०१

अश्वमेधब्राह्मणं, वैश्वदेवं काण्डम्

विश्वास-प्रस्तुतिः

सा॒ङ्ग्र॒ह॒ण्येष्ट्या॑ यजते ।
इ॒माञ्ज॒नताँ॒ सङ्गृ॑ह्णा॒नीति॑ ।

मूलम्

सा॒ङ्ग्र॒ह॒ण्येष्ट्या॑ यजते ।
इ॒माञ्ज॒नताँ॒ सङ्गृ॑ह्णा॒नीति॑ ।

भट्टभास्कर-टीका

1अश्वमेधब्राह्मणं, वैश्वदेवं काण्डं - सांग्रहण्येष्ट्येत्यादि ॥ अयमश्वमेधः त्रिरात्रः राजकर्तृकः नित्यो नैमित्तिकः काम्यश्च अहीनेषु वक्ष्यन्ते । ब्राह्मणस्याप्यश्वमेधं केचिदिच्छन्ति । उक्ता सांग्रहणी ‘वैश्वदेवीं सांग्रहणीं निर्वपेत्’ इत्यत्र । अत्र चैत्र्यां पौर्णमास्यां प्रातरश्वमेधेन यक्ष्य इति संकल्प्य सांग्रहण्या यजेत । इमां मद्विषयवर्तिनीं जनतां जनसमूहं संगृह्णामि विधेयीकरोमीति कामेन । ‘मनोग्रहणं वै संग्रहणम्'1 इत्युक्तम् । संगृह्यन्ते मनांस्यनयेति संग्रहणी सैव सांग्रहणी । प्रज्ञादिर्द्रष्टव्यः । संग्रहणप्रयोजनं वा सांग्रहणी । । छान्दसोऽण् । अणन्तात् ङीप् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । ततः ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वम् ॥

विश्वास-प्रस्तुतिः

द्वाद॑शारत्नी रश॒ना भ॑वति ।
द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रमे॒वाव॑रुन्धे ।
मौ॒ञ्जी भ॑वति ।

मूलम्

द्वाद॑शारत्नी रश॒ना भ॑वति ।
द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रमे॒वाव॑रुन्धे ।
मौ॒ञ्जी भ॑वति ।

भट्टभास्कर-टीका

2द्वादशारत्नीरिति ॥ चतुर्विंशतिरङ्गुलयः अरत्निः । द्वादशारत्निप्रमाणा अश्वाभिधानी रशना भवति । प्रमाणादुत्पन्नस्य अर्हीयस्य ‘अध्यर्धपूर्वाद्द्विगोः’ इति लुक् । ‘इगन्तकाल’ इति पूर्वपदप्रकृतिस्वरत्वम् । द्विशब्दस्यापि ‘संख्या’ इति पूर्वपदप्रकृतिस्वरत्वम् । गतमन्यत् ।

विश्वास-प्रस्तुतिः

ऊर्ग्वै मुञ्जाः॑ ।
ऊर्ज॑मे॒वाव॑रुन्धे ।

मूलम्

ऊर्ग्वै मुञ्जाः॑ ।
ऊर्ज॑मे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

ऊर्ग्वा इति । ऊर्जोऽन्नस्य हेतुत्वात् ताच्छब्द्यम् ॥

विश्वास-प्रस्तुतिः

चि॒त्रा नक्ष॑त्रम्भवति ।
चि॒त्रव्ँ वा ए॒तत्कर्म॑ ॥1॥
यद॑श्वमे॒धस्समृ॑द्ध्यै ।

मूलम्

चि॒त्रा नक्ष॑त्रम्भवति ।
चि॒त्रव्ँ वा ए॒तत्कर्म॑ ॥1॥
यद॑श्वमे॒धस्समृ॑द्ध्यै ।

भट्टभास्कर-टीका

3चित्रेति ॥ चित्रानक्षत्रसमीपस्थेन चन्द्रमसा युक्तः कालः चित्रा । ‘लुबविशेषे’ इति लुप् । तत्र वक्ष्यमाणदेवयजनाध्यवसानं कर्तव्यमिति भावः । चित्रं चायनीयं खलु एतत् अश्वमेधाख्यं कर्म, तस्मात् उभयोः चित्रत्वं समृद्ध्यै भवति कर्मणः ॥

विश्वास-प्रस्तुतिः

पुण्य॑नाम देव॒यज॑नम॒ध्यव॑स्यति ।
पुण्या॑मे॒व तेन॑ की॒र्तिम॒भिज॑यति ।

मूलम्

पुण्य॑नाम देव॒यज॑नम॒ध्यव॑स्यति ।
पुण्या॑मे॒व तेन॑ की॒र्तिम॒भिज॑यति ।

भट्टभास्कर-टीका

4पुण्यनामेति ॥ पुण्यं पावनं नाम नामधेयं श्रुतमात्रमेव यस्य तत्पुण्यनाम स्थानं पुष्करवनं गौतमवनं वाराणसी कुरुक्षेत्रमित्यादि । तत् देवयजनमध्यवस्यति देवा इज्यन्ते यत्र तत्स्थानं परिगृह्णाति । इदं पूर्वप्रतिग्रहमात्रं संस्कारविशेषान् प्रवर्तयितुम् । शङ्खदुन्दुभिमृदङ्गवादनैः मङ्गलैः पटहकाहळादिभिः स्वस्तिवादनपरैः मखक्षितिं ब्राह्मणैश्च सह संपद्यन्ते । केचिदाहुः - चैत्र्यां पौर्णमास्यामेव प्रागिष्टेरिति । अन्य आहुः - पौर्णमास्याः पूर्वस्मिन्नहनि चित्रानक्षत्रमात्रयोगिनि काले देवयजनाध्यवसानं कर्तव्यम् । उत्तरेद्युः संकल्पादि कर्तव्यमिति । एवं हि नक्षत्रग्रहणमुपपन्नं भवति ॥

मूलम़्

अप॑दातीनृ॒त्विज॑स्स॒माव॑ह॒न्त्या सु॑ब्रह्म॒ण्यायाः॑ ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

विश्वास-प्रस्तुतिः

अप॑दातीनृ॒त्विज॑स्स॒माव॑ह॒न्त्या सु॑ब्रह्म॒ण्याया॑स् सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

मूलम्

अप॑दातीनृ॒त्विज॑स्स॒माव॑ह॒न्त्या सु॑ब्रह्म॒ण्याया॑स् सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

भट्टभास्कर-टीका

5अपदातीनिति ॥ अयं क्रमः - तस्य तस्य गृहे गत्वा सोमप्रवाकेण वृतान् अध्वर्युब्रह्महोतॄन् आग्नीध्रं च हस्त्यश्वादीनारोप्य आनयन्ति राजपुरुषाः । अनन्तरायाममावास्यायां तथैव वृताः इष्ट्यर्थं एते स्वेस्वे काले हूयन्ते । अथानन्तरायाममावास्यायां संज्ञान्येष्ट्याम् । वैशाख्यां पौर्णमास्यां प्राजापत्यर्षभपश्वर्थं पूर्ववत् सोमप्रवाकवृत्तौ मैत्रावरुणप्रतिप्रस्थातारौ हस्त्यश्वादिकमारोप्य आनयन्ति राजपुरुषाः । अनन्तरायाममावास्यायां तथैव वृतं उद्गातारं हस्त्यश्वादिभिरानयन्ति । अथ आगामिनि वसन्ते पञ्चदश्यां हस्त्यश्वादिभिः प्रस्तोतारमानयन्ति त्रैधातव्यार्थम्, यत्र दीक्षारम्भः । ततो दीक्षारम्भदिवसात् ऊर्ध्वं तृतीयादिषु अहस्सु अन्वहं इतरान् अष्टौ ऋत्विजः हस्त्यश्वादिकमारोप्यानयन्ति ब्राह्मणाच्छंसिनं अच्छावाकं नेष्टारं प्रतिहर्तारं ग्रावस्तुतं पोतारमुन्नेतारं सुब्रह्मण्यमिति सोमार्थम् । एवं आसुब्रह्मण्याह्वानात् अपदातीन् ऋत्विज आवहन्ति । तदुच्छ्रितस्थानारोहणसाम्यात् स्वर्गस्य सम्यक्प्राप्त्यै भवति यजमानस्य ॥

आहूतसुब्रम्हण्योऽत्र समायाते शचीपतौ ।
पदातितैव युक्तेति प्रागेवानयनं कृतम् ॥

विश्वास-प्रस्तुतिः

के॒श॒श्म॒श्रु व॑पते ।
न॒खानि॒ निकृ॑न्तते ।

मूलम्

के॒श॒श्म॒श्रु व॑पते ।
न॒खानि॒ निकृ॑न्तते ।

भट्टभास्कर-टीका

6केशश्मश्रु वपत इत्यादि ॥ यत्र उद्गाता वृतः तस्याममावास्यायां इष्ट्यनन्तरं देवयजनदेशं गत्वा केशान् श्मश्रूणि च वापयते । ‘जातिरप्राणिनाम्’ इत्येकवद्भावः । अपूर्वमिदं वपनादिकं पाप्मनोऽपहत्यर्थम् ।

विश्वास-प्रस्तुतिः

द॒तो धा॑वते ।
स्नाति॑ ।
अह॑तव्ँ॒वास॒ᳶ परि॑धत्ते ।
पा॒प्मनोऽप॑हत्यै ।

मूलम्

द॒तो धा॑वते ।
स्नाति॑ ।
अह॑तव्ँ॒वास॒ᳶ परि॑धत्ते ।
पा॒प्मनोऽप॑हत्यै ।

भट्टभास्कर-टीका

दत इति । ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वम् ।

मूलम्

वाचय्ँ॑य॒त्वोप॑वसति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ गुप्त्यै॑ ।

विश्वास-प्रस्तुतिः

वाचय्ँ॑य॒त्वोप॑वसति सुव॒र्गस्य॑ लो॒कस्य॒ गुप्त्यै॑ ।

मूलम्

वाचय्ँ॑य॒त्वोप॑वसति सुव॒र्गस्य॑ लो॒कस्य॒ गुप्त्यै॑ ।

भट्टभास्कर-टीका

वाचंयत्वेति । वाग्यतस्यैतां रात्रिं अग्निहोत्रमपि अन्ये कुर्वन्ति । उपवसति नाश्नाति । यद्वा - गूहनं । स्वर्गस्य भवति गुप्त्यै ।

मूलम्

रात्रि॑ञ्जाग॒रय॑न्त आसते ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥2॥

विश्वास-प्रस्तुतिः

रात्रि॑ञ्जाग॒रय॑न्त आसते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥2॥

मूलम्

रात्रि॑ञ्जाग॒रय॑न्त आसते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥2॥

भट्टभास्कर-टीका

रात्रिमिति रात्रिं कथाभिः यजमानं जागरयन्तः आसते अस्य रातयः । तत्स्वर्गस्य समष्ट्यै सम्यक्प्राप्तये भवति प्रबोधफलत्वात् तस्य । ‘गारिनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् ॥

इति तैत्तिरीये ब्राह्मणे तृतीये अष्टके अष्टमे प्रपाठके अश्वमेधे प्रथमोऽनुवाकः ॥