१४ अवभृथे कर्मणि सेचनादिमन्त्राः

अछिद्रप्रश्नः

विश्वास-प्रस्तुतिः

यद्दि॑दी॒क्षे मन॑सा॒ यच्च॑ वा॒चा ।
यद्वा॑ प्रा॒णैश्चक्षु॑षा॒ यच्च॒ श्रोत्रे॑ण ।
यद्रेत॑सा मिथु॒नेनाप्या॒त्मना॑ ।
अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् ।
शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः ।
आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् ।

मूलम्

यद्दि॑दी॒क्षे मन॑सा॒ यच्च॑ वा॒चा ।
यद्वा॑ प्रा॒णैश्चक्षु॑षा॒ यच्च॒ श्रोत्रे॑ण ।
यद्रेत॑सा मिथु॒नेनाप्या॒त्मना॑ ।
अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् ।
शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः ।
आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् ।

भट्टभास्कर-टीका

1अवभृथे स्नात्वा त्रिरञ्जलिनाऽपो विषिञ्चति - यद्दिदीक्षे इति षट्पदया धृत्या । यदहं दिदीक्षे यां दीक्षां कृतवानस्मि ‘वाचा मे वाग्दीक्षताम्’ इत्यादिदीक्षितवादादिनियमलक्षणं व्रतम् । मनआदिभिः दीक्षा तद्विषये नियतत्वम् । रेतसा दीक्षा तस्य स्कन्दनान्निवृत्तिः । आत्मना दीक्षा पुरुषार्थान्निवृत्तिः । एवं यां दीक्षां कृतवानस्मि तस्या दीक्षायाः विमोक्त्रीः विमोक्र्यः मां विमुचन्त्यः आपः मयि तेजः इन्द्रियं च दधिरे दधतां स्थापयन्तु । ताभिः एवं च दीक्षायाः मुक्तोऽहं तेजस्वी इन्द्रियावांश्च भवामीति भावः । कः पुनरपां विशेष इत्याह - अद्भ्यो हि हेतुभ्यः सर्वे लोकाः लोकवासिनः तेजः इन्द्रियं च दधते । तस्मात् ता एव शुक्राः निर्मलाः तपसः उपसदश्च विमोचनीः सम्यगनुष्ठाप्य तत उत्तारयित्र्यः मां दीक्षायाः विमुचन्तु ता एव हि ईदृश्या दीक्षाया विमोक्तुं क्षमाः, तेजः इन्द्रियं च मयि दधात्विति ॥

विश्वास-प्रस्तुतिः

यदृ॒चा साम्ना॒ यजु॑षा ।
प॒शू॒नाञ्चर्म॑न् ह॒विषा॑ दिदी॒क्षे ।
यच्छन्दो॑भि॒रोष॑धीभि॒र्वन॒स्पतौ॑ ।
अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् ॥ 126॥
शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः ।
आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् ।

मूलम्

यदृ॒चा साम्ना॒ यजु॑षा ।
प॒शू॒नाञ्चर्म॑न् ह॒विषा॑ दिदी॒क्षे ।
यच्छन्दो॑भि॒रोष॑धीभि॒र्वन॒स्पतौ॑ ।
अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् ॥ 126॥
शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः ।
आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् ।

भट्टभास्कर-टीका

2यदृचा इत्यष्टिः षट्पदा ॥ यत् अहं ऋगादिभिः दिदीक्षे । यच्चाहं पशूनां चर्मणि कृष्णाजिनादौ दिदीक्षे । यच्च हविषा पयआदिना दिदीक्षे । यच्च छन्दोभिः गायत्र्यादिभिः । यच्च ओषधीभिः दर्भपुञ्जीलैः यच्च वनस्पतौ वनस्पतिविषये दण्डादिना दिदीक्षे । ततः मां आपः मुञ्चन्तु । अद्भ्यो लोकाः इति समानम् ॥

  • कः पुनरपां विशेष इत्याह - अद्भ्यो हि हेतुभ्यः सर्वे लोकाः लोकवासिनः तेजः इन्द्रियं च दधते । तस्मात् ता एव शुक्राः निर्मलाः तपसः उपसदश्च विमोचनीः सम्यगनुष्ठाप्य तत उत्तारयित्र्यः मां दीक्षायाः विमुचन्तु ता एव हि ईदृश्या दीक्षाया विमोक्तुं क्षमाः, तेजः इन्द्रियं च मयि दधात्विति ॥
विश्वास-प्रस्तुतिः

येन॒ ब्रह्म॒ येन॑ क्ष॒त्रम् ।
येने॑न्द्रा॒ग्नी प्र॒जाप॑ति॒स्सोमो॒ वरु॑णो॒ येन॒ राजा॑ ।
विश्वे॑ दे॒वा ऋष॑यो॒ येन॑ प्रा॒णाः ।
अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् ।
शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः ।
आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् ।

मूलम्

येन॒ ब्रह्म॒ येन॑ क्ष॒त्रम् ।
येने॑न्द्रा॒ग्नी प्र॒जाप॑ति॒स्सोमो॒ वरु॑णो॒ येन॒ राजा॑ ।
विश्वे॑ दे॒वा ऋष॑यो॒ येन॑ प्रा॒णाः ।
अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् ।
शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः ।
आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् ।

भट्टभास्कर-टीका

3येन ब्रह्मेति ॥ ब्रह्मादीनि लोकान्तानि मां प्रपेदिरे । यद्वा - येन कारणेन ब्रह्मादीनि लोकान्तानि तेजः इन्द्रियं च अद्भ्यो दधिरे, तस्मात् ताः मां दीक्षाया विमुच्य तेजस्विनं इन्द्रियवन्तं च कुर्वन्त्विति । गतमन्यत् ॥

  • कः पुनरपां विशेष इत्याह - अद्भ्यो हि हेतुभ्यः सर्वे लोकाः लोकवासिनः तेजः इन्द्रियं च दधते । तस्मात् ता एव शुक्राः निर्मलाः तपसः उपसदश्च विमोचनीः सम्यगनुष्ठाप्य तत उत्तारयित्र्यः मां दीक्षायाः विमुचन्तु ता एव हि ईदृश्या दीक्षाया विमोक्तुं क्षमाः, तेजः इन्द्रियं च मयि दधात्विति ॥
विश्वास-प्रस्तुतिः

अ॒पाम्पुष्प॑म॒स्योष॑धीनाँ॒ रसः॑ ।
सोम॑स्य प्रि॒यन्धाम॑ ॥127॥
अ॒ग्नेᳶ प्रि॒यत॑मँ ह॒विस्स्वाहा॑ ।

मूलम्

अ॒पाम्पुष्प॑म॒स्योष॑धीनाँ॒ रसः॑ ।
सोम॑स्य प्रि॒यन्धाम॑ ॥127॥
अ॒ग्नेᳶ प्रि॒यत॑मँ ह॒विस्स्वाहा॑ ।

भट्टभास्कर-टीका

4आर्त्विज्येन सोमं भक्षितवतः होममन्त्राः - अपां पुष्पमसीत्यादीनि यजूंषि ॥ हे आज्य! अपां पुष्पं वृष्ट्याः परिणतिरसि तृणनिष्पत्त्यादिक्रमेण वृष्टिजन्यत्वात् । ओषधीनां रसः रसपरिणामोऽसि, तृणादिभक्षणेन गोभ्यो जातत्वात् । सोमस्य प्रियं इष्टं धाम जन्म त्वमसि । सोमस्यैवेदं जन्म प्रियतमं यदाज्यं नामेति भावः । किञ्च - अग्नेरपि प्रियतमं हविरसि । तं त्वां स्वाहाकृतं करोमि सोमभक्षणनिमित्ताधर्मशोधनार्थम् । उत्तरे अनेनैव गते ।

विश्वास-प्रस्तुतिः

अ॒पाम्पुष्प॑म॒स्योष॑धीनाँ॒ रसः॑ ।
सोम॑स्य प्रि॒यन्धाम॑ ।
इन्द्र॑स्य प्रि॒यत॑मँ ह॒विस्स्वाहा॑ ।

अ॒पाम्पुष्प॑म॒स्योष॑धीनाँ॒ रसः॑ ।
सोम॑स्य प्रि॒यन्धाम॑ ।
विश्वे॑षान्दे॒वाना॑म्प्रि॒यत॑मँ ह॒विस्स्वाहा॑ ।

मूलम्

अ॒पाम्पुष्प॑म॒स्योष॑धीनाँ॒ रसः॑ ।
सोम॑स्य प्रि॒यन्धाम॑ ।
इन्द्र॑स्य प्रि॒यत॑मँ ह॒विस्स्वाहा॑ ।

अ॒पाम्पुष्प॑म॒स्योष॑धीनाँ॒ रसः॑ ।
सोम॑स्य प्रि॒यन्धाम॑ ।
विश्वे॑षान्दे॒वाना॑म्प्रि॒यत॑मँ ह॒विस्स्वाहा॑ ।

भट्टभास्कर-टीका

इन्द्रस्य, विश्वेषां देवानां, इति विशेषौ ॥

विश्वास-प्रस्तुतिः

व॒यँ सो॑म व्र॒ते तव॑ ।
मन॑स्त॒नूषु॒ पिप्र॑तः ।
प्र॒जाव॑न्तो अशीमहि ॥128॥

मूलम्

व॒यँ सो॑म व्र॒ते तव॑ ।
मन॑स्त॒नूषु॒ पिप्र॑तः ।
प्र॒जाव॑न्तो अशीमहि ॥128॥

भट्टभास्कर-टीका

5आज्यशेषं भक्षयति - वयं सोमेति गायत्र्या ॥ सोम! तव व्रते कर्मणि वर्तमानाः मनश्च तनूषु शरीरेषु शरीरविषयेऽपि पिप्रतः प्रीणयन्तः तनुवत्सु वा मनुष्येषु मनःप्रीतिं कुर्वन्तः तनुविषयं मनः पालयन्तो वा भवन्तः वयं सर्वदा प्रजावन्तः पुत्रपौत्रादिसमन्विता एव अशीमहि भुञ्जीमहि भोगान् । व्यत्ययेनात्मनेपदं, शपो लुक् । यद्वा - तनूषु पिप्रतः भजमानाः मनोरथं सर्वं अशीमहि अश्नुवीमहि । पिपर्तेश्शतरि ‘अर्तिपिपर्त्योश्च’ इत्यभ्यासस्येत्त्वम्, ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम्, ‘अदभ्यस्तात्’ इत्यदादेशः ॥

विश्वास-प्रस्तुतिः

दे॒वेभ्य॑ᳶ पि॒तृभ्य॒स्स्वाहा॑ ।

मूलम्

दे॒वेभ्य॑ᳶ पि॒तृभ्य॒स्स्वाहा॑ ।

भट्टभास्कर-टीका

6दक्षिणाग्नौ होमः - देवेभ्य इति यजूंषि ॥ देवेभ्यः देवनशीलेभ्यः पितृभ्यः ।

विश्वास-प्रस्तुतिः

सो॒म्येभ्य॑ᳶ पि॒तृभ्य॒स्स्वाहा॑ ।

मूलम्

सो॒म्येभ्य॑ᳶ पि॒तृभ्य॒स्स्वाहा॑ ।

भट्टभास्कर-टीका

सोम्येभ्यः सोममर्हद्भ्यः । सोममर्हतीति यः ।

विश्वास-प्रस्तुतिः

क॒व्येभ्य॑ᳶ पि॒तृभ्य॒स्स्वाहा॑ ।

मूलम्

क॒व्येभ्य॑ᳶ पि॒तृभ्य॒स्स्वाहा॑ ।

भट्टभास्कर-टीका

कव्येभ्यः कव्यवद्भ्यः कव्यभुग्भ्यः स्वाहुतं इदमस्तु ॥

विश्वास-प्रस्तुतिः

देवा॑स इ॒ह मा॑दयध्वम् ।
सोम्या॑स इ॒ह मा॑दयध्वम् ।
कव्या॑स इ॒ह मा॑दयध्वम् ।

मूलम्

देवा॑स इ॒ह मा॑दयध्वम् ।
सोम्या॑स इ॒ह मा॑दयध्वम् ।
कव्या॑स इ॒ह मा॑दयध्वम् ।

भट्टभास्कर-टीका

7जघनेन तमग्निं दक्षिणाग्रेषु दर्भेषु दधि ददाति - देवास इति यजुर्भिः ॥ आमन्त्रितानां पादादित्वात् षाष्ठिकमाद्युदात्तत्वम् । मादयध्वं तृप्यत, हे पितरः! देवादिलक्षणाः! । मद तृप्तियोगे, चुरादिः ॥

विश्वास-प्रस्तुतिः

अ॒न॑न्तरिताᳶ पि॒तर॑स्सो॒म्यास्सो॑मपी॒थात् ।

मूलम्

अ॒न॑न्तरिताᳶ पि॒तर॑स्सो॒म्यास्सो॑मपी॒थात् ।

भट्टभास्कर-टीका

8उपतिष्ठते अनन्तरिता इति यजुषा ॥ सोम्याः पितरः सोमपीथात् सोमपानात् अनन्तरिताः अव्यवहिताः यथोचितं उपचिताः भवन्तु । सोमपीथानामुपचितेन सोमस्य पानेन तृप्यन्त्विति यावत् ॥

विश्वास-प्रस्तुतिः

अपै॑तु मृ॒त्युर॒मृत॑न्न॒ आग॑न् ।
वै॒व॒स्व॒तो नो॒ अभ॑यङ्कृणोतु ।
प॒र्णव्ँवन॒स्पते॑रिव ॥129॥
अ॒भि न॑श्शीयताँ र॒यिः ।

सच॑तान्न॒श्शची॒पतिः॑ ।

मूलम्

अपै॑तु मृ॒त्युर॒मृत॑न्न॒ आग॑न् ।
वै॒व॒स्व॒तो नो॒ अभ॑यङ्कृणोतु ।
प॒र्णव्ँवन॒स्पते॑रिव ॥129॥
अ॒भि न॑श्शीयताँ र॒यिः ।

सच॑तान्न॒श्शची॒पतिः॑ ।

भट्टभास्कर-टीका

9द्वादशाहे पत्न्या दीक्षितेषु दीक्षानन्तरं समन्वारब्धेषु गार्हपत्ये होमः - अपैतु मृत्युरिति जगती, त्रिष्टुब्वा ॥ अपैतु अपगच्छतु मृत्युः अमृतं अमृतत्वं नः आगन् आगच्छतु । छान्दसे लुङि ‘मन्त्रे घस’ इति च्लेर्लुक् । ‘मोनो धातोः’ इति नत्वम् । वैवस्वतश्च अस्माकं अभयं कृणोतु करोतु मरणभयं मा कार्षीदित्यर्थः । किञ्च - वनस्पतेः पक्वं पर्णमिव नः अस्मान् अभिलक्ष्य रयिः धनं शीयतां अयत्नेन निपततु स्वयमेव अस्मत्पार्श्वं आगच्छतु । शदॢ शातने, पाघ्रादिना शीयादेशः । यद्वा - अभिशयनं उपरिशयनं पुनःपुनर्वृद्धिः । यथा वनस्पतेः पर्णानां पुनःपुनः प्ररोहः एवं अस्माकं रयिः उपर्युपरि अस्मासु शीयतां उपचीयतां इति यावत् । व्यत्ययेन श्यन् । अयादेशाभावश्च ।

अपि च शचीपतिः इन्द्रश्च अस्माकं अस्मान्वा सचतां समवैतु ॥

विश्वास-प्रस्तुतिः

पर॑म्मृत्यो॒ अनु॒परे॑हि॒ पन्था॑म् ।
यस्ते॒ स्व इत॑रो देव॒याना॑त् ।
चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि ।
मा न॑ᳶ प्र॒जाँ री॑रिषो॒ मोत वी॒रान् ।

मूलम्

पर॑म्मृत्यो॒ अनु॒परे॑हि॒ पन्था॑म् ।
यस्ते॒ स्व इत॑रो देव॒याना॑त् ।
चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि ।
मा न॑ᳶ प्र॒जाँ री॑रिषो॒ मोत वी॒रान् ।

भट्टभास्कर-टीका

10पत्नीवर्जितेषु दक्षिणाग्नौ होमः - परं मृत्यो इति त्रिष्टुम् ॥ हे मृत्यो! परं अन्यं पन्थानं मार्गं यत्र वयं न वर्तामहे तमेव मार्गं अनुपरेहि अपरावृत्त अनुगच्छ । कीदृश पुनरसावित्याह - यस्तव स्वः स्वभूतो मार्गः देवयानादितरः तमनुगच्छ । वयं हि देवयाने स्थिताः । तस्मात् अस्मन्मार्गं मा गा इति । चक्षुष्मते साधुदर्शिने शृण्वते उक्तं आदरेण गृह्णते, यस्मात् इत्थं असि । तस्मात् तुभ्यं इदं ब्रवीमि - अस्माकं प्रजां पुत्रादिकां वीरांश्च अन्यान् पुरुषान् मा रीरिषः मा नीनशः । यद्वा - परं पन्थानं अनुपरेहीति । ननु परस्मिन्नेव पथि तिष्ठन् चौर्येणैव अस्मदीयां प्रजां हरेदिति संभावयन्नाह - चक्षुष्मते स्वयमेव निरूपकाय शृण्वते अपराधान् श्रुत्वा तदनुरूपं दण्डकारिणे तुभ्यं ब्रवीमि माऽस्माकं प्रजां अन्यायेन रीरिषः मा च वीरान् इति ॥

विश्वास-प्रस्तुतिः

इ॒दमू॒नु श्रेयो॑व॒सान॒माग॑न्म ।
यद्गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यत् ।
प॒र्णव्ँवन॒स्पते॑रिव ।
अ॒भि न॑श्शीयताँ र॒यिः ।
सच॑तान्न॒श्शची॒पतिः॑ ॥130॥

मूलम्

इ॒दमू॒नु श्रेयो॑व॒सान॒माग॑न्म ।
यद्गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यत् ।
प॒र्णव्ँवन॒स्पते॑रिव ।
अ॒भि न॑श्शीयताँ र॒यिः ।
सच॑तान्न॒श्शची॒पतिः॑ ॥130॥

भट्टभास्कर-टीका

11आहवनीये जुहोति - इदमू नु श्रेय इति जगत्या त्रिष्टुभा वा ॥ इदमु इदमेव नः अस्माकं श्रेयः प्रशस्यतरं अन्येभ्यः गृहेभ्यः अवसानं यागगृहं आगन्म आगताः स्मः । छान्दसे लुङि ‘मन्त्रे घस’ इति च्लेर्लुक् । यदिदं गोजित् गवां जेतृ लाभहेतुः, धनजित् प्रीणनानां वस्त्राणां जेतृ, अश्वजित् महार्घाणामश्वानामपि लाभहेतुः तस्मात् अवसानान्तरात् इदं प्रशस्यतरम् । पर्णं वनस्पतेरित्यादि सुबोधम् ॥

इति श्रीभट्टभास्करमिश्रविरचिते यनुर्वेदभाष्ये तृतीयेऽष्टके सप्तमप्रश्ने चतुर्दशोऽनुवाकः ॥

अछिद्रप्रश्नस्समाप्तः ॥