विश्वास-प्रस्तुतिः
चतु॑ष्टय्य॒ आपो॑ भवन्ति ।
चतु॑श्शफो॒ वा अश्व॑ᳶ प्राजाप॒त्यस्समृ॑द्ध्यै ।
मूलम्
चतु॑ष्टय्य॒ आपो॑ भवन्ति ।
चतु॑श्शफो॒ वा अश्व॑ᳶ प्राजाप॒त्यस्समृ॑द्ध्यै ।
भट्टभास्कर-टीका
1चतुष्टय्य इति ॥ चत्वारोऽवयवा यासां ताः चतुष्टय्यः । ‘संख्याया अवयवे तयप्’ चतुष्प्रकारा इत्यर्थः । आप इति । वर्ष्याः कूप्याः स्थावराः वहन्त्यश्च । एवं चतुष्टयीनामपां अन्वयः समृद्ध्यै भवति, अश्वस्य चतुश्शफत्वात् तस्य प्राजापत्यत्वात् । प्रजापत्यक्षिपरिणामत्वात्तस्य प्राजापत्यत्वम् ।
विश्वास-प्रस्तुतिः
ता दि॒ग्भ्यस्स॒माभृ॑ता भवन्ति ।
मूलम्
ता दि॒ग्भ्यस्स॒माभृ॑ता भवन्ति ।
भट्टभास्कर-टीका
ताः चतुष्टय्यः आपश्रतसृभ्यो दिग्भ्यः समाहृताः भवन्ति नैकस्या एव ।
विश्वास-प्रस्तुतिः
दि॒क्षु वा आपः॑ ।
अन्नव्ँ॒वा आपः॑ ।
अ॒द्भ्यो वा अन्न॑ञ्जायते ।
यदे॒वाद्भ्योऽन्न॒ञ्जाय॑ते ।
तदव॑रुन्धे ।
मूलम्
दि॒क्षु वा आपः॑ ।
अन्नव्ँ॒वा आपः॑ ।
अ॒द्भ्यो वा अन्न॑ञ्जायते ।
यदे॒वाद्भ्योऽन्न॒ञ्जाय॑ते ।
तदव॑रुन्धे ।
भट्टभास्कर-टीका
सर्वासु हि दिक्षु आपस्सन्ति । आपश्च अन्नहेतवः, तदधीनजन्मत्वात् । तस्मात् यावत्किंचित् अप्कारणकमन्नं तत्सर्वं अवरुन्धे सर्वदिगन्वयात् ॥
विश्वास-प्रस्तुतिः
तासु॑ ब्रह्मौद॒नम्प॑चति ।
रेत॑ ए॒व तद्द॑धाति ॥3॥
चतु॑श्शरावो भवति ।
दि॒क्ष्वे॑व प्रति॑तिष्ठति ।
उ॒भ॒यतो॑रु॒क्मौ भ॑वतः ।
मूलम्
तासु॑ ब्रह्मौद॒नम्प॑चति ।
रेत॑ ए॒व तद्द॑धाति ॥3॥
चतु॑श्शरावो भवति ।
दि॒क्ष्वे॑व प्रति॑तिष्ठति ।
उ॒भ॒यतो॑रु॒क्मौ भ॑वतः ।
भट्टभास्कर-टीका
2तास्विति ॥ देवयजनाध्यवसानानन्तरं औपासने श्रपणं ब्रह्मौदनस्य । तत्प्रजासृष्ट्यर्थं रेतः स्थापयति । चतुश्शराव इति । चतुर्षु शरावेषु संस्कृतश्चतुश्शरावः प्रमाणो वा शराव आढकाः । ‘द्विगोः’ इति लुक्, ‘इगन्तकाल’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥
विश्वास-प्रस्तुतिः
उ॒भ॒यत॑ ए॒वास्मि॒न्रुच॑न्दधाति ।
मूलम्
उ॒भ॒यत॑ ए॒वास्मि॒न्रुच॑न्दधाति ।
भट्टभास्कर-टीका
3उभयत इति ॥ आदावन्ते च ब्रह्मौदनस्य राजतसौवर्णरुक्मनिधानात् यजमाने द्वयोर्वयसोः दीप्तिं दधाति ।
विश्वास-प्रस्तुतिः
उद्ध॑रति शृत॒त्वाय॑ ।
स॒र्पिष्वा॑न्भवति मेध्य॒त्वाय॑ ।
मूलम्
उद्ध॑रति शृत॒त्वाय॑ ।
स॒र्पिष्वा॑न्भवति मेध्य॒त्वाय॑ ।
भट्टभास्कर-टीका
उद्धरतीत्यादि । पात्र्यां राजतं रुक्मं निधाय तस्मिन् ब्रह्मौदनं उद्धरति, तत् शृतत्वाय पक्वत्वाय भवति । पक्वं ह्युद्ध्रियते । यद्वा - रुक्मस्योपरि धारणमुद्धरणं तच्छृतत्वाय भवति । सर्पिष्वान् बहुसर्पिष्कः प्रभूतेन सर्पिषा उपसेक्तव्यः । तत् मेघार्हत्वाय भवति ।
विश्वास-प्रस्तुतिः
च॒त्वार॑ आर्षे॒याᳶ प्राश्ञ॑न्ति ।
दि॒शामे॒व ज्योति॑षि जुहोति ।
मूलम्
च॒त्वार॑ आर्षे॒याᳶ प्राश्ञ॑न्ति ।
दि॒शामे॒व ज्योति॑षि जुहोति ।
भट्टभास्कर-टीका
चत्वार इति । आर्षेया महर्त्विजः । यद्वा - मुख्येष्वसन्निहितेषु अशक्तेषु वा ऋत्विक्षु आर्षेयस्यैव प्रतिनिधानार्थं आर्षेयग्रहणं, ऋषेरपत्यानि आर्षेयाः प्रसिद्धप्रवराः । ‘इतश्रानिञः’ इति ढक् । तत्सर्वासामपि दिशां संबन्धिनि ‘ज्योतिषि हुतं भवति ॥
विश्वास-प्रस्तुतिः
च॒त्वारि॒ हिर॑ण्यानि ददाति ।
दि॒शामे॒व ज्योतीँ॒ष्यव॑रुन्धे ॥4॥
मूलम्
च॒त्वारि॒ हिर॑ण्यानि ददाति ।
दि॒शामे॒व ज्योतीँ॒ष्यव॑रुन्धे ॥4॥
भट्टभास्कर-टीका
4चत्वारीति ॥ ब्रह्मौदनं प्राशितवद्भ्यः चत्वारि हिरण्यानि चतुरो निष्कान् बहु मूल्यं ददाति । दिक्चतुष्टयसंबन्धीनि ज्योतींषि लभते हिरण्यस्य ज्योतिष्ट्वात् ॥
मूलम्
यदाज्य॑मु॒च्छिष्य॑ते ।
तस्मि॑न्रश॒नान्यु॑नत्ति ।
विश्वास-प्रस्तुतिः
यदाज्य॑मु॒च्छिष्य॑ते॒ तस्मि॑न्रश॒नान्यु॑नत्ति ।
मूलम्
यदाज्य॑मु॒च्छिष्य॑ते॒ तस्मि॑न्रश॒नान्यु॑नत्ति ।
भट्टभास्कर-टीका
5यदिति ॥ ब्रह्मौदनस्य यदाज्यमुच्छिष्टं अतिशिष्टं पात्रस्थं तस्मिन् रशनां अश्वाभिधानीं न्युनत्ति अनक्ति । उन्दतेः ‘श्नान्नलोपः’ इति लोपः ।
मूलम्
प्र॒जाप॑ति॒र्वा ओ॑द॒नः ।
रेत॒ आज्य॑म् ।
यदाज्ये॑ रश॒नान्यु॒नत्ति॑ ।
प्र॒जाप॑तिमे॒व रेत॑सा॒ सम॑र्धयति ।
विश्वास-प्रस्तुतिः
यदाज्ये॑ रश॒नान्यु॒नत्ति॑ प्र॒जाप॑तिमे॒व रेत॑सा॒ सम॑र्धयति ।
मूलम्
यदाज्ये॑ रश॒नान्यु॒नत्ति॑ प्र॒जाप॑तिमे॒व रेत॑सा॒ सम॑र्धयति ।
भट्टभास्कर-टीका
प्रजापतिर्वा इत्यादि । ओदनमिश्रे आज्ये रशनायाः न्युन्दनात् तयोश्च प्रजापतिरेतस्स्वभावयो रशनामनुप्रविश्य स्थितत्वात् प्रजापतिं रेतसा सममेव नित्ययुक्तं करोति ॥
विश्वास-प्रस्तुतिः
द॒र्भ॒मयी॑ रश॒ना भ॑वति ।
मूलम्
द॒र्भ॒मयी॑ रश॒ना भ॑वति ।
भट्टभास्कर-टीका
6दर्भमयीति ॥ अर्धं ‘मौञ्जी भवति’ इत्युक्तत्वात् । यथोक्तं - ‘दर्भमयी मौञ्जी रशना’ इति । शरादित्वात् मयट् ।
मूलम्
ब॒हु वा ए॒ष कु॑च॒रो॑ मे॒ध्यमुप॑गच्छति ।
यदश्वः॑ ।
प॒वित्रव्ँ॒ वै द॒र्भाः ॥5॥
यद्द॑र्भ॒मयी॑ रश॒ना भव॑ति ।
पु॒नात्ये॒वैन॑म् ।
पू॒तमे॑न॒म्मेध्य॒माल॑भते ।
विश्वास-प्रस्तुतिः
ब॒हु वा ए॒ष कु॑च॒रो॑ मे॒ध्यमुप॑गच्छति॒ यदश्वः॑ ।
प॒वित्रव्ँ॒ वै द॒र्भाः ॥5॥
यद्द॑र्भ॒मयी॑ रश॒ना भव॑ति पु॒नात्ये॒वैन॑म् पू॒तमे॑न॒म्मेध्य॒माल॑भते ।
मूलम्
ब॒हु वा ए॒ष कु॑च॒रो॑ मे॒ध्यमुप॑गच्छति॒ यदश्वः॑ ।
प॒वित्रव्ँ॒ वै द॒र्भाः ॥5॥
यद्द॑र्भ॒मयी॑ रश॒ना भव॑ति पु॒नात्ये॒वैन॑म् पू॒तमे॑न॒म्मेध्य॒माल॑भते ।
भट्टभास्कर-टीका
बहु वा इति । अनियतसञ्चारित्वात् क्षितिचार्यश्वः बह्वमेध्यं स्थानं उपगच्छति । ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
अश्व॑स्य॒ वा आल॑ब्धस्य महि॒मोद॑क्रामत् ।
स म॒हर्त्वि॑ज॒ᳶ प्रावि॑शत् ।
तन्म॒हर्त्वि॑जाम्महर्त्वि॒क्त्वम् ।
मूलम्
अश्व॑स्य॒ वा आल॑ब्धस्य महि॒मोद॑क्रामत् ।
स म॒हर्त्वि॑ज॒ᳶ प्रावि॑शत् ।
तन्म॒हर्त्वि॑जाम्महर्त्वि॒क्त्वम् ।
मूलम्
यन्म॒हर्त्वि॑जᳶ प्रा॒श्ञन्ति॑ ।
म॒हि॒मान॑मे॒वास्मि॒न्तद्द॑धति ।
विश्वास-प्रस्तुतिः
यन्म॒हर्त्वि॑जᳶ प्रा॒श्ञन्ति॑ महि॒मान॑मे॒वास्मि॒न्तद्द॑धति ।
अश्व॑स्य॒ वा आल॑ब्धस्य॒ रेत॒ उद॑क्रामत् ।
तत्सु॒वर्णँ॒ हिर॑ण्यमभवत् ।
मूलम्
यन्म॒हर्त्वि॑जᳶ प्रा॒श्ञन्ति॑ महि॒मान॑मे॒वास्मि॒न्तद्द॑धति ।
अश्व॑स्य॒ वा आल॑ब्धस्य॒ रेत॒ उद॑क्रामत् ।
तत्सु॒वर्णँ॒ हिर॑ण्यमभवत् ।
मूलम्
यत्सु॒वर्णँ॒ हिर॑ण्य॒न्ददा॑ति ।
रेत॑ ए॒व तद्द॑धाति ।
विश्वास-प्रस्तुतिः
यत्सु॒वर्णँ॒ हिर॑ण्य॒न्ददा॑ति॒ रेत॑ ए॒व तद्द॑धाति ।
ओ॒द॒ने द॑दाति ।
रेतो॒ वा ओ॑द॒नः ।
रेतो॒ हिर॑ण्यम् ।
रेत॑सै॒वास्मि॒न्रेतो॑ दधाति ॥6॥
मूलम्
यत्सु॒वर्णँ॒ हिर॑ण्य॒न्ददा॑ति॒ रेत॑ ए॒व तद्द॑धाति ।
ओ॒द॒ने द॑दाति ।
रेतो॒ वा ओ॑द॒नः ।
रेतो॒ हिर॑ण्यम् ।
रेत॑सै॒वास्मि॒न्रेतो॑ दधाति ॥6॥
भट्टभास्कर-टीका
7अश्वस्येत्यादि ॥ ओदनभोजने दक्षिणात्वेन हिरण्यं ददाति । द्वयोरप्योदनहिरण्ययोः रेतस्त्वात् रेतसा सहितं रेतोऽस्मिन्यजमाने स्थापितं भवति । ततः सर्वप्रजासमृद्धिरिति ॥
इति तैत्तिरीयेब्राह्मणे तृतीये अष्टमे अश्वमेधे द्वितीयोऽनुवाकः ॥