ष्टप॑म् ।
मूलम्
ऋ॒ष॒भो वा ए॒ष ऋ॑तू॒नाम् यत्सव्ँ॑वत्स॒रः ।
तस्य॑ त्रयोद॒शो मासो॑ वि॒ष्टप॑म् ।
भट्टभास्कर-टीका
ऋषभो वा इति । ऋतूनां कालावयवानां मध्ये संवत्सरो नाम ऋषभः प्रधानभूतः । तस्य ऋषभस्य त्रयोदशो मासो विष्टपं ककुत्स्थानीयः ।
विश्वास-प्रस्तुतिः
ऋ॒ष॒भ ए॒ष य॒ज्ञाना॒म् यद॑श्वमे॒धः ।
यथा॒ वा ऋ॑ष॒भस्य॑ वि॒ष्टप॑म् ए॒वमे॒तस्य॑ वि॒ष्टप॑न् त्रयोद॒शम॑र॒त्निँ र॑श॒नाया॑मु॒पाद॑धाति ॥9॥
यथ॑र्ष॒भस्य॑ वि॒ष्टपँ॑ सँस्क॒रोति॑ ता॒दृगे॒व तत् ।
मूलम्
ऋ॒ष॒भ ए॒ष य॒ज्ञाना॒म् यद॑श्वमे॒धः ।
यथा॒ वा ऋ॑ष॒भस्य॑ वि॒ष्टप॑म् ए॒वमे॒तस्य॑ वि॒ष्टप॑न् त्रयोद॒शम॑र॒त्निँ र॑श॒नाया॑मु॒पाद॑धाति ॥9॥
यथ॑र्ष॒भस्य॑ वि॒ष्टपँ॑ सँस्क॒रोति॑ ता॒दृगे॒व तत् ।
भट्टभास्कर-टीका
अश्वमेधात्मकश्चायं यज्ञानां ऋषभः । सर्वस्य च ऋषभस्य विष्टपेन भाव्यं पशोरपशोश्च । तत्र यज्ञऋषभस्याश्वमेधस्य त्रयोदशोऽरत्निः विष्टपस्थानीय इति ।
विश्वास-प्रस्तुतिः
“पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्ये"त्या॑ह ।
आयु॑रे॒वास्मि॑न्दधाति ।
“तया॑ दे॒वास्सु॒तमा ब॑भूवु॒"रित्या॑ह ।
भूति॑मे॒वोपाव॑र्तते ।
मूलम्
“पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्ये"त्या॑ह ।
आयु॑रे॒वास्मि॑न्दधाति ।
“तया॑ दे॒वास्सु॒तमा ब॑भूवु॒"रित्या॑ह ।
भूति॑मे॒वोपाव॑र्तते ।
भट्टभास्कर-टीका
भूतिमिति । सुतं सोमयागफलं आभिमुख्येन प्रापुरिति लिङ्गात् ।
विश्वास-प्रस्तुतिः
“ऋ॒तस्य॒ साम॑न्त्स॒रमा॒रप॒न्ती"त्या॑ह ।
स॒त्यव्ँ वा ऋ॒तम् ।
स॒त्येनै॒वैन॑मृ॒तेनार॑भते ।
मूलम्
“ऋ॒तस्य॒ साम॑न्त्स॒रमा॒रप॒न्ती"त्या॑ह ।
स॒त्यव्ँ वा ऋ॒तम् ।
स॒त्येनै॒वैन॑मृ॒तेनार॑भते ।
भट्टभास्कर-टीका
सत्येनैवेति । सत्येन प्राप्तेन यज्ञमारभते, यज्ञस्य साम्नि सरं प्राप्तिमारपन्ति वदन्तीति लिङ्गात् ॥
विश्वास-प्रस्तुतिः
“अ॒भि॒धा अ॒सी"त्या॑ह ॥10॥
तस्मा॑दश्वमेधया॒जी सर्वा॑णि भू॒तान्य॒भिभ॑वति ।
मूलम्
“अ॒भि॒धा अ॒सी"त्या॑ह ॥10॥
तस्मा॑दश्वमेधया॒जी सर्वा॑णि भू॒तान्य॒भिभ॑वति ।
भट्टभास्कर-टीका
5अभिधा असीति ॥ रशनया अश्वस्य बन्धनं वक्ष्यमाणमहागुणसिद्ध्यर्थम्, रशनया अभिधातव्यस्त्वमसीति लिङ्गात् । सर्वाणि भूतानि अभिभवति अश्वमेधयाजी अश्वमेधेनेष्टवान् । ‘करणे यजः’ इति णिनिः ।
विश्वास-प्रस्तुतिः
“भुव॑नम॒सी"त्या॑ह ।
भू॒मान॑मे॒वोपै॑ति ।
“य॒न्ताऽसी"त्या॑ह ।
य॒न्तार॑मे॒वैन॑ङ्करोति ।
“ध॒र्तासी"त्या॑ह ।
ध॒र्तार॑मे॒वैन॑ङ्करोति ।
मूलम्
“भुव॑नम॒सी"त्या॑ह ।
भू॒मान॑मे॒वोपै॑ति ।
“य॒न्ताऽसी"त्या॑ह ।
य॒न्तार॑मे॒वैन॑ङ्करोति ।
“ध॒र्तासी"त्या॑ह ।
ध॒र्तार॑मे॒वैन॑ङ्करोति ।
भट्टभास्कर-टीका
भूमानमिति । समस्तभूतजातत्वेनाभिधानात् ।
विश्वास-प्रस्तुतिः
“सो॑ऽग्निव्ँ वै॑श्वान॒र"मित्या॑ह ।
अ॒ग्नावे॒वैनव्ँ॑ वैश्वान॒रे जु॑होति ।
मूलम्
“सो॑ऽग्निव्ँ वै॑श्वान॒र"मित्या॑ह ।
अ॒ग्नावे॒वैनव्ँ॑ वैश्वान॒रे जु॑होति ।
भट्टभास्कर-टीका
अग्नावेवैनमिति । ‘इयं वा अग्निर्वैश्वानरः’ इति पृथिव्यां गतम् । अतः हुतस्थानीय इति भावः ।
विश्वास-प्रस्तुतिः
“सप्र॑थस॒"मित्या॑ह ॥11॥
प्र॒जयै॒वैन॑म्प॒शुभि॑ᳶ प्रथयति ।
मूलम्
“सप्र॑थस॒"मित्या॑ह ॥11॥
प्र॒जयै॒वैन॑म्प॒शुभि॑ᳶ प्रथयति ।
भट्टभास्कर-टीका
प्रजयैवेति । अश्वस्य गमनविषया प्रथा यजमानस्य प्रजापशुप्रथार्थं प्रार्थ्यत इति कृत्वा ।
विश्वास-प्रस्तुतिः
“स्वाहा॑कृत॒” इत्या॑ह ।
होम॑ ए॒वास्यै॒षः ।
मूलम्
“स्वाहा॑कृत॒” इत्या॑ह ।
होम॑ ए॒वास्यै॒षः ।
भट्टभास्कर-टीका
होम एवेति । वैश्वानरात्मिकायां पृथिव्यां प्रस्थापनं अग्नौ होमस्थानीयमिति स्वाहाकृतत्ववाचोयुक्तिरित्यभिप्रायः ।
विश्वास-प्रस्तुतिः
“पृ॒थि॒व्या"मित्या॑ह ।
अ॒स्यामे॒वैन॒म्प्रति॑ष्ठापयति ।
मूलम्
“पृ॒थि॒व्या"मित्या॑ह ।
अ॒स्यामे॒वैन॒म्प्रति॑ष्ठापयति ।
भट्टभास्कर-टीका
अस्यामिति । पृथिव्याधारत्वकीर्तनं अस्यां अस्य प्रतिष्ठापनार्थमिति मन्यते ।
विश्वास-प्रस्तुतिः
“य॒न्ता राड्य॒न्ताऽसि॒ यम॑नो ध॒र्तासि॑ ध॒रुण॒” इत्या॑ह ।
रू॒पमे॒वास्यै॒तन्म॑हि॒मानव्ँ॒ व्याच॑ष्टे ।
मूलम्
“य॒न्ता राड्य॒न्ताऽसि॒ यम॑नो ध॒र्तासि॑ ध॒रुण॒” इत्या॑ह ।
रू॒पमे॒वास्यै॒तन्म॑हि॒मानव्ँ॒ व्याच॑ष्टे ।
भट्टभास्कर-टीका
रूपमेवेति । अव्याख्यातमन्त्ररूपमेव अस्य महिमानं यन्तृत्वादिकं माहात्म्यं व्याचष्टे । यन्तृत्वं संगृहीतृत्वं राट्त्वं राजनशीलत्वम् । यन्तृत्वं नियन्तृत्वम् । यमनत्वं यमनसाधनत्वम् । धारकत्वं धरुणत्वं सर्वैः धरणीयत्वम् ॥
विश्वास-प्रस्तुतिः
“कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य॒ त्वे"त्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।
मूलम्
“कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य॒ त्वे"त्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।
भट्टभास्कर-टीका
6कृष्यै त्वेत्यभिप्रोक्षणम् ॥ आशिषमिति । कृष्यादेः परामर्शादन्यदाशासनीयं नास्तीति भावः ॥
विश्वास-प्रस्तुतिः
“स्व॒गा त्वा॑ दे॒वेभ्य॒” इत्या॑ह ।
दे॒वेभ्य॑ ए॒वैनँ॑ स्व॒गा क॑रोति ।
“स्वाहा॑ त्वा प्र॒जाप॑तय॒” इत्या॑ह ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
मूलम्
“स्व॒गा त्वा॑ दे॒वेभ्य॒” इत्या॑ह ।
दे॒वेभ्य॑ ए॒वैनँ॑ स्व॒गा क॑रोति ।
“स्वाहा॑ त्वा प्र॒जाप॑तय॒” इत्या॑ह ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
भट्टभास्कर-टीका
7स्वगा करोतीति ॥ देवेभ्यः भागिभ्यः इदानीमेव यथास्वं समर्पयतीति यावत् ।
मूलम्
यस्या॑ ए॒व दे॒वता॑या आल॒भ्यते॑ ।
तयै॒वैनँ॒ सम॑र्धयति ॥12॥
विश्वास-प्रस्तुतिः
यस्या॑ ए॒व दे॒वता॑या आल॒भ्यते॒ तयै॒वैनँ॒ सम॑र्धयति ॥12॥
मूलम्
यस्या॑ ए॒व दे॒वता॑या आल॒भ्यते॒ तयै॒वैनँ॒ सम॑र्धयति ॥12॥
भट्टभास्कर-टीका
यस्या एवेति । आत्मीयदेवतासंकीर्तनेन आदावेव एनं समर्धयति कृतार्थयति वचनसामर्थ्यात् । ‘स्वगा त्वा देवेभ्यस्स्वाहा त्वा प्रजापतये’ इत्यनेन मन्त्रेणाभिधानं शाखान्तरीयमुपदाय ब्राह्मणं स्तौति ॥
इति तैत्तिरीय ब्राह्मणे तृतीये अष्टमे अश्वमेधे तृतीयोऽनुवाकः ॥