विश्वास-प्रस्तुतिः
उद॑स्ताम्प्सीत्सवि॒ता मि॒त्रो अ॑र्य॒मा ।
सर्वा॑न॒मित्रा॑नवधीद्यु॒गेन॑ ।
बृ॒हन्त॒म्माम॑करद्वी॒रव॑न्तम् ।
र॒थ॒न्त॒रे श्र॑यस्व॒ स्वाहा॑ पृथि॒व्याम् ।
मूलम्
उद॑स्ताम्प्सीत्सवि॒ता मि॒त्रो अ॑र्य॒मा ।
सर्वा॑न॒मित्रा॑नवधीद्यु॒गेन॑ ।
बृ॒हन्त॒म्माम॑करद्वी॒रव॑न्तम् ।
र॒थ॒न्त॒रे श्र॑यस्व॒ स्वाहा॑ पृथि॒व्याम् ।
भट्टभास्कर-टीका
1हविर्धाने पतिते आहवनीये जुहोति - उदस्तांप्सीदिति त्रिपदया विराजा यजुरन्तया ॥ उदस्तांप्सीत् उत्तभ्नोतु । स्तन्भेः छान्दसे लुङि हलन्तलक्षणा वृद्धिः, ‘खरि च’ इति चर्त्वम् । सविता मित्रः अर्यमा च हविर्धानमुत्तब्धं करोतु उत्तम्भनेन स्थापयतु सर्वाश्च अस्माकं अमित्रान् शत्रून् अवधीत् । हन्तेर्लुङि वधादेशः । युगेन योगेन युगपदिति यावत् । यद्वा - युगेन कालेन वधयोग्येन । अथ मां च बृहन्तं महान्तं यज्ञस्य अवैगुण्येन अकरत् करोतु । ‘कृमृदृरुहिभ्यश्छन्दसि’ इति अङ् । वीरवन्तं च करोतु । रथन्तरे सामनि तदर्थं श्रयस्व यथा न पतितः स्याः पृथिव्यां च श्रयस्व । पृथिव्यां हि स्थितः न ततः अन्यत्र पतति तदर्थं इदं स्वाहुतमस्तु ॥
विश्वास-प्रस्तुतिः
वा॒म॒दे॒व्ये श्र॑यस्व॒ स्वाहा॒ऽन्तरि॑क्षे ।
मूलम्
वा॒म॒दे॒व्ये श्र॑यस्व॒ स्वाहा॒ऽन्तरि॑क्षे ।
भट्टभास्कर-टीका
2अनसि पतिते होत्रिये जुहोति - वामदेव्य इति ॥ ‘उदस्तांप्सीत्’ इत्यादिः सर्वशेषोऽनुषज्यते । तामनुद्रुत्य अनेन जुहोति । वामदेव्ये सामनि श्रयस्व ततश्चान्तरिक्ष इव विचलितं वर्तस्व स्वाहुतं चास्तु ॥
विश्वास-प्रस्तुतिः
बृ॒ह॒ति श्र॑यस्व॒ स्वाहा॑ दि॒वि ।
मूलम्
बृ॒ह॒ति श्र॑यस्व॒ स्वाहा॑ दि॒वि ।
भट्टभास्कर-टीका
3आग्नीध्रीये पतिते आग्नीघ्रीय एव जुहोति - बृहतीति ॥ बृहति साम्नि श्रयस्व दिवीव सुस्थिरं वर्तस्व, स्वाहुतं चास्तु । पूर्ववत् ऋचोऽनुषङ्गः ॥
विश्वास-प्रस्तुतिः
बृ॒ह॒ता त्वोप॑स्तभ्नोमि ।
मूलम्
बृ॒ह॒ता त्वोप॑स्तभ्नोमि ।
भट्टभास्कर-टीका
4पतितमुत्थापयति - बृहता त्वेति यजुषा ॥ बृहता साम्ना त्वां उपस्तभ्नोमि उत्तम्भयामि । ‘स्तन्भुस्तुन्भु’ इति श्नुप्रत्ययः ॥
विश्वास-प्रस्तुतिः
आ त्वा॑ ददे॒ यश॑ले वी॒र्याय च ।
अ॒स्मास्व॑ध्रिया यूयं द॑धाथेन्द्रि॒यं पयः।
मूलम्
आ त्वा॑ ददे॒ यश॑ले वी॒र्याय च ।
अ॒स्मास्व॑ध्रिया यूयं द॑धाथेन्द्रि॒यं पयः।
भट्टभास्कर-टीका
5यदि वपा हविरवदानं वा स्कन्देत् तदादत्ते - आ त्वा दद इति द्विपदयोष्णिहा । त्वां आददे गृह्णामि यशसे वीर्याय च हे हविः! । हे अघ्नियाः! गावः! यूयमपि अस्मासु इन्द्रियं पयश्च दधाथ स्थापयत स्कन्दनात् भ्रष्टं पुनरवस्थापयत । यशः अन्नं, पयः क्षीरादि ॥
विश्वास-प्रस्तुतिः
यस्ते॑ द्र॒प्सो यस्त॑ उद॒र्षः ॥105॥
दैव्य॑ᳵ के॒तुर्विश्व॒म्भुव॑नमावि॒वेश॑ ।
स न॑ᳶ पा॒ह्यरि॑ष्ट्यै॒ स्वाहा॑ ।
मूलम्
यस्ते॑ द्र॒प्सो यस्त॑ उद॒र्षः ॥105॥
दैव्य॑ᳵ के॒तुर्विश्व॒म्भुव॑नमावि॒वेश॑ ।
स न॑ᳶ पा॒ह्यरि॑ष्ट्यै॒ स्वाहा॑ ।
भट्टभास्कर-टीका
6अथ स्कन्नं स्रुच्यवदाय स्कन्नप्रायश्चितं जुहोति - यस्त इति अनुष्टुप्प्रकरेण ॥ दैव्य इति प्रथमपादान्तः । हे हविः! तव यः द्रप्सः सूक्ष्मः अवयवः यश्च उदर्षः उद्भूतोऽवयवः । ऋषी गतौ, घञ् । यश्च तव दैव्यः देवसम्बन्धी केतुः प्रज्ञातोप्रस्कन्नः पात्रस्थोऽवयवः स सर्वः विश्वं भुवनं आविवेश विश्वस्य स्थितये हविष्ट्वेन वर्तते । यद्वा - तव द्रप्सः उदर्षश्च दैव्यहेतुभूतास्कन्नस्वभावेन विश्वं भुवनं आविवेश । स त्वं अस्मान् निर्दोषान् पाहि रक्ष । अरिष्ट्यै अहिंसायै स्वाहुतं चास्तु ॥
विश्वास-प्रस्तुतिः
अनु॑ मा॒ सर्वो॑ य॒ज्ञो॑ऽयमे॑तु ।
विश्वे॑ दे॒वा म॒रुत॒स्सामा॒र्कः ।
आ॒प्रिय॒श्छन्दाँ॑सि नि॒विदो॒ यजूँ॑षि ।
अ॒स्यै पृ॑थि॒व्यै यद्य॒ज्ञिय॑म् ।
मूलम्
अनु॑ मा॒ सर्वो॑ य॒ज्ञो॑ऽयमे॑तु ।
विश्वे॑ दे॒वा म॒रुत॒स्सामा॒र्कः ।
आ॒प्रिय॒श्छन्दाँ॑सि नि॒विदो॒ यजूँ॑षि ।
अ॒स्यै पृ॑थि॒व्यै यद्य॒ज्ञिय॑म् ।
भट्टभास्कर-टीका
7व्रतस्य सतः आर्त्विज्यात् निर्हरणे होमः - अनु मेति त्रिष्टुप् ॥ सर्वोऽप्ययं यज्ञः मां अन्वेतु अनुगच्छतु माऽन्यं गमत् । विश्वेदेवादयश्च मामेव अनुयन्तु । सर्वे निगदसिद्धाः । अर्कः ऋक् । निविदः शस्त्रावयवाः यच्चान्यदस्याः पृथिव्यास्सम्बन्धि यज्ञियं यज्ञार्हं तदपि मामन्वेतु मयैव अविगुणः यज्ञः निर्वर्त्यताम् ॥
विश्वास-प्रस्तुतिः
प्र॒जाप॑तेर्वर्त॒निमनु॑ वर्तस्व ।
अनु॑ वी॒रैरनु॑राध्याम॒ गोभिः॑ ।
अन्वश्वै॒रनु॒ सर्वै॑रु पु॒ष्टैः ।
अनु॑ प्र॒जयाऽन्वि॑न्द्रि॒येण॑ ॥106॥
दे॒वा नो॑ य॒ज्ञमृ॑जु॒धा न॑यन्तु ।
मूलम्
प्र॒जाप॑तेर्वर्त॒निमनु॑ वर्तस्व ।
अनु॑ वी॒रैरनु॑राध्याम॒ गोभिः॑ ।
अन्वश्वै॒रनु॒ सर्वै॑रु पु॒ष्टैः ।
अनु॑ प्र॒जयाऽन्वि॑न्द्रि॒येण॑ ॥106॥
दे॒वा नो॑ य॒ज्ञमृ॑जु॒धा न॑यन्तु ।
भट्टभास्कर-टीका
8यद्येककपालः स्कन्देत् परि वा वर्तेत यथास्थानं तं कल्पयति - प्रजापतेरिति शक्वर्या पञ्चपदया ॥ हे एककपाल! प्रजापतेर्वर्तनिं मार्गं नित्यं अविकलं पन्थानं अनुवर्तस्व अनुगम्य वर्तस्व स्वस्थाने तिष्ठेति यावत् । ततः वयमपि वीरैः पुत्रादिभिः गोभिः अश्वैः सर्वैश्चान्यैरपि धनैः पुष्टैः समृद्धैः प्रजया इन्द्रियेण च अनुराध्याम अनुक्रमेण ऋद्धा भूयास्म । देवाश्च अस्मद्यज्ञं ऋजुधा ऋजुना अविगुणेन मार्गेण नयन्तु । छान्दसो धाप्रत्ययः ॥
विश्वास-प्रस्तुतिः
प्रति॑क्ष॒त्रे प्रति॑तिष्ठामि रा॒ष्ट्रे ।
प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ ।
प्रति॑ प्र॒जाया॒म्प्रति॑तिष्ठामि॒ भव्ये॑ ।
मूलम्
प्रति॑क्ष॒त्रे प्रति॑तिष्ठामि रा॒ष्ट्रे ।
प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ ।
प्रति॑ प्र॒जाया॒म्प्रति॑तिष्ठामि॒ भव्ये॑ ।
भट्टभास्कर-टीका
9प्रति क्षत्र इति त्रिपदा विराट् ॥ एवं त्वयि आर्जवं भजमाने प्रतिष्ठिते सति अहमपि क्षत्रादिषु प्रतितिष्ठामि । भव्यं प्रशस्तभवनं स्वर्गादि । ‘भव्यगेय’ इति निपात्यते ॥
विश्वास-प्रस्तुतिः
विश्व॑म॒न्याऽभि॑वावृ॒धे ।
तद॒न्यस्या॒मधि॑श्रि॒तम् ।
दि॒वे च॑ वि॒श्वक॑र्मणे ।
पृ॒थि॒व्यै चा॑कर॒न्नमः॑ ।
मूलम्
विश्व॑म॒न्याऽभि॑वावृ॒धे ।
तद॒न्यस्या॒मधि॑श्रि॒तम् ।
दि॒वे च॑ वि॒श्वक॑र्मणे ।
पृ॒थि॒व्यै चा॑कर॒न्नमः॑ ।
भट्टभास्कर-टीका
10अनुमन्त्रयते - विश्वमित्यनुष्टुभा ॥ विश्वं भूतजातं अन्या एका द्यौः अभिवावृधे आभिमुख्येन वर्धयति वृष्ट्यादिना । अथ तत् तया अभिवर्धितं अन्यस्यां एकस्यां पृथिव्यां अधिश्रितं उपरिश्रितं उपरिस्थितम् । अत एव च विश्वकर्मणे कृत्स्नजगदभिवृद्धिकारिण्यै दिवे च जगतः धारयित्र्यै पृथिव्यै नमः अकरं करोमि । ‘कृमृदृ’ इत्यङ् । ‘एककपालं वै प्रतितिष्ठन्तम्’ इत्यादि ब्राह्मणं भवति ॥
विश्वास-प्रस्तुतिः
अस्का॒न्द्यौᳶ पृ॑थि॒वीम् ।
अस्का॑नृष॒भो युवा॒गाः ॥107॥
स्क॒न्नेमा विश्वा॒ भुव॑ना ।
स्क॒न्नो य॒ज्ञᳶ प्रज॑नयतु ।
मूलम्
अस्का॒न्द्यौᳶ पृ॑थि॒वीम् ।
अस्का॑नृष॒भो युवा॒गाः ॥107॥
स्क॒न्नेमा विश्वा॒ भुव॑ना ।
स्क॒न्नो य॒ज्ञᳶ प्रज॑नयतु ।
भट्टभास्कर-टीका
11होममन्त्रः - अस्कानित्यनुष्टुप् ॥ द्यौः वृष्ट्या पृथिवीं अस्कान् अनुप्राप्नोति वृष्ट्या तुल्यमिदं स्कन्नं नात्र वृधा स्कन्नमिति । तथा च युवा वृषभो गाः अस्कान् रेतोधानाय अनुगच्छति तत्तुल्यमिदम् । स्कन्देः छान्दसे लुङि हलन्तलक्षणायां वृद्धौ ‘बहुलं छन्दसि’ इतीडभावे हल्ङ्यादिसंयोगान्तलोपौ । इमानि विश्वानि भुवनानि अनेन स्कन्नानि अनुगतानि हविष्ट्वस्यानपगमात् । यज्ञश्च अनेन स्कन्नः अनुगतः प्रजनयतु प्रजा उत्पादयतु हविष्ट्वस्यानपगमात् ॥
विश्वास-प्रस्तुतिः
अस्का॒नज॑नि॒ प्राज॑नि ।
आ स्क॒न्नाज्जा॑यते॒ वृषा॑ ।
स्क॒न्नात्प्रज॑निषीमहि ।
मूलम्
अस्का॒नज॑नि॒ प्राज॑नि ।
आ स्क॒न्नाज्जा॑यते॒ वृषा॑ ।
स्क॒न्नात्प्रज॑निषीमहि ।
भट्टभास्कर-टीका
12अस्कानजनीति गायत्री ॥ यदिदं हविः अस्कान् स्कन्दतिस्म तदिदं हविः अजनि जायते हविष्ट्वमेवास्य संपद्यते नात्र स्कन्नदोषः । प्राजनि प्राजायते प्रजया पशुभिश्च । ‘दीपजनबुध’ इति कर्तरि चिण् । तिङः परत्वान् मध्यमस्य निघाताभावः, प्रथमस्य तु अपदात्परत्वात् । यस्मात् एवं स्कन्नत्वं गुणायैव, अतः अस्मात् स्कन्नात् हेतोः वृषा सेक्ता आजायते सर्वत सेचनसमर्थो भवति । वयं च अस्मात् स्कन्नाद्धेतोः प्रजनिषीमहि प्रजया पशुभिश्च समृद्धाः भूयास्म ॥
विश्वास-प्रस्तुतिः
ये दे॒वा येषा॑मि॒दम्भा॑ग॒धेय॑म्ब॒भूव॑ ।
येषा॑म्प्रया॒जा उ॒तानू॑या॒जाः ।
इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यः ।
अ॒ग्निहो॑तृभ्यो दे॒वेभ्य॒स्स्वाहा॑ ।
मूलम्
ये दे॒वा येषा॑मि॒दम्भा॑ग॒धेय॑म्ब॒भूव॑ ।
येषा॑म्प्रया॒जा उ॒तानू॑या॒जाः ।
इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यः ।
अ॒ग्निहो॑तृभ्यो दे॒वेभ्य॒स्स्वाहा॑ ।
भट्टभास्कर-टीका
13यज्ञस्य विघ्नकरे भये उपजाते सर्वयागद्रव्याणि द्रोणकलशे गृहीत्वा होममन्त्रः - ये देवा इति त्रिष्टुप् ॥ ये देवाः द्युलोकवासिनः येषां देवानां इदं सर्वं पुरोडाशादि भागधेयं बभूव सङ्कल्पितं भवति, येषां च प्रयाजाः अनूयाजाश्च भागधेयं, तेभ्यो देवेभ्यः इन्द्रज्येष्ठेभ्यः इन्द्रप्रधानेभ्यः वरुणराजभ्यः वरुणो राजा येषां तेम्यः अग्निहोतृभ्यः अग्निर्होता आह्वाता येषां तेभ्यश्च स्वाहेति । ‘ऋतं छन्दसि’ इति कबभावः ॥
विश्वास-प्रस्तुतिः
उ॒त त्या नो॒ दिवा॑ म॒तिः ॥108॥
अदि॑तिरू॒त्या ग॑मत् ।
सा शन्ता॑ची॒ मय॑स्करत् ।
अप॒ स्रिधः॑ ।
मूलम्
उ॒त त्या नो॒ दिवा॑ म॒तिः ॥108॥
अदि॑तिरू॒त्या ग॑मत् ।
सा शन्ता॑ची॒ मय॑स्करत् ।
अप॒ स्रिधः॑ ।
भट्टभास्कर-टीका
14चमसे ऊर्ध्वपात्रे वा अभीक्षते उन्नीय स्तोत्रैरुपाकृते अयं प्रायश्चित्तहोमः - उत त्या न इति तिस्रः उष्णिहः ॥ उत अपिनाम त्या सैषा दिवा द्योतनवती अदितिः अखण्डनीया नः अस्माकं मतिः ऊत्या रक्षणेन निमित्तेन आगमत् आगच्छतु । सा तादृशी मतिः शन्ताची अनिष्टशमनप्रापिका अस्माकं मयः सुखं करत् करोतु । पूर्ववदङ् । स्रिधः कर्मविस्मराणनिमित्तं पापं अस्माकं शोषणं शरीरादिक्षयं अपकरत् अपाकरोतु अपगमयतु । स्त्रिवु शोषणे, असुनि छान्दसं रूपम् ॥
विश्वास-प्रस्तुतिः
उ॒त त्या दैव्या॑ भि॒षजा॑ ।
शन्न॑स्करतो अ॒श्विना॑ ।
यू॒याता॑म॒स्मद्रपः॑ ।
अप॒ स्रिधः॑
मूलम्
उ॒त त्या दैव्या॑ भि॒षजा॑ ।
शन्न॑स्करतो अ॒श्विना॑ ।
यू॒याता॑म॒स्मद्रपः॑ ।
अप॒ स्रिधः॑
भट्टभास्कर-टीका
15उत त्येति ॥ अपि च त्या ते देव्यौ भिषजौ अश्विनौ । सर्वत्र ‘सुपां सुलुक्’ इत्याकारः । तौ नः अस्माकं शं सुखं करतः कुरुताम् । लेटि व्यत्ययेन शम् । किञ्च - अस्मत् अस्मत्तः रपः विस्मरणनिमित्तं पापं यूयातां पृथक्कुरुताम् । अप स्रिध इति गतम् ॥
- स्रिधः कर्मविस्मराणनिमित्तं पापं अस्माकं शोषणं शरीरादिक्षयं अपकरत् अपाकरोतु अपगमयतु । स्त्रिवु शोषणे, असुनि छान्दसं रूपम् ॥
विश्वास-प्रस्तुतिः
शम॒ग्निर॒ग्निभि॑स्करत् ।
शन्न॑स्तपतु॒ सूर्यः॑ ।
शव्ँ वातो॑ वात्वर॒पाः ॥ 109॥
अप॒ स्रिधः॑ ।
मूलम्
शम॒ग्निर॒ग्निभि॑स्करत् ।
शन्न॑स्तपतु॒ सूर्यः॑ ।
शव्ँ वातो॑ वात्वर॒पाः ॥ 109॥
अप॒ स्रिधः॑ ।
भट्टभास्कर-टीका
16शमग्निरित्यादि ॥ अयं अग्निः आहवनीय अन्यैः अग्निभिः सहास्माकं सुखं करोतु । सूर्यश्च अस्माकं शं यथा तथा तपतु । वातश्च शं यथा तथा वातु अरपाः अदुःखहेतुः । अप स्रिधः इति गतम् ॥
- स्रिधः कर्मविस्मराणनिमित्तं पापं अस्माकं शोषणं शरीरादिक्षयं अपकरत् अपाकरोतु अपगमयतु । स्त्रिवु शोषणे, असुनि छान्दसं रूपम् ॥
विश्वास-प्रस्तुतिः
तदित्प॒दन्न विचि॑केत वि॒द्वान् ।
यन्मृ॒तᳶ पुन॑र॒प्येति॑ जी॒वान् ।
त्रि॒वृद्यद्भुव॑नस्य रथ॒वृत् ।
जी॒वो गर्भो॒ न मृ॒तस्स जी॑वात् ।
मूलम्
तदित्प॒दन्न विचि॑केत वि॒द्वान् ।
यन्मृ॒तᳶ पुन॑र॒प्येति॑ जी॒वान् ।
त्रि॒वृद्यद्भुव॑नस्य रथ॒वृत् ।
जी॒वो गर्भो॒ न मृ॒तस्स जी॑वात् ।
भट्टभास्कर-टीका
17मार्जयित्वा तं चमसेषु प्रक्षिपति - तदित्पदमिति त्रिष्टुभा ॥ तदित् तदेव पदं जीवस्य प्राप्यं स्थानं भवितुमर्हति । किम्? यत् यत्र मृतोपि गतप्राणः जीवः पुनः अनन्तरमेव जीवान् प्राणान् अप्येति अनुप्राप्नोति तत्प्राणवशीकरणमेतत् पदम् । तस्मात् यः विद्वान् आत्मोपासकः परलोकवादी वा इतः अन्यत्पदं वीप्सते नूनं सः न विचिकेत न विविच्य जानाति तेन न सम्यङ्निरूपितम् । तस्माद्धित्वा प्राणान् यदि पदान्तरं प्राप्यते, न यावज्जीवः स्यात् । जीव प्राणधारणे, इति स्मरणात् । ‘न जीवो म्रियते’ इति श्रुतेः, मृङ् प्राणत्यागे, इति स्मरणात् । तस्मात्तदेव पदमिति । कित ज्ञाने, छान्दसो लिट् । इदानीममृतत्वमस्य कथमिति चोद्यावसरे वाचोयुक्तिनिबन्धनप्रदर्शनेन मृतत्वाभावं समर्थयते - त्रिवृत् सात्त्विक्याद्याः तिस्रो वृत्तयः यस्य स त्रिवृत् धर्मार्थकामलक्षणप्रवृत्तित्रयवान्वा । त्रिचक्रादित्वादुत्तरपदान्तोदात्तत्वम् । भुवनस्य भूतचक्रस्य गर्भः मध्यवर्ती देही रथवृत् संसारलक्षणेन रथेन रंहणेन वर्तमानः परवशो नीयमानः तेन वा वृतः छादितः । यथोक्तम् - ‘तस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे’ इति । तस्मादयं छादितवद्वर्तमानोपि जीव एव न मृतः स हि सर्वदा जीवात् जीवति । स एव जीवतीति व्यपदेशमर्हतीति । लेट्याडागमः । तद्वत्तवापि न काचित् क्षतिः, अविकृत एव सर्वकालमसीति । अथवा - तदेवात्मीयं पदमनुष्ठेयं कर्म विद्वानपि सन् न विचिकेत न विजानाति यथा संसारे छादितशक्तिः जीव आत्मानं न जानाति मृत्वा च पुनर्जीवत्वं प्रतिपद्यते तस्य कदाचिदपि न क्षतिः । स हि सर्वदा जीव एव न मृतः । एवं त्वमपीति ॥
विश्वास-प्रस्तुतिः
प्रत्य॑स्मै॒ पिपी॑षते ।
विश्वा॑नि वि॒दुषे॑ भर ।
अ॒र॒ङ्ग॒माय॒ जग्म॑वे ।
अप॑श्चाद्दघ्वने॒ नरे॑ ।
मूलम्
प्रत्य॑स्मै॒ पिपी॑षते ।
विश्वा॑नि वि॒दुषे॑ भर ।
अ॒र॒ङ्ग॒माय॒ जग्म॑वे ।
अप॑श्चाद्दघ्वने॒ नरे॑ ।
भट्टभास्कर-टीका
18अथ तस्य होममन्त्रः - प्रत्यस्मा इत्यनुष्टुप् ॥ अस्मै यजमानाय पिपीषते पातुमिच्छते । पीङ् पाने, प्यायतुमिच्छते वा । छान्दसः पीभावः । विदुषे ज्ञानवते विश्वानि कर्माणि प्रतिभर अविकलानि प्रत्यावर्तय अनेन होमेन । अरंगमाय पर्याप्तं अन्यूनमेव कर्मणां गन्त्रे । पचाद्यच् । जग्मवे पुनःपुनः कमेणां गन्त्रे । यङ्लुगान्तादौणादिके कुप्रत्यये उपधालोपः । नुगभावश्च । यद्वा - गमनशीलाय कर्मानुष्ठानशीलाय । ताच्छीलिकः कुप्रत्ययः । छान्दसं द्बिर्वचनमाद्युदात्तत्वं च । अपश्चाद्दघ्वने पश्चाद्दाहरहिताय तन्निमित्तस्य कर्मभ्रेषस्याभावात् । ‘अन्येभ्योपि दृश्यते’ इति दहेः क्वनिपि छान्दसो वर्णविकारः । यद्बा - दध पालने, अपश्चात्पालयित्रे प्रजानाम्, अपि तु सर्वदा पालयित्रे । यद्वा - प्रथमपालयित्रे न तु पालयित्रन्तरदर्शनोत्तरकालं, पालयितॄणां प्रथमायेत्यर्थः । यद्वा - प्रागेव प्रार्थनायाः पालयित्रे न तु पश्चात् । स एव क्वनिप् । नरे नेत्रे प्रजानाम् । नॄ नये, पचाद्यच्, विभक्तिव्यत्ययः । नृशब्दस्य वा चतुर्थ्येकवचने व्यत्ययेन गुणः ॥ वृषादिर्द्रष्टव्यः ॥
विश्वास-प्रस्तुतिः
इन्दु॒रिन्दु॒मवा॑गात् ।
इन्दो॒रिन्द्रो॑ऽपात् ।
मूलम्
इन्दु॒रिन्दु॒मवा॑गात् ।
इन्दो॒रिन्द्रो॑ऽपात् ।
भट्टभास्कर-टीका
19अववृष्टस्य भक्षणमन्त्रः - इन्दुरिति यनुरन्ता एकपदा त्रिष्टुप् ॥ इन्दुः सोमः अयं अववृष्टः इन्द्रं अनववृष्टं अवागात् अवैतु अवगच्छतु ज्ञात्वा तमेवानुप्रविशतु । तस्य च इन्दोः सोमस्य इन्द्रोऽपात् । कर्मणि षष्ठी । तं इन्द्रः अपिबत् ।
विश्वास-प्रस्तुतिः
तस्य॑ त इन्द॒विन्द्र॑पीतस्य॒ मधु॑मतः ।
उप॑हूत॒स्योप॑हूतो भक्षयामि ॥110॥
मूलम्
तस्य॑ त इन्द॒विन्द्र॑पीतस्य॒ मधु॑मतः ।
उप॑हूत॒स्योप॑हूतो भक्षयामि ॥110॥
भट्टभास्कर-टीका
तस्मात् हे इन्दो! तस्य तादृशस्य तव । इन्द्रपीतस्येत्यादि । व्याख्यातम् ॥
इति तैत्तिरीये ब्राह्मणे तृतीये सप्तमे अच्छिद्रेषु दशमोऽनुवाकः ॥