१३ अवभृथे कर्मणि ऋजीषप्रोक्षणमन्त्राः

विश्वास-प्रस्तुतिः

यत्ते॒ ग्राव्ण्णा॑ चिच्छि॒दुस्सो॑म राजन् ।
प्रि॒याण्यङ्गा॑नि॒ स्वधि॑ता॒ परूँ॑षि ।
तत्सन्ध॒त्स्वाज्ये॑नो॒त व॑र्धयस्व ।
अ॒ना॒गसो॒ अध॒मित्स॒ङ्क्षये॑म ।

मूलम्

यत्ते॒ ग्राव्ण्णा॑ चिच्छि॒दुस्सो॑म राजन् ।
प्रि॒याण्यङ्गा॑नि॒ स्वधि॑ता॒ परूँ॑षि ।
तत्सन्ध॒त्स्वाज्ये॑नो॒त व॑र्धयस्व ।
अ॒ना॒गसो॒ अध॒मित्स॒ङ्क्षये॑म ।

भट्टभास्कर-टीका

1दध्ना पयसा वा मधुमिश्रेण ऋजीषमभिजुह्वति - यत्ते ग्राव्णेति त्रिष्टुभा ॥ हे राजन्! राजनशील। सोम! यत् यानि तव अङ्गानि प्रियाणि प्रियतराणि ग्राव्णा ग्रावभिः जातावेकवचनम्, चिच्छिदुः अभिषुण्वन्तः ऋत्विजः पीडितवन्तः । स्वधिता स्वधितानि आत्मनि निहितानि आत्मीयानि परूंषि पर्वाणि चिच्छिदुः इत्येव । यद्वा - स्वधिता स्वधितिना । तृतीयाया याडादेशः । तेन पशोः परूंषि अवयवान् छिन्दन्ति । एवं तव यान्यङ्गानि चिच्छिदुः । तत् तानि संधत्स्व प्रकृतिस्थानि निर्बाधानि स्थापय । आज्येन आज्यसदृशेन मधुना दध्ना वा पयसा वा मिश्रेण संधानप्राप्तानि कुरु । उत अपि च वर्धयस्व भूयः वृद्धतराणि कुरु । ततः वयं अनागसः अनपराधाः अधमित् अत एव हेतोः । छान्दसो मकारोपजनः संहितायां, शब्दान्तरं वा अथेत्यनेन समानार्थम्, ‘अव्ययादाप्सुपः’ इत्यस्यापवादो वा अम्भावः । संक्षयेम सम्यग्वसेम, क्षि निवासगत्योः ॥

विश्वास-प्रस्तुतिः

यत्ते॒ ग्रावा॑ बा॒हुच्यु॑तो॒ अचु॑च्यवुः ।
नरो॒ यत्ते॑ दुदु॒हुर्दक्षि॑णेन ।
तत्त॒ आप्या॑यता॒न्तत्ते॑ ।
निष्ट्या॑यतान्देव सोम ।

मूलम्

यत्ते॒ ग्रावा॑ बा॒हुच्यु॑तो॒ अचु॑च्यवुः ।
नरो॒ यत्ते॑ दुदु॒हुर्दक्षि॑णेन ।
तत्त॒ आप्या॑यता॒न्तत्ते॑ ।
निष्ट्या॑यतान्देव सोम ।

भट्टभास्कर-टीका

2यत्ते ग्रावेति प्रस्तारपङ्क्तिः ॥ हे सोम! देव! देवनशलि! तव अङ्गं ग्रावा अश्मा बहुच्युतः बाहुभ्यां संप्राप्तः संगृहीतः । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । अचुच्यवुः अच्यावयत् अपातयत् । वचनव्यत्ययः, अन्तर्भावितण्यर्थाल्लुङि शपश्श्लुः, ‘जुसि च’ इति गुणः, ‘बहुळमन्यत्रापि’ इति वा णिलुक् । प्रहारदार्ढ्यार्थं बाहुच्युत इत्युक्तम् । किंच - यत्तवाङ्गं दक्षिणेन प्रबलेन हस्तेन नरः मनुष्याः ऋत्विजः दुदुहुः रसादानेन रिक्तीकृतवन्तः । प्रपूरणं पूरणनिवृत्तिः प्रस्मरणादिवत् । तत् तवाङ्गं आप्यायतां वर्धताम् । व्याप्त्यर्थं तत्त इति द्विर्वचनम्, सर्वं अङ्गं आप्यायतामिति, यथा - ‘पुरुष इष्टकामुपादधात्पुरुष इष्टकाम्’ इति । किञ्च - तत्तवाङ्गं सर्वं निष्ट्यायतां पीडनेन विश्लिष्टं पुनः सङ्घीभवतु निरन्तरं निश्चयेन वा । निष्ट्यानार्थं वा द्वितीयं तत्तेग्रहणम् ॥

विश्वास-प्रस्तुतिः

यत्ते॒ त्वच॑म्बिभि॒दुर्यच्च॒ योनि॑म् ।
यदा॒स्थाना॒त्प्रच्यु॑तो॒ वेन॑सि॒ त्मना॑ ॥122॥
त्वया॒ तत्सो॑म गु॒प्तम॑स्तु नः ।
सा न॑स्स॒न्धास॑त्पर॒मे व्यो॑मन् ।

मूलम्

यत्ते॒ त्वच॑म्बिभि॒दुर्यच्च॒ योनि॑म् ।
यदा॒स्थाना॒त्प्रच्यु॑तो॒ वेन॑सि॒ त्मना॑ ॥122॥
त्वया॒ तत्सो॑म गु॒प्तम॑स्तु नः ।
सा न॑स्स॒न्धास॑त्पर॒मे व्यो॑मन् ।

भट्टभास्कर-टीका

3यत्ते त्वचमिति त्रिष्टुप् ॥ हे सोम! यत् यदर्थं तव त्वचं बिभिदुः विदारितवन्तः ऋत्विजः । यच्च यदर्थं तव योनिं कारणं कन्दमूलं बिभिदुः उत्पाटनेन । यच्च त्वं आस्थानात् उत्पत्तिस्थानात् प्रच्युतः वेनति स्मरसि उत्कण्ठां करोषि त्मना आत्मन्येव आत्मसाक्षिकमेव, लतासाहचर्यात् तेजितानां आस्थानावाससुखानां स्मरसि । तत् अस्माकं कर्म त्वयैव विस्मृतापकारेण गुप्तं रक्षितं अस्तु कर्मार्थं इदं एभिः कृतं न वृधेति क्षन्तव्योपराध इति यावत् । नः अस्माकं परमे उत्कृष्टे व्योमन् विशेषेण रक्षके स्वर्गे निमित्तभूते सति त्वया सह सा सन्धा तत्संधानं अपकारविस्मृतिलक्षणं असत् अस्तु । अस्तेर्लेट्यडागमः ॥

विश्वास-प्रस्तुतिः

अहा॒च्छरी॑र॒म्पय॑सा स॒मेत्य॑ ।
अ॒न्यो॑न्यो भवति॒ वर्णो॑ अस्य ।
तस्मि॑न्व॒यमुप॑हूता॒स्तव॑ स्मः ।
आ नो॑ भज॒ सद॑सि वि॒श्वरू॑पे ।

मूलम्

अहा॒च्छरी॑र॒म्पय॑सा स॒मेत्य॑ ।
अ॒न्यो॑न्यो भवति॒ वर्णो॑ अस्य ।
तस्मि॑न्व॒यमुप॑हूता॒स्तव॑ स्मः ।
आ नो॑ भज॒ सद॑सि वि॒श्वरू॑पे ।

भट्टभास्कर-टीका

4अहादित्यादयः त्रिष्टुभः ॥ अहात् अजहात् अत्यजत् । व्यत्ययेन शपो लुक् । तव अभिषुतस्य शरीरं अन्यः नैजो वर्णः रूपं अजहात् । पयसा दध्ना मधुना च समेत्य यथा अस्य शरीरस्य अन्यः मनोहर वर्णः भवति जायते, तस्मिन् तथाकरणे वयं उपहूताः त्वयैवानुज्ञाताः यस्मात् तस्मात् तवैव सम्बन्धिनः वयं स्मः । यद्वा - तस्मिन् उपहूताः स्मः भूयास्म तव तस्मिन् कर्मणि । अतः अस्मान् आभज आस्थापय सदसि स्थाने विश्वरूपे सर्वभोग्यफलसमृद्धे ॥

विश्वास-प्रस्तुतिः

नृ॒चक्षा॒स्सोम॑ उ॒त शु॒श्रुग॑स्तु ।
मा नो॒ वि हा॑सी॒द्गिर॑ आवृणा॒नः ।
अना॑गास्त॒नुवो॑ वावृधा॒नः ।
आ नो॑ रू॒पव्ँव॑हतु॒ जाय॑मानः ॥123॥

मूलम्

नृ॒चक्षा॒स्सोम॑ उ॒त शु॒श्रुग॑स्तु ।
मा नो॒ वि हा॑सी॒द्गिर॑ आवृणा॒नः ।
अना॑गास्त॒नुवो॑ वावृधा॒नः ।
आ नो॑ रू॒पव्ँव॑हतु॒ जाय॑मानः ॥123॥

भट्टभास्कर-टीका

5नृचक्षा इति ॥ उत अपि च अयं सोमः नृचक्षाः नॄननुग्रहदृष्ट्या सदा पश्यन् । ‘गतिकारकयोरपि’ इत्यसुन् ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । ‘शुश्रुक् अस्तु अस्मद्गिरां श्रोता भवतु । क्विपि छान्दसं द्विर्वचनं, कुक्, अन्त्यविकारश्च । यद्वा - शुश्रूषितव्योऽस्तु । सन्नन्तात् क्विपि अतो लोपे वर्णयोर्विकारः । मा च अस्मान् कदाचिदपि विहासीत् मा त्याक्षीत्, अस्माकं गिरः स्तुतो आवृणानः संभजमानः स्तुतिभिः प्रसन्नः अभिषवादिं अपराधं क्षमतां इति भावः । ततः अनागाः विस्मृतसकलापराधः तनुवः निजशरीराणि प्रत्यहं वावृधानः वर्धयन् । ण्यन्तात् छान्दसस्य लिटः कानच् । ‘तुजादीनाम्’ इत्यभ्यासस्य दीर्घवम् । ‘बहुलं संज्ञाछन्दसोः’ इति णिलुक् । नः अस्माकं आ सर्वतः सर्वकार्येषु जायमानः रूपं प्रशान्तं वहतु ॥

विश्वास-प्रस्तुतिः

उप॑क्षरन्ति जु॒ह्वो॑ घृ॒तेन॑ ।
प्रि॒याण्यङ्गा॑नि॒ तव॑ व॒र्धय॑न्तीः ।
तस्मै॑ ते सोम॒ नम॒ इद्वष॑ट्च ।
उप॑ मा राजन्त्सुकृ॒ते ह्व॑यस्व ।

मूलम्

उप॑क्षरन्ति जु॒ह्वो॑ घृ॒तेन॑ ।
प्रि॒याण्यङ्गा॑नि॒ तव॑ व॒र्धय॑न्तीः ।
तस्मै॑ ते सोम॒ नम॒ इद्वष॑ट्च ।
उप॑ मा राजन्त्सुकृ॒ते ह्व॑यस्व ।

भट्टभास्कर-टीका

6उपक्षरन्तीति ॥ हे सोम! राजन्! तव प्रियाणि अङ्गानि जुह्वः स्रुचः उपक्षरन्ति उपेत्य सिञ्चन्तु घृतेन क्षरणैः पयोदधिमधुभिः वर्धयन्त्यः त्वाम् । तस्मै तुभ्यमेव वषट्कारः नमः नमस्कारश्च युज्यते । मया च तथैव तत्क्रियते । अतः मां सुकृते शोभनकर्मफले उपह्वयस्व अनुजानीहि ॥

विश्वास-प्रस्तुतिः

सम्प्रा॑णापा॒नाभ्याँ॒ समु॒ चक्षु॑षा॒ त्वम् ।
सँ श्रोत्रे॑ण गच्छस्व सोम राजन् ।
यत्त॒ आस्थि॑तँ॒ शमु॒ तत्ते॑ अस्तु ।
जा॒नी॒तान्न॑स्स॒ङ्गम॑ने पथी॒नाम् ।

मूलम्

सम्प्रा॑णापा॒नाभ्याँ॒ समु॒ चक्षु॑षा॒ त्वम् ।
सँ श्रोत्रे॑ण गच्छस्व सोम राजन् ।
यत्त॒ आस्थि॑तँ॒ शमु॒ तत्ते॑ अस्तु ।
जा॒नी॒तान्न॑स्स॒ङ्गम॑ने पथी॒नाम् ।

भट्टभास्कर-टीका

7संप्राणापानाभ्यामिति ॥ हे सोम! राजन्! प्राणादिभिः आत्मीयैः सङ्गच्छस्व यत्तव शरीरे आस्थितं जातं पाषाणादिविकारजातं तत् शमु शान्तमेव सुखनिमित्तमेव अस्तु । अतः त्वं अस्माकं जानीतात् जानीहि पथीनां पथां सङ्गमने सहगमने मित्रत्व इति यावत् । यद्वा - पथां सङ्गमे तव पथित्वे सङ्गमे अस्माकं जानीतात् हवींषि सामर्थ्यात् गम्यते । यद्वा - पथां सङ्गमेनैषां मनोहरतया अस्मान् जानीहि ज्ञास्यसि उपकृतमेवमेभिरिति । ‘बहुळं छन्दसि’ इति पथ ईकारः ॥

विश्वास-प्रस्तुतिः

ए॒तञ्जा॑नीतात्पर॒मे व्यो॑मन् ।
वृका॑स्सधस्था वि॒द रू॒पम॑स्य ॥124॥
यदा॒गच्छा॑त्प॒थिभि॑र्देव॒यानैः॑ ।
इ॒ष्टा॒पू॒र्ते कृ॑णुतादा॒विर॑स्मै ।

मूलम्

ए॒तञ्जा॑नीतात्पर॒मे व्यो॑मन् ।
वृका॑स्सधस्था वि॒द रू॒पम॑स्य ॥124॥
यदा॒गच्छा॑त्प॒थिभि॑र्देव॒यानैः॑ ।
इ॒ष्टा॒पू॒र्ते कृ॑णुतादा॒विर॑स्मै ।

भट्टभास्कर-टीका

8एतमित्यादि ॥ हे वृकाः! वारकाः रश्मयः! यद्बा - विवृतकान्तयो वृकाः पुण्यात्मानः हे सधस्थाः! सहानेन स्थिताः ‘सधमाधस्थयोः’ इति सधादेशः । एतं सोमं परमे व्योमन् विविधरक्षणे स्वर्गे जानीतात् जानीत । ‘तस्य तात्’ इति तादादेशः । रूपं च अस्य सोमस्य स्पष्टं विद जानीत कियत्पुण्योऽयमिति । ‘विदो लटो वा’ इति थस्याकारः । आमन्त्रितयोरविद्यमानत्वात् निघाताभावः । ततः यदा अयं पथिभिः देवयानार्हैः गच्छात् गच्छेत् । लेट्याडागमः । तदा अस्मै इष्टापूर्ते इष्टापूर्तफलानि आविष्कृणुतात् आविष्कृणुत त्वया एतानि भोक्तव्यानीति । इष्टं देवानां, पूर्तं पितृणाम् ॥

विश्वास-प्रस्तुतिः

अरि॑ष्टो राजन्नग॒दᳶ परे॑हि ।
नम॑स्ते अस्तु॒ चक्ष॑से रघूय॒ते ।
नाक॒मारो॑ह स॒ह यज॑मानेन ।
सूर्य॑ङ्गच्छतात्पर॒मे व्यो॑मन् ।

मूलम्

अरि॑ष्टो राजन्नग॒दᳶ परे॑हि ।
नम॑स्ते अस्तु॒ चक्ष॑से रघूय॒ते ।
नाक॒मारो॑ह स॒ह यज॑मानेन ।
सूर्य॑ङ्गच्छतात्पर॒मे व्यो॑मन् ।

भट्टभास्कर-टीका

9अरिष्ट इति ॥ हे राजन्! अरिष्टः केनचिदप्यहिंसितः अरोगश्च सत् परेहि परागच्छ । नमस्ते अस्तु चक्षसे दर्शनकुशलाय रघूयते रघ्वीं शीघ्रां गतिं आत्मन इच्छते । कपिलकादित्वात् लत्वविकल्पः, ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । नाकं अविद्यमानदुःखस्थानं यजमानेन सह आरोह । ततः परमे व्योमन् पुण्यस्थाने वर्तमानं सूर्यं गच्छतात् गच्छ ॥

विश्वास-प्रस्तुतिः

अभू॑द्दे॒वस्स॑वि॒ता वन्द्यो॒नु नः॑ ।
इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ ।
वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॑ ।
श्रेष्ठ॑न्नो॒ अत्र॒ द्रवि॑णय्ँ॒यथा॒ दध॑त् ।

मूलम्

अभू॑द्दे॒वस्स॑वि॒ता वन्द्यो॒नु नः॑ ।
इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ ।
वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॑ ।
श्रेष्ठ॑न्नो॒ अत्र॒ द्रवि॑णय्ँ॒यथा॒ दध॑त् ।

भट्टभास्कर-टीका

10अभूद्देव इति जगती ॥ इदानीं सोमाराधनानन्तरं नः अस्माकं निर्दोषाणां देवः सविता वन्द्यः अभूत् भवति । यो देवः अह्नः सम्बन्धेन नृभिः मनुष्यैः शूरैः उपवाच्यः उपेत्य वक्तव्यः स्तोतव्यः स्वस्वाभिलषितसिद्धये । तस्मात् अस्माभिरपि अयं देवः वन्द्य इति । कः पुनरस्य विशेष इत्याह - यः रत्नानि रमणीयानि धनानि मानवेभ्यः विभजति उदयादिभिः, स देवः अस्मभ्यं श्रेष्ठं प्रशस्यतमं द्रविणं अत्रैवाहनि यथा दधत् दद्यात् तथा अयं देवः इदानीं वन्द्य इति । लेट्याडागमे ‘घोर्लोपो लेटि वा’ इति लोपः ॥

विश्वास-प्रस्तुतिः

उप॑ नो मित्रावरुणावि॒हाव॑तम् ।
अ॒न्वादी॑ध्याथामि॒ह न॑स्सखाया ।
आ॒दि॒त्याना॒म्प्रसि॑तिर् हे॒तिः ।
उ॒ग्रा श॒तापा॑ष्ठा घ॒विषा॒ परि॑ णो वृणक्तु ।

मूलम्

उप॑ नो मित्रावरुणावि॒हाव॑तम् ।
अ॒न्वादी॑ध्याथामि॒ह न॑स्सखाया ।
आ॒दि॒त्याना॒म्प्रसि॑तिर् हे॒तिः ।
उ॒ग्रा श॒तापा॑ष्ठा घ॒विषा॒ परि॑ णो वृणक्तु ।

भट्टभास्कर-टीका

11उप न इति त्रिष्टुप् ॥ मित्रावरुणौ नः अस्मान् निवृत्तसोमापराधान् इह अहनि उपावतम् । हे सखाया! समानख्यानौ! अस्मदर्थं एकमतीभवन्तौ! । ‘सुपां सुलुक्’ इत्याकारः । इह अस्मान् अन्वादीध्याथां अनुक्रमेण सर्वधा दीप्तान् कुरुतम् । दीधीङ् दीप्तिदेवनयोः । ततः युवयोः प्रसादात् आदित्यनां सम्बन्धिनी या प्रसितिः प्रकृष्टबन्धना हेतिः हिंसा दुष्कृतकारिषु भवति । उग्रा उद्गूर्णा शतापाष्ठा बहुपाशा बहुस्पाशा वा । यद्वा - आष्ठा दिशः शतधा आप्या आष्ठा अस्या इति शतापाष्ठा । धेति पूरणः, प्रसिद्धौ वा । विषा व्यापिनी । विषेः इगुपधलक्षणः कः । सर्वा अस्मान् परिवृणक्तु सर्वतो वर्जयतु ॥

विश्वास-प्रस्तुतिः

आप्या॑यस्व॒ सन्ते॑ ॥125॥

मूलम्

आप्या॑यस्व॒ सन्ते॑ ॥125॥

भट्टभास्कर-टीका

12आप्याय स्व समेतु ते, सं ते पयांसीति गायत्रीत्रिष्टुभौ ॥ ‘मा नो हंसीत्’ इत्यत्र व्याख्याते । इह तु अनयोः प्रतीकग्रहणम् ॥

  • आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् ।
    भवा॒ वाज॑स्य सङ्ग॒थे ।

    • अथ ‘रेतस्सौम्येन दधाति’ इत्यस्य पुरोनुवाक्या याज्या च - आप्यायस्व सं ते इति गायत्रीत्रिष्टुभौ ॥ एते च ‘मा नो हिंसीज्जनिता’ इत्यत्र व्याख्यास्येते यत्राम्नेयेते । इह तु प्रतीकग्रह्णमेतयोः । हे सोम आप्यायस्व वर्धस्व । ते तव विश्वतः वृष्णियं वीर्यं समेतु । तत्र आप्यायितस्त्वं वाजस्यान्नस्य क्षीरादेः संगथे संगमने अस्माकं भवेति ॥

    • 3अथ सौम्यस्य पुरोऽनुवाक्या - आप्यायस्व समेतु त इति गायत्री ॥ इयञ्चाग्निकाण्डे ‘मा नो हिंसीत्’ इत्यत्र व्याख्यास्यते यत्राम्नायते । हे सोम आप्यायस्व वर्धस्व त्वत्प्रसादात् विश्वतः वृष्ण्यं शुक्लं समेतु समागच्छतु । भव च वाजस्यान्नस्य सङ्गथे सङ्गमनायैवेति ॥

    • सोमाय वाजिने श्यामाकं चरुं निर्वपेद्यः क्लैब्यात् बिभीयात्’ इत्यस्य पुरोनुवाक्या - आप्यायस्वेति गायत्री ॥ इयमग्निकाण्डे व्याख्यास्यते यत्राम्नायते प्रकृतौ हि हीयुः [‘मा नो हिंसीः’ ] इत्यत्र । इह तु प्रतीकग्रहणम् । हे सोम तव प्रसादात् वृष्णियं वीर्यं विश्वतः समेतु समागच्छताम् । त्वदर्थं च मामाप्यायस्व द्यध्यात् [दध्यादिना] । किञ्च - वाजस्यान्नस्य सङ्गथे सङ्गमनार्थं भवेति ॥

    • अथ पत्नीसंयाजानां याज्यानुवाक्याः - आ प्यायस्वेत्याद्याः ॥ ‘आ प्यायस्व समेतु ते, संते पयांसि’ इति त्रिष्टुभौ ‘मा नो हिंसीत्’ इत्यत्र व्याख्याते ।

    • चमसानाप्याययति - आप्यायस्वेति गायत्र्या ॥ हे सोम आप्यायस्व वर्धस्व मा भक्षित इति क्षेष्ठाः, समेतु संगच्छतु ते त्वाम् । कर्मणि षष्ठी । विश्वतः सर्वतः । वृष्णियं वीर्यम्, वृष्णिसंभवं वृष्णियं, दिगादित्वाद्यत्, ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । वाजस्यान्नस्य संगथे संगमने अस्माकं भव तन्निमित्तं भव ‘द्व्यचोतस्तिङः’ इति संहितायां दीर्घत्वम् । गमेरौणादिकः स्थन् ॥

    • कल्पः—“आ प्यायस्व समेतु त इति सिकता व्यूहत्युत्तरया त्रिष्टुभा राज-न्यस्य” इति । तत्र प्रथममन्त्रमाह— आ प्यायस्वेति । हे सोम त्वमाप्यायस्व सर्वतो वर्धयस्य । वे तव वृष्णियं रेतो विश्वतः सर्वस्माद्वृष्णियादाहारात्समेतु संप्राप्नोतु । वाजस्यान्नस्य संगथे संगमने त्वं निमित्तं भव ।

  • सन्ते॒ पयाँ॑सि॒ समु॑ यन्तु॒ वाजा॒स्सव्ँवृष्णि॑यान्यभिमाति॒षाहः॑ ।
    आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवाँ॑स्युत्त॒मानि॑ धिष्व ॥ [32]

    • अथोत्तरां त्रिष्टुभमाह— सं ते पयाँ सीति । हे सोम ते तव पयांसि पातव्यानि क्षीरादीनि समु[सं]- यन्तु संप्राप्नुवन्तु । तथा वाजा अन्नान्यपि संयन्तु । वृष्णियानि रेतांस्यापि संयन्तु । कीदृशस्य तव। अभिमातिषाहः अभिमातिं पाम्मोनं सहते तिरस्करो तीत्यभिमातिषाट् तस्य । क्षीरादिसंपत्तौ सत्यां त्वमाप्यायमानो वर्धयमानोऽमृताय यजमानस्यामृतत्वाय देवताभावाय दिवि द्युलोके श्रवांसि श्रोतुं प्रियाण्युत्तमानि विचित्राण्यन्नानि धिष्व धारय संपादयेत्यर्थः ।
      तदेतदृग्द्वयं सामान्याकारेण विनियुङ्के— “सौम्या व्यूहति सोमो वै रेतोधा रेत एव तद्दधाति” [सं. का. ५ प्र. २ अ. ६] इति।
      सोमो देवता यस्यामृचि प्रतीयते सेयमृक्सौमी । विश्वतः सोमेत्याद्यायामृ-च्यसौ प्रतीयते । अमृताय सोमेत्युत्तरस्यामृचि प्रतीयते । तया सौम्मा पूर्वं न्युप्ताः सिकता विविधं प्रसारयेत् । तथा सति सोमस्य रेतोधारकत्वात्तन्मत्रनिष्पाद्यव्यूहनेन यजमानो रेतो धारयति ।
      मन्त्रद्वयस्य पुरुषभेदेन व्यवस्थां विधत्ते— “गायत्रिया ब्राह्मणस्य गायत्रो हि ब्राह्मणस्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यः” (सं. का. ५ प्र. २ अ. ६) इति।

    • 13तत्रैव याज्या - सन्त इति त्रिष्टुप् ॥ इमामपि तत्रैव व्याख्यास्यामः, इह तु प्रतीकग्रहणमस्याः । हे सोम तव प्रसादात् पयांसि वाजाः वृष्ण्यानि च मां संगच्छन्तु । अभिमातिषाहः अभिमातिः पाप्मा क्लैब्यहेतुः, तस्याभिभवितुः तव । किञ्च - अमृताय अमृतत्वार्थमाप्यायमानो दिवि श्रवांसि अन्नानि उत्तमानि धिष्व स्थापयेति ॥

    • अथ द्वितीया - हे सोम तवाभिमातीनां पाप्मनां हन्तुः पयांसि पातव्यानि क्षीरादीनि संयन्तु संगच्छन्तां, वाजा अन्नानि च संयन्तु, वृष्णियानि वीर्याणि च संयन्तु । ततश्चाप्यायमानः अमरणत्वायास्माकं उत्तमानि श्रेयांसि अन्नानि धिष्व धारय देवार्थमस्मदर्थं वा ॥

    • तत्रैव (सौम्यस्य) याज्या - सं ते पयांसीति त्रिष्टुप् ॥ इयमपि तत्रैवाम्नायते । हे सोम अभिमातीनां पाप्मनामभिभवितुस्तव प्रसादात् पयांसिच वाजाश्च वृष्णियानि च संयन्तु इमं सङ्गच्छन्तु । त्वं चाप्यायमानः दिवि द्युलोके अस्यामृतत्वाय उत्तमानि श्रवांसि अन्नानि धिष्व स्थापयेति ॥

इति तैत्तिरीये ब्राह्मणे भट्टभास्करमिश्रविरचिते तृतीये सप्तमे त्रयोदशोऽनुवाकः ॥