विश्वास-प्रस्तुतिः
यद॒स्य पा॒रे रज॑सः ।
शु॒क्रञ्ज्योति॒रजा॑यत ।
तन्न॑ᳶ पर्ष॒दति॒ द्विषः॑ ।
अग्ने॑ वैश्वानर॒ स्वाहा॑ ।
मूलम्
यद॒स्य पा॒रे रज॑सः ।
शु॒क्रञ्ज्योति॒रजा॑यत ।
तन्न॑ᳶ पर्ष॒दति॒ द्विषः॑ ।
अग्ने॑ वैश्वानर॒ स्वाहा॑ ।
भट्टभास्कर-टीका
1पशोरुपाकृतस्य वाशनादिषु होमः । तत्र सर्वस्यादौ - यदस्य पारे इति ॥ ततः ‘यस्माद्भीषा’ इत्यादयो नैमित्तिकविशेषाः मध्ये भवन्ति । ततः ‘य इदमकः’ इति सर्वत्रान्ते भवति । तत्र प्रथमास्तिस्रोऽनुष्टुभः । ‘उदस्र’ इति त्रिष्टुप् । ततः ‘यस्मात्’ इत पङ्क्तिः चतुष्पदा । प्रथमः पादो विवृद्धः । वेपनपलायनसंज्ञानेषु तिस्रोऽनुष्टुभ एके । ‘य इदमकः’ इति प्रथमं यजुरेके । तत्र ‘यदस्य पार’ इति व्याख्याता ‘समितम्’ इत्यत्र ॥
विश्वास-प्रस्तुतिः
यस्मा॑द्भी॒षाऽवा॑शिष्ठाः ।
ततो॑ नो॒ अभ॑यङ्कृधि ।
मूलम्
यस्मा॑द्भी॒षाऽवा॑शिष्ठाः ।
ततो॑ नो॒ अभ॑यङ्कृधि ।
भट्टभास्कर-टीका
2यस्मादित्यादिः वाशने शब्दने होमः ॥ हे पशो! यस्मात् दुःखात् कारणात् त्वं भीषा भीत्या इत्थम्भूतस्सन् अवाशिष्ठाः वाशितमकृथाः । वाशृ शब्दे, दैवादिकः लुङ्यडागमः । तस्माद्धेतोः अस्माकं अभयं कृधि भयं माकृथा इति यावत् । यद्बा - भयहेतोः मरणाद्भीतः त्वं अवाशिष्ठाः, तत एव मरणादस्माकं यथा भयं न भवति तथा कुरु ।
विश्वास-प्रस्तुतिः
प्र॒जाभ्य॒स्सर्वा॑भ्यो मृड ।
नमो॑ रु॒द्राय॑ मी॒ढुषे॑ ।
मूलम्
प्र॒जाभ्य॒स्सर्वा॑भ्यो मृड ।
नमो॑ रु॒द्राय॑ मी॒ढुषे॑ ।
भट्टभास्कर-टीका
किञ्च - प्रजाभ्यः सर्वाभ्योऽपि स्वस्यै परस्यै च मृड सुखय । कर्मणसंप्रदानत्वाच्चतुर्थी । रुद्राय च युष्माकं स्वामिने मीढुषे सेक्त्रे युष्मान् उत्पादितवते नमः स प्रसन्नो भवत्विति । ‘मीढ्वान्’ इति मिहेर्निपात्यते ॥
विश्वास-प्रस्तुतिः
प्र॒जाभ्य॒स्सर्वा॑भ्यो मृड ।
यस्मा॑द्भी॒षा न्यष॑दः ।
ततो॑ नो॒ अभ॑यङ्कृधि ॥93॥
नमो॑ रु॒द्राय॑ मी॒ढुषे॑ ।
मूलम्
प्र॒जाभ्य॒स्सर्वा॑भ्यो मृड ।
यस्मा॑द्भी॒षा न्यष॑दः ।
ततो॑ नो॒ अभ॑यङ्कृधि ॥93॥
नमो॑ रु॒द्राय॑ मी॒ढुषे॑ ।
भट्टभास्कर-टीका
3अथ यस्मादिति निषदने शयने ॥ न्यषदः निषण्णवानसि । ऌदित्वादङ् । समानमन्यत् ॥
- किञ्च - प्रजाभ्यः सर्वाभ्योऽपि स्वस्यै परस्यै च मृड सुखय । कर्मणसंप्रदानत्वाच्चतुर्थी ।
- तस्माद्धेतोः अस्माकं अभयं कृधि भयं माकृथा इति यावत् । यद्बा - भयहेतोः मरणाद्भीतः त्वं अवाशिष्ठाः, तत एव मरणादस्माकं यथा भयं न भवति तथा कुरु ।
- रुद्राय च युष्माकं स्वामिने मीढुषे सेक्त्रे युष्मान् उत्पादितवते नमः स प्रसन्नो भवत्विति । ‘मीढ्वान्’ इति मिहेर्निपात्यते ॥
विश्वास-प्रस्तुतिः
उदु॑स्र तिष्ठ॒ प्रति॑तिष्ठ॒ मा रि॑षः ।
मेमय्ँ य॒ज्ञय्ँयज॑मानञ्च रीरिषः ।
सु॒व॒र्गे लो॒के यज॑मानँ॒ हि धे॒हि ।
शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे ।
मूलम्
उदु॑स्र तिष्ठ॒ प्रति॑तिष्ठ॒ मा रि॑षः ।
मेमय्ँ य॒ज्ञय्ँयज॑मानञ्च रीरिषः ।
सु॒व॒र्गे लो॒के यज॑मानँ॒ हि धे॒हि ।
शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे ।
भट्टभास्कर-टीका
4उदुस्रेति निपातने मैत्रावरुणेनोत्थापयति ॥ हे उस्र! गौः उत्तिष्ठ सर्वपशूपलक्षणं उस्रग्रहणम् । प्रतितिष्ठ प्रतिष्ठितो भव मा रिषः मा नशः । इमं च यज्ञं मा रीरिषः मा नीनशः । त्वय्यनुत्थिते हि वैगुण्यात् सर्वं नष्टं स्यात्, तस्मात् शीघ्रमुत्थाय त्वं सम्यक् यागनिर्वृत्त्या सुवर्गे लोके यजमानं धेहि स्थापय । अस्माकं च द्विपदे चतुष्पदे च शं सुखहेतुः एधि भव ॥
विश्वास-प्रस्तुतिः
यस्मा॑द्भी॒षाऽवे॑पिष्ठाᳶ प॒लायि॑ष्ठास्स॒मज्ञा॑स्थाः ।
ततो॑ नो॒ अभ॑यङ्कृधि ।
प्र॒जाभ्य॒स्सर्वा॑भ्यो मृड ।
नमो॑ रु॒द्राय॑ मी॒ढुषे॑ ॥94॥
मूलम्
यस्मा॑द्भी॒षाऽवे॑पिष्ठाᳶ प॒लायि॑ष्ठास्स॒मज्ञा॑स्थाः ।
ततो॑ नो॒ अभ॑यङ्कृधि ।
प्र॒जाभ्य॒स्सर्वा॑भ्यो मृड ।
नमो॑ रु॒द्राय॑ मी॒ढुषे॑ ॥94॥
भट्टभास्कर-टीका
5यस्मादिति समानं पूर्वेण ॥ अवेपिष्ठाः अकम्पिष्ठाः पलायिष्ठाः संज्ञपनस्थानादपागमः । समज्ञास्थाः अकामतः संज्ञप्तोऽभूः संज्ञपनमन्तरेण भीत्यैवामृथा इति यावत् । अन्तर्भावितण्यर्थात् जानातेः लुङि कर्मण्यात्मनेपदम् । यद्वा - संज्ञानं उत्कण्ठा । ‘संप्रतिभ्याम्’ इति व्यत्ययेन आध्यानेऽप्यात्मनेपदम् । दुःखातिशयेन मात्राद्युत्कण्ठापरीतोऽभूः । समानमन्यत् ॥
- तस्माद्धेतोः अस्माकं अभयं कृधि भयं माकृथा इति यावत् । यद्बा - भयहेतोः मरणाद्भीतः त्वं अवाशिष्ठाः, तत एव मरणादस्माकं यथा भयं न भवति तथा कुरु ।
- किञ्च - प्रजाभ्यः सर्वाभ्योऽपि स्वस्यै परस्यै च मृड सुखय । कर्मणसंप्रदानत्वाच्चतुर्थी ।
- रुद्राय च युष्माकं स्वामिने मीढुषे सेक्त्रे युष्मान् उत्पादितवते नमः स प्रसन्नो भवत्विति । ‘मीढ्वान्’ इति मिहेर्निपात्यते ॥
विश्वास-प्रस्तुतिः
य इ॒दमकः॑ ।
तस्मै॒ नमः॑ ।
तस्मै॒ स्वाहा॑ ।
मूलम्
य इ॒दमकः॑ ।
तस्मै॒ नमः॑ ।
तस्मै॒ स्वाहा॑ ।
भट्टभास्कर-टीका
6य इदमिति ॥ इदं वाशितादिकं यः अकः अकार्षीत् अचीकरत् तस्मै देवाय नमः पशूनां स्वामिने स्वाहुतं चेदमस्तु तस्मै देवाय ॥
विश्वास-प्रस्तुतिः
न वा उ॑वे॒तन्म्रि॑यसे ।
आशा॑नान्त्वा॒ विश्वा॒ आशाः॑ ।
मूलम्
न वा उ॑वे॒तन्म्रि॑यसे ।
आशा॑नान्त्वा॒ विश्वा॒ आशाः॑ ।
भट्टभास्कर-टीका
7अथ मृतं पशुं अप्सु अभ्यवहरति - न वा उवेतदिति तिसृभिः ॥ ‘ये वाजिनम्’ इत्यत्र प्रथमा त्रिष्टुप् व्यख्याता । अस्याः प्रतीकग्रहणम् । ‘आशानां त्वाशापालेभ्यः’ ‘विश्वा आशा मधुना’ इति चानुष्टुप्त्रिष्टुभौ ‘पुनर्यः’ इत्यत्र व्याख्याते । प्रतीकग्रहणमत्रानयोः ॥
-
न वा उ॑ वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे॑षि प॒थिभि॑स्सु॒गेभिः॑ ।
हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ।- टीका अथ दशमी (मृच) माह– न वा उवेतदिति। शास्त्रानभिज्ञानां लौकिकानां दृष्ट्या त्वमेतत्प्रत्यक्ष मेव म्नियसे शमितृभिर्हिस्यसे च । शास्त्रादृष्ट्या तु त्वं न वा उवेतन्म्नियस एत २२२३ न्मरणमेव न भवति, न च रिष्यसि नापि शमितृभिर्हिस्यसे, किंतु सुगेभिः पथिमिः सुगममार्गैर्देवानिदेषि देवानेव प्राप्नोषि । तत्र देवेषु मध्य इन्द्रत्वं प्राप्तस्य ते हरी हरिनामकावश्वौ रथे युक्तावभूतां सर्वथा भविष्यतः। * एवं तथा मरुद्रूपं प्राप्तस्य ते पृषती चित्रवर्णे अश्वस्त्रियौ युञ्जावभूतां रथे युक्तौ भविष्यतः। इदानीं रासभस्य धुरि वर्तमानस्व गर्दभवद्भारवाहिनस्तव वाज्युपास्थात्त्वां वोढुं कश्चित्प्रौढोऽश्वः प्राप्तो भविष्यति ।
-
मन्त्रः - आशा॑नान्त्वाऽऽशापा॒लेभ्यः॑ ।
च॒तुर्भ्यो॑ अ॒मृते॑भ्यः ।
इ॒दम्भू॒तस्याध्य॑क्षेभ्यः ।
वि॒धेम॑ ह॒विषा॑ व॒यम् । -
टीका चतुर्धा करणे - आशानां त्वेत्यनुष्टुप् ॥ आशानां दिशां सम्बन्धिभ्यः आशापालेभ्यः दिशां नित्यपालकेभ्यः । ‘झत्युपोत्तमम्’ इति उपोत्तमस्य उदात्तत्वम् । अमृतेभ्यः अमरणेभ्यश्च इन्द्रयमवरुणकुबेरेभ्यः भूतस्य भुवनजातस्य सर्वस्य अध्यक्षेभ्यः स्वामिभ्यः तदर्थमिद्धये व्यापृतेभ्यः वयं हविषा अनेन इदं विधेम परिचरेम । तेषामेवेदं परिचरणं यदनेन ऋत्विजः परिचर्यन्त इति भावः । विध विधाने ॥
-
टीका 8अथाष्टमीमाह - हे पशो! त्वां आशानां दिशां मध्ये आशापालेभ्यो विशिष्टानां दिशां पालेभ्यः चतुर्भ्य इन्द्रयमवरुणसोमेभ्योऽमृतेभ्यो देवेभ्यः समर्पयामीति शेषः ॥ भूतस्य अस्मिन्कर्मणि प्राप्तस्य पशोरध्यक्षेभ्यः स्वामिभ्यो देवेभ्यो वयं हविषेदं विधेम शीघ्रमेव परिचरेम ॥॥
-
मन्त्रः - विश्वा॒ आशा॒ मधु॑ना॒ सँ सृ॑जामि ।
अ॒न॒मी॒वा आप॒ ओष॑धयो भवन्तु ।
अ॒यय्ँ यज॑मानो॒ मृधो॒ व्य॑स्यताम् ॥10॥
अगृ॑भीताᳶ प॒शव॑स्सन्तु॒ सर्वे॑ । -
टीका 9अथ नवमीमाह - विश्वा आशाः सर्वा दिशाऽहं मधुना मधुरेण वृष्ट्युदकेन संसृजामि संयोजयामि ॥ तेन आप ओषधयश्चानमीवा रोगरहिता भवन्तु ॥ अयं च यजमानो मृधः शत्रून् व्यस्यतां निरस्यतु ॥ सर्वे पशवः अगृभीता व्याघ्रतस्करादिभिरस्वीकृताः सन्तु ॥ इदं मन्त्रद्वयं पशौ संज्ञप्यमाने यजमानेन जप्यम् ॥ तथा दिवश्श्येनीसंज्ञिकास्विष्टिषु ‘अशायै चरुम्’ इत्यस्य याज्यानुवाक्ये ॥ तथा च तयोः प्रतकिद्वयमाम्नातम् - ‘आशानां त्वा विश्वा आशाः’ इति ॥
विश्वास-प्रस्तुतिः
य॒ज्ञस्य॒ हि स्थ ऋ॒त्वियौ॑ ।
इन्द्रा॑ग्नी॒ चेत॑नस्य च ।
हु॒ता॒हु॒तस्य॑ तृप्यतम् ।
मूलम्
य॒ज्ञस्य॒ हि स्थ ऋ॒त्वियौ॑ ।
इन्द्रा॑ग्नी॒ चेत॑नस्य च ।
हु॒ता॒हु॒तस्य॑ तृप्यतम् ।
भट्टभास्कर-टीका
8हुताहुतयोर्मिश्रणे - यज्ञस्य हि इत्याद्याः तिस्रोऽनुष्टुभः । तृतीयया तस्य भक्षणम् । हे इन्द्राग्नी! युवां हि यज्ञस्य ऋत्वियौ प्राप्तकालौ स्थः । अस्मिन्काले युवां स्वामिनौ इति यावत् । चेतनस्य सर्वस्य च स्वामिनौ स्थः । हि यस्मादेवं तस्मात् हुताहुतस्य मिश्रितस्य संयुक्तस्य तृप्यतम् । सुहितार्थयोगे षष्ठीसमासप्रतिषेधेन षष्ठी ज्ञापिता । मिश्रितपानेन तृप्तौ भवतं मिश्रितरसानुभवेन ।
विश्वास-प्रस्तुतिः
अहु॑तस्य हु॒तस्य॑ च ।
हु॒तस्य॒ चाहु॑तस्य च ।
अहु॑तस्य हु॒तस्य॑ च ।
मूलम्
अहु॑तस्य हु॒तस्य॑ च ।
हु॒तस्य॒ चाहु॑तस्य च ।
अहु॑तस्य हु॒तस्य॑ च ।
भट्टभास्कर-टीका
अथाहुतस्य तृप्यतं, हुतस्य च
अवयवरसास्वादनेन च तृप्यतमित्यथः ।
किञ्च - हुतस्य सम्बन्धिनः अहुतस्य हुतसंसर्गेणाहुतावयवस्य यो रसविशेषः तस्य च तृप्यतम् । अहुतस्य च संबन्धिनो हुतस्य अहुतसंसर्गेण हुतावयवस्य यो रसविशेषः तस्य च तृप्यतम् ।
विश्वास-प्रस्तुतिः
इन्द्रा॑ग्नी अ॒स्य सोम॑स्य ।
वी॒तम्पि॑बतञ्जु॒षेथा॑म् ।
मा यज॑मान॒न्तमो॑ विदत् ।
मर्त्विजो॒ मो इ॒माᳶ प्र॒जाः ।
मा यस्सोम॑मि॒मम्पिबा॑त् ।
सँसृ॑ष्टमु॒भय॑ङ्कृ॒तम् ॥95॥
मूलम्
इन्द्रा॑ग्नी अ॒स्य सोम॑स्य ।
वी॒तम्पि॑बतञ्जु॒षेथा॑म् ।
मा यज॑मान॒न्तमो॑ विदत् ।
मर्त्विजो॒ मो इ॒माᳶ प्र॒जाः ।
मा यस्सोम॑मि॒मम्पिबा॑त् ।
सँसृ॑ष्टमु॒भय॑ङ्कृ॒तम् ॥95॥
भट्टभास्कर-टीका
एवमुक्तप्रकारेण बहुप्रकाररसस्यास्य सोमस्य वीतं कामयेथां पिबते जुषेथां प्रीयेथां च । कर्मणि षष्ठी ।
मा यजमानमिति । यजमानं तमः मतिविपर्यासः तन्निमित्तं पापं वा माऽविदत् मा लब्ध । विन्दतेर्लुङि ऌदित्वादङ् । ऋत्विजश्च मा तमोऽविदत् । मैव च इमाः प्रजाः तमोऽविदत् कर्मभ्रेषनिमित्तं पापम् । अथ यश्च इमं सोमं पिबात् तमपि मा तमोऽविदत् । कीदृशं सोमं? उभयमपि हुतमहुतं च संसृष्टं कृतम् । ईदृशं पिबन्तमपि मा तमोऽविदन् ॥
इति तैत्तिरीयब्राह्मणे तृतीये सप्तमे अच्छिद्रेषु अष्टमोऽनुवाकः ॥