विश्वास-प्रस्तुतिः
सक्षे॒दम्प॑श्य ।
मूलम्
सक्षे॒दम्प॑श्य ।
भट्टभास्कर-टीका
1देवयजनयाचनं प्रतिषिध्य देवता एवोपतिष्ठेतेत्युक्तम्, तत्रेदं यजुः - सक्षेदं इत्यादि ॥ हे सक्ष! अभिभवनशील! शत्रूणां अग्ने! । औणादिकः सहेस्सप्रत्ययः । इदं देवयजनं पश्य अनुजानीहि
विश्वास-प्रस्तुतिः
विध॑र्तरि॒दम्प॑श्य ।
मूलम्
विध॑र्तरि॒दम्प॑श्य ।
भट्टभास्कर-टीका
विधर्तः! विविधं धारयितः! सर्वस्य वायो! त्वमपि इदं पश्य ।
विश्वास-प्रस्तुतिः
नाके॒दम्प॑श्य ।
र॒मति॒ᳶ पनि॑ष्ठा ।
ऋ॒तव्ँवर्षि॑ष्ठम् ।
अ॒मृता॒यान्या॒हुः ।
मूलम्
नाके॒दम्प॑श्य ।
र॒मति॒ᳶ पनि॑ष्ठा ।
ऋ॒तव्ँवर्षि॑ष्ठम् ।
अ॒मृता॒यान्या॒हुः ।
भट्टभास्कर-टीका
हे नाक! सुखैकस्थान! आदित्य! त्वमपि हदं पश्य यथेयं देवयजनभूमिः रमतिः रमन्तेऽस्यां देवपितृमनुष्या इति रमतिः । रमेरतिप्रत्ययः । पनिष्ठा च यथा भवति तथा यूयं पश्यत । पनायतिर्व्यवहारकर्मा च असुन्नन्तान्मत्वर्थीयः, तत इष्ठनि विन्मतोर्लुक्, ‘टेः’ इति टिलोपः । ऋतं यज्ञः तच्च वर्षिष्ठं वृद्धतमं यथा भवति तथा पश्यत । ‘प्रियस्थिर’ इत्यादिना वृद्धस्य वर्षादेशः । यानि चान्यानि प्राग्वंशसदोहविर्धानोत्तरवेदिप्रभृतीनि अमृता आहुः अमृतत्वहेतून्वा यान्याहुः तान्यपि वर्षिष्ठानि भवन्तु युष्मद्दृष्ट्या ।
विश्वास-प्रस्तुतिः
सूर्यो॒ वरि॑ष्ठो अ॒क्षभि॒र्विभा॑ति ।
अनु॒ द्यावा॑पृथि॒वी दे॒वपु॑त्रे ।
मूलम्
सूर्यो॒ वरि॑ष्ठो अ॒क्षभि॒र्विभा॑ति ।
अनु॒ द्यावा॑पृथि॒वी दे॒वपु॑त्रे ।
भट्टभास्कर-टीका
सूर्यश्चायं वरिष्ठः उरुतमः । तेनैव सूत्रेण वरादेशः । अक्षभिः अक्षस्थानीयैः रश्मिभिः ‘छन्दस्यपि दृश्यते’ इत्यनङ् । विभाति विविधं भाति यथा यागद्वारेण तथा पश्यत । द्यावापृथिव्यौ च यथा तमेव भान्तमनु भातः देवपुत्त्रे देवाः पुत्त्रस्थानीयाः ययोः, तथा पश्यतेति ॥
विश्वास-प्रस्तुतिः
दी॒क्षाऽसि॒ तप॑सो॒ योनिः॑ ।
मूलम्
दी॒क्षाऽसि॒ तप॑सो॒ योनिः॑ ।
भट्टभास्कर-टीका
2क्षौममादत्ते - दीक्षाऽसीत्यादि यजुः ॥ हे क्षौम! दीक्षा दीक्षासाधनं त्वमसि ।
विश्वास-प्रस्तुतिः
तपो॑ऽसि॒ ब्रह्म॑णो॒ योनिः॑ ॥79॥
मूलम्
तपो॑ऽसि॒ ब्रह्म॑णो॒ योनिः॑ ॥79॥
भट्टभास्कर-टीका
तपसः एकस्नानादेः योनिः कारणं त्वमसि ।
तच्च तपस्त्वमेवासि तस्यापि कारणत्वात् । ब्रह्मणः ब्रह्मवर्चसस्य कर्मणो वा कारणमसि तच्च ब्रह्म त्वमसि । तस्यापि कारणत्वात् ।
विश्वास-प्रस्तुतिः
ब्रह्मा॑सि क्ष॒त्रस्य॒ योनिः॑ ।
मूलम्
ब्रह्मा॑सि क्ष॒त्रस्य॒ योनिः॑ ।
भट्टभास्कर-टीका
क्षत्त्रस्य बलस्य कारणमसि । तच्चापि क्षत्त्रं त्वमसि तस्यापि कारणत्वात् ।
विश्वास-प्रस्तुतिः
ऋ॒तम॑सि॒ भूरार॑भे ।
मूलम्
ऋ॒तम॑सि॒ भूरार॑भे ।
भट्टभास्कर-टीका
ऋतस्य यज्ञस्य योनिः कारणं त्वमसि तच्च ऋतं त्वमेवासि । भूः भावयिता सर्वस्य यो यज्ञः ।
अहं वा भूः यज्ञस्य भावयिता त्वां आरभे गृह्णामि ।
विश्वास-प्रस्तुतिः
श्र॒द्धाम्मन॑सा +++(आरभे)+++।
दी॒क्षान्तप॑सा॒ विश्व॑स्य॒ भुव॑न॒स्याधि॑पत्नीम् +++(आरभे)+++।
मूलम्
श्र॒द्धाम्मन॑सा +++(आरभे)+++।
दी॒क्षान्तप॑सा॒ विश्व॑स्य॒ भुव॑न॒स्याधि॑पत्नीम् +++(आरभे)+++।
भट्टभास्कर-टीका
श्रद्धां चारभे मनसा साह । दीक्षां चारभे तपसा सह । कीदृशीम्? विश्वस्य भुवनस्य भूतजातस्य अधिपत्नीं अधिकं पालयित्रीं यज्ञद्वारेण ।
विश्वास-प्रस्तुतिः
सर्वे॒ कामा॒ यज॑मानस्य सन्तु ।
मूलम्
सर्वे॒ कामा॒ यज॑मानस्य सन्तु ।
भट्टभास्कर-टीका
ततश्च सम्यक् यज्ञनिर्वृत्त्या सर्वेऽपि यजमानस्य सन्तु सम्पद्यन्ताम् ॥
विश्वास-प्रस्तुतिः
वात॑म्प्रा॒णम्मन॑सा॒ऽन्वार॑भामहे ।
प्र॒जाप॑तिय्ँ॒यो भुव॑नस्य गो॒पाः ।
स नो॑ मृ॒त्योस्त्रा॑यता॒म्पात्वँह॑सः ॥80॥
ज्योग्जी॒वा ज॒राम॑शीमहि ।
मूलम्
वात॑म्प्रा॒णम्मन॑सा॒ऽन्वार॑भामहे ।
प्र॒जाप॑तिय्ँ॒यो भुव॑नस्य गो॒पाः ।
स नो॑ मृ॒त्योस्त्रा॑यता॒म्पात्वँह॑सः ॥80॥
ज्योग्जी॒वा ज॒राम॑शीमहि ।
भट्टभास्कर-टीका
3औद्ग्रहणहोमे जपः - वातं प्राणमिति त्रिष्टुप् ॥ वातं सर्वपरिस्पन्दाश्रयं परमात्मानमेव प्राणं प्राणात्मना स्थितं मनसाऽन्वारभामहे अनुक्रमेण परिगृह्णीमः । प्रजापतिं सर्वासां प्रजानां पातारं विशेषेण रक्षितारं यः भुवनस्य भूतस्य स्थावरजङ्गमात्मकस्य गोपाः गोपायिता तं अन्वारभामहे । सः अस्मान् मृत्योः त्रायतां रक्षतु, अंहसश्च पातु । यथा वयं ज्योक् दीर्घकालं जीवाः जीवन्तः जरां अशीमहि पुरुषायुषं जीवित्वैवायुषोऽन्तं व्याप्नुयामः । न तु मध्ये समाप्नुयामः । अश्नोतेर्लटि शपो लुक् ॥
विश्वास-प्रस्तुतिः
इन्द्र॑ शाक्वर गाय॒त्रीम्प्रप॑द्ये ।
मूलम्
इन्द्र॑ शाक्वर गाय॒त्रीम्प्रप॑द्ये ।
भट्टभास्कर-टीका
4कृष्णाजिनस्यानुदिशं मध्ये च स्पर्शने - इन्द्र शाक्वरेति यजुः ॥ हे इन्द्र! शाक्वर! शक्वरसंबन्धिन्! । यद्वा - शाक्वरः यज्ञः तद्वानभेदेनोच्यते तत्प्रियत्वात् । कृष्णाजिनांशस्य तदभेदेन स्तुतिः । गायत्रीं प्राथम्यात् गायत्रीस्थानीयां त्वां प्रपद्ये गायत्रीवत् यज्ञसाधनभूतं वा त्वां आश्रयामि ।
विश्वास-प्रस्तुतिः
तान्ते॑ युनज्मि ।
मूलम्
तान्ते॑ युनज्मि ।
भट्टभास्कर-टीका
तां च गायत्रीं त्वत्संबन्धिनि यागे युनज्मि ।
विश्वास-प्रस्तुतिः
इन्द्र॑ शाक्वर त्रि॒ष्टुभ॒म्प्रप॑द्ये ।
तान्ते॑ युनज्मि ।
इन्द्र॑ शाक्वर॒ जग॑ती॒म्प्रप॑द्ये ।
तान्ते॑ युनज्मि ।
इन्द्र॑ शाक्वरानु॒ष्टुभ॒म्प्रप॑द्ये ।
तान्ते॑ युनज्मि ।
इन्द्र॑ शाक्वर प॒ङ्क्तिम्प्रप॑द्ये ॥81॥
तान्ते॑ युनज्मि ।
मूलम्
इन्द्र॑ शाक्वर त्रि॒ष्टुभ॒म्प्रप॑द्ये ।
तान्ते॑ युनज्मि ।
इन्द्र॑ शाक्वर॒ जग॑ती॒म्प्रप॑द्ये ।
तान्ते॑ युनज्मि ।
इन्द्र॑ शाक्वरानु॒ष्टुभ॒म्प्रप॑द्ये ।
तान्ते॑ युनज्मि ।
इन्द्र॑ शाक्वर प॒ङ्क्तिम्प्रप॑द्ये ॥81॥
तान्ते॑ युनज्मि ।
भट्टभास्कर-टीका
एवं त्रिष्टुबादिषु योज्यम् ॥
विश्वास-प्रस्तुतिः
आऽहन्दी॒क्षाम॑रुहमृ॒तस्य॒ पत्नी॑म् ।
गा॒य॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च ।
ऋ॒तँ स॒त्ये॑ऽधायि ।
स॒त्यमृ॒ते॑ऽधायि ।
ऋ॒तञ्च॑ मे स॒त्यञ्चा॑भूताम् ।
मूलम्
आऽहन्दी॒क्षाम॑रुहमृ॒तस्य॒ पत्नी॑म् ।
गा॒य॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च ।
ऋ॒तँ स॒त्ये॑ऽधायि ।
स॒त्यमृ॒ते॑ऽधायि ।
ऋ॒तञ्च॑ मे स॒त्यञ्चा॑भूताम् ।
भट्टभास्कर-टीका
5उपविश्य मध्ये जपति - आऽहमिति त्रिष्टुम् ॥ यजुरेव वा । अहं ऋतस्य यज्ञस्य पत्नीं पालयित्रीं दीक्षामाऽरुहं दीक्षासाधनं चर्म आरूढोऽस्मि गायत्रेण छन्दसा ब्रह्मणा मन्त्रेण च । इदानीं ऋतं मानसं तथ्यं सत्ये वाचिके तथ्ये अधायि स्थापितम् । सत्यं च ऋते अधायि । अविनाभूते द्वे अपि मयि वर्तेते ते च ऋतसत्ये मे अभूतां पुनःपुनः भवतां भूते वा मम स्ताम् ।
विश्वास-प्रस्तुतिः
ज्योति॑रभूवँ॒ सुव॑रगमम् ।
सु॒व॒र्गल्ँ लो॒कन्नाक॑स्य पृ॒ष्ठम् ।
ब्र॒ध्नस्य॑ वि॒ष्टप॑मगमम् ।
मूलम्
ज्योति॑रभूवँ॒ सुव॑रगमम् ।
सु॒व॒र्गल्ँ लो॒कन्नाक॑स्य पृ॒ष्ठम् ।
ब्र॒ध्नस्य॑ वि॒ष्टप॑मगमम् ।
भट्टभास्कर-टीका
तथा च सति अहं ज्योतिरभूवं परमं ज्योतिरेव संपत्स्ये ततश्च सुवः स्वर्गं अगमं गमिष्यामि । ‘आशंसायां भूतवच्च’ इति भविष्यति लुङ् । ततश्च सर्वमपि स्वर्गाख्यं लोकं गमिष्यामि । ततः नाकस्य अविद्यमानदुःखस्य आदित्यमण्डलस्य पृष्ठं उपरिभागं ब्रध्नस्य परिवृढस्य आत्मनः विष्टप स्थानं परमात्माख्यं गमिष्यामि येनैक्यं गतः परं ब्रह्म जानाति ॥
विश्वास-प्रस्तुतिः
पृ॒थि॒वी दी॒क्षा ॥82॥
तया॒ऽग्निर्दी॒क्षया॑ दीक्षि॒तः ।
मूलम्
पृ॒थि॒वी दी॒क्षा ॥82॥
तया॒ऽग्निर्दी॒क्षया॑ दीक्षि॒तः ।
भट्टभास्कर-टीका
6दण्डं प्रदाय यजमानमन्वारभ्य जपत्यध्वर्युः - पृथिवी दीक्षेत्यादि यजुः ॥ पृथिवी दीक्षा दीक्षासिद्धिहेतुः । यद्वा - पृथिव्येव दीक्षा तद्धेतुत्वात् । तया पृथिव्या दीक्षात्मिकया अग्निः दीक्षितः पृथिव्यात्मिकया वा दीक्षया ।
मूलम्
यया॒ऽग्निर्दी॒क्षया॑ दीक्षि॒तः ।
तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
विश्वास-प्रस्तुतिः
यया॒ऽग्निर्दी॒क्षया॑ दीक्षि॒तस् तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
मूलम्
यया॒ऽग्निर्दी॒क्षया॑ दीक्षि॒तस् तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
भट्टभास्कर-टीका
अथ सः अग्निः यया दीक्षितः तयैव दीक्षया त्वा दीक्षयामि हे यजमान! ।
मूलम्
अ॒न्तरि॑क्षन्दी॒क्षा ।
तया॑ वा॒युर्दी॒क्षया॑ दीक्षि॒तः ।
यया॑ वा॒युर्दी॒क्षया॑ दीक्षि॒तः ।
तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
विश्वास-प्रस्तुतिः
यया॑ वा॒युर्दी॒क्षया॑ दीक्षि॒तस् तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
मूलम्
यया॑ वा॒युर्दी॒क्षया॑ दीक्षि॒तस् तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
मूलम्
द्यौर्दी॒क्षा ।
तया॑ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒तः ।
यया॑ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒तः ॥83॥
तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
विश्वास-प्रस्तुतिः
यया॑ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒तस् तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
मूलम्
यया॑ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒तस् तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
मूलम्
दिशो॑ दी॒क्षा ।
तया॑ च॒न्द्रमा॑ दी॒क्षया॑ दीक्षि॒तः ।
यया॑ च॒न्द्रमा॑ दी॒क्षया॑ दीक्षि॒तः ।
तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
विश्वास-प्रस्तुतिः
यया॑ च॒न्द्रमा॑ दी॒क्षया॑ दीक्षि॒तस् तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
मूलम्
यया॑ च॒न्द्रमा॑ दी॒क्षया॑ दीक्षि॒तस् तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
मूलम्
आपो॑ दी॒क्षा ।
तया॒ वरु॑णो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः ।
यया॒ वरु॑णो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः ।
तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
विश्वास-प्रस्तुतिः
यया॒ वरु॑णो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तस् तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
मूलम्
यया॒ वरु॑णो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तस् तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
मूलम्
ओष॑धयो दी॒क्षा ॥84॥
तया॒ सोमो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः ।
यया॒ सोमो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः ।
तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
विश्वास-प्रस्तुतिः
यया॒ सोमो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तस् तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
मूलम्
यया॒ सोमो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तस् तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
मूलम्
वाग्दी॒क्षा ।
तया॑ प्रा॒णो दी॒क्षया॑ दीक्षि॒तः ।
यया॑ प्रा॒णो दी॒क्षया॑ दीक्षि॒तः ।
तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
विश्वास-प्रस्तुतिः
यया॑ प्रा॒णो दी॒क्षया॑ दीक्षि॒तस् तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
मूलम्
यया॑ प्रा॒णो दी॒क्षया॑ दीक्षि॒तस् तया॑ त्वा दी॒क्षया॑ दीक्षयामि ।
भट्टभास्कर-टीका
एवमन्तरिक्षद्युदिगबोषधिवाक्षु योज्यम् ।
विश्वास-प्रस्तुतिः
पृ॒थि॒वी त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् ।
अ॒न्तरि॑क्षन्त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् ।
द्यौस्त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् ॥85॥
दिश॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
आप॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
ओष॑धयस्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
वाक्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षताम् ।
ऋच॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
सामा॑नि त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
यजूँ॑षि त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
मूलम्
पृ॒थि॒वी त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् ।
अ॒न्तरि॑क्षन्त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् ।
द्यौस्त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् ॥85॥
दिश॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
आप॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
ओष॑धयस्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
वाक्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षताम् ।
ऋच॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
सामा॑नि त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
यजूँ॑षि त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
भट्टभास्कर-टीका
पृथिवी त्वेत्यादि । हे यजमान! त्वां दीक्षमाणं अनु त्वया दीक्षमाणेन सह पृथिव्यपि दीक्षतां त्वत्सिद्ध्यर्थम् । तृतीयार्थेऽनोः कर्मप्रवचनीयत्वम् । एवमन्तरिक्षद्युदिगबोषधिवागृक्सामयजुस्सु द्रष्टव्यम् ।
विश्वास-प्रस्तुतिः
अह॑श्च॒ रात्रि॑श्च +++(त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् )+++।
कृ॒षिश्च॒ वृष्टि॑श्च +++(त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् )+++।
मूलम्
अह॑श्च॒ रात्रि॑श्च +++(त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् )+++।
कृ॒षिश्च॒ वृष्टि॑श्च +++(त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् )+++।
भट्टभास्कर-टीका
अहश्चेत्यादि। अहराद्यभिमानिन्यो देवताश्च त्वा दीक्षमाणमनुदीक्षन्ताम् ।
विश्वास-प्रस्तुतिः
त्विषि॒श्चाप॑चितिश्च +++(त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् )+++॥ 86॥
मूलम्
त्विषि॒श्चाप॑चितिश्च +++(त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् )+++॥ 86॥
भट्टभास्कर-टीका
त्विषिः दीप्तिः ।
अपचितिः पूजा ।
विश्वास-प्रस्तुतिः
आप॒श्चौष॑धयश्च +++(त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् )+++।
ऊर्क्च॑ सू॒नृता॑ च ।
तास्त्वा॒ दीक्ष॑माण॒मनु॑दीक्षन्ताम् ।
मूलम्
आप॒श्चौष॑धयश्च +++(त्वा॒ दीक्ष॑माण॒मनु॑दीक्षताम् )+++।
ऊर्क्च॑ सू॒नृता॑ च ।
तास्त्वा॒ दीक्ष॑माण॒मनु॑दीक्षन्ताम् ।
भट्टभास्कर-टीका
ऊर्क् अन्नम् । सूनृता यज्ञसंपादिनी दैवी वाक् । गतमन्यत् ॥
विश्वास-प्रस्तुतिः
स्वे दक्षे॒ दक्ष॑पिते॒ह सी॑द ।
दे॒वानाँ॑ सु॒म्नो म॑ह॒ते रणा॑य ।
स्वा॒स॒स्थस्त॒नुवा॒ सव्ँ वि॑शस्व ।
पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवः॑ ।
मूलम्
स्वे दक्षे॒ दक्ष॑पिते॒ह सी॑द ।
दे॒वानाँ॑ सु॒म्नो म॑ह॒ते रणा॑य ।
स्वा॒स॒स्थस्त॒नुवा॒ सव्ँ वि॑शस्व ।
पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवः॑ ।
भट्टभास्कर-टीका
7दीक्षणीयायाः पुरस्तात् अग्न्युपस्थानम् - स्वे दक्ष इति त्रिष्टुप् ॥ हे अग्ने! स्वे आत्मीये स्थाने दक्षे प्रवृद्धे इह सीद दक्षपिता दक्षाः पातारः यजमानाः यस्य तादृशः त्वम् । देवानामपि सुम्नः सुखहेतुः महते रणाय रमणाय । छान्दसो व्यञ्जनलोपः । देवानां वा रमणाय । स्वासस्थः शोभनासनस्थितः भूत्वा तनुवा शरीरेण प्रवृद्धेन संविशस्व । संविष्टश्च अस्मभ्यं सुशेवः सुसुखः आ समन्तात् एधि भव पिता सूनव इव । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
शि॒वो मा॑ शि॒वमावि॑श ।
स॒त्यम्म॑ आ॒त्मा ।
मूलम्
शि॒वो मा॑ शि॒वमावि॑श ।
स॒त्यम्म॑ आ॒त्मा ।
भट्टभास्कर-टीका
8शिवो मेति यजुः ॥ आदौ वा एकपदा गायत्री ॥ शिवः शान्तोपद्रवः त्वं मामपि तादृशं कृत्वा आविश । ततः त्वत्प्रसादात् मम आत्मा स्वभावः सत्यमस्तु सत्यस्वभावः भूयासम् ।
विश्वास-प्रस्तुतिः
श्र॒द्धा मेऽक्षि॑तिः ॥87॥
मूलम्
श्र॒द्धा मेऽक्षि॑तिः ॥87॥
भट्टभास्कर-टीका
तथा मम क्षितिः निवासाधारः श्रद्धाऽस्तु श्रद्धायां निवसानि ।
विश्वास-प्रस्तुतिः
तपो॑ मे प्रति॒ष्ठा ।
मूलम्
तपो॑ मे प्रति॒ष्ठा ।
भट्टभास्कर-टीका
तथैव मम तपः प्रतिष्ठाऽस्तु तपस्येव बद्धमूलो भवानि ।
विश्वास-प्रस्तुतिः
स॒वि॒तृप्र॑सूता मा॒ दिशो॑ दीक्षयन्तु ।
मूलम्
स॒वि॒तृप्र॑सूता मा॒ दिशो॑ दीक्षयन्तु ।
भट्टभास्कर-टीका
एवञ्च - सवितृप्रसूताः सवित्रैवानुज्ञाता दिशः मा दीक्षयन्तु दीक्षाफलसिद्ध्या मां योजयन्तु सर्वत्र वा मां दीक्षितत्वेन ख्यापयन्तु ।
विश्वास-प्रस्तुतिः
स॒त्यम॑स्मि ।
मूलम्
स॒त्यम॑स्मि ।
भट्टभास्कर-टीका
इदानीं अहं सत्यमेव परं ब्रह्मास्मि न मर्त्यः ॥
विश्वास-प्रस्तुतिः
अ॒हन्त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् ।
ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि ।
ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने ।
पु॒त्रᳶ पि॒त्रे लो॑क॒कृज्जा॑तवेदः ।
मूलम्
अ॒हन्त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् ।
ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि ।
ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने ।
पु॒त्रᳶ पि॒त्रे लो॑क॒कृज्जा॑तवेदः ।
भट्टभास्कर-टीका
9प्रायणीयायाः पुरस्तात् आहवनीयोपस्थाने - अहं त्वमिति त्रिष्टुप् ॥ ‘उद्धन्यमानम्’ इत्यत्र व्याख्याता ॥
- 17सप्तदशीमाह - हे अग्ने! अहं त्वदस्मि त्वत्तः सकाशाद्यजमानोऽस्मि त्वमप्येतद्रूपं मदसि मत्तः सकाशादेतदाहवनीयरूपं प्राप्तोसि ॥ मया ह्याधीयमानस्य तव आहवनीयत्वम् ॥ अतः कारणात् त्वं मम योनिः कारणमसि ॥ अहं च तव योनिः कारणमस्मि ॥ हे अग्ने! ममैव सन् त्वं मदीय एव भूत्वा हव्यानि वह ॥ हे जातवेदः! सर्वजगदभिज्ञ! यथा लोके पुत्रः पित्रे लोककृत् स्थानसंपादको भवति अतो यथा मया तव स्थानं संपादितं तथा त्वयाऽपि भम पुण्यलोकः संपादनीया ॥ एतस्य मन्त्रस्य फलचमसे विनियोगमापस्तम्ब आह - ‘अहं त्वदस्मि मदसीत्यङ्गारे हुत्वा तस्मै भक्षं प्रयच्छेत्’ इति ॥
विश्वास-प्रस्तुतिः
आ॒जुह्वा॑नस्सु॒प्रती॑कᳶ पु॒रस्ता॑त् ।
अग्ने॒ स्वाय्ँ योनि॒मा सी॑द सा॒ध्या ।
अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मिन्न् ॥88॥
विश्वे॑ देवा॒ यज॑मानश्च सीदत ।
मूलम्
आ॒जुह्वा॑नस्सु॒प्रती॑कᳶ पु॒रस्ता॑त् ।
अग्ने॒ स्वाय्ँ योनि॒मा सी॑द सा॒ध्या ।
अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मिन्न् ॥88॥
विश्वे॑ देवा॒ यज॑मानश्च सीदत ।
भट्टभास्कर-टीका
10आजुह्वान इति च त्रिष्टुम् ॥ ‘प्राचीमनु प्रदिशम्’ इत्यत्र व्याख्याता ॥
-
आ॒जुह्वा॑नस्सु॒प्रती॑कᳶ पु॒रस्ता॒दग्ने॒ स्वाय्ँयोनि॒मा सी॑द सा॒ध्या ।
अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवाः [23]यज॑मानश्च सीदत ।- टीका अथ तृतीयामाह— आजुह्वानः सुप्रतीक इति। हेऽग्ने त्वमाजुह्वान आभिमुख्येन हूयमानः सुप्रतीकः सुमुखः सन्पुरस्तात्पूर्वस्यां दिशि साध्या साध्वीं समीचीनां स्वां योनिं स्वकीयं स्थानमासीदाऽऽगत्य प्राप्नुहि। हे विश्वे देवा यूयं यजमानश्चस्गिन्पुरोवर्तिनि सघस्थेऽग्निना सह स्थातुं योग्येऽध्युत्तरस्मिन्नधिकमुत्कृष्टे स्थाने सीदतोपविशत। एतान्मन्त्रान्विनियुङ्क्ते —
“तिसृभिः सादयति त्रिवृद्वा अग्निर्यावानेवाग्निस्तं प्रतिष्ठां गमयति” [सं. का. ५ प्र. ४ अ. ७] इति।
- टीका अथ तृतीयामाह— आजुह्वानः सुप्रतीक इति। हेऽग्ने त्वमाजुह्वान आभिमुख्येन हूयमानः सुप्रतीकः सुमुखः सन्पुरस्तात्पूर्वस्यां दिशि साध्या साध्वीं समीचीनां स्वां योनिं स्वकीयं स्थानमासीदाऽऽगत्य प्राप्नुहि। हे विश्वे देवा यूयं यजमानश्चस्गिन्पुरोवर्तिनि सघस्थेऽग्निना सह स्थातुं योग्येऽध्युत्तरस्मिन्नधिकमुत्कृष्टे स्थाने सीदतोपविशत। एतान्मन्त्रान्विनियुङ्क्ते —
विश्वास-प्रस्तुतिः
एक॑मि॒षे विष्णु॒स्त्वाऽन्वे॑तु ।
मूलम्
एक॑मि॒षे विष्णु॒स्त्वाऽन्वे॑तु ।
भट्टभास्कर-टीका
11सोमक्रयण्यै पादानुमन्त्रणे जपः - एकमिष इत्यादि यजुः ॥ हे सोमक्रयणि! तव एकं पदं इषे अन्नाय विष्णुः अन्वेतु यावदेकपदक्रमणं त्वामनु गच्छतु । विष्णुः व्यापकः देवः त्वा त्वां व्याप्नोतु, तस्यैवायं पदक्रमः भूयादिति भवः । इषे अन्नसमृद्धये ।
विश्वास-प्रस्तुतिः
द्वे ऊ॒र्जे विष्णु॒स्त्वाऽन्वे॑तु ।
मूलम्
द्वे ऊ॒र्जे विष्णु॒स्त्वाऽन्वे॑तु ।
भट्टभास्कर-टीका
अथ द्वे पदे यावत्पदद्वयक्रमणं विष्णुः त्वां अन्वेतु ऊर्जे रसाय क्षीरादिसमृद्धये । एवं सर्वत्र ।
विश्वास-प्रस्तुतिः
त्रीणि॑ व्र॒ताय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
मूलम्
त्रीणि॑ व्र॒ताय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
भट्टभास्कर-टीका
व्रताय कर्मसमृद्धये ।
विश्वास-प्रस्तुतिः
च॒त्वारि॒ मायो॑भवाय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
मूलम्
च॒त्वारि॒ मायो॑भवाय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
भट्टभास्कर-टीका
मायोभवाय प्राणसमृद्धये मयोभूः वातः तत्सम्बन्धी मायोभवः । उत्सादित्वादञ् ।
विश्वास-प्रस्तुतिः
पञ्च॑ प॒शुभ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
मूलम्
पञ्च॑ प॒शुभ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
भट्टभास्कर-टीका
पशुभ्यः द्विपाच्चतुष्पाल्लक्षणेभ्यः ।
विश्वास-प्रस्तुतिः
षड्रा॒यस्पोषा॑य॒ विष्णु॒स्त्वाऽन्वे॑तु ।
मूलम्
षड्रा॒यस्पोषा॑य॒ विष्णु॒स्त्वाऽन्वे॑तु ।
भट्टभास्कर-टीका
रायस्पोषाय धनसमृद्ध्यै ।
विश्वास-प्रस्तुतिः
स॒प्त स॒प्तभ्यो॒ होत्रा॑भ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
मूलम्
स॒प्त स॒प्तभ्यो॒ होत्रा॑भ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
भट्टभास्कर-टीका
सप्तभ्यः होत्राभ्यः तासां स्वकार्यसामर्थ्याय ॥
विश्वास-प्रस्तुतिः
सखा॑यस्स॒प्तप॑दा अभूम ।
मूलम्
सखा॑यस्स॒प्तप॑दा अभूम ।
भट्टभास्कर-टीका
12सप्तमे पदे जपः - सखाय इति यजुः ॥ आदौ वा एकपदा गायत्री ॥ हे सोपक्रयणि! मम सखा त्वं भव । समानख्यानः जनः सखा । यस्मात्त्वं सप्तपदा मया सह सप्तपदानि त्वया क्रान्तानि अतः सप्तपदपरिच्छिन्नकालवर्तिना संबन्धेन त्वं सखा अस्माकं भव । वयं च सप्तपदाः तव सखायः अभूम ।
विश्वास-प्रस्तुतिः
स॒ख्यन्ते॑ गमेयम् ॥89॥
मूलम्
स॒ख्यन्ते॑ गमेयम् ॥89॥
भट्टभास्कर-टीका
अतः इदानीं सर्वकालं तव सख्यं गमेयं गम्यासं अनेन साप्तपदीनेन सख्येन हेतुना । ‘सख्युर्यः’ इति यः । गमेः लिङत्राशिष्यङ् ।
विश्वास-प्रस्तुतिः
स॒ख्यात्ते॒ मा यो॑षम् ।
मूलम्
स॒ख्यात्ते॒ मा यो॑षम् ।
भट्टभास्कर-टीका
किञ्च - तव सख्यात् सार्वकालिकात् अहं मा योषं पृथक्सिद्धो मा भूवम् ।
विश्वास-प्रस्तुतिः
स॒ख्यान्मे॒ मा यो॑ष्ठाः ।
मूलम्
स॒ख्यान्मे॒ मा यो॑ष्ठाः ।
भट्टभास्कर-टीका
त्वमपि मदीयात् सख्यात् मा योष्ठाः मा वियुक्ता भूः । यौतेर्लुङि सिचि वृद्ध्यभावः छान्दसः आत्मनेपदं च ॥
विश्वास-प्रस्तुतिः
साऽसि॑ सुब्रह्मण्ये ।
तस्या॑स्ते पृथि॒वी पादः॑ ।
मूलम्
साऽसि॑ सुब्रह्मण्ये ।
तस्या॑स्ते पृथि॒वी पादः॑ ।
भट्टभास्कर-टीका
13सुब्रह्मण्यायामाहूयमानायां जपति - साऽसीति यजुः ॥ ‘सुब्रह्मण्योम्’ इत्यादिः निगदविशेषः । सुब्रह्मण्या सुब्रह्मण्यशब्दवत्त्वात् । हे सुब्रह्मण्ये! सैव पङ्क्तिः पञ्चपदा त्वमसि । यस्यायं पाङ्क्तः यज्ञः तस्याः पङ्क्त्यात्मिकायाः तव पृथिव्येव प्रथमः पादः ।
विश्वास-प्रस्तुतिः
साऽसि॑ सुब्रह्मण्ये ।
तस्या॑स्ते॒ऽन्तरि॑क्ष॒म्पादः॑ ।
मूलम्
साऽसि॑ सुब्रह्मण्ये ।
तस्या॑स्ते॒ऽन्तरि॑क्ष॒म्पादः॑ ।
भट्टभास्कर-टीका
अन्तरिक्षं द्वितीयः ।
विश्वास-प्रस्तुतिः
साऽसि॑ सुब्रह्मण्ये ।
तस्या॑स्ते॒ द्यौᳶ पादः॑ ।
मूलम्
साऽसि॑ सुब्रह्मण्ये ।
तस्या॑स्ते॒ द्यौᳶ पादः॑ ।
भट्टभास्कर-टीका
द्यौः तृतीयः ।
विश्वास-प्रस्तुतिः
साऽसि॑ सुब्रह्मण्ये ।
तस्या॑स्ते॒ दिश॒ᳶ पादः॑ ॥90॥
मूलम्
साऽसि॑ सुब्रह्मण्ये ।
तस्या॑स्ते॒ दिश॒ᳶ पादः॑ ॥90॥
भट्टभास्कर-टीका
दिशः चतुर्थः ।
विश्वास-प्रस्तुतिः
प॒रोर॑जास्ते पञ्च॒मᳶ पादः॑ ।
मूलम्
प॒रोर॑जास्ते पञ्च॒मᳶ पादः॑ ।
भट्टभास्कर-टीका
तव पञ्चमः पादः परोरजाः रजांसि लोकाः तमांसि भूतानि एभ्यः परस्तात् यः लोकः आदित्यात्मा स पञ्चमः । पारस्करादित्वात् सुट्, राजदन्तादित्वात्परनिपातः ।
विश्वास-प्रस्तुतिः
सा न॒ इष॒मूर्ज॑न्धुक्ष्व ।
तेज॑ इन्द्रि॒यम् ।
ब्र॒ह्म॒व॒र्च॒सम॒न्नाद्य॑म् ।
मूलम्
सा न॒ इष॒मूर्ज॑न्धुक्ष्व ।
तेज॑ इन्द्रि॒यम् ।
ब्र॒ह्म॒व॒र्च॒सम॒न्नाद्य॑म् ।
भट्टभास्कर-टीका
तादृशी त्वं अस्मभ्यं इडादीनि धुक्ष्व देहि ॥
विश्वास-प्रस्तुतिः
विमि॑मे त्वा॒ पय॑स्वतीम् ।
दे॒वाना॑न्धे॒नुँ सु॒दुघा॒मन॑पस्फुरन्तीम् ।
इन्द्र॒स्सोम॑म्पिबतु ।
क्षेमो॑ अस्तु नः ।
मूलम्
विमि॑मे त्वा॒ पय॑स्वतीम् ।
दे॒वाना॑न्धे॒नुँ सु॒दुघा॒मन॑पस्फुरन्तीम् ।
इन्द्र॒स्सोम॑म्पिबतु ।
क्षेमो॑ अस्तु नः ।
भट्टभास्कर-टीका
14महावेदिं विमिमीते - विमिम इत्यनुष्टुप् । ह्रसितचतुर्था, विवृद्धद्वितीया ॥ हे वेदे! त्वां विमिमे विविधं परिच्छिनद्मि पयस्वतीं हविर्भिः अन्नवतीं वृष्टिहेतुं वा यागद्वारेण, देवानां धेनुं धेनुस्थानीयां धेनुवत् प्रीणयित्रीं हविषामाधारत्वात् सुदुघां सुष्ठु कामानां दोग्ध्रीम् । ‘दुहः कप् घश्च’ इति कप् । अनपस्फुरन्तीं प्रातिकूल्यमप्रतिपद्यमानाम् । कैमर्थक्येनेत्याह - अस्माकं सोमं इन्द्रः पिबतु । तेन अस्माकं क्षेमः रक्षाऽस्तु । इन्द्रो वा अस्माकं क्षेमकार्यस्तु ॥
विश्वास-प्रस्तुतिः
इ॒मान्न॑राᳵ कृणुत॒ वेदि॒मेत्य॑ ।
वसु॑मतीँ रु॒द्रव॑तीमादि॒त्यव॑तीम् ॥91॥
वर्ष्म॑न्दि॒वः ।
नाभा॑ पृथि॒व्याः ।
यथा॒ऽयय्ँयज॑मानो॒ न रिष्ये॑त् ।
दे॒वस्य॑ सवि॒तुस्स॒वे ।
मूलम्
इ॒मान्न॑राᳵ कृणुत॒ वेदि॒मेत्य॑ ।
वसु॑मतीँ रु॒द्रव॑तीमादि॒त्यव॑तीम् ॥91॥
वर्ष्म॑न्दि॒वः ।
नाभा॑ पृथि॒व्याः ।
यथा॒ऽयय्ँयज॑मानो॒ न रिष्ये॑त् ।
दे॒वस्य॑ सवि॒तुस्स॒वे ।
भट्टभास्कर-टीका
15वेदिकरणे जपति - इमां नरा इति । प्रैष इत्यन्ये । इयमतिजगती पञ्चपदा ॥ ‘वर्ष्मन् दिवो नाभा पृथिव्याः’ इत्येकः पादः । हे नराः! मनुष्याः इमां वेदिं आगत्य कृणुत । कीदृशीं? वस्वादिभिः तद्वतीं वर्ष्मन् दिवः द्युलोकस्य उच्छ्रायहेतौ द्युलोकादप्युच्छ्रिते वाऽस्मिन् स्थाने पृथिव्याः नाभा नाभिस्थानीये नहनस्थाने वा पृथिव्याः । सप्तम्या डादेशः । यथाऽयं यजमानः न रिष्येत् न हीयेत फलात्तथा कृणुत । कस्त्वमस्मान्नियोक्तुमिति चेत् न ब्रूमः अस्मन्नियोगात्कृणुतेति । अपि तु देवस्य सवितुः सर्वस्य प्रेरयितुः सवे अनुज्ञायां वर्तमानाः कृणुत । स एव युष्मान् कारयतीति । ‘सवजवौ छन्दसि’ इति सवशब्दोऽन्तोदात्तः ॥
विश्वास-प्रस्तुतिः
चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः॑ ।
घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये॑ ।
तस्याँ॑ सुप॒र्णावधि॒ यौ निवि॑ष्टौ ।
तयो॑र्दे॒वाना॒मधि॑ भाग॒धेय॑म् ।
मूलम्
चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः॑ ।
घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये॑ ।
तस्याँ॑ सुप॒र्णावधि॒ यौ निवि॑ष्टौ ।
तयो॑र्दे॒वाना॒मधि॑ भाग॒धेय॑म् ।
भट्टभास्कर-टीका
16कृतां वेदिमनुमन्त्रयते - चतुश्शिखण्डेति त्रिष्टुभा ॥ पूर्वार्धर्चः ‘उद्धन्यमानम्’ इत्यत्र व्याख्यातः ।
- वेदेन वेद्यां संमृज्यमानायां जपति - चतुश्शिखण्डेति त्रिष्टुप् ॥ चतुश्शिंखण्डा भूषणस्थानीयैः चतुर्भिः ऋत्विग्भिः युक्ता चतुष्कोणा वा युवतिः आकारेण युत्रतिसदृशी ‘पुरस्तादणीयसी पश्चात्प्रथीयसी मध्ये सन्नततरैवमिव हि योषा’ इति श्रुतेः । सुपेशाः सुरूपा । आद्युदात्तः ‘द्व्यचश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । घृतप्रतीका घृतमुखा धृतप्रक्रमा प्रथमं तत्र तेषां स्थापनात्, यज्ञद्वारेण वर्षोपक्रमस्थानभूता वा, भुवनस्य यज्ञगृहस्य मध्ये समस्तस्य वा भुवनस्य मध्ये यथोक्तविशिष्टरूपा
तस्यां तादृश्यां वेद्यां अधि उपरि यौ निविष्टौ सुपर्णौ शोभनपतनौ अग्निश्च मध्यमश्च पर्जन्यः तदधीनप्रवृत्तित्वात् द्वयोः । ततः हवींषि देवेभ्यो वहति कश्चित् । तस्यां हवींषि देवार्थमावहत्यन्यः वृष्ट्या तदुत्पादकत्वात् । तदेवाह - एवं तयोः अधिरूढं देवानां भागधेयम् । एवं वेद्या एव स्तुतिः ॥
विश्वास-प्रस्तुतिः
अ॒प जन्य॑म्भ॒यन्नु॑द ।
अप॑ च॒क्राणि॑ वर्तय ।
गृ॒हँ सोम॑स्य गच्छतम् ।
मूलम्
अ॒प जन्य॑म्भ॒यन्नु॑द ।
अप॑ च॒क्राणि॑ वर्तय ।
गृ॒हँ सोम॑स्य गच्छतम् ।
भट्टभास्कर-टीका
17अन्तर्वेद्यां लोष्टमादाय बहिः क्षिपति - अप जन्यमिति गायत्र्या ॥ हे हविर्धान! जन्यं जनेषु सर्वेषु भवं भयं अपनुद नाशय लोष्टनिरसनद्वारेण । चक्राणि परबलानि च अपवर्तय अपगमय । प्रत्येकमुच्यते । एवं युवाभ्यां कृते कर्मसिद्ध्यर्थं इदानीं अविघ्नेन युवां सोमस्य गृहं गच्छतम् ॥
विश्वास-प्रस्तुतिः
न वा उ॑ वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि ।
दे॒वाँ इदे॑षि प॒थिभि॑स्सु॒गेभिः॑ ।
यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ ।
तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु ॥92॥
मूलम्
न वा उ॑ वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि ।
दे॒वाँ इदे॑षि प॒थिभि॑स्सु॒गेभिः॑ ।
यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ ।
तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु ॥92॥
भट्टभास्कर-टीका
18संज्ञपने परावर्तते यजमानः - न वा उवेतदिति जगत्या ॥ प्रथमोऽर्धर्चः ‘ये वाजिनम्’ इत्यत्र व्याख्यातः । यत्र सुकृत एव यन्ति न दुष्कृतोऽपि, तत्र स्थाने देवः सविता त्वा दधातु स्थापयतु ॥
- न वा उ॑ वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे॑षि प॒थिभि॑स्सु॒गेभिः॑ ।
हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ।- टीका अथ दशमी (मृच) माह– न वा उवेतदिति। शास्त्रानभिज्ञानां लौकिकानां दृष्ट्या त्वमेतत्प्रत्यक्ष मेव म्नियसे शमितृभिर्हिस्यसे च । शास्त्रादृष्ट्या तु त्वं न वा उवेतन्म्नियस एत २२२३ न्मरणमेव न भवति, न च रिष्यसि नापि शमितृभिर्हिस्यसे, किंतु सुगेभिः पथिमिः सुगममार्गैर्देवानिदेषि देवानेव प्राप्नोषि । तत्र देवेषु मध्य इन्द्रत्वं प्राप्तस्य ते हरी हरिनामकावश्वौ रथे युक्तावभूतां सर्वथा भविष्यतः। * एवं तथा मरुद्रूपं प्राप्तस्य ते पृषती चित्रवर्णे अश्वस्त्रियौ युञ्जावभूतां रथे युक्तौ भविष्यतः। इदानीं रासभस्य धुरि वर्तमानस्व गर्दभवद्भारवाहिनस्तव वाज्युपास्थात्त्वां वोढुं कश्चित्प्रौढोऽश्वः प्राप्तो भविष्यति ।
इति तैत्तिरीयब्राह्मणे तृतीये सप्तमे अच्छिद्रेषु सप्तमोऽनुवाकः ॥