०९ उपाश्वभिषवमन्त्राः

विश्वास-प्रस्तुतिः

अ॒ना॒गस॑स्त्वा व॒यम् ।
इन्द्रे॑ण॒ प्रेषि॑ता॒ उप॑ ।
वा॒युष्टे॑ अस्त्वँश॒भूः ।
मि॒त्रस्ते॑ अस्त्वँश॒भूः ।
वरु॑णस्ते अस्त्वँश॒भूः ।

मूलम्

अ॒ना॒गस॑स्त्वा व॒यम् ।
इन्द्रे॑ण॒ प्रेषि॑ता॒ उप॑ ।
वा॒युष्टे॑ अस्त्वँश॒भूः ।
मि॒त्रस्ते॑ अस्त्वँश॒भूः ।
वरु॑णस्ते अस्त्वँश॒भूः ।

भट्टभास्कर-टीका

1उपांशोरभिषवमन्त्रः - अनागस इति पङ्क्तिः ॥ हे सोम! वयमनागसः अनपराधाः । तवापराधः, अस्माकं नापराधः, यस्मात् वयं इन्द्रेण प्रेषिताः त्वां उपेम । उपसर्गसामर्थ्यात् क्रियाविशेषलाभः । अत एव वाय्वादयोऽपि तवांशभुवः रसांशस्य भावयितारो भवन्तु । अस्माकं साहाय्यकं प्रतिपद्यन्ताम् । भवतेः ण्यन्तात् क्विपि ‘बहुलमन्यत्रापि’ इति णिलुक् ॥

विश्वास-प्रस्तुतिः

अपा॑ङ्क्षया॒ ऋत॑स्य गर्भाः ।
भुव॑नस्य गोपा॒श्श्येना॑ अतिथयः ।
पर्व॑तानाङ्ककुभᳶ प्र॒युतो॑ नपातारः ।
व॒ग्नुनेन्द्रँ॑ ह्वयत ।

मूलम्

अपा॑ङ्क्षया॒ ऋत॑स्य गर्भाः ।
भुव॑नस्य गोपा॒श्श्येना॑ अतिथयः ।
पर्व॑तानाङ्ककुभᳶ प्र॒युतो॑ नपातारः ।
व॒ग्नुनेन्द्रँ॑ ह्वयत ।

भट्टभास्कर-टीका

2खरे सन्नान् ग्राव्णोऽभिमृशति - आपां क्षया इति यजुषा ॥ हे ग्रावाणः अपां क्षयाः उदकस्य गृहभूताः यागद्वारेण वृष्टिहेतुत्वात् । ऋतस्य यज्ञस्य गर्भाः प्रधानसाधनभूताः । भुवनस्य भूतजातस्य गोपाः गोपायितारः । श्येनाः शंसनीयाः क्षिप्रकारिणः । अतिथयः अतिथिवत् सर्वस्य प्रियाः । अत्र ‘सुबामन्त्रिते’ इति पराङ्गवद्भावात् अपां क्षया इत्यादेः षष्ठ्यामन्त्रितसमुदायस्यामन्त्रितस्वरः । तत्र पूर्वपूर्वामन्त्रितस्य अविद्यमानतया षाष्ठिकमाद्युदात्तत्वम् । सत्यपि सामानाधिकरण्ये विशेषपरत्वाभावात् निषेधाभावः । यद्वा - ‘विभाषितं विशेषवचने’ इति अविद्यमानवत्त्वमेव । शंसनीयाः अतिथय इति विशेषवाचित्वात्तत्र निघात एव प्रवर्तते । पर्वतानां ककुभः प्रधानभूताः । पूर्ववत्स्वरः । न पातारः न पातयितारः । ‘न भ्राण्नपात्’ इति नलोपाभावः । ईदृशाः यूयं प्रयुतः प्रकर्षेण मिश्रीभूताः सोमेन यूयं, वग्रुना श्रुतिसुखेन शब्देन इन्द्रं ह्वयत आह्वयत ।

विश्वास-प्रस्तुतिः

घोषे॒णामी॑वाँ श्चातयत ॥96॥

मूलम्

घोषे॒णामी॑वाँ श्चातयत ॥96॥

भट्टभास्कर-टीका

किञ्च - घोषेण महता शब्देन अमीवान् रोगान् चातयत ।

विश्वास-प्रस्तुतिः

यु॒क्तास्स्थ॒ वह॑त ।

मूलम्

यु॒क्तास्स्थ॒ वह॑त ।

भट्टभास्कर-टीका

किञ्च - युक्ता नियुक्ता अवहिता वा इह कर्मणि स्थ तस्मात् यज्ञमिमं वहत सम्यङ्निर्वर्तयत ॥

विश्वास-प्रस्तुतिः

दे॒वा “ग्रावा॑ण॒ इन्दु॒रिन्द्र॒” इत्य॑वादिषुः ।
एन्द्र॑मचुच्यवुᳶ पर॒मस्या॑ᳶ परा॒वतः॑ ।

मूलम्

दे॒वा “ग्रावा॑ण॒ इन्दु॒रिन्द्र॒” इत्य॑वादिषुः ।
एन्द्र॑मचुच्यवुᳶ पर॒मस्या॑ᳶ परा॒वतः॑ ।

भट्टभास्कर-टीका

3माध्यन्दिनीयाभिषवानन्तरं ग्राव्णोऽनुमोदते - देवा इति यजुषा ॥ एते ग्रावाण एव इन्दुः चन्द्रश्चेति देवाः इन्द्वादयः अवदिषुः वदन्ति । इन्दुः सोमः । यद्वा - देवाः व्यवहर्तारः ऋत्विजः यज्ञविदः ।

ते एवं अवादिषुः - ग्रावाण एव सोमः तदधीनत्वात् अभिषवस्य । स एव अभिषुत्यः सोमः इन्द्रः तदधीनस्थितित्वात् तस्य । इन्द्रश्च सर्वलोकस्थितिहेतुरिति । अतः तं इन्द्रं परमस्याः परावतः महतो दूरात् द्युलोकतः आऽचुच्यवुः आच्यावयन्ति आगमयन्ति ग्रावाणः निजेन शब्देन । ‘उपसर्गाच्छन्दसि’ इति वतिः च्यवतेरन्तर्भावितण्यर्थात् छान्दसे लुङि, ‘बहुलं छन्दसि’ इति शपः श्लुः । ‘जुसि च’ इति गुणः । परस्मैपदम् ।

विश्वास-प्रस्तुतिः

आऽस्मात्स॒धस्था॑त् ।
ओरोर॒न्तरि॑क्षात् ।

मूलम्

आऽस्मात्स॒धस्था॑त् ।
ओरोर॒न्तरि॑क्षात् ।

भट्टभास्कर-टीका

किञ्च - अस्मात् सधस्थात् सहस्थानं सधस्थः पृथिवी, ततश्च आचुच्यवुरित्येव । उरोः विस्तीर्णात् अन्तरिक्षाच्च इन्द्र आऽचुच्यवुः ग्रावाणः ।

विश्वास-प्रस्तुतिः

आ सु॑भू॒तम॑सुषवुः ।
ब्र॒ह्म॒व॒र्च॒सम्म॒ आसु॑षवुः ।

मूलम्

आ सु॑भू॒तम॑सुषवुः ।
ब्र॒ह्म॒व॒र्च॒सम्म॒ आसु॑षवुः ।

भट्टभास्कर-टीका

त इमे सुभूतं शोभनजन्मानं सोमं आऽसुषवुः इन्द्रार्थम् । पूर्ववद्गुणः । मम च तेनैव हेतुना ब्रह्मवर्चसं आऽसुषवुः अनुजानन्तु यज्ञद्वारेण ।

विश्वास-प्रस्तुतिः

स॒म॒रे रक्षाँ॑स्यवधिषुः ।

मूलम्

स॒म॒रे रक्षाँ॑स्यवधिषुः ।

भट्टभास्कर-टीका

समरे शत्रुकलहे च रक्षांसि अवधिषुः ध्नन्तु ।

विश्वास-प्रस्तुतिः

अप॑हतम्ब्रह्म॒ज्यस्य॑ ।

मूलम्

अप॑हतम्ब्रह्म॒ज्यस्य॑ ।

भट्टभास्कर-टीका

अपि च ब्रह्मज्यस्य ब्राह्मणानां मन्त्राणां वा जेतुः दुरात्मनः रक्षःपतेरपि अपहतं अपहतिरस्तु । भावे निष्ठा । बलं वा तस्य अपहतमस्तु । ज्या वयोहानौ, ‘आतोऽनुपसर्गे कः’ ॥

विश्वास-प्रस्तुतिः

वाक्च॑ त्वा॒ मन॑श्च श्रीणीताम् ॥97॥
प्रा॒णश्च॑ त्वाऽपा॒नश्च॑ श्रीणीताम् ।
चक्षु॑श्च त्वा॒ श्रोत्र॑ञ्च श्रीणीताम् ।

मूलम्

वाक्च॑ त्वा॒ मन॑श्च श्रीणीताम् ॥97॥
प्रा॒णश्च॑ त्वाऽपा॒नश्च॑ श्रीणीताम् ।
चक्षु॑श्च त्वा॒ श्रोत्र॑ञ्च श्रीणीताम् ।

भट्टभास्कर-टीका

4दधि श्रीणाति - वाक्च त्वेति यजुषा ॥ वाक्च मनश्च त्वां श्रीणीतां सेवतां, पचेतां वा यागसाघनभावेन नित्यसहभूते त्वयि वर्तेतामित्यर्थः । एवं सर्वत्र ।

विश्वास-प्रस्तुतिः

दक्ष॑श्चत्वा॒ बल॑ञ्च श्रीणीताम् ।

मूलम्

दक्ष॑श्चत्वा॒ बल॑ञ्च श्रीणीताम् ।

भट्टभास्कर-टीका

दक्षः उत्साहः ।

विश्वास-प्रस्तुतिः

ओज॑श्च त्वा॒ सह॑श्च श्रीणीताम् ।
आयु॑श्च त्वा ज॒रा च॑ श्रीणीताम् ।
आ॒त्मा च॑ त्वा त॒नूश्च॑ श्रीणीताम् ।

मूलम्

ओज॑श्च त्वा॒ सह॑श्च श्रीणीताम् ।
आयु॑श्च त्वा ज॒रा च॑ श्रीणीताम् ।
आ॒त्मा च॑ त्वा त॒नूश्च॑ श्रीणीताम् ।

भट्टभास्कर-टीका

ओजः दीप्तिः ।
सहः अभिभवितृत्वम् ।

विश्वास-प्रस्तुतिः

शृ॒तो॑ऽसि शृ॒तङ्कृ॑तः ।
शृ॒ताय॑ त्वा शृ॒तेभ्य॑स्त्वा ।

मूलम्

शृ॒तो॑ऽसि शृ॒तङ्कृ॑तः ।
शृ॒ताय॑ त्वा शृ॒तेभ्य॑स्त्वा ।

भट्टभास्कर-टीका

शृतोऽसि पक्वोऽसि स्वभावत एव कर्मसु च शतंकृतः निर्वर्तितशोभनपाकः । ‘यश्शृतस्स सदेवः’ इति दर्शनात् । हे दधिपदार्थ! तं त्वां अहं इदानीं श्रीणामि शृताय श्राणाय पाकविशेषलाभाय । कीदृशाय? शृतेभ्यः ये नाम केचिदर्थाः शृताः तेभ्योऽप्यतिशयेन शतत्वाय त्वां श्रीणामि ॥

विश्वास-प्रस्तुतिः

यमिन्द्र॑मा॒हुर्वरु॑णय्ँ॒यमा॒हुः ।
यम्मि॒त्रमा॒हुर्यमु॑ स॒त्यमा॒हुः ॥98॥
यो दे॒वाना॑न्दे॒वत॑मस्तपो॒जाः ।
तस्मै॑ त्वा॒ तेभ्य॑स्त्वा ।

मूलम्

यमिन्द्र॑मा॒हुर्वरु॑णय्ँ॒यमा॒हुः ।
यम्मि॒त्रमा॒हुर्यमु॑ स॒त्यमा॒हुः ॥98॥
यो दे॒वाना॑न्दे॒वत॑मस्तपो॒जाः ।
तस्मै॑ त्वा॒ तेभ्य॑स्त्वा ।

भट्टभास्कर-टीका

5वषट्कृते जुहोति - यमिन्द्रमित्युपरिष्टाज्ज्योतिषा त्रिष्टुभा ॥ यमेवाग्निमाहुः इन्द्रादीनपि, तदायत्तस्थितिकत्वात्तेषाम् । सत्यं परं ब्रह्म । यश्च देवानां दीप्तिमतां मध्ये देवतमः दीप्तिमत्तमः तपोजाः बलप्रभवः, नियमसंपाद्यो वा । ‘जन सन’ इति विट्, ‘विड्वनोः’ इत्यात्वम् । तस्मै अग्नये तेभ्यश्च इन्द्रादिभ्यः त्वां जुहोमीति शेषः ॥

विश्वास-प्रस्तुतिः

मयि॒ त्यदि॑न्द्रि॒यम्मह॒त् ।
मयि॒ दक्षो॒ मयि॒ क्रतुः॑ ।
मयि॑ धायि सु॒वीर्य॑म् ।

मूलम्

मयि॒ त्यदि॑न्द्रि॒यम्मह॒त् ।
मयि॒ दक्षो॒ मयि॒ क्रतुः॑ ।
मयि॑ धायि सु॒वीर्य॑म् ।

भट्टभास्कर-टीका

6यजमानो भक्षयति - मयि त्यदिति गयत्र्या, त्रिशुगित्यष्ट्या च ॥ त्यत् एतत् महत् इन्द्रियं मयि धायि धीयताम् । कर्मणि छान्दसो लुङ् ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इत्यडभावः । एवं दक्षादिषु योज्यम् । दक्षः उत्साहः । क्रतुः प्रज्ञा । उत्तरक्रतुर्वा । सुवीर्यं शोभनवीर्यं बलम् ॥

विश्वास-प्रस्तुतिः

त्रिशु॑ग्घ॒र्मो विभा॑तु मे ।
आकू॑त्या॒ मन॑सा स॒ह ।
वि॒राजा॒ ज्योति॑षा स॒ह ।
य॒ज्ञेन॒ पय॑सा स॒ह ।
तस्य॒ दोह॑मशीमहि ॥99॥
तस्य॑ सु॒म्नम॑शीमहि ।
तस्य॑ भ॒क्षम॑शीमहि ।
वाग्जु॑षा॒णा सोम॑स्य तृप्यतु ।

मूलम्

त्रिशु॑ग्घ॒र्मो विभा॑तु मे ।
आकू॑त्या॒ मन॑सा स॒ह ।
वि॒राजा॒ ज्योति॑षा स॒ह ।
य॒ज्ञेन॒ पय॑सा स॒ह ।
तस्य॒ दोह॑मशीमहि ॥99॥
तस्य॑ सु॒म्नम॑शीमहि ।
तस्य॑ भ॒क्षम॑शीमहि ।
वाग्जु॑षा॒णा सोम॑स्य तृप्यतु ।

भट्टभास्कर-टीका

7त्रिशुगिति ॥ त्रिशुक् अग्निविद्युदादित्यात्मना त्रेधा भिन्नदीप्तिः घर्मः अग्रिः मदर्थं विभातु मदुपकारायैव त्रिधा भिन्नो दीप्यताम् । मम आकूत्या मनसा च सह, ते च तद्दीप्त्या दीप्येताम् । विराजा अन्नेन ज्योतिषा तेजसा सह दीप्यताम् । यज्ञेन पयसा क्षीरादिना उदकेन वा सह दीप्यताम् । तस्य अग्नेः दोहं वृष्ट्यादिफलसमृद्धिं वयं अशीमहि । सुम्नं सुखं च तन्निमित्तं अशीमहि । भक्षं च सर्वं तस्य प्रसादात् अशीमहि व्याप्नुयाम । लिङि छान्दसो विकरागलोपः । वाक्च मदीया जुषाणा प्रीयमाणा सोमस्य सोमसदृशस्यास्य तृप्यतु ॥

विश्वास-प्रस्तुतिः

मि॒त्रो जना॒न्प्र स मि॑त्र ।

मूलम्

मि॒त्रो जना॒न्प्र स मि॑त्र ।

भट्टभास्कर-टीका

8नाभिं प्रत्यभिमृशति - मित्रो जनान्यातयतीति, प्रसमित्र मर्तः इति च द्वाभ्यां त्रिष्टुब्भ्याम् । ‘त्वमग्ने बृहद्वयः’ इत्यत्र च एते व्याख्याते, इह प्रतीकग्रहणमनयोः ॥

  • मन्त्रः
    मि॒त्रो जना॑न्यातयति प्रजा॒नन्मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् ।
    मि॒त्रᳵ कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे स॒त्याय॑ ह॒व्यङ्घृ॒तव॑द्विधेम ।

    • टीका 16तत्रैव याज्या - मित्र इति त्रिष्टुप् ॥ मित्रो देवः जनान् सर्वान् यातयति चेष्टयति प्रजानन् तत्तदधिकारानुरूपविधानज्ञः मित्र एव पृथिवीमपि द्यामपि दाधार धारयितुं प्रभवति । ध्रियतेः छन्दसि लिटि तुजादित्वादभ्यासस्य दीर्घत्वम् । मित्र एव कृष्टीः मनुष्यान् विशेषेण अनिमिषा अनिमिषेणादरेणाभिचष्टे आभिमुख्येन पश्यति उपकरोतीत्यर्थः । दर्शनमुपकारः, तथाहि - ‘वक्तारो भवन्ति, सुपश्यति’ इति । मिषतेर्भावे क्विप् । यद्वा - अनिमिषाः देवाः । इगुपधलक्षणः कः, ‘सुपां सुलुक्’ इति शस आकारः । मनुष्यान् देवाश्च विशेषेण पश्यतीति । तस्मात्तस्मै सत्यायामोघफलाय देवाय हव्यं चरुलक्षणं घृतवत् घृतसंयुक्तं विधेम कुर्मः ददाम इत्यर्थः । विदधातिर्दानकर्मा, विध विधाने, तौदादिकः ॥
  • मन्त्रः
    प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ ।
    न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मँहो॑ अश्ञो॒त्यन्ति॑तो॒ न दू॒रात् ।

  • टीका 17अथ तत्रैव याज्या विकल्प्यते - प्र स मित्रेति त्रिष्टुप् । ‘प्रयस्वान्’ इति प्रथमपादान्तः, ‘त्वोतः’ इति तृतीयपादान्तः ॥ हे मित्र स मर्तः मनुष्यः प्रयस्वान् अन्नवान् प्रास्तु प्रकर्षेण भवतु । क इत्याह – हे आदित्य अदितेः पुत्र यस्तव प्रीतेन कर्मणा यागादिना शिक्षति शक्तो भवितुमिच्छति अविघ्नेनान्वतिष्ठदित्यथः । शकेः ‘सनि मीमा’ इत्यादिना इस् । यद्वा - शिक्ष विद्योपादाने । व्रतेनेति, व्यत्ययेन द्वितीयाबहुवचनस्य स्थाने तृतीयैकवचनम् । व्रतानि शिक्षति पुनःपुनरभ्यस्यतीति । कस्मादेवमुच्यते इत्यत आह - न हन्यते न पीड्यते शत्रुभिः, व्याध्यादिभिश्च । न जीयते नाभिभूयते दारिद्र्यादिभिः । कः ? त्वोतः त्वया ऊतो रक्षितः । पृषोदरदत्वादिष्टस्वररूपसिद्धिः, ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । किं च - नैनं त्वया रक्षितं अंहः पापं अन्तितः अन्तितः अन्तिके समीपे सन्तं न दूरात् सन्तम् । ‘दूरान्तिकार्थेभ्यो द्वितीया च’ इति पञ्चमी, ‘कादिलोपो बहुलम्’ इत्यन्तिकस्य लोपः । अतस्त्वामेव परिचरेमेति ॥

विश्वास-प्रस्तुतिः

यस्मा॒न्न जा॒तᳶ परो॑ अ॒न्यो अस्ति॑ ।
य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा॑ ।
प्र॒जाप॑तिᳶ प्र॒जया॑ सव्ँ विदा॒नः ।
त्रीणि॒ ज्योतीँ॑षि सचते॒ स षो॑ड॒शी ।

मूलम्

यस्मा॒न्न जा॒तᳶ परो॑ अ॒न्यो अस्ति॑ ।
य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा॑ ।
प्र॒जाप॑तिᳶ प्र॒जया॑ सव्ँ विदा॒नः ।
त्रीणि॒ ज्योतीँ॑षि सचते॒ स षो॑ड॒शी ।

भट्टभास्कर-टीका

9षोडश्युपस्थाने - यस्मान्न जात इति त्रिष्टुप् ॥ यस्मात् परः प्रकृष्टो जातः जन्मवान् अन्यो नास्ति । यश्च भुवनानि भूतजातानि सर्वाणि आविवेश स्थित्यर्थं अनुप्रविवेश । सः प्रजापतिः प्रजया सर्वया संविदानः ऐकमत्यं प्रतिपाद्यमानः सर्वदा अनुकूलस्वभावः त्रीणि ज्योतींषि अग्न्यादीनि सचते समवैति तदात्मना द्योत्यते । स एव प्रजापतिरेव षोडशी ग्रहः । यद्वा - त्रीणि ज्योतींषि ज्योतिष्मन्ति सवनानि एष षोडशिग्रहः सचते त्रिष्वपि सवनेषु ग्रहणात् ॥

विश्वास-प्रस्तुतिः

ए॒ष ब्र॒ह्मा य ऋ॒त्वियः॑ ।
इन्द्रो॒ नाम॑ श्रु॒तो ग॒णे ॥100॥

मूलम्

ए॒ष ब्र॒ह्मा य ऋ॒त्वियः॑ ।
इन्द्रो॒ नाम॑ श्रु॒तो ग॒णे ॥100॥

भट्टभास्कर-टीका

10एष ब्रह्मेति द्विपदा गायत्री ॥ एष ग्रहः स्वयं ब्रह्मा ऋत्वियः प्राप्तकालः । छन्दसि घस् । इन्द्रो नाम गणे सर्वस्मिन् श्रुतः ख्यातः ॥

विश्वास-प्रस्तुतिः

प्र ते॑ म॒हे वि॒दथे॑ शँसिषँ॒ हरी॑ ।
य ऋ॒त्विय॒ᳶ प्र ते॑ वन्वे ।
व॒नुषो॑ हर्य॒तम्मद॑म् ।

मूलम्

प्र ते॑ म॒हे वि॒दथे॑ शँसिषँ॒ हरी॑ ।
य ऋ॒त्विय॒ᳶ प्र ते॑ वन्वे ।
व॒नुषो॑ हर्य॒तम्मद॑म् ।

भट्टभास्कर-टीका

11प्रते मह इति पुरउष्णिक् ॥ महे महते तुभ्यं त्वदर्थम् । यद्वा - ते तव महतः हरी अश्वः । विदथे यज्ञे प्राशंसिषं प्रशंसामि । छान्दसो लुङ् । किमर्थमित्याह - यस्तव ऋत्वियः प्राप्तकालः मदः तं हर्यतं प्रेप्सितं मदम् । हर्य विक्रान्तौ, औणादिकोऽतच् । तव वनुषः संभजनीयस्य तादृशं मदं प्र वन्वे प्रकर्षेण संभजामि । वन षण संभक्तौ ॥

विश्वास-प्रस्तुतिः

इन्द्रो॒ नाम॑ घृ॒तन्नयः ।
हरि॑भि॒श्चारु॒ सेच॑ते ।
श्रु॒तो ग॒ण आ त्वा॑ विशन्तु ।
हरि॑वर्पस॒ङ्गिरः॑ ।

मूलम्

इन्द्रो॒ नाम॑ घृ॒तन्नयः ।
हरि॑भि॒श्चारु॒ सेच॑ते ।
श्रु॒तो ग॒ण आ त्वा॑ विशन्तु ।
हरि॑वर्पस॒ङ्गिरः॑ ।

भट्टभास्कर-टीका

12इन्द्रो नाम इत्यनुष्टुप् ॥ ‘जुष्टी नरः’ इत्यत्र व्याख्यातप्राया । घृतं न धृतमिव चारुः प्रियतमोपायः देवः इन्द्रो नाममात्रेण घृतवत्प्रियः हरिभिः अश्वैः चारु शोभनं सेचते समवैति । गणे च सर्वत्र श्रुतः ख्यातः यस्त्वं, तं त्वां हरिवर्पसं हरिरूपं मनोहररूपं वा गिरः अस्मदीयाः स्तुत्यः आविशन्तु प्राप्नुवन्तु ॥

  • 25अथ पञ्चविंशीमाह - द्वयो ऋचोर्व्यतिषक्तरूपोऽयं मन्त्रः । प्रयोगकाले हि तदुभयं व्यतिषज्य शंसनीयम् । अत एवात्र व्यतिषज्याम्नातः । अर्थस्तु विभज्यैवावबोद्धव्यः । तत्रैका द्विपदाऽनुष्टुप् । इतरा चतुष्पदा जगती । तत्र द्विपदायाः पाठस्तु - ‘एष ब्रह्मा य ऋत्वियः । इन्द्रो नाम श्रुतौ गणे’ इति । तस्यायमर्थः - इन्द्रो नाम यो देवतागणे श्रुतः प्रसिद्धः । ऋत्विय ऋतावृतौ तत्तत्कर्मकाले तत्तत्कर्म कर्तुमाविर्भवति, एष एवंभूत इन्द्रः सदा ब्रह्मा प्रजापतिरेवेति । अयं द्विपदो मन्त्र एवमेवाच्छिद्रकाण्डे समाम्नातः । जगत्याः पाठस्तु - ‘प्र ते महे विदथे शँसिषँ हरी । प्र ते वन्वे वनुषो हर्यतं मदम् । घृतं न यो हरिभिश्चारु सेचते । आ त्वा विशन्तु हरिवर्पसं गिरः’ इति । हे इन्द्र! महे विदथे महति यज्ञे हरी त्वदीयावश्वौ प्रशंसिषं प्रकर्षेण स्तुतवानस्मि । हर्यतं हरणीयं मदं मदहेतुं सोमं वनुषः प्रार्थितवतः ते तव प्रवन्वे प्रकर्षेण ददामि । चारु घृतं न समीचीनं घृतमिव मद्दत्तं सोमं हरिभिः अश्वैर्युक्तोऽयमिन्द्वः सेचते समवैति संबध्यानुभवतीत्यर्थः । हरिवर्पसं हरितवर्णवपुर्युक्तं च पूर्वोक्तगुणयुक्तं त्वा त्वां मदीयाः स्तुतिरूपा गिर आविशन्त्विति । एतयो ऋचोर्व्यतिषङ्गपाठः केवलमदृष्टार्थ एवोपहोमेष्वाम्नातः । अयं च व्यनिषक्तो मन्त्रो विहृतषोडशस्तोत्रेऽन्तर्भावनीयः ॥
विश्वास-प्रस्तुतिः

इन्द्राधि॑प॒तेऽधि॑पति॒स्त्वन्दे॒वाना॑मसि ।
अधि॑पति॒म्माम् ।
आयु॑ष्मन्तव्ँ॒वर्च॑स्वन्तम्मनु॒ष्ये॑षु कुरु ॥101॥

मूलम्

इन्द्राधि॑प॒तेऽधि॑पति॒स्त्वन्दे॒वाना॑मसि ।
अधि॑पति॒म्माम् ।
आयु॑ष्मन्तव्ँ॒वर्च॑स्वन्तम्मनु॒ष्ये॑षु कुरु ॥101॥

भट्टभास्कर-टीका

13षोडशिनं जुहोति - इन्द्रेति यजुषा ॥ हे इन्द्र! अधिपते! सर्वस्याधिकं पालयितः! त्वं हि देवानामप्यधिपतिरसि । सः त्वं मामपि मनुष्येषु अधिपतित्वादिगुणकं कुरु ॥

विश्वास-प्रस्तुतिः

इन्द्र॑श्च स॒म्राड्वरु॑णश्च॒ राजा॑ ।
तौ ते॑ भ॒क्षञ्च॑क्रतु॒रग्र॑ ए॒तम् ।
तयो॒रनु॑ भ॒क्षम्भ॑क्षयामि ।
वाग्जु॑षा॒णा सोम॑स्य तृप्यतु ।

मूलम्

इन्द्र॑श्च स॒म्राड्वरु॑णश्च॒ राजा॑ ।
तौ ते॑ भ॒क्षञ्च॑क्रतु॒रग्र॑ ए॒तम् ।
तयो॒रनु॑ भ॒क्षम्भ॑क्षयामि ।
वाग्जु॑षा॒णा सोम॑स्य तृप्यतु ।

भट्टभास्कर-टीका

14भक्षयति इन्द्रश्चोते पङ्क्त्या ॥ सम्राट् सङ्गतदीप्तिः इन्द्रश्च वरुणश्च राजा दीप्तिमन्तौ देवौ ते भक्षं अग्रे प्रथमं चक्रतुः हे षोडशिन्! त्वां आदौ भक्षितवन्तौ । तयोरनु पश्चादहमपि तव भक्षं भक्षयामि । वाक् जुषाणेति गतम् ॥

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर्वि॒श्वक॑र्मा ।
तस्य॒ मनो॑ दे॒वय्ँ य॒ज्ञेन॑ राध्यासम् ।
अ॒र्थे॒गा अ॒स्य ज॑हितः ।
अ॒व॒सान॑पतेऽव॒सान॑म्मे विन्द ।

मूलम्

प्र॒जाप॑तिर्वि॒श्वक॑र्मा ।
तस्य॒ मनो॑ दे॒वय्ँ य॒ज्ञेन॑ राध्यासम् ।
अ॒र्थे॒गा अ॒स्य ज॑हितः ।
अ॒व॒सान॑पतेऽव॒सान॑म्मे विन्द ।

भट्टभास्कर-टीका

15विहारे बहिर्वा यदि भयमागच्छेत् तदा होमः - प्रजापतिरिति विपरीता पङ्क्तिः ॥ प्रजापतिः प्रजानां पाता विश्वकर्मा विश्वं करणीयं यस्य स एव विश्वं करोति शुभमशुभं च यस्मात् । तस्य देवं देवनशीलं मनः यज्ञेन राध्यासं तोषयामि अहं अर्थेगाः प्रयोजनार्थं तमेव गच्छन् भजमानः । गमेः ‘जन सन’ इति विट् । ‘विड्वनोः’ इत्यात्वम् । ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक् । कः पुनः सोऽर्थ इति चेत् - अस्य जहितः, कर्मती षष्ठी, इमं भयहेतुं जहितः स देवः त्यजतु नाशयतु । जहातेर्लटि वचनव्यत्ययः, ‘जहातेश्च’ इतीत्वम् । यद्वा - यः प्रजापतिः तस्य मनस्स्थानीयः सदा मनसि स्थितोऽग्निः देवः तं यज्ञेन सध्यासम् । तौ चास्य जहितः त्यजताम् । यद्वा - अस्येत्यस्य विशेषणं अर्थेगा इति । अर्थनिमित्तमागच्छतः अस्य दुरात्मनः भयहेतोरिति षष्ठ्येकवचने रूपम् । इदानीं प्रत्यक्षवदाह - हे प्रजापते! अवसानपते। यागसमाप्तेः पातः! अविघ्नेन संपादयितः! मम कर्मणः अविघ्नेन अवसानं समाप्तिं विन्द लम्भय ॥

विश्वास-प्रस्तुतिः

नमो॑ रु॒द्राय॑ वास्तो॒ष्पत॑ये ।
आय॑ने वि॒द्रव॑णे ॥102॥
उ॒द्याने॒ यत्प॒राय॑णे ।
आ॒वर्त॑ने वि॒वर्त॑ने ।
यो गो॑पा॒यति॒ तँ हु॑वे ।

मूलम्

नमो॑ रु॒द्राय॑ वास्तो॒ष्पत॑ये ।
आय॑ने वि॒द्रव॑णे ॥102॥
उ॒द्याने॒ यत्प॒राय॑णे ।
आ॒वर्त॑ने वि॒वर्त॑ने ।
यो गो॑पा॒यति॒ तँ हु॑वे ।

भट्टभास्कर-टीका

16अवभृथमवैष्यन् जुहोति - नमो रुद्रायेति पङ्क्त्या ॥ नमः रुद्राय देवाय वास्तोष्पतये गृहग्रामादिस्वामिने आयने वास्तौ वस्तुं आगमने प्रवेशने विद्रवणे वास्तोरन्यत्र गमने उद्याने उत्थाने अन्यत्र वासार्थं वास्तोः त्यागे परायणे मृत्वा वास्तोः त्यागे च यत् यः गोपायति । ‘सुपां सुलुक्’ इति लुक् । यश्च आवर्तने गत्वा पुनरागमने विवर्तने वास्तौ विविधं वर्तने च वास्तव्यान् गोपायति रक्षति तं हुवे आह्वयामि आराधयितुं तस्मै वा इदं जुहोमि । शपो लुक् ॥

विश्वास-प्रस्तुतिः

यान्य॑पा॒मित्या॒न्यप्र॑तीत्ता॒न्यस्मि॑ ।
य॒मस्य॑ ब॒लिना॒ चरा॑मि ।
इ॒हैव सन्त॒ᳶ प्रति॒ तद्या॑तयामः ।
जी॒वा जी॒वेभ्यो॒ निह॑राम एनत् ।

मूलम्

यान्य॑पा॒मित्या॒न्यप्र॑तीत्ता॒न्यस्मि॑ ।
य॒मस्य॑ ब॒लिना॒ चरा॑मि ।
इ॒हैव सन्त॒ᳶ प्रति॒ तद्या॑तयामः ।
जी॒वा जी॒वेभ्यो॒ निह॑राम एनत् ।

भट्टभास्कर-टीका

17द्वितीयस्सक्तुहोमः - यानीति त्रिष्टुभा ॥ यानि ऋणानि अपामित्यानि अपमातव्यानि अपाकर्तव्यानि । मयतेः छान्दसः क्यप् । ‘मयतेरिदन्यतरस्याम्’ इति ल्यपि वर्तते । अप्रतीत्तानि अप्रत्यर्पितानि अनपाकृतानि । ददातेः निष्ठायां ‘अच उपसर्गात्तः’ इति तत्वम्, ‘दस्ति’ इति दीर्घत्वम् । एवं ईदृशानि यानि ऋणानि अहमस्मि ऋणैः तद्वानस्मि, ऋणातिशयप्रतिपादनार्थं ताच्छब्द्यम् । यथा ‘यददीव्यन्नृणमहं बभूव’ इति । तेन यमस्य बलिना यमस्य करस्थानीयैः तैः मृतेन अवश्यप्रत्यर्पणीयैः चरामि । तत् ऋणं सर्वं, वचनव्यत्ययो वा, तानि ऋणानि इहैव जन्मनि सन्तः वर्तमानाः प्रतियातयामः अपाकुर्मः । पुत्रपौत्रैरपि ऋणं देयमिति प्रतिपादयितुं प्रतियातने बहुवचनम् । कथमित्याह - जीवाः जीवन्त एव वयं जीवेभ्यः जीवद्भ्य एवोत्तमर्णेभ्यः एनत् आत्तं ऋणं सर्वं निहरामः नियतमपाकुर्मः अनेन होमेनेति भावः ॥

विश्वास-प्रस्तुतिः

अ॒नृ॒णा अ॒स्मिन्न॑नृ॒णाᳶ पर॑स्मिन् ।
तृ॒तीये॑ लो॒के अ॑नृ॒णास्स्या॑म ।
ये दे॑व॒याना॑ उ॒त पि॑तृ॒याणाः॑ ॥103॥
सर्वा॑न्प॒थो अ॑नृ॒णा आक्षी॑येम ।

मूलम्

अ॒नृ॒णा अ॒स्मिन्न॑नृ॒णाᳶ पर॑स्मिन् ।
तृ॒तीये॑ लो॒के अ॑नृ॒णास्स्या॑म ।
ये दे॑व॒याना॑ उ॒त पि॑तृ॒याणाः॑ ॥103॥
सर्वा॑न्प॒थो अ॑नृ॒णा आक्षी॑येम ।

भट्टभास्कर-टीका

18तृतीयं जुहोति - अनृणा इति त्रिष्टुभा ॥ अस्मिन् मनुष्यलोके परस्मिन् प्रेत्य भोक्तव्ये लोके तृतीये द्युलोके च अनृणाः स्याम । ततश्च ये देवयानाः पन्थानः यैः देवाः प्राप्यन्ते ये च पितृयाणाः तान् सर्वानपि अनृणाः आक्षीयेम आभिमुख्येन प्रतिबन्धरहिताः गच्छेम ॥

विश्वास-प्रस्तुतिः

इ॒दमू॒नु श्रेयो॑ऽव॒सान॒माग॑न्म ।
शि॒वे नो॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे ।
गोम॒द्धन॑व॒दश्व॑व॒दूर्ज॑स्वत् ।
सु॒वीरा॑ वी॒रैरनु॒ सञ्च॑रेम ।

मूलम्

इ॒दमू॒नु श्रेयो॑ऽव॒सान॒माग॑न्म ।
शि॒वे नो॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे ।
गोम॒द्धन॑व॒दश्व॑व॒दूर्ज॑स्वत् ।
सु॒वीरा॑ वी॒रैरनु॒ सञ्च॑रेम ।

भट्टभास्कर-टीका

19उदवसानीयाया देवयजनमध्यवस्यति - इदमिति त्रिष्टुभा ॥ श्रेयः प्रशस्यतरमिदमवसानं यज्ञगृहं नूनं आगन्म आगताः स्म । ततः इदानीं उभे अपि इमे द्यावापृथिव्यौ शिवे सुखहेतू भवतः यागस्य सम्यङ्निर्वृत्त्या । ततश्च गोमत् बहुभिः गोभिस्तद्वत् । धनवत् भूरिधनं, अश्ववत् बह्वश्वं, ऊर्जस्वत् बह्वन्नं, यथातथा सुवीराः शोभनापत्याः वयं वीरैः पुरुषैस्सह अनुसञ्चरेम अनुक्रमेण द्यावापृथिव्योः वर्तेमहि ॥

विश्वास-प्रस्तुतिः

अ॒र्कᳶ प॒वि॒त्रँ॒ रज॑सो वि॒मानः॑ ।
पु॒नाति॑ दे॒वाना॒म्भुव॑नानि॒ विश्वा॑ ।
द्यावा॑पृथि॒वी पय॑सा सव्ँ विदा॒ने ।
घृ॒तन्दु॑हाते अ॒मृत॒म्प्रपी॑ने ।

मूलम्

अ॒र्कᳶ प॒वि॒त्रँ॒ रज॑सो वि॒मानः॑ ।
पु॒नाति॑ दे॒वाना॒म्भुव॑नानि॒ विश्वा॑ ।
द्यावा॑पृथि॒वी पय॑सा सव्ँ विदा॒ने ।
घृ॒तन्दु॑हाते अ॒मृत॒म्प्रपी॑ने ।

भट्टभास्कर-टीका

20महाव्रते फलके कूर्चे वाऽधिरुह्याध्वर्युः शस्त्रं प्रतिगृणाति - अर्कः पवित्रं इति त्रिष्टुभा ॥ अर्कः आदित्यः देवानां मध्ये पवित्रं पावनः । रजसः अन्तरिक्षस्य उदकस्य वा निर्माता दापयिता वा । विश्वानि भुवनानि भूतजातानि पुनाति शोधयति । ततः ते पूते द्यावापृथिव्यौ पयसा उदकेन संविदाने ऐकमत्यं गते परस्परं वा संविदाने पयसा इत्थंभूते घृतं उदकं यागद्वारेण दत्तः प्रजाभ्यः ॥

विश्वास-प्रस्तुतिः

प॒वित्र॑म॒र्को रज॑सो वि॒मानः॑ ।
पु॒नाति॑ दे॒वाना॒म्भुव॑नानि॒ विश्वा॑ ।
सुव॒र्ज्योति॒र्यशो॑ म॒हत् ।
अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठाम् ॥104॥

मूलम्

प॒वित्र॑म॒र्को रज॑सो वि॒मानः॑ ।
पु॒नाति॑ दे॒वाना॒म्भुव॑नानि॒ विश्वा॑ ।
सुव॒र्ज्योति॒र्यशो॑ म॒हत् ।
अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठाम् ॥104॥

भट्टभास्कर-टीका

21पवित्रमर्क इति मध्येज्योतिस्त्रिष्टुप् ॥ अर्धर्चो गतः । सुवः स्वर्गं ज्योतिः ज्योतिष्मत् यशः अन्नं च महत् तत्प्रसादात् अशीमहि व्याप्नुयाम । उत अपि च गाधं सुस्थिरां प्रतिष्ठां अशीमहि । गाध्यते प्रतिष्ठीयते अस्मिन्निति गाधः, गाधृ प्रतिष्ठायाम् ॥

इति तैत्तिरीय ब्राह्मणे तृतीये सप्तमे अच्छिद्रेषु नवमोऽनुवाकः ॥