११ दर्शपूर्णमासप्रायश्चित्तमन्त्राः

भास्करोक्त-विनियोगः

1अथ दर्शपूर्णमासयोः प्रायश्चित्तहोमा नित्याः - ब्रह्म प्रतिष्ठेति द्वे पञ्चपदे शक्वर्यौ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑ प्रति॒ष्ठा मन॑सो॒ ब्रह्म॑ वा॒चः ।
ब्रह्म॑ य॒ज्ञानाँ॑ ह॒विषा॒माज्य॑स्य ।
अति॑रिक्त॒ङ्कर्म॑णो॒ यच्च॑ ही॒नम् ।
य॒ज्ञᳶ पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पय॑न् ।
स्वाहा॑कृ॒ताऽऽहु॑तिरेतु दे॒वान् ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

ब्रह्म॑ प्रति॒ष्ठा मन॑सो॒ ब्रह्म॑ वा॒चः ।
ब्रह्म॑ य॒ज्ञानाँ॑ ह॒विषा॒माज्य॑स्य ।
अति॑रिक्त॒ङ्कर्म॑णो॒ यच्च॑ ही॒नम् ।
य॒ज्ञᳶ पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पय॑न् ।
स्वाहा॑कृ॒ताऽऽहु॑तिरेतु दे॒वान् ।

भट्टभास्कर-टीका

ब्रह्म आत्मा कर्मणामपादानम् । यथा - ‘यत एव यज्ञं प्रयुङ्क्ते । तदेनं प्रतिष्ठापयति’ इति । ईश्वरस्य क्रियाशक्तिः वाताख्यः विश्वोपादानभूतः परमात्मा । तदेव ब्रह्म प्रतिष्ठा मनसः, वाचः, यज्ञानां, तत्साधनानां च हविषां, आज्यस्य च । तस्मात् अस्य कर्मणो यदतिरिक्तं मात्राधिक्येन कृतं यच्च हीनं मात्राया ऊनं तत्सर्वं यज्ञः यष्टव्यं तदेव ब्रह्म कल्पयन् गुणीकुर्वन् फलसाधनसमर्थं कुर्वन् पर्वाणि यागकालांश्च प्रतिरन् सम्यङ्निर्वर्तितयागतया वर्धयन् अशून्यं कुर्वन् एति अविच्छेदेन वर्तते । तदर्थं इयं स्वाहाकृता स्वाहाकारेण संस्कृता आहुतिः देवान् एतु गच्छतु तेषां स्थितये भवतु ॥

विश्वास-प्रस्तुतिः ...{Loading}...

आश्रा॑वितम॒त्याश्रा॑वितम् ।
वष॑ट्कृतम॒त्यनू॑क्तञ्च य॒ज्ञे ।
अति॑रिक्त॒ङ्कर्म॑णो॒ यच्च॑ ही॒नम् ।
य॒ज्ञᳶ पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पय॑न् ।
स्वाहा॑कृ॒ताऽऽहु॑तिरेतु दे॒वान् ॥111॥

सर्वाष् टीकाः ...{Loading}...

मूलम्

आश्रा॑वितम॒त्याश्रा॑वितम् ।
वष॑ट्कृतम॒त्यनू॑क्तञ्च य॒ज्ञे ।
अति॑रिक्त॒ङ्कर्म॑णो॒ यच्च॑ ही॒नम् ।
य॒ज्ञᳶ पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पय॑न् ।
स्वाहा॑कृ॒ताऽऽहु॑तिरेतु दे॒वान् ॥111॥

भट्टभास्कर-टीका

2आश्रावितमिति ॥ अस्मिन् यज्ञे यत् आश्रावितं सम्यङ्निर्वर्तिताश्रावणं अत्याश्रावितं असमीचीनाश्रावणं वषट्कृतं सम्यक् वषट्कारेण दत्तं अत्यनूक्तं असमीचीनानुवचनम् ।
अतिरिक्तमित्यादि । समानम् । समीचीनकरणमत्र कल्पनं वेदितव्यम् ॥

  • तस्मात् अस्य कर्मणो यदतिरिक्तं मात्राधिक्येन कृतं यच्च हीनं मात्राया ऊनं तत्सर्वं यज्ञः यष्टव्यं तदेव ब्रह्म कल्पयन् गुणीकुर्वन् फलसाधनसमर्थं कुर्वन् पर्वाणि यागकालांश्च प्रतिरन् सम्यङ्निर्वर्तितयागतया वर्धयन् अशून्यं कुर्वन् एति अविच्छेदेन वर्तते । तदर्थं इयं स्वाहाकृता स्वाहाकारेण संस्कृता आहुतिः देवान् एतु गच्छतु तेषां स्थितये भवतु ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यद्वो॑ देवा अतिपा॒दया॑नि ।
वा॒चा चि॒त्प्रय॑तन्देव॒हेड॑नम् ।
अ॒रा॒यो अ॒स्माँ अ॒भिदु॑च्छुना॒यते॑ ।
अ॒न्यत्रा॒स्मन्म॑रुत॒स्तन्निधे॑तन ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

यद्वो॑ देवा अतिपा॒दया॑नि ।
वा॒चा चि॒त्प्रय॑तन्देव॒हेड॑नम् ।
अ॒रा॒यो अ॒स्माँ अ॒भिदु॑च्छुना॒यते॑ ।
अ॒न्यत्रा॒स्मन्म॑रुत॒स्तन्निधे॑तन ।

भट्टभास्कर-टीका

3यद्व डति जगती त्रिष्टुब्वा ॥ हे देवाः! मरुतः! युष्माकं संबन्धि यत् कर्म अहं अतिपादयानि अतिपन्नं यथाकामं करोमि । अकरणं अन्यथा करणं चातिपत्तिः । कामचारकरणे लोट् । वाचा चित् वाचा च, सामर्थ्यात् मनसा चेति गम्यते । प्रयतं प्रकर्षेण यतं उपरतम् । यम उपरमे । अत एव देवहेडनं देवानां क्रोधनम् । यच्चास्मान् अरायः निर्धनान् । ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वं रैशब्दादपि भवति । अभिदुच्छुनायते आभिमुख्येन नाशयति अस्मान्वा अभिलक्ष्य दुच्छुनेवाचरति । दुच्छुना दारिद्र्यम्, तदिवास्मान् पीडयतीति यावत् । ईदृशं अतिपन्नं कर्म तत् अस्मत्तः अन्यत्र निधेतन स्थापयत तत्फलं अस्मासु मा भूत् । दधातेर्लिङि ‘लिङ्याशिष्यङ्’ यासुट्, ‘अतो येयः’ ‘तप्तनप्तनधनाश्च’ इति तनादेशः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

त॒तम् म॒ आप॒स् तद् उ॑ तायते॒ पुनः॑ ।
स्वादि॑ष्ठा धी॒तिर्+++(=धारकं हविः)+++ उ॒चथा॑य+++(=कर्मणे)+++ शस्यते ।
अ॒यँ स॑मु॒द्र उ॒त वि॒श्व-भे॑षजः ।
स्वाहा॑-कृतस्य॒ सम् उ॑ तृप्णुत+++(=तृप्यत)++++ऋभुवः ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

त॒तम्म॒ आप॒स्तदु॑ तायते॒ पुनः॑ ।
स्वादि॑ष्ठा धी॒तिरु॒चथा॑य शस्यते ।
अ॒यँ स॑मु॒द्र उ॒त वि॒श्वभे॑षजः ।
स्वाहा॑कृतस्य॒ समु॑तृप्णुतर्भुवः ।

भट्टभास्कर-टीका

4ततं म इति जगती ॥ मम आपः कर्म ततं विस्तीर्णं यावज्जीवसंकल्पात् ।
तद् एव इदानीं अनेन होमेन पुनः तायते भूयोपि विस्तीर्यते । किञ्च - स्वादिष्ठा स्वादुतमा धीतिः धारकं हविः । संज्ञायां क्तिन् । उचथाय कर्मणे हविषः समवायाधारत्वात् उचथः । उच समवाये, औणादिकः थप्रत्ययः । यत्र समवैति तदर्थं स्वादिष्ठं भूत्वा अनेन होमेन हविः शस्यते, प्रशस्ततां भजते । यस्मादेवं तस्मात् अयं समुद्रः समुद्रोपमम् इदं दीयमानं आज्यं, अपि च विश्वभेषजः सर्वानिष्ट-शमनहेतुः, न तु धृतान्तरवत् कतिपयरोगभेषजम् ।
तस्य तादृशस्य स्वाहाकृतस्य स्वाहाकारेण प्रदत्तस्य समु तृप्णुत, उकारो ऽवधारणे, संतृप्यत, यस्य णुत्वम् । हे ऋभुवः! देवाः! । छान्दसः उवङादेशः । सुहितार्थयोगे षष्ठीसमासप्रतिषेधेन षष्ठ्याः ज्ञापितत्वात् स्वाहाकृतस्येति षष्ठी ।

विश्वास-प्रस्तुतिः - ऋक्

उद्व॒यन्तम॑स॒स्परि॑ ।

मूलम्

उद्व॒यन्तम॑स॒स्परि॑ ।

भट्टभास्कर-टीका

उद्वयं तमस इत्यादि नवानां प्रतीका गृह्यन्ते । व्याख्याताश्च ग्रहकाण्डादिषु मन्त्राः । उद्वयं तमसस्परि पश्यन्तः , उदु त्यं जातवेदसं , चित्रं देवानां62, इमं मे वरुण श्रुधि , तत्त्वा यामि ब्रह्मणा63, त्वं नो अग्ने वरुणस्य , स त्वंनो अग्रेऽवमः64, त्वमग्ने अयाऽस्ययासन् , प्रजापते न त्वत् ॥

  • उद्व॒यन्तम॑स॒स्परि॑ ।
    पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् ।
    दे॒वन्दे॑व॒त्रा सूर्य॑म् ।
    अग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ 43॥

  • टीका 25अथ पञ्चविंशीमाह - तमसस्परि तमसः अन्धकारात् परि ऊर्ध्वं उत्तरमुत्कृष्टं ज्योतिः उत्पश्यन्त उत्कर्षेण पश्यन्तो वयं देवत्रा देवेषु मध्ये देवं द्योतमानं सूर्यरूपमुत्तमं ज्योतिः अगन्म प्राप्ताः स्मः । ‘यद्देवा देवहेडनम्’ इत्येताः षडृचः पापक्षयार्थे कर्मणि द्रष्टव्याः ॥

इ॒मम्मे॑ वरुण॒ तत्त्वा॑ यामि ।

  • इ॒मम्मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय ।
    त्वाम॑व॒स्युराच॑के ।

    • अथ ‘ये कृष्णास्स्युस्तं वारुणं चरुं निर्वपेत्’ इत्यस्याः पुरोनुवाक्या - इमं म इति गायत्री । श्रुधीति प्रथमपादान्तः ॥ हे वरुण इममस्मदीयं हवमाह्वानं श्रुधि शृणु । ‘बहुलं छन्दसि’ इति शपो लुक् । ‘श्रुशृणुपृकृवृभ्यः’ इति धिभावः । श्रुत्वा चाद्यैव मां मृडय सुखय । यस्मादहं त्वामवस्युः रक्षणमात्मन इच्छन् । ‘क्याच्छन्दसि’ इत्युप्रत्ययः । आचके आभिमुख्येन शब्दयामि प्रार्थये । कै गै शब्दे ॥
    • ‘यावतोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणान् चतुष्कपालान्निर्वपेत्’ इत्यस्याः पुरोऽनुवाक्या - इमं मे वरुण श्रुधी हवम् इति गायत्री ॥ ‘इन्द्रं वो विश्वतस्परीन्द्रं नरः’ इत्यत्र व्याख्याता । हे वरुण इमं मे हवं आह्वानं श्रुधि शृणु । अद्यास्मिम् कर्मणि मां मृडय त्वामहं अवस्युः -रक्षणाय आचके आभिमुख्येन भजे ॥
  • तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
    अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शँस॒ मा न॒ आयु॒ᳶ प्रमो॑षीः ॥

    • तत्रैव याज्या - तत्त्वेति त्रिष्टुप् ॥ हे वरुण ब्रह्मणा मन्त्रेण त्वामेव वन्दमानः स्तुवन्नहं तत्तदर्थम् । चतुर्थ्या लुक् । तदर्थमेव त्वां यामि भजे । यद्वा - तदेव त्वां यामि याचे । छान्दसोन्त्यलोपः, परस्मैपदं च । यजमानोपि सर्वस्तदेवाशास्ते हविर्भिश्चरुपुरोडाशादिभिः हे उरुशंस महास्तुतिक त्वमपि तामस्मदीयां विज्ञापनां इह कर्माणि अहेडमानः अक्रुद्ध्यन् बोधि बुध्यस्व । पूर्ववद्विकरणस्य लुक्, ‘हुझल्भ्यो हेर्धिः’, ‘वा छन्दसि’ इत्यपित्त्वादेव ङित्त्वाभावाद्गुणः, अन्त्यलोपश्छान्दसः । किम्पुनस्तत्प्रार्थनीयमित्याह - नः अस्माकं आयुर्दीप्तिमन्नं वा मा प्रमोषीः मा छेत्सीः तदर्थं विशं च रा[राष्ट्रं चा]वगमयेति भावः ॥

    • 12 तत्रैव याज्या - तत्त्वा यामि ब्रह्मणा वन्दमान इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । हे वरुण अहं ब्रह्मणा मन्त्रेण हविषा त्वां वन्दमानः स्तुवन् अहं त्वामभियाचे यजमानोऽपि तदेव हविर्भिराशास्ते त्वमपि तत्? अहेडमानः अक्रुध्यन् इह कर्मणि बुद्ध्यस्व । किंपुनः तत्? हे वरुण उरु शंसमानः अस्माकमायुर्मा प्रमोषीरिति ॥

उदु॒त्यञ्चि॒त्रम् ॥112॥

  • मन्त्रः [ उदु॒ त्यञ्जा॒तवे॑दसन्दे॒वव्ँव॑हन्ति के॒तवः॑ ।
    दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥

  • टीका अथ दाक्षिणं काण्डं सौम्यमेव । तत्र शौरीभ्यामृग्भ्यां गार्हपत्ये जुहोति - उदुत्यमिति प्रथमा गायत्री, द्वितीया त्रिष्टुप् ॥
    तत्र प्रथमा - ‘उदायुषा’ इत्यत्र व्याख्याता । त्यं तं इमं देवं जातवेदसं जातप्रज्ञं जातानां वेदितारं केतवो रश्मय उद्वहन्ति ऊर्ध्वं वहन्ति दृशे द्रष्टुं विश्वाय विश्वार्थं, विश्वो लोको यथैनं पश्येदिति । ‘सुवर्गाय वा एतानि लोकाय हुयन्ते यद्दाक्षिणानि’ इत्यादि ब्राह्मणम् ॥]

  • 5’यो ब्रह्मवर्चसकामस्स्यात्तस्मा एतं सौर्यं चरुं निर्वपेत्’ इत्यस्याः पुरोनुवाक्या - उदु त्यमिति गायत्री ॥ व्याख्यातेयं ग्रहेषु , अस्या इदं प्रतीकग्रहणम् । तमिमं जातवेदसं देवं सूर्यं केतवो रश्मय उद्वहन्ति विश्वस्य लोकस्य दर्शनार्थमिति ॥

  • सौर्यर्चा कृष्णाजिनं पुरस्तात्प्रत्यानह्यत्यूर्ध्वग्रीवम् - उदुत्यमिति गायत्र्या ॥ त्यं तं जातवेदसं जातानां वेदितारम् । ‘गतिकारकयोरपि’ इत्यसुन्प्रत्ययः । जातप्रज्ञानं वा सूर्यं देवं देवनादिगुणयुक्तं उद्वहन्ति ऊर्ध्वं वहन्ति केतवो रश्मयः दृशे द्रष्टुम् । ‘दृशे विख्ये च’ इति निपात्यते । विश्वाय विश्वार्थं विश्वं लोको यथा एनं पश्येत् तदनुरूपमुद्वहन्ति । स्मैभावाभावश्छान्दंसः । क्रियमाणेन का सङ्गतिः? उच्यते - एतस्य कर्मणस्सामर्थ्यादेतदेवं भवतीति ॥

  • 31अथ सौम्यस्य पुरोनुवाक्या याज्या चा - ‘उदु त्यं जात्वेदसम्’, ‘चित्रं देवानाम्’ इति गायत्रीत्रिष्टुभौ ॥ व्याख्याते चैते । अत्र प्रतीकग्रहणम् । तमिमं जातवेदसं जातप्रज्ञानं सूर्यं देवं केतवः उद्वहन्ति यथा सर्वेषां द्रष्टुं योग्यो भवतीति ॥

  • मन्त्रः चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑क॒ञ्चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
    आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षँ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥

  • टीका अथ द्वितीया - चित्रं चायनीयं देवानामनीकं सङ्घातरूपम्मण्डलम् । यद्वा - देवानां रश्मीनां अनीकं मुखं समुदायस्थानं वा । मित्रादीनां देवानामपि चक्षुस्स्थानं , तेपि हि तेन प्रकाशितं पश्यन्ति । यद्वा - मित्रत्वादिपदप्राप्तिहेतुत्वाच्चक्षुरित्युपचर्यते । उपलक्षणं चैतत्, सर्वदेवतापदलाभहेतुत्वात्; भवति मण्डलोपासनमिति । इर्दृशमण्डलमुदगात् उदेति । छान्दसो लुङ्, ‘गातिस्था’ इति सिचो लुक् । यदा ईदृशम्मण्डलमुदेति तदा तन्मण्डलान्तर्गतो भगवान् सूर्यः जगतो जङ्गमस्य तस्थुषः स्थावरस्य च विश्वस्यात्मा द्यावापृथिवी द्यावापृथिव्यौ अन्तरिक्षं च रश्मिभिराप्राः आपूरयति । प्रा पूरणे पुरुषव्यत्ययः, अदादित्वाच्छपो लुक् । द्यौश्च पृथिवी च द्यावापृथिव्यौ । ‘दिवो द्यावा’ इति द्यावादेशः, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घः’, ‘देवताद्वन्द्वे च’ इति पूर्वोत्तरयोर्युगपत्प्रकृतिस्वरत्वम्, पृथिवीशब्दो ङीषन्तोन्तोदात्तः । ईदृशो भगवाननेन होमेनास्माकमभिमतं साधयत्विति ॥

  • 32द्वितीया - चित्रं चायनीयं देवानां सर्वेषामनीकं अनीकभूतं मित्रस्य वरुणस्य च अग्नेश्चक्षुस्थानीयं जङ्गमस्य स्थावरस्य आत्मभूतः सूर्य उदगात् उदेति । उदेत्य च द्यावापृथिवी अन्तरिक्षं च रश्मिभिरापूरयतीति ॥

  • 6तत्रैव याज्या - चित्रमिति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । प्रतीकग्रहणमेवेदम् । चित्रं चायनीयं देवानामनीकं चमूस्थानीयं मित्रादीनामपि चक्षुस्स्थानीयमुदगादुद्गच्छति । उदुत्यं च द्यावापृथिवी अन्तरिक्षं च आप्रा आप्रात् आपूरयन्ति । जगतः जङ्गमस्य तस्थुषः स्थावरस्य चात्मा सूर्य इति ॥

त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने ।

  • पूर्णमन्त्रपाठः

  • [ त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः ।
    यजि॑ष्ठो॒ वह्नि॑तम॒श्शोशु॑चानो॒ विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ।

  • अथ त्वं नो अग्ने स त्वं नो अग्ने इति गायत्रीत्रिष्टुभौ ॥ क्वचिदाग्निवारुणे विनियोगो द्रष्टव्यः ।
    प्रायश्चित्ते वा । तत्र प्रथमा - हे अग्ने विद्वान् सर्वार्थसाधनो वा यज्ञे स त्वं देवस्य वरुणस्य हेडः क्रोधः अनादरो वा पाशग्रहणादिकः नः अस्माकं अस्मत्संबन्धि अवयासिसीष्ठाः अपनय । अवपूर्वात् यासेर्ण्यन्तादाशीर्लिङि इडादावपि णिलोपश्छान्दसः । ‘छन्दस्युभयथा’ इति लिङ्वा सार्वधातुकत्वादिडभावो ङित्त्वं च । किं च – यजिष्ठः यष्टृतमः । यष्टृशब्दात् ‘तुश्छन्दसि’ इतीष्ठन् प्रत्ययः । ‘तुरिष्ठमेयस्सु’ इति तृशब्दस्य लोपः । वह्नितमः हविषां वोढृतमः शोशुचानः अतिशयेन दीप्यमानः । ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । ईदृशः त्वं विश्वानि वरुणव्यतिरिक्तान्यपि द्वेष्टॄणि वा रक्षःप्रभृतीनि अस्मत् अस्मत्तः प्रमुमुग्धि प्रकर्षेण मोचय । ‘बहुर्लं छन्दसि’ इति शपश्लुः ॥

  • पूर्णमन्त्रपाठः

  • स त्वन्नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।
    अव॑ यक्ष्व नो॒ वरु॑णम् [72] ररा॑णो वी॒हि मृ॑डी॒कँ सु॒हवो॑ न एधि ।

  • अथ द्वितीया - हे अग्ने स त्वं नः अस्माकं अवमः अविता भव ऊत्या गमनेन । यद्वा - ऊत्या रक्षणेन अवमः अर्वाचीनः प्रत्यासन्नो भव । अस्या उषसो रात्रेरवसाने प्रातरेव अस्माकं नेदिष्ठः अन्तिकतमः अस्मिन् दिवसे प्रातरेव अस्मत्पार्श्वमागतस्त्वमिदानीं तत्क्षणेनापि प्रत्यासन्नतरो भवेति । ‘अन्तिकबाढ योर्नेदसाधौ’ । किञ्च - रराणः अस्मदीये परिचरणे रममाण अस्माकं वरुणं वारकं वरुणप्रवर्तितं वा पापरोगादिकमवयक्ष्व नाशय । ‘बहुलं छन्दसि’ इति शपो लुक् । रातेः शानचि अन्त्यलोपश्छान्दसः, पूर्वपदाद्युदात्तत्वम् । तदर्थं वीहि भुङ्क्ष्व मृडीकं सुखहेतुमिदं हविः । किञ्च - नः अस्माकं सुहवः शोभनाह्वानश्च एधि भव । आह्वानप्रयोजनस्य सद्यस्सम्पत्तिः शोभनत्वम् । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ॥]

त्वम॑ग्ने अ॒यासि॒ प्रजा॑पते ।

  • मन्त्रः त्वम॑ग्ने अ॒यासि॑ ।
    अ॒या सन्मन॑सा हि॒तः ।
    अ॒या सन् ह॒व्यमू॑हिषे ।
    अ॒या नो॑ धेहि भेष॒जम् ।

  • टीका 23त्वमग्ने अयाऽसीत्यनुष्टुप् ॥ हें! अग्रे! त्वं अया अयमेवासि । इदमः प्रथमैकवचनस्य ‘सुपां सुलुक्’ इति डादेशः । टिलोपे ‘अनुदात्तस्य च यत्रोदात्तलोपः’ इति उदात्तनिवृत्तिस्वरेण आकारस्य उदात्तत्वम् । अयमेवासि त्वम् । तव याथात्म्यं न जानीमः यं त्वां वयं प्रपश्यामः अयमेवासि । किं च अया अयमेव सन् मनसा हितः युक्तैर्धृतः । नान्यं जानीम इति । अपि च अयमेव सन् हव्यमूहिषे आस्माकीनं हविर्वह । छान्दसो लिङ् । किञ्च अयमेव त्वमस्माकं भेषजमनिष्टशमनं धेहि अस्मासु स्थापय । किमनेन रूपेण कर्तुं न शक्यत इति भावः ॥

  • प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
    यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥ [28]

  • युवराजस्य प्रतिहितस्य गृहे जुहोति - प्रजापत इति त्रिष्टुभा ॥ हे प्रजापते त्वत्तोन्यः कश्चिदपि तान्येतानि विश्वा विश्वानि जातानि जन्मवन्ति वस्तूनि परिबभूव परिभवति वाप्नोति परिगृह्णाति वा । यद्वा - त्वदेतानि त्वत्तो जातानि विश्वानि वस्तूनि कश्चिदन्यः पीरबभूव न त्वमेव परिभवसि, तस्मादेवं तावन्महानुभावस्त्वम् । न च मया किञ्चिदज्ञातमस्ति ; अतो यत्कामा यत्फलं कामयमानाः ते जुहुमस्तन्नोस्माकमस्तु त्वत्प्रसादात् स कामोस्माकं सम्पद्यताम् । ‘शीलिकामिभिक्षाचरिभ्यः’ इति णः, पूर्वपदप्रकृतिस्वरत्वं च । इदं तु विशेषेणेत्याह - वयं रयीणां धनानां पतयः सर्वदा स्यामेत्याशास्ते ॥

  • हे प्रजापते न खलु कश्चित् त्वत्तोन्यः तान्येतानि विश्वानि जातानि भूतानि परिबभूव परिभवति । तस्माद्यत्कामा वयं जुहुमस्तन्नोस्माकमस्तु । किञ्च - वयं रयीणां पतयस्स्वामिनश्च स्यामेति ॥

  • 20’यः प्रजाकामस्स्यात्तस्मा एतं प्राजापत्यं गार्मुतं चरुं निर्वपेत्’ इत्यस्याः पुरोऽनुवाक्या - प्रजापते न त्वदिति त्रिष्टुप् ॥ व्याख्यातेयं ‘सोमस्य त्विषिरसि’ इत्यत्र इह त्वस्याः प्रतीकं गृह्यते । हे प्रजापते त्वदन्य एतानि विश्वानि जातानि भुवनानि परिबभूव सर्वतो व्याप्नोति । तस्माद्यद्यत्कामयमानास्ते जुहुमो वयं तत्तथैवास्माकमस्तु वयं रयीणां पतयस्स्यामेति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मञ्जी॒वेभ्य॑ᳶ परि॒धिन्द॑धामि ।
मैषान्नु॑गा॒दप॑रो॒ अर्ध॑मे॒तम् ।
श॒तञ्जी॑वन्तु श॒रद॑ᳶ पुरू॒चीः ।
ति॒रो मृ॒त्युन्द॑धता॒म्पर्व॑तेन ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

इ॒मञ्जी॒वेभ्य॑ᳶ परि॒धिन्द॑धामि ।
मैषान्नु॑गा॒दप॑रो॒ अर्ध॑मे॒तम् ।
श॒तञ्जी॑वन्तु श॒रद॑ᳶ पुरू॒चीः ।
ति॒रो मृ॒त्युन्द॑धता॒म्पर्व॑तेन ।

भट्टभास्कर-टीका

5इमं जीवेभ्य इति त्रिष्टुप् ॥ जीवेभ्यः जीवनार्थं जीवानां वा परिधिं सर्वतः धातारं रक्षकं दधामि स्थापयामि एतद्धोमात्मकम् । अतः एषां अनेन होमेन रक्षितानां जीवानां मध्ये अपरः कश्चिदपि मा गात् मा गमत् । नु इति क्षिप्रार्थे । एतमर्धं पुरुषायुषस्य प्रथमार्धं पञ्चाशद्वर्षलक्षणं आयुष्ट्वेन मा गात् तावत्यायुषि मा मृतेति यावत् । यद्बा - एतमर्थं ऋद्धिं ऋद्धिहेतुम् । वर्णव्यत्ययो वा एतमर्धम् । प्रथमे पक्षे छान्दसमाद्युदात्तत्वम् । किन्तु शतं जीवन्तु शरदः संवत्सरान् पुरूचीः पुरून् बडून्वा नानाविधान् भोगान् अञ्चतीति, नकाराकारयोः लुप्तयोः ‘चौ’ इति दीर्घत्वम् । अत एव मृत्युं तिरोदधतां विनष्टं कुरुताम् पर्वतेन पर्वणि क्रियमाणेन अनेन होमेन । ‘पर्वमरुद्भ्यां तन्’ इति तन्प्रत्ययः । पर्वतवदभेद्येन वा ॥

विश्वास-प्रस्तुतिः - यजुः

इ॒ष्टेभ्य॒स्स्वाहा॒ वष॒डनि॑ष्टेभ्य॒स्स्वाहा॑ ।

मूलम्

इ॒ष्टेभ्य॒स्स्वाहा॒ वष॒डनि॑ष्टेभ्य॒स्स्वाहा॑ ।

भट्टभास्कर-टीका

6इष्टेभ्य इत्यादीनि यजूंषि ॥ इष्टेभ्यः सम्यग्यागेनाराधितेभ्यः अग्न्यादिभ्यः स्वाहुतमिदमस्तु तृप्त्यतिशयाय । वषडनिष्टेभ्यः ये अनिष्टा वष्ट्कारेण अनाराधिताः देवाः तेभ्यः इदमेव वषट्कृतं हविरस्तु तदर्थं इदं स्वाहुतं करोमि ।

विश्वास-प्रस्तुतिः - यजुः

भे॒ष॒जन्दुरि॑ष्ट्यै॒ स्वाहा॒ निष्कृ॑त्यै॒ स्वाहा॑ ।
दौरा॑र्ध्यै॒ स्वाहा॒ दैवी॑भ्यस्त॒नूभ्य॒स्स्वाहा॑ ॥113॥
ऋद्ध्यै॒ स्वाहा॒ समृ॑द्ध्यै॒ स्वाहा॑ ।

मूलम्

भे॒ष॒जन्दुरि॑ष्ट्यै॒ स्वाहा॒ निष्कृ॑त्यै॒ स्वाहा॑ ।
दौरा॑र्ध्यै॒ स्वाहा॒ दैवी॑भ्यस्त॒नूभ्य॒स्स्वाहा॑ ॥113॥
ऋद्ध्यै॒ स्वाहा॒ समृ॑द्ध्यै॒ स्वाहा॑ ।

भट्टभास्कर-टीका

भेषजं अनिष्टकारित्वशमनं दुरिष्टचै दुरिष्ट्याः प्रमादादिना विगुणा इष्टिः दुरिष्टिः तस्याः स्विष्टं स्वाहुतमिदमस्तु । निष्कृतिः प्रायश्चित्तार्थो होमादिः । तत्सामर्थ्यार्थं स्वाहुतमिदमस्तु ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यत॑ इन्द्र॒ भया॑महे॒
ततो॑ नो॒ अभ॑यं कृधि ।
मघ॑वञ् छ॒ग्धि +++(=शक्तो वर्तस्व)+++ तव॒ तन् न॑+++(ः)+++ ऊ॒तये॑+++(=रक्षायै, ऊ॒तिभि॑र् इति शाकले)+++
वि द्विषो॒ वि मृधो॑+++(=सङ्ग्रामान्)+++ जहि ।।

२६ यत इन्द्र ...{Loading}...

भट्टभास्कर-टीका

7यत इन्द्रेति पथ्या बृहती ॥ हे इन्द्र! यतः मृत्युरोगचोरादेर्हेतोः वयं भयामहे बिभीमः । व्यत्ययेन शप्, आत्मनेपदं च । ततः नः अस्माकं यथा भयं न भवति तथा कृधि कुरु । शपो लुकि, ‘श्रुशृणुपृकृवृभ्यः’ इति घिभावः । हे मघवन्! तव या ऊतिः रक्षा अनितरसाधारणी तत् तस्याः नः अस्मदर्थं तां रक्षां कर्तुं त्वमेव शग्धि शक्तो वर्तस्व । छान्दसो वर्तमाने लोट्, प्राक्काले वा । त्वदीयरक्षाशक्तेः प्रदर्शनकालोऽयम् । ‘ऊतियूति’ इति क्तिनः उदात्तत्वम् । किञ्च - विद्विषः शत्रून् विमृधः सङ्ग्रामांश्च जहि विनाशय । ‘हन्तेर्जः’ ॥

०२ स्वस्तिदा विशस्पतिर्वृत्रहा ...{Loading}...

स्वस्तिदा᳓ विश᳓स्-प᳓तिर्
वृत्रहा᳓ विमृधो᳓ वशी᳓ ।
वृ᳓षे᳓न्द्रः पुर᳓ एतु नः
सोम-पा᳓ अभयङ्-करः᳓

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - शासो भारद्वाजः
  • छन्दः - अनुष्टुप्
Thomson & Solcum

सुअस्तिदा᳓ विश᳓स् प᳓तिर्
वृत्रहा᳓ विमृधो᳓ वशी᳓
वृ᳓षे᳓न्द्रः पुर᳓ एतु नः
सोमपा᳓ अभयंकरः᳓

Vedaweb annotation

Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons


Pāda-label
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)


Morph
pátiḥ ← páti- (nominal stem)
{case:NOM, gender:M, number:SG}

svastidā́ḥ ← svastidā́- (nominal stem)
{case:NOM, gender:M, number:SG}

viśáḥ ← víś- (nominal stem)
{case:GEN, gender:F, number:SG}

vaśī́ ← vaśín- (nominal stem)
{case:NOM, gender:M, number:SG}

vimr̥dháḥ ← vimŕ̥dh- (nominal stem)
{case:GEN, gender:M, number:SG}

vr̥trahā́ ← vr̥trahán- (nominal stem)
{case:NOM, gender:M, number:SG}

etu ← √i- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

purás ← purás (invariable)

vŕ̥ṣā ← vŕ̥ṣan- (nominal stem)
{case:NOM, gender:M, number:SG}

abhayaṁkaráḥ ← abhayaṁkará- (nominal stem)
{case:NOM, gender:M, number:SG}

somapā́ḥ ← somapā́- (nominal stem)
{case:NOM, gender:M, number:SG}

पद-पाठः

स्व॒स्ति॒ऽदाः । वि॒शः । पतिः॑ । वृ॒त्र॒ऽहा । वि॒ऽमृ॒धः । व॒शी ।
वृषा॑ । इन्द्रः॑ । पु॒रः । ए॒तु॒ । नः॒ । सो॒म॒ऽपाः । अ॒भ॒य॒म्ऽक॒रः ॥

Hellwig Grammar
  • svastidāsvasti
  • [noun], neuter
  • “prosperity; well-being; fortune; benediction; svasti [word]; well; luck.”

  • svastidādāḥ
  • [noun], nominative, singular, masculine
  • “giving.”

  • viśasviś
  • [noun], genitive, singular, feminine
  • “people; tribe; Vaisya; national; viś; real property; Vaisya.”

  • patirpatiḥpati
  • [noun], nominative, singular, masculine
  • “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”

  • vṛtrahāvṛtra
  • [noun], masculine
  • “Vṛtra; vṛtra [word].”

  • vṛtrahāhan
  • [noun], nominative, singular, masculine
  • “killing; curative; destroying; removing; māraka; stabbing.”

  • vimṛdhovimṛdhaḥvimṛdha
  • [noun], nominative, singular, masculine

  • vaśīvaśin
  • [noun], nominative, singular, masculine
  • “powerful; controlling; regnant; authoritative.”

  • vṛṣendraḥvṛṣāvṛṣan
  • [noun], nominative, singular, masculine
  • “bull; Indra; stallion; Vṛṣan; man.”

  • vṛṣendraḥindraḥindra
  • [noun], nominative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • purapuras
  • [adverb]
  • “ahead; puras [word]; easterly; eastward; east; earlier.”

  • etui
  • [verb], singular, Present imperative
  • “go; travel; enter (a state); return; walk; continue; reach; ask.”

  • naḥmad
  • [noun], dative, plural
  • “I; mine.”

  • somapāsoma
  • [noun], masculine
  • “Soma; moon; soma [word]; Candra.”

  • somapāpāḥ
  • [noun], nominative, singular, masculine
  • “drinking.”

  • abhayaṅkaraḥabhayaṃkara
  • [noun], nominative, singular, masculine

सायण-भाष्यम्

स्वस्तिदाः स्वस्तेरविनाशस्य दाता विशस्पतिः सर्वस्याः प्रजायाः पालयिता वृत्रहा वृत्राणां शत्रूणां हन्ता विमृधः संग्रामकारी वशी वशीकर्ता वृषा वर्षिता कामानां सोमपाः सोमस्य पाता एवंविधः इन्द्रः अभयंकरः अभयस्य भयराहित्यस्य कर्ता सन् नः अस्माकं पुर एतु पुरतो गच्छतु ॥

भट्टभास्कर-टीका

8स्वस्तिदा इत्यनुष्टुप् ॥ स्वस्तिदा अविनाशस्य दाता विशः विश्वस्याः प्रजायाः पतिः वृत्रहा पापादेर्हन्ता विमृधः विनिवारितसङ्ग्रामः । छान्दसस्समासान्तः, विभक्तिव्यत्ययो वा । वशी जितेन्द्रियः वृषा सेक्ता ईदृशः इन्द्रः अस्माकं पुरः एतु अग्रतः रक्षकभावेन वर्तताम् । स्वस्तिदा शोभनं भावं अस्मभ्यं ददत् अभयंकरः भयनिवृत्तेः कर्ता वक्ता वा माभैषीरिति । ‘मेघर्तिभयेषु’ इति खल्विधीयमानः अभयेऽपि भवति ॥

Wilson

English translation:

“May Indra, the granter of prosperity, the lord of men, the slayer of Vṛtra, the warrior, the subduer, theshowerer, the drinker of the Soma, the assurer of safety, come to our presence.”

Jamison Brereton

As the lord of the clan who gives well-being, the Vr̥tra-smasher,
(smasher) of the scornful, exerting his will—
let the bull Indra go before us, the soma-drinker, the creator of
fearlessness.

Griffith

Lord of the clan, who brings us bliss, Strong, Warrior, Slayer of the fiend,
May India, Soma-drinker, go before us, Bull who gives us peace.

Geldner

Der heilspendende Clanherr, der Vritratöter, der die Verächter vertreibt, der Gebieter, der Bulle Indra soll uns vorangehen, der Somatrinker, der Sicherheit schafft.

Grassmann

Der Segen schenkt als Stammes Herr den Vritra schlägt, den Feind bezwingt, Als Stier geh Indra uns voran, der Soma trinkt und Frieden schafft.

Elizarenkova

Дающий счастье господин племен,
Убийца Вритры, гонитель тех, кто презирает (нас), властелин,
Бык-Индра пусть идет впереди нас,
Любящий пить сому, создающий безопасность!

अधिमन्त्रम् (VC)
  • इन्द्र:
  • शासो भारद्वाजः
  • निचृदनुष्टुप्
  • गान्धारः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (स्वस्तिदा)कल्याण का दाता (विशस्-पतिः) प्रजा का पालक (वृत्रहा) आक्रमणकारी पापी, विरोधी का हन्ता-मारनेवाला-नष्ट करनेवाला (विमृधः) विशिष्ट संग्रामवाली सेनाओं का वशकर्ता (वृषा) सुखवर्षक (इन्द्रः) परमात्मा या राजा (सोमपाः) उत्पन्न-पदार्थों का रक्षक परमात्मा या सोमरस का पानकर्ता राजा (अभयङ्करः) अभयदाता (नः पुरः) हमारे आगे (एतु) प्राप्त हो या चले ॥२॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - परमात्मा कल्याण का देनेवाला, उपासक प्रजा का रक्षक, उपासक के विरोधियों को नष्ट करनेवाला, संघर्ष करनेवाली प्रवृत्तियों का वशकर्ता, सुखवर्षक, उत्पन्न पदार्थों का रक्षक, अभयदाता रूप में साक्षात् होता है एवं राजा कल्याणदाता, प्रजा का रक्षक, आक्रमणकारी शत्रुसेनाओं को वश में करनेवाला, सोमरस का पान करनेवाला, संकट के अवसर पर आगे बढ़नेवाला हो ॥२॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (स्वस्तिदाः) कल्याणदाता (विशस्-पतिः) प्रजायाः पालकः (वृत्रहा) आवरणकर्त्तुः पापिनो विरोधिनो हन्ता (विमृधः-वशी) विशिष्टः संग्रामो यासां ताः विरोधिनीः सेनाः-तस्याः-वशकर्त्ता “मृधः संग्रामनाम” [निघ० २।१७] (वृषा) सुखवर्षकः (इन्द्रः) परमात्मा राजा वा (सोमपाः) उत्पन्न-पदार्थानां रक्षकः “सोमपाः सर्वपदार्थरक्षकः” [ऋ० १।४।२ दयानन्दः] सोमरसस्य पानकर्त्ता वा (अभयङ्करः) अभयदाता (नः पुरः-एतु) अस्माकं सम्मुखं प्राप्नोतु-अग्रे गच्छतु वा ॥२॥

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒भिर् गी॒र्भिर् यद् अतो॑ न ऊ॒नम्
आप्या॑यय हरिवो॒ +++(=अश्ववान्, स्वर्णवान् वा [इन्द्रः])+++ वर्द्ध॑मानः
य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा +++(=मेघान्)+++ रु॒जासि॑ +++(=भिनक्षि)+++
भूयिष्ठ॒भाजो॒ अध॑+++(=अत)+++ ते स्याम

सर्वाष् टीकाः ...{Loading}...

मूलम्

आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नम् ॥114॥
आप्या॑यय हरिवो॒ वर्ध॑मानः ।
य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ ।
भू॒यि॒ष्ठ॒भाजो॒ अध॑ ते स्याम ।

भट्टभास्कर-टीका

9आभिरिति त्रिष्टुम् ॥ हे हरिवः! अश्ववन्! आभिः अस्मदुक्ताभिः गीर्भिः वर्धमानः त्वं आप्यायय वर्धय । किं? यत् अतः अस्माभिः अनुष्ठितात् कर्मणः ऊनं विकलं आसीत्, तत्सर्वं आप्यायय । यदा त्वं स्तोतृभ्यः स्तोत्रर्थं महि महत् अत्यर्थं सादरं गोत्राणि मेघान् रुजासि वृष्ट्यर्थं भिनक्षि तदा तथा स्तोतृत्ववत्सलः त्वं अस्माकं स्तोतॄणां कर्म संपूरयेति भावः । रुजेर्लेट्याडागमः । अध अत एव वयं ते त्वत्सकाशात् भूयिष्ठभाजः स्याम बहुतमानां धनादींना लब्धारो भूयास्म ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अना॑ज्ञातय्ँ॒यदाज्ञा॑तम् ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

अना॑ज्ञातय्ँ॒यदाज्ञा॑तम् ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।

भट्टभास्कर-टीका

10अनाज्ञातमिति द्वे अनुष्टुभौ ॥ अनाज्ञातं शास्त्रमर्यादया अज्ञातं, यच्च आज्ञातं तथा ज्ञातं यज्ञस्य सम्बन्धि कर्म मिथु मिथ्या क्रियते फलसाधनासमर्थं अन्यथा क्रियते अनाज्ञातस्य अनाज्ञातत्वादेव अन्यथा करणम् । ज्ञातस्याप्युपेक्षया अन्यथा क्रिया स्यात् । हे अग्ने! तत् सर्वं अस्य कर्मणः सम्बन्धि कल्पय फलसाधनसमर्थं कल्पय अविकलं कुरु । त्वं हि यथातथं वेत्थ, यथात्वं कर्मणः स्वभावः, तस्यानतिवृत्तावव्ययीभावः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

पुरु॑षसम्मितो य॒ज्ञः ।
य॒ज्ञᳶ पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

पुरु॑षसम्मितो य॒ज्ञः ।
य॒ज्ञᳶ पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।

भट्टभास्कर-टीका

11पुरुषसम्मित इति ॥ पुरुषः विशिष्टदेहश्चेतयिता, तेन सम्मितः तुल्यः यज्ञो नाम यथा पुरुषोऽयं अन्यूनानतिरिक्तविशिष्टावयवारब्धशरीरः एवं यज्ञोऽप्यन्यूनानतिरिक्ताङ्गविशिष्टाङ्गसङ्घातावयववान् । उपमानपूर्वपदप्रकृतिस्वरत्वम् । किञ्च - पुरुषसम्मितः पुरुषेण सम्यङ्निर्वतितश्चेत् अयं यज्ञो भवति यज्ञस्वभावभाग्भवति, इतरथा अयज्ञ एव स्यात् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यस्मादेवं तस्मात् तस्य यत् न्यूनं तत्कल्पय यज्ञस्वभावानुरूपं कुरु यज्ञत्वाय । त्वं हि यज्ञस्वभावं यथावद्वेत्थ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन् ।
यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥115॥

सर्वाष् टीकाः ...{Loading}...

मूलम्

यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन् ।
यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥115॥

भट्टभास्कर-टीका

12यत्पाकत्रेति त्रिष्टुम् ॥ पक्तव्यं बालं मनः पाकं तत्प्रकारेण मनसा । स्वार्थिकस्त्राप्रत्ययः । पाकगामिना वा मनसा उपलक्षिताः मर्ताः दीनदक्षाः क्षीणोत्साहाः यज्ञस्य सम्बन्धि यत् कर्मं न मन्वते न जानन्ति तत्सर्वं विजानन् सञ्जातवैगुण्यं जानन् क्रतुवित् विगुणस्य क्रतुस्वरूपस्य वेत्ता होता देवानां आह्वानकुशलः यजिष्ठः यष्टृतमः मानुषेभ्यः होतृभ्यः ईदृशः अग्निः देवान् ऋतुशः कालेकाले यजाति यजतु । लेट्याडागमः । ‘संख्यैकवचनाच्च’ इति शम् । यष्टृशब्दात् ‘तुश्छन्दसि’ इतीष्ठनि ‘तुरिष्ठेमेयस्सु’ इति लोपः ॥

इति तैत्तिरीये ब्राह्मणे भट्टभास्करीये तृतीये सप्तमे अच्छिद्रेषु एकादशोऽनुवाकः ॥