१२ अग्निष्टोमादौ याजमानजाप्या मन्त्रविशेषाः

विश्वास-प्रस्तुतिः

यद्दे॑वा देव॒हेड॑नम् ।
देवा॑सश्चकृ॒मा व॒यम् ।
आदि॑त्या॒स्तस्मा॑न्मा मुञ्चत ।
ऋ॒तस्य॒र्तेन॒ मामु॒त ।

मूलम्

यद्दे॑वा देव॒हेड॑नम् ।
देवा॑सश्चकृ॒मा व॒यम् ।
आदि॑त्या॒स्तस्मा॑न्मा मुञ्चत ।
ऋ॒तस्य॒र्तेन॒ मामु॒त ।

भट्टभास्कर-टीका

1एकविंशत्या दर्भपुञ्जीलैः पावितो यजमानो जपति - यद्देवा इति प्रथमा त्रिष्टुप् ॥ हे देवाः! देवासः! देवनशीलाः! । आज्जसेरसुक् । आदित्याः अदितेः पुत्राः यद्देवहेडनं देवानां क्रोधनं कर्म वयं चकृम कृतवन्तः । संहितायां दीर्घत्वं छान्दसम् । क्रादिनियमादिडभावः । तस्मात् क्रोधहेतोरपराधात् मा मुञ्चत यूयं,मामुत मामपि एवं नाम असद्भूतं, ऋतस्य यज्ञस्यापि ऋतेन अनेन होमेन, तस्यापि यज्ञत्वहेतुत्वादस्य । यद्वा - सत्यस्यापि सत्यभूतेन, सर्वदा मोघत्वाभावात् ॥

विश्वास-प्रस्तुतिः

देवा॑ जीवनका॒म्या यत् ।
वा॒चाऽनृ॑तमूदि॒म ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।
गार्ह॑पत्य॒ᳶ प्रमु॑ञ्चतु ।
दु॒रि॒ता यानि॑ चकृ॒म ।
क॒रोतु॒ माम॑ने॒नस॑म् ॥116॥

मूलम्

देवा॑ जीवनका॒म्या यत् ।
वा॒चाऽनृ॑तमूदि॒म ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।
गार्ह॑पत्य॒ᳶ प्रमु॑ञ्चतु ।
दु॒रि॒ता यानि॑ चकृ॒म ।
क॒रोतु॒ माम॑ने॒नस॑म् ॥116॥

भट्टभास्कर-टीका

2वा इति षट्पदा जगती ॥ हे देवाः! वयं सपुत्रपौत्राः जीवनकाम्याः जीवनमात्मन इच्छन्तः । काम्यजन्तात्पचाद्यच् । यत् अमृतं वाचा ऊदिम उक्तवन्तः तस्मात् तन्निमित्तात् एनसः मां गार्हपत्यः अग्निः प्रमुञ्चतु यानि चान्यानि दुरितानि दुर्गाणि निमित्तानि कर्माणि सपुत्रपौत्राः चकृम । तेनापि कर्मणा मां अनेनसं करोतु । मयि शुद्धे मत्सम्बन्धिनस्सर्वे विशुद्धा इति भावः ॥

विश्वास-प्रस्तुतिः

ऋ॒तेन॑ द्यावापृथिवी ।
ऋ॒तेन॒ त्वँ स॑रस्वति ।
ऋ॒तान्मा॑ मुञ्च॒ताँह॑सः ।
यद॒न्यकृ॑तमारि॒म ।

मूलम्

ऋ॒तेन॑ द्यावापृथिवी ।
ऋ॒तेन॒ त्वँ स॑रस्वति ।
ऋ॒तान्मा॑ मुञ्च॒ताँह॑सः ।
यद॒न्यकृ॑तमारि॒म ।

भट्टभास्कर-टीका

3ऋतेनेत्यनुष्टुप् ॥ हे द्यावापृथिवी! हे सरस्वति! सर्वा अपि यूयं मां अंहसः मुञ्चत । कस्मात्? ऋतेन? यज्ञेन विगुणेन हेतुना ऋतात् प्राप्तात् । यच्च अन्यकृतं अन्येन निमित्तेन यदतिरिक्तेन कृतं अन्यैर्वा शत्रुभिः अभिचारादिना कृतं पापफलं आरिम प्राप्नुयाम तस्माच्च मुञ्चतेति । अर्तेर्लिटि ‘ऋच्छतॄताम्’ इति गुणः, ‘अत आदे’ इति दीर्घत्वम् ॥

विश्वास-प्रस्तुतिः

स॒जा॒त॒शँ॒सादु॒त वा॑ जामिशँ॒सात् ।
ज्याय॑स॒श्शँसा॑दु॒त वा॒ कनी॑यसः ।
अना॑ज्ञातन्दे॒वकृ॑तय्ँ॒यदेनः॑ ।
तस्मा॒त्त्वम॒स्माञ्जा॑तवेदो मुमुग्धि ।

मूलम्

स॒जा॒त॒शँ॒सादु॒त वा॑ जामिशँ॒सात् ।
ज्याय॑स॒श्शँसा॑दु॒त वा॒ कनी॑यसः ।
अना॑ज्ञातन्दे॒वकृ॑तय्ँ॒यदेनः॑ ।
तस्मा॒त्त्वम॒स्माञ्जा॑तवेदो मुमुग्धि ।

भट्टभास्कर-टीका

4सजातशंसादिति जगती ॥ सजाताः समानजन्मानः, जामयः भार्याः, ज्यायान् विद्यादिना प्रशस्ततरः, कनीयान् तेनाप्यल्पतरः, एतेषां शंसः स्तुतिः मिथ्यागुणारोपेणाव्याकुलीकरणं तस्माद्धेतोः, अनाज्ञातं बुद्ध्या अननुसंहितं देवकृतं देवविषये मया कृतं यत् एनः पापं तस्मात् अस्मान् त्वं मुमुग्धि हे जातवेदः जातानां अव्यामोहेन वेदितः! । मुञ्चतेः ‘बहुळं छन्दसि’ इति शपः श्लुः । केचिदाहुः - विपरीतलक्षणाया शंसः आक्रोशः इति, तन्निमित्तात् पापात् मुञ्चत इति योज्यम् ॥

विश्वास-प्रस्तुतिः

यद्वा॒चा यन्मन॑सा ।
बा॒हुभ्या॑मू॒रुभ्या॑मष्ठी॒वद्भ्या॑म् ॥117॥
शि॒श्ञैर्यदनृ॑तञ्चकृ॒मा व॒यम् ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।

मूलम्

यद्वा॒चा यन्मन॑सा ।
बा॒हुभ्या॑मू॒रुभ्या॑मष्ठी॒वद्भ्या॑म् ॥117॥
शि॒श्ञैर्यदनृ॑तञ्चकृ॒मा व॒यम् ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।

भट्टभास्कर-टीका

5यद्वाचेत्यतिशक्वरी सप्तपदा ॥ वागादिभिः यदनृतं पापं वयं चकृम । अग्निर्मेत्यादि गतम् । अष्ठीवद्भ्यां जानुभ्याम् । शिश्नैरिति वचनव्यत्ययेन बहुवचनम् । यद्वा - शिश्नचापलप्रकारैः । गतमन्यत् ॥

  • गार्ह॑पत्य॒ᳶ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नस॑म् ॥116॥

  • तस्मात् तन्निमित्तात् एनसः मां गार्हपत्यः अग्निः प्रमुञ्चतु यानि चान्यानि दुरितानि दुर्गाणि निमित्तानि कर्माणि सपुत्रपौत्राः चकृम । तेनापि कर्मणा मां अनेनसं करोतु । मयि शुद्धे मत्सम्बन्धिनस्सर्वे विशुद्धा इति भावः ॥

विश्वास-प्रस्तुतिः

यद्धस्ता॑भ्याञ्च॒कर॒ किल्बि॑षाणि ।
अ॒क्षाणाव्ँ॑व॒ग्नुमु॑प॒जिघ्न॑मानः ।
दू॒रे॒प॒श्या च॑ राष्ट्र॒भृच्च॑ ।
तान्य॑प्स॒रसा॒वनु॑दत्तामृ॒णानि॑ ।

मूलम्

यद्धस्ता॑भ्याञ्च॒कर॒ किल्बि॑षाणि ।
अ॒क्षाणाव्ँ॑व॒ग्नुमु॑प॒जिघ्न॑मानः ।
दू॒रे॒प॒श्या च॑ राष्ट्र॒भृच्च॑ ।
तान्य॑प्स॒रसा॒वनु॑दत्तामृ॒णानि॑ ।

भट्टभास्कर-टीका

6यद्धस्ताभ्यामिति त्रिष्टुप् ॥ हस्ताभ्यां यत् यानि किल्बिषाणि, अक्षाणां इन्द्रियाणां वग्नुं वर्जनीयं अगन्तव्यविषयं उपजिघ्नमानः उपघ्नन् उपगच्छन् विषयभोगसक्तः । यद्वा - विषयमुपशमं कुर्वन् । हन्तेर्व्यत्ययेनात्मनेपदम्, ताच्छीलिको वा चानश्, व्यत्ययेन शपः श्लुः, विकरणत्वेन शः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम्, ‘गमहन’ इत्युपधालोपः, कृदुत्तरपदप्रकृतिस्वरत्वेन ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । अनुदत्तां ऋणानि दूरेपश्या च राष्ट्रभृत् इत्येते अप्सरसो अनुदत्तां आनुपूर्वेण यथास्वं प्रत्यर्पयताम् ॥

विश्वास-प्रस्तुतिः

अदी॑व्यन्नृ॒णय्ँयद॒हञ्च॒कार॑ ।
यद्वादा॑स्यन्त्सञ्ज॒गारा॒ जने॑भ्यः ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।

मूलम्

अदी॑व्यन्नृ॒णय्ँयद॒हञ्च॒कार॑ ।
यद्वादा॑स्यन्त्सञ्ज॒गारा॒ जने॑भ्यः ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।

भट्टभास्कर-टीका

7अदीव्यन्निति शक्वरी षट्पदा ॥ अदीव्यन् समीचीनव्यवहारमकुर्वन्, यद्वा - यात्रां निर्वोढुं अशक्नुवन् हिंसित्वा यदृणं अहं चकार, यच्च अदास्यन् अप्रत्यर्पयिष्यन् न प्रतिदास्यते इदानीं तावत् गृह्यतामित्यभिसन्धिं कुर्वन् जनेभ्यः आदाय यत्संजगार भक्षितवानस्मि । छान्दसं संहितायां दीर्घत्वम् । अग्निर्मा तस्मादिति गतम् ॥

  • गार्ह॑पत्य॒ᳶ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नस॑म् ॥116॥

  • तस्मात् तन्निमित्तात् एनसः मां गार्हपत्यः अग्निः प्रमुञ्चतु यानि चान्यानि दुरितानि दुर्गाणि निमित्तानि कर्माणि सपुत्रपौत्राः चकृम । तेनापि कर्मणा मां अनेनसं करोतु । मयि शुद्धे मत्सम्बन्धिनस्सर्वे विशुद्धा इति भावः ॥

विश्वास-प्रस्तुतिः

यन्मयि॑ मा॒ता गर्भे॑ स॒ति ॥118॥
एन॑श्च॒कार॒ यत्पि॒ता ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।

मूलम्

यन्मयि॑ मा॒ता गर्भे॑ स॒ति ॥118॥
एन॑श्च॒कार॒ यत्पि॒ता ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।

भट्टभास्कर-टीका

8यन्मयीति षट्पदा जगती ॥ मयि गर्भस्थे सति माता यदेनः परपुरुषसेवादि चकार, पिता यदेनः प्रतिषिद्धमैथुनादि चकार । अग्निर्मेत्यादि गतम् ॥

  • तस्मात् तन्निमित्तात् एनसः मां गार्हपत्यः अग्निः प्रमुञ्चतु यानि चान्यानि दुरितानि दुर्गाणि निमित्तानि कर्माणि सपुत्रपौत्राः चकृम । तेनापि कर्मणा मां अनेनसं करोतु । मयि शुद्धे मत्सम्बन्धिनस्सर्वे विशुद्धा इति भावः ॥

  • गार्ह॑पत्य॒ᳶ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नस॑म् ॥116॥

  • तस्मात् तन्निमित्तात् एनसः मां गार्हपत्यः अग्निः प्रमुञ्चतु यानि चान्यानि दुरितानि दुर्गाणि निमित्तानि कर्माणि सपुत्रपौत्राः चकृम । तेनापि कर्मणा मां अनेनसं करोतु । मयि शुद्धे मत्सम्बन्धिनस्सर्वे विशुद्धा इति भावः ॥

विश्वास-प्रस्तुतिः

यदा॑पि॒पेष॑ मा॒तर॑म्पि॒तर॑म् ।
पु॒त्रᳶ प्रमु॑दितो॒ धय॑न् ।
अहिँ॑सितौ पि॒तरौ॒ मया॒ तत् ।
तद॑ग्ने अनृ॒णो भ॑वामि ।

मूलम्

यदा॑पि॒पेष॑ मा॒तर॑म्पि॒तर॑म् ।
पु॒त्रᳶ प्रमु॑दितो॒ धय॑न् ।
अहिँ॑सितौ पि॒तरौ॒ मया॒ तत् ।
तद॑ग्ने अनृ॒णो भ॑वामि ।

भट्टभास्कर-टीका

9यदापिपेषेति बृहती, पङ्क्तिर्वा ॥ यदहं मातुरुत्सङ्गस्थः मातरं आपिपेष पीडितवानस्मि हस्तपादेन । पितरं च पितुरुत्सङ्गस्थः । पुत्त्रः दुःखात् पुन्नाम्नः त्राता । क्षान्तिहेतुरयम् । प्रमुदितः हृष्टात्मा धर्माधर्मयोः अज्ञाता । तदपि कुत इत्याह - धयन् स्तनं पिबन् । अवस्थाप्रदर्शनेन अज्ञत्वं दर्शयति । तत् तदा मया तादृशेन पितरौ मातापितरौ अहिंसितौ अनुपद्रुतावेव । यद्वा - क्रोधकारिणौ मा भूताम्, तथाऽपि तयोः या क्षान्तिः तदानीं नाभूत् तत्राहं अनृणो भवामि तत्प्रत्युपकाराकरणपापरहितो भूयासं त्वत्प्रसादेन ॥

विश्वास-प्रस्तुतिः

यद॒न्तरि॑क्षम्पृथि॒वीमु॒त द्याम् ।
यन्मा॒तर॑म्पि॒तरव्ँ॑वा जिहिँसि॒म ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।

मूलम्

यद॒न्तरि॑क्षम्पृथि॒वीमु॒त द्याम् ।
यन्मा॒तर॑म्पि॒तरव्ँ॑वा जिहिँसि॒म ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।

भट्टभास्कर-टीका

10यदन्तरिक्षमिति शक्वरी षट्पदा ॥ यदन्तरिक्षादीनि यज्जिहिंसिम हिंसितवानस्मि तदनिष्टाचरणात् । लोकवासिनो वा गृह्यन्ते । अग्निर्मेत्यादि तुल्यम् ॥

  • गार्ह॑पत्य॒ᳶ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नस॑म् ॥116॥

  • तस्मात् तन्निमित्तात् एनसः मां गार्हपत्यः अग्निः प्रमुञ्चतु यानि चान्यानि दुरितानि दुर्गाणि निमित्तानि कर्माणि सपुत्रपौत्राः चकृम । तेनापि कर्मणा मां अनेनसं करोतु । मयि शुद्धे मत्सम्बन्धिनस्सर्वे विशुद्धा इति भावः ॥

विश्वास-प्रस्तुतिः

यदा॒शसा॑ नि॒शसा॒ यत्प॑रा॒शसा॑ ॥119॥
यदेन॑श्चकृ॒मा नूत॑नय्ँ॒यत्पु॑रा॒णम् ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।

मूलम्

यदा॒शसा॑ नि॒शसा॒ यत्प॑रा॒शसा॑ ॥119॥
यदेन॑श्चकृ॒मा नूत॑नय्ँ॒यत्पु॑रा॒णम् ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।

भट्टभास्कर-टीका

11यदाशसेति शक्वरी षट्पदा ॥ शमु हिंसायां, आशसा आभिमुख्येन हिंसया निशसा निभृतया हिंसया पराशसा अनिवृत्तया हिंसया, एवं यदेनः चकृम । नूतनं इदानींतनं, पुराणं पर्वूस्मिन् जन्मनि भवम् । अग्निर्मेत्यादि समानम् ॥

    • गार्ह॑पत्य॒ᳶ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नस॑म् ॥116॥
  • तस्मात् तन्निमित्तात् एनसः मां गार्हपत्यः अग्निः प्रमुञ्चतु यानि चान्यानि दुरितानि दुर्गाणि निमित्तानि कर्माणि सपुत्रपौत्राः चकृम । तेनापि कर्मणा मां अनेनसं करोतु । मयि शुद्धे मत्सम्बन्धिनस्सर्वे विशुद्धा इति भावः ॥

विश्वास-प्रस्तुतिः

अति॑क्रामामि दुरि॒तय्ँयदेनः॑ ।
जहा॑मि रि॒प्रम्प॑र॒मे स॒धस्थे॑ ।
यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ ।
तमारो॑हामि सु॒कृता॒न्नु लो॒कम् ।

मूलम्

अति॑क्रामामि दुरि॒तय्ँयदेनः॑ ।
जहा॑मि रि॒प्रम्प॑र॒मे स॒धस्थे॑ ।
यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ ।
तमारो॑हामि सु॒कृता॒न्नु लो॒कम् ।

भट्टभास्कर-टीका

12अतिक्रामामीति त्रिष्टुप् ॥ यद्दुरितं दुर्गतिकारणं एनः पापं तदहं अतिक्रामामि अतिक्रम्य गच्छामि त्वत्प्रसादात् । किञ्च - परमे सधस्थे सहस्थाने अस्मिन् संसारे यन्मयि रिप्रं पापं लिप्तमिव निर्माष्टुं शक्यं तदपि जहामि त्यजामि त्वत्प्रसादात् । ततश्च यत्र यन्ति सुकृत एव न कदाचिदपि दुष्कृतः तं सुकृतामेव सम्बन्धिनं लोकं आरोहामि । नु पूरणं अविघ्नेन वा ॥

विश्वास-प्रस्तुतिः

त्रि॒ते दे॒वा अ॑मृजतै॒तदेनः॑ ।
त्रि॒त ए॒तन्म॑नु॒ष्ये॑षु मामृजे ।
ततो॑ मा॒ यदि॒ किञ्चि॑दान॒शे ।

अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥120॥
गार्ह॑पत्य॒ᳶ प्रमु॑ञ्चतु ।
दु॒रि॒ता यानि॑ चकृ॒म ।
क॒रोतु॒ माम॑ने॒नस॑म् ।

मूलम्

त्रि॒ते दे॒वा अ॑मृजतै॒तदेनः॑ ।
त्रि॒त ए॒तन्म॑नु॒ष्ये॑षु मामृजे ।
ततो॑ मा॒ यदि॒ किञ्चि॑दान॒शे ।

अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥120॥
गार्ह॑पत्य॒ᳶ प्रमु॑ञ्चतु ।
दु॒रि॒ता यानि॑ चकृ॒म ।
क॒रोतु॒ माम॑ने॒नस॑म् ।

भट्टभास्कर-टीका

13त्रित इत्यादि षट्पदा ॥ ‘तत एकतोऽजायत’ इत्यत्रोक्तानां एकतादीनां त्रयाणामपि प्रदर्शनार्थं त्रितग्रहणम् । तस्मिन् त्रिते देवाः एतत् एनः पापं अमृजत ‘ते देवा आप्येष्वमृजत’ इति दर्शनात् । स च त्रितः एतत् पापं मनुष्येषु सूर्याभ्युदितादिषु मामृजे । तुजादित्वादभ्यासस्य दीर्घत्वम् । ततः मां मनुष्यं यदि किञ्चित् पापं आनशे व्याप्नोति, अग्निर्मेत्यादि गतम् ॥

  • तस्मात् तन्निमित्तात् एनसः मां गार्हपत्यः अग्निः प्रमुञ्चतु यानि चान्यानि दुरितानि दुर्गाणि निमित्तानि कर्माणि सपुत्रपौत्राः चकृम । तेनापि कर्मणा मां अनेनसं करोतु । मयि शुद्धे मत्सम्बन्धिनस्सर्वे विशुद्धा इति भावः ॥
विश्वास-प्रस्तुतिः

दि॒वि जा॒ता अ॒प्सु जा॒ताः ।
या जा॒ता ओष॑धीभ्यः ।
अथो॒ या अ॑ग्नि॒जा आपः॑ ।
ता न॑श्शुन्धन्तु॒ शुन्ध॑नीः ।

मूलम्

दि॒वि जा॒ता अ॒प्सु जा॒ताः ।
या जा॒ता ओष॑धीभ्यः ।
अथो॒ या अ॑ग्नि॒जा आपः॑ ।
ता न॑श्शुन्धन्तु॒ शुन्ध॑नीः ।

भट्टभास्कर-टीका

14दिवि जाता इत्यनुष्टुप् ॥ या आपः दिवि जाताः द्युलोकप्रादुर्भूताः नित्याः वर्तन्ते । याश्च अप्सु कर्मसु जाताः कर्मजन्याः, अपां स्थानेषु कूपादिषु वा आविर्भूताः । याश्च ओषधीभ्यः आविर्भूताः, रसात्मिकाः । अथो अपि च या अग्निजाः विद्युतो जाताः रविकिरणेम्यो जाताः वर्ष्याः । तास्सर्वाः आपः अस्मान् शुन्धन्तु शोधयन्तु शुन्धनीः सर्वस्य लोकस्य शोधन्यः ॥

विश्वास-प्रस्तुतिः

यदापो॒ नक्त॑न्दुरि॒तञ्चरा॑म ।
यद्वा॒ दिवा॒ नूत॑नय्ँ॒यत्पु॑रा॒णम् ।
हिर॑ण्यवर्णा॒स्तत॒ उत्पु॑नीत नः ।

मूलम्

यदापो॒ नक्त॑न्दुरि॒तञ्चरा॑म ।
यद्वा॒ दिवा॒ नूत॑नय्ँ॒यत्पु॑रा॒णम् ।
हिर॑ण्यवर्णा॒स्तत॒ उत्पु॑नीत नः ।

भट्टभास्कर-टीका

15यदाप इति त्रिपदा त्रिष्टुप्, विराड्वा ॥ हे आपः! यद्दुरितं पापं वयं चराम आचराम नक्तं रात्रौ । यच्च दिवा अहनि यन्नूतनं इदानीन्तनं यच्च पुराणं पूर्वमाचराम् । यद्वा - नूतनं नवं मदुपज्ञं पापं तत् । पुराणं पूर्वमेव प्रसिद्धम् । ततः तस्मात् पापात् उत्पुनीत उत्कृष्टं शोधयत नः अस्मान् हे हिरण्यवर्णाः! हितरमणीयवर्णाः! उज्ज्वलर्णा वा ॥

विश्वास-प्रस्तुतिः

इ॒मम्मे॑ वरुण॒ तत्त्वा॑ यामि ।

  • इ॒मम्मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय ।
    त्वाम॑व॒स्युराच॑के ।

  • अथ ‘ये कृष्णास्स्युस्तं वारुणं चरुं निर्वपेत्’ इत्यस्याः पुरोनुवाक्या - इमं म इति गायत्री । श्रुधीति प्रथमपादान्तः ॥ हे वरुण इममस्मदीयं हवमाह्वानं श्रुधि शृणु । ‘बहुलं छन्दसि’ इति शपो लुक् । ‘श्रुशृणुपृकृवृभ्यः’ इति धिभावः । श्रुत्वा चाद्यैव मां मृडय सुखय । यस्मादहं त्वामवस्युः रक्षणमात्मन इच्छन् । ‘क्याच्छन्दसि’ इत्युप्रत्ययः । आचके आभिमुख्येन शब्दयामि प्रार्थये । कै गै शब्दे ॥

  • ‘यावतोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणान् चतुष्कपालान्निर्वपेत्’ इत्यस्याः पुरोऽनुवाक्या - इमं मे वरुण श्रुधी हवम् इति गायत्री ॥ ‘इन्द्रं वो विश्वतस्परीन्द्रं नरः’ इत्यत्र व्याख्याता । हे वरुण इमं मे हवं आह्वानं श्रुधि शृणु । अद्यास्मिम् कर्मणि मां मृडय त्वामहं अवस्युः -रक्षणाय आचके आभिमुख्येन भजे ॥

  • पूर्णमन्त्रपाठः

  • [ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
    अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शँस॒ मा न॒ आयु॒ᳶ प्रमो॑षीः ॥

  • तत्रैव याज्या - तत्त्वेति त्रिष्टुप् ॥ हे वरुण ब्रह्मणा मन्त्रेण त्वामेव वन्दमानः स्तुवन्नहं तत्तदर्थम् । चतुर्थ्या लुक् । तदर्थमेव त्वां यामि भजे । यद्वा - तदेव त्वां यामि याचे । छान्दसोन्त्यलोपः, परस्मैपदं च । यजमानोपि सर्वस्तदेवाशास्ते हविर्भिश्चरुपुरोडाशादिभिः हे उरुशंस महास्तुतिक त्वमपि तामस्मदीयां विज्ञापनां इह कर्माणि अहेडमानः अक्रुद्ध्यन् बोधि बुध्यस्व । पूर्ववद्विकरणस्य लुक्, ‘हुझल्भ्यो हेर्धिः’, ‘वा छन्दसि’ इत्यपित्त्वादेव ङित्त्वाभावाद्गुणः, अन्त्यलोपश्छान्दसः । किम्पुनस्तत्प्रार्थनीयमित्याह - नः अस्माकं आयुर्दीप्तिमन्नं वा मा प्रमोषीः मा छेत्सीः तदर्थं विशं च रा[राष्ट्रं चा]वगमयेति भावः ॥

  • तत्रैव याज्या - तत्त्वा यामि ब्रह्मणा वन्दमान इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । हे वरुण अहं ब्रह्मणा मन्त्रेण हविषा त्वां वन्दमानः स्तुवन् अहं त्वामभियाचे यजमानोऽपि तदेव हविर्भिराशास्ते त्वमपि तत्? अहेडमानः अक्रुध्यन् इह कर्मणि बुद्ध्यस्व । किंपुनः तत्? हे वरुण उरु शंसमानः अस्माकमायुर्मा प्रमोषीरिति ॥ ]

त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने ।

  • पूर्णमन्त्रपाठः

  • [ त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः ।
    यजि॑ष्ठो॒ वह्नि॑तम॒श्शोशु॑चानो॒ विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ।

  • अथ त्वं नो अग्ने स त्वं नो अग्ने इति गायत्रीत्रिष्टुभौ ॥ क्वचिदाग्निवारुणे विनियोगो द्रष्टव्यः ।
    प्रायश्चित्ते वा । तत्र प्रथमा - हे अग्ने विद्वान् सर्वार्थसाधनो वा यज्ञे स त्वं देवस्य वरुणस्य हेडः क्रोधः अनादरो वा पाशग्रहणादिकः नः अस्माकं अस्मत्संबन्धि अवयासिसीष्ठाः अपनय । अवपूर्वात् यासेर्ण्यन्तादाशीर्लिङि इडादावपि णिलोपश्छान्दसः । ‘छन्दस्युभयथा’ इति लिङ्वा सार्वधातुकत्वादिडभावो ङित्त्वं च । किं च – यजिष्ठः यष्टृतमः । यष्टृशब्दात् ‘तुश्छन्दसि’ इतीष्ठन् प्रत्ययः । ‘तुरिष्ठमेयस्सु’ इति तृशब्दस्य लोपः । वह्नितमः हविषां वोढृतमः शोशुचानः अतिशयेन दीप्यमानः । ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । ईदृशः त्वं विश्वानि वरुणव्यतिरिक्तान्यपि द्वेष्टॄणि वा रक्षःप्रभृतीनि अस्मत् अस्मत्तः प्रमुमुग्धि प्रकर्षेण मोचय । ‘बहुर्लं छन्दसि’ इति शपश्लुः ॥

  • पूर्णमन्त्रपाठः
    स त्वन्नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।
    अव॑ यक्ष्व नो॒ वरु॑णम् [72] ररा॑णो वी॒हि मृ॑डी॒कँ सु॒हवो॑ न एधि ।

  • अथ द्वितीया - हे अग्ने स त्वं नः अस्माकं अवमः अविता भव ऊत्या गमनेन । यद्वा - ऊत्या रक्षणेन अवमः अर्वाचीनः प्रत्यासन्नो भव । अस्या उषसो रात्रेरवसाने प्रातरेव अस्माकं नेदिष्ठः अन्तिकतमः अस्मिन् दिवसे प्रातरेव अस्मत्पार्श्वमागतस्त्वमिदानीं तत्क्षणेनापि प्रत्यासन्नतरो भवेति । ‘अन्तिकबाढ योर्नेदसाधौ’ । किञ्च - रराणः अस्मदीये परिचरणे रममाण अस्माकं वरुणं वारकं वरुणप्रवर्तितं वा पापरोगादिकमवयक्ष्व नाशय । ‘बहुलं छन्दसि’ इति शपो लुक् । रातेः शानचि अन्त्यलोपश्छान्दसः, पूर्वपदाद्युदात्तत्वम् । तदर्थं वीहि भुङ्क्ष्व मृडीकं सुखहेतुमिदं हविः । किञ्च - नः अस्माकं सुहवः शोभनाह्वानश्च एधि भव । आह्वानप्रयोजनस्य सद्यस्सम्पत्तिः शोभनत्वम् । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ॥]

त्वम॑ग्ने अ॒यासि॑ ॥ 121॥

15इमं मे वरुणेत्यादि पञ्चानां प्रतीकग्रहणम् । व्याख्याताश्चैता ‘इन्द्रं वः’ इत्यादिषु ॥

  • मन्त्रः त्वम॑ग्ने अ॒यासि॑ ।
    अ॒या सन्मन॑सा हि॒तः ।
    अ॒या सन् ह॒व्यमू॑हिषे ।
    अ॒या नो॑ धेहि भेष॒जम् ।

  • टीका 23त्वमग्ने अयाऽसीत्यनुष्टुप् ॥ हें! अग्रे! त्वं अया अयमेवासि । इदमः प्रथमैकवचनस्य ‘सुपां सुलुक्’ इति डादेशः । टिलोपे ‘अनुदात्तस्य च यत्रोदात्तलोपः’ इति उदात्तनिवृत्तिस्वरेण आकारस्य उदात्तत्वम् । अयमेवासि त्वम् । तव याथात्म्यं न जानीमः यं त्वां वयं प्रपश्यामः अयमेवासि । किं च अया अयमेव सन् मनसा हितः युक्तैर्धृतः । नान्यं जानीम इति । अपि च अयमेव सन् हव्यमूहिषे आस्माकीनं हविर्वह । छान्दसो लिङ् । किञ्च अयमेव त्वमस्माकं भेषजमनिष्टशमनं धेहि अस्मासु स्थापय । किमनेन रूपेण कर्तुं न शक्यत इति भावः ॥

इति तैत्तिरीये ब्राह्मणे भट्टभास्करीये तृतीये सप्तमे अच्छिद्रेषु द्वादशोऽनुवाकः ॥