०६ ऐष्टिकयाजमानमन्त्राः

विश्वास-प्रस्तुतिः

परि॑स्तृणीत॒ परि॑धत्ता॒ग्निम् ।
परि॑हितो॒ऽग्निर्यज॑मानम्भुनक्तु ।
अ॒पाँ रस॒ ओष॑धीनाँ सु॒वर्णः॑ ।
नि॒ष्का इ॒मे यज॑मानस्य सन्तु ..
काम॒दुघाः॑ । अ॒मुत्रा॒मुष्मिल्ँ॑ लो॒के ।

मूलम्

परि॑स्तृणीत॒ परि॑धत्ता॒ग्निम् ।
परि॑हितो॒ऽग्निर्यज॑मानम्भुनक्तु ।
अ॒पाँ रस॒ ओष॑धीनाँ सु॒वर्णः॑ ।
नि॒ष्का इ॒मे यज॑मानस्य सन्तु ..
काम॒दुघाः॑ । अ॒मुत्रा॒मुष्मिल्ँ॑ लो॒के ।

भट्टभास्कर-टीका

1दोहनानन्तरकालं संप्रैषः, परिस्तरणमन्त्रो वा - परिस्तृणीतेति पञ्चपदा शक्वरी ॥ ‘सन्तु’ इति चतुर्थपादान्तः । प्रैषपुरुषा दर्भा वा उच्यन्ते । परिस्तृणीत परितः छादयत अग्निं परिधत्त परितो धारयत आच्छादयत वा । ततः तथा युष्माभिः परिहितोऽग्निः यजमानं युनक्तु । ततश्च अपां सारभूताः ते दर्भाः ओषधीनां मध्ये सुवर्णाः अस्य यजमानस्य निष्काः अलङ्कारभूताः कामदुघाश्च सन्तु । अमुत्र परत्र लोके अमुष्मिन् ऐन्द्रादौ यत्रेच्छति भोक्तुम् ॥

विश्वास-प्रस्तुतिः

भूप॑ते॒ भुव॑नपते ।
म॒ह॒तो भू॒तस्य॑ पते ।
ब्र॒ह्माण॑न्त्वा वृणीमहे ।

मूलम्

भूप॑ते॒ भुव॑नपते ।
म॒ह॒तो भू॒तस्य॑ पते ।
ब्र॒ह्माण॑न्त्वा वृणीमहे ।

भट्टभास्कर-टीका

2ब्रह्माणं वृणीते - भूपत इत्यादि यजुः । आद्या वा गायत्री ॥ हे भूपते! यागद्वारेण पृथिव्याः पालयितः! भुवनपते! भवनस्य अन्तरिक्षस्य पालयितः! महतो भूतस्य द्युलोकस्य च पालयितः! । यद्वा - सर्वत्र ब्रह्मणा अभेदेनोच्यते । भुवां पते! सर्वस्य भूतजातस्य पते! भुवनानां लोकानां पते! महतो भूतस्य आकाशादेरपि पते! तादृशं त्वां ब्रह्माणं वयं वृणीमहे ॥

विश्वास-प्रस्तुतिः

अ॒हम्भूप॑तिर॒हम्भुव॑नपतिः ।
अ॒हम्म॑ह॒तो भू॒तस्य॒ पतिः॑ ॥55॥
दे॒वेन॑ सवि॒त्रा प्रसू॑त॒ आर्त्वि॑ज्यङ्करिष्यामि ।

मूलम्

अ॒हम्भूप॑तिर॒हम्भुव॑नपतिः ।
अ॒हम्म॑ह॒तो भू॒तस्य॒ पतिः॑ ॥55॥
दे॒वेन॑ सवि॒त्रा प्रसू॑त॒ आर्त्वि॑ज्यङ्करिष्यामि ।

भट्टभास्कर-टीका

3अथ वृतो ब्रह्मा जपति - अहमिति यजुः ॥ अहं भू पतिः भुवनपतिः महतो भूतस्य पतिः, सोऽहं देवेन सवित्रा प्रसूतः प्रेरितः उदयादिनाऽनुज्ञातः आर्त्विज्यं ब्रह्मत्वं करिष्यामि ।

विश्वास-प्रस्तुतिः

देव॑ सवितरे॒तन्त्वा॑ वृणते ।
बृह॒स्पति॒न्दैव्य॑म्ब्र॒ह्माण॑म् ।
तद् अ॒हम् मन॑से॒ प्रब्र॑वीमि ।

मूलम्

देव॑ सवितरे॒तन्त्वा॑ वृणते ।
बृह॒स्पति॒न्दैव्य॑म्ब्र॒ह्माण॑म् ।
तद॒हम्मन॑से॒ प्रब्र॑वीमि॒…

भट्टभास्कर-टीका

हे देव! सवितः! सर्वस्य प्रेरयितः!
एवं त्वाम् एवैतं ऋत्विग् यजमानाः मां वृणते । सवितारं विशिनष्टि - बृहस्पतिं बृहतां कर्मणां पतिं पालयितारं, सुट्, तलोपश्च । दैव्यं देवानां संबन्धिनं ब्रह्माणं ईदृशं त्वामेव मद्वरणापदेशेन वृणते, तस्मात् त्वमेव बृहस्पतिः कथं नाम वृतस्स्या इति तदर्थं एतदहं मनसे प्रब्रवीमि ख्यापयामि तदुपक्रमत्वात् सर्वप्रवृत्तीनाम् ।

विश्वास-प्रस्तुतिः

मनो॑ गायत्रि॒यै,
गाय॒त्री त्रि॒ष्टुभे॑ ,
त्रि॒ष्टुब् जग॑त्यै॒,
जग॑त्य् अनु॒ष्टुभे॑ , अनु॒ष्टुक् प॒ङ्क्त्यै,
प॒ङ्क्तिᳶ प्र॒जाप॑तये
प्र॒जाप॑ति॒र् विश्वे॑भ्यो दे॒वेभ्यः॑
विश्वे॑ दे॒वा बृह॒स्पत॑ये
बृह॒स्पति॒र् ब्रह्म॑णे
ब्रह्म॒ भूर्भुव॒स्सुवः॑।

मूलम्

मनो॑ गायत्रि॒यै +++(ब्रवीतु)+++।
गा॒य॒त्री त्रि॒ष्टुभे॑ +++(ब्रवीतु)+++ ।
त्रि॒ष्टुब्जग॑त्यै +++(ब्रवीतु)+++।
जग॑त्यनु॒ष्टुभे॑ +++(ब्रवीतु)+++ ।
अ॒नु॒ष्टुक्प॒ङ्क्त्यै +++(ब्रवीतु)+++।
प॒ङ्क्तिᳶ प्र॒जाप॑तये +++(ब्रवीतु)+++॥56॥

प्र॒जाप॑ति॒र्विश्वे॑भ्यो दे॒वेभ्यः॑ +++(ब्रवीतु)+++।
विश्वे॑ दे॒वा बृह॒स्पत॑ये +++(ब्रवीतु)+++।
बृह॒स्पति॒र्ब्रह्म॑णे +++(ब्रवीतु)+++।
ब्रह्म॒ भूर्भुव॒स्सुवः॑ +++(ब्रवीतु)+++।

भट्टभास्कर-टीका

ततः तत् मनो गायत्रियै प्रब्रवीतु, गायत्री च त्रिष्टुभ इत्यादि यावद्ब्रह्म । वसतिवरणाय प्रवचनं योजनीयम् ।

अथ ब्रह्म च परमेष्ठी भूर्भुवस्सुवः त्रैलोक्ये प्रब्रवीतु सर्वात्मत्वात्तस्य । यद्वा - त्रैलोक्यात्मकं ब्रह्म स एव बृहस्पतिः,

विश्वास-प्रस्तुतिः

बृह॒स्पति॑र्दे॒वाना॑म्ब्र॒ह्मा ।
अ॒हम्म॑नु॒ष्या॑णाम् ।

मूलम्

बृह॒स्पति॑र्दे॒वाना॑म्ब्र॒ह्मा ।
अ॒हम्म॑नु॒ष्या॑णाम् ।

भट्टभास्कर-टीका

स खलु तादृशो बृहस्पतिः देवानां ब्रह्मा स्वेनैव रूपेण, अहं तु तद्रूपेण वर्तमानो मनुष्याणां ब्रह्मा । एते च मां त्वद्रूपेण वृणते ।

विश्वास-प्रस्तुतिः

बृह॑स्पते य॒ज्ञङ्गो॑पाय ।

मूलम्

बृह॑स्पते य॒ज्ञङ्गो॑पाय ।

भट्टभास्कर-टीका

अतो हे बृहस्पते! त्वमेव यज्ञं गोपाय अहमपि त्वद्रूपेण गोपयामि । एवं देवेन सवित्रा प्रसूतः आर्त्विज्यं करिष्यामि ॥

विश्वास-प्रस्तुतिः

इ॒दन्तस्मै॑ ह॒र्म्यङ्क॑रोमि ।
यो वो॑ देवा॒श्चर॑ति ब्रह्म॒चर्य॑म् ।
मे॒धा॒वी दि॒क्षु मन॑सा तप॒स्वी ॥57॥
अ॒न्तर्दू॒तश्च॑रति॒ मानु॑षीषु ।

मूलम्

इ॒दन्तस्मै॑ ह॒र्म्यङ्क॑रोमि ।
यो वो॑ देवा॒श्चर॑ति ब्रह्म॒चर्य॑म् ।
मे॒धा॒वी दि॒क्षु मन॑सा तप॒स्वी ॥57॥
अ॒न्तर्दू॒तश्च॑रति॒ मानु॑षीषु ।

भट्टभास्कर-टीका

4उत्कराभिग्रहणे जपः - इदं तस्मा इति त्रिष्टुप् ॥ हे देवाः! तस्मै तदर्थं इदं हर्म्यं स्थानं यज्ञार्हं करोमि, कस्मै युष्माकं ब्रह्मचर्यं यश्चरति व्रतपतिः अग्निः । कीदृशः? मेधावी प्रज्ञावान् तपस्वी नित्यतपाः एवंभूतः यः मानुषीषु दिक्षु प्रज्ञाविभागेषु दूतः चरति हिताहितप्राप्तिपरिहारोपायज्ञः वर्तते अन्तः मध्ये मनसा प्रशस्तेनेत्थंभूतः, तस्मै इदं करोमीति ॥

विश्वास-प्रस्तुतिः

चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः॑ ।
घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये॑ ।
म॒र्मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय ।
मह्य॑न्धुक्ष्व॒ यज॑मानाय॒ कामा॑न् ।

मूलम्

चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः॑ ।
घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये॑ ।
म॒र्मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय ।
मह्य॑न्धुक्ष्व॒ यज॑मानाय॒ कामा॑न् ।

भट्टभास्कर-टीका

5वेदेन वेद्यां संमृज्यमानायां जपति - चतुश्शिखण्डेति त्रिष्टुप् ॥ चतुश्शिंखण्डा भूषणस्थानीयैः चतुर्भिः ऋत्विग्भिः युक्ता चतुष्कोणा वा युवतिः आकारेण युत्रतिसदृशी ‘पुरस्तादणीयसी पश्चात्प्रथीयसी मध्ये सन्नततरैवमिव हि योषा’ इति श्रुतेः । सुपेशाः सुरूपा । आद्युदात्तः ‘द्व्यचश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । घृतप्रतीका घृतमुखा धृतप्रक्रमा प्रथमं तत्र तेषां स्थापनात्, यज्ञद्वारेण वर्षोपक्रमस्थानभूता वा, भुवनस्य यज्ञगृहस्य मध्ये समस्तस्य वा भुवनस्य मध्ये यथोक्तविशिष्टरूपा महते सौभगाय सुश्रीकत्वाय मर्मृज्यमाना शोध्यमाना वेदेन । ‘सुभगान्मन्त्रे’ इत्यञ् । ‘हृद्भगसिन्ध्वन्ते’ इत्युभयपदवृद्धिरस्मिन्विषये नेष्यते । सा त्वं मह्यं यजमानाय कामान् धुक्ष्व देहि ॥

  • वेदिं संसृज्यमानामनुमन्त्रयते - चतुश्शिखण्डेति त्रिष्टुभा ॥ चत्वारश्शिखण्डाः शिखण्डस्थानीथाः उन्नतत्वसामान्यात् । द्वावंसौ द्वे श्रोण्यौ यस्याः सा चतुश्शिखण्डा युवतिः मिश्रयित्री हविषां हविर्भिर्वा मिश्रिता । सुपेशाः शोभनरूपा । ‘सोर्मनसी अलोमोषसी’इत्युत्तरपदाद्युदात्तत्वम् । घृतप्रतीका घृतोपक्रमा वेद्यां हि प्रथमं घृतान्यासाद्यन्ते । भुवनस्य भूतजातस्य मध्ये मर्मृज्यमाना भृशं शोघयन्ती भुवनानि भृशमलंक्रियमाणा वा । मृजूष् शौचालङ्कारयोः । ईदृशी त्वं मह्यं यजमानाय कामान् अभिमतानि धुक्ष्व कामान् संपादय । तव सौभगाय सुभगत्वाय तव सुभगत्वं यथा स्यात् । अन्यथा यजमानस्य कामालाभे तव दौर्भाग्यं लोकस्सम्भावयेत् ॥
विश्वास-प्रस्तुतिः

भूमि॑र्भू॒त्वा म॑हि॒मान॑म्पुपोष ।
ततो॑ दे॒वी व॑र्धयते॒ पयाँ॑सि ।
य॒ज्ञिया॑ य॒ज्ञव्ँ वि च॒ यन्ति॒ शञ्च॑ ।
ओष॑धी॒राप॑ इ॒ह शक्व॑रीश्च ।

मूलम्

भूमि॑र्भू॒त्वा म॑हि॒मान॑म्पुपोष ।
ततो॑ दे॒वी व॑र्धयते॒ पयाँ॑सि ।
य॒ज्ञिया॑ य॒ज्ञव्ँ वि च॒ यन्ति॒ शञ्च॑ ।
ओष॑धी॒राप॑ इ॒ह शक्व॑रीश्च ।

भट्टभास्कर-टीका

6वेद्यां क्रियमाणायां जपति - भूमिर्भूत्वेति त्रिधुभम् ॥ इयं वेदिः भूमिः भूत्वा सर्वपृथिवीभावेन वर्तमाना सती महिमानं माहात्म्यं पुपोष पुष्णाति । ततः देवी सर्वपृथिव्यात्मिका इयं वेदिः पयांसि तृणादिनिष्पादनेन वर्धयते उदकानि वा यागद्वारेण । ततोऽस्या महाभागतया यज्ञियाः यज्ञसंपादनार्हाः ओषध्यः आपः शक्वर्यः पशवश्च । ‘वा छन्दसि’ इतिपूर्वसवर्णदीर्घत्वम् । इह पृथिव्या यज्ञं वियन्ति च संयन्ति च क्षीरादिरूपेण परिणताः स्वरूपहानाद्विगच्छन्ति दर्भादिरूपेणोपयोगात् स्वरूपेण सङ्गच्छन्ति यज्ञम् ॥

विश्वास-प्रस्तुतिः

यो मा॑ हृ॒दा मन॑सा॒ यश्च॑ वा॒चा ॥58॥
यो ब्रह्म॑णा॒ कर्म॑णा॒ द्वेष्टि॑ देवाः ।
यश्श्रु॒तेन॒ हृद॑येनेष्ण॒ता च॑ ।
तस्ये॑न्द्र॒ वज्रे॑ण॒ शिर॑श्छिनद्मि ।

मूलम्

यो मा॑ हृ॒दा मन॑सा॒ यश्च॑ वा॒चा ॥58॥
यो ब्रह्म॑णा॒ कर्म॑णा॒ द्वेष्टि॑ देवाः ।
यश्श्रु॒तेन॒ हृद॑येनेष्ण॒ता च॑ ।
तस्ये॑न्द्र॒ वज्रे॑ण॒ शिर॑श्छिनद्मि ।

भट्टभास्कर-टीका

7उत्करेऽर्घ्यं निहन्ति - यो मेति त्रिष्टुभा ॥ यो मा हृदा हृदयमात्रेण द्वेष्टि यश्च मां मनसा द्वेषापरेण तात्पर्येण द्वेष्टि, यश्च मां वाचा तादृशपदप्रयोगेण द्वेष्टि । द्वेषहेतुं दर्शयति - ब्रह्मणा ब्रह्मवर्चसेन वेदाध्ययनादिना वा कर्मणा तपोऽतिशयेन श्रुतेन विद्यासंपदा हृदयेन हृदयवत्तया बुद्धिमत्तया । यद्वा - इष्णता एषणकुशलेन हृदयेन । इष्णाता कान्त्येत्येके । एवं अनेन अनेन वा भूयो मां द्वेष्टि, हे देवाः! हे इन्द्र! प्राधान्यात् पुनरुपादानं, त्वदीयेन वज्रेण शिरच्छिनद्मि । यद्वा - वज्रस्थानीयेन अनेन स्फ्येन तस्य शिरच्छिनद्मि । इन्द्रस्य वज्रेण शिरच्छिनद्मि हे देवा इत्येके ॥

विश्वास-प्रस्तुतिः

ऊर्णा॑मृदु॒ प्रथ॑मानँ स्यो॒नम् ।
दे॒वेभ्यो॒ जुष्टँ॒ सद॑नाय ब॒र्हिः ।
सु॒व॒र्गे लो॒के यज॑मानँ॒ हि धे॒हि ।
मान्नाक॑स्य पृ॒ष्ठे प॑र॒मे व्यो॑मन् ।

मूलम्

ऊर्णा॑मृदु॒ प्रथ॑मानँ स्यो॒नम् ।
दे॒वेभ्यो॒ जुष्टँ॒ सद॑नाय ब॒र्हिः ।
सु॒व॒र्गे लो॒के यज॑मानँ॒ हि धे॒हि ।
मान्नाक॑स्य पृ॒ष्ठे प॑र॒मे व्यो॑मन् ।

भट्टभास्कर-टीका

8बर्हिषि आसाद्यमाने जपति - ऊर्णामृद्विति त्रिद्युभम् ॥ ऊर्णामृदु ऊर्णेव मृदु । उपमानपूर्वपदप्रकृतिस्वरत्वम् । प्रथमानं विस्तारं भजत् स्योनं सुखं देवेभ्यः जुष्टं इष्टं सदनाय आसनाय पर्याप्तं वर्हिः । त्वं सुवर्गे लोके - कीडशे? - नाकस्य अविद्यमानदुःखस्य स्थानस्य पृष्ठे प्रधाने परमे व्योमन् प्रकृष्टे रक्षके आदित्यान्तरपुरुषे यजमानं मां धेहि स्थापय योजय ॥

विश्वास-प्रस्तुतिः

चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः॑ ।
घृ॒तप्र॑तीका व॒युना॑नि वस्ते ।
साऽऽस्ती॒र्यमा॑णा मह॒ते सौभ॑गाय ॥59 ॥
सा मे॑ धुक्ष्व॒ यज॑मानाय॒ कामा॑न् ।

मूलम्

चतु॑श्शिखण्डा युव॒तिस्सु॒पेशाः॑ ।
घृ॒तप्र॑तीका व॒युना॑नि वस्ते ।
साऽऽस्ती॒र्यमा॑णा मह॒ते सौभ॑गाय ॥59 ॥
सा मे॑ धुक्ष्व॒ यज॑मानाय॒ कामा॑न् ।

भट्टभास्कर-टीका

9स्तीर्यमाणायां वेद्यां जपति - चतुश्शिखण्डेति त्रिष्टुभम् ॥ व्याख्यातप्राया । विशेषस्तु - वयुनानि कान्तानि वासांसि बर्हिरिदं वस्ते आच्छादयति, सा त्वं महते सौभगाय बर्हिषा स्तीर्यमाणा सा मे यजमानाय कामान् धुक्ष्व ॥

  • वेदिं संसृज्यमानामनुमन्त्रयते - चतुश्शिखण्डेति त्रिष्टुभा ॥ चत्वारश्शिखण्डाः शिखण्डस्थानीथाः उन्नतत्वसामान्यात् । द्वावंसौ द्वे श्रोण्यौ यस्याः सा चतुश्शिखण्डा युवतिः मिश्रयित्री हविषां हविर्भिर्वा मिश्रिता । सुपेशाः शोभनरूपा । ‘सोर्मनसी अलोमोषसी’इत्युत्तरपदाद्युदात्तत्वम् । घृतप्रतीका घृतोपक्रमा वेद्यां हि प्रथमं घृतान्यासाद्यन्ते ।
विश्वास-प्रस्तुतिः

शि॒वा च॑ मे श॒ग्मा चै॑धि ।
स्यो॒ना च॑ मे सु॒षदा॑ चैधि ।
ऊर्ज॑स्वती च मे॒ पय॑स्वती चैधि ।

मूलम्

शि॒वा च॑ मे श॒ग्मा चै॑धि ।
स्यो॒ना च॑ मे सु॒षदा॑ चैधि ।
ऊर्ज॑स्वती च मे॒ पय॑स्वती चैधि ।

भट्टभास्कर-टीका

10शिवा चेत्यादि यजुः ॥ सा त्वं ये शिवा शान्तोपद्रवा च एधि भव, शग्मा शक्ता च एधि । अत्र गुणसमुच्चयः । तेनाख्यातस्य चयोगाभावात् ‘चवायोगे’ इति निघातप्रतिषेधाभावः ।
स्योना सुखा सुषदा सुष्ठु अध्यासनीया ऊर्जस्वती बलवती पयस्वती क्षीरादिमती तद्धेतुत्वात् ।

विश्वास-प्रस्तुतिः

इष॒मूर्ज॑म्मे पिन्वस्व ।
ब्रह्म॒ तेजो॑ मे पिन्वस्व ।
क्ष॒त्रमोजो॑ मे पिन्वस्व ।

मूलम्

इष॒मूर्ज॑म्मे पिन्वस्व ।
ब्रह्म॒ तेजो॑ मे पिन्वस्व ।
क्ष॒त्रमोजो॑ मे पिन्वस्व ।

भट्टभास्कर-टीका

सा त्वं मे हर्षं अन्नं ऊर्जं च दुग्धादिरसं पिन्वस्व सिञ्च वर्धय, ब्रह्म अध्ययनादि तेजः ब्रह्मवर्चसादिकं च पिन्वस्व क्षत्रं बलं क्षत्रियजातिं वा ओजः तेजः बलं वा ।

विश्वास-प्रस्तुतिः

विश॒म्पुष्टि॑म्मे पिन्वस्व ।
आयु॑र॒न्नाद्य॑म्मे पिन्वस्व ।
प्र॒जाम्प॒शून्मे॑ पिन्वस्व ॥60॥

मूलम्

विश॒म्पुष्टि॑म्मे पिन्वस्व ।
आयु॑र॒न्नाद्य॑म्मे पिन्वस्व ।
प्र॒जाम्प॒शून्मे॑ पिन्वस्व ॥60॥

भट्टभास्कर-टीका

विशं वैश्यजातिं प्रजां वा पुष्टिं समृद्धिं आयुः शतसङ्ख्यं अन्नाद्यं अन्नादनसामर्थ्यं प्रजां पुत्रादीन् पशून् गवादीन् ॥

विश्वास-प्रस्तुतिः

अ॒स्मिन् य॒ज्ञ उप॒ भूय॒ इन्नु मे॑ ।
अवि॑क्षोभाय परि॒धीन्द॑धामि ।
ध॒र्ता ध॒रुणो॒ धरी॑यान् ।
अ॒ग्निर्द्वेषाँ॑सि॒ निरि॒तो नु॑दातै ।

मूलम्

अ॒स्मिन् य॒ज्ञ उप॒ भूय॒ इन्नु मे॑ ।
अवि॑क्षोभाय परि॒धीन्द॑धामि ।
ध॒र्ता ध॒रुणो॒ धरी॑यान् ।
अ॒ग्निर्द्वेषाँ॑सि॒ निरि॒तो नु॑दातै ।

भट्टभास्कर-टीका

41परिधिषु परिधीयमानेषु जपति - अस्मिन्यज्ञ इति मध्येज्योतिषं त्रिष्टुभम् । तृतीयस्य पादस्य अष्टाक्षरत्वात् ॥ अस्मिन् यज्ञे भूय इत् भूयोभूयः, इदिति क्षिप्रार्थे, पादपूरणे वा । ममापि अविक्षोभाय अविचलनाय परिधीनुपदधामि तव समीपे स्थापयामि । स च तथोपहितोऽग्निः धर्ता सर्वधारणकुशलः धरुणः सर्वैर्धारणीयः धरीयान् अन्येभ्यः धारकेभ्यः अतिशयेन धारयिता, तृन्नन्तात् ‘तुश्छन्दसि’ इतीयसुन् । ईदृशोऽयमग्निः इतः स्थानात् इतो वा यजमानात् द्वेषांसि द्वेष्याणि रक्षःप्रभृतीनि नुदातै निष्कृष्य नाशयतु । लेटि ‘वैतोऽन्यत्र’ इत्येकारः ॥

विश्वास-प्रस्तुतिः

विच्छि॑नद्मि॒ विधृ॑तीभ्याँ स॒पत्ना॑न् ।
जा॒तान्भ्रातृ॑व्या॒न्ये च॑ जनि॒ष्यमा॑णाः ।
वि॒शो य॒न्त्राभ्याव्ँ॒विध॑माम्येनान् ।
अ॒हँ स्वाना॑मुत्त॒मो॑ऽसानि देवाः ।

मूलम्

विच्छि॑नद्मि॒ विधृ॑तीभ्याँ स॒पत्ना॑न् ।
जा॒तान्भ्रातृ॑व्या॒न्ये च॑ जनि॒ष्यमा॑णाः ।
वि॒शो य॒न्त्राभ्याव्ँ॒विध॑माम्येनान् ।
अ॒हँ स्वाना॑मुत्त॒मो॑ऽसानि देवाः ।

भट्टभास्कर-टीका

12विधृत्योः साद्यमानयोः जपति - विच्छिनद्मीति त्रिष्टुभौ प्राणान्मयि इति गायत्रीं च ॥ विविधं पृथक् धार्येते आभ्यामिति विधृती दर्भविशेषौ ताभ्यां साद्यमानाभ्यां विच्छिनद्मि नाशयामि सपत्नान् शत्रून् । एवं सामान्येनोक्त्वा द्विप्रकारांस्तान् दर्शयति - जातांश्च भ्रातृव्यान् सपत्नान्, ये च जनिष्यमाणाः सपत्नाः तानपि विच्छिनद्मि विशेषेण मूलतो नाशयामि । विशः सर्वप्रजाः यन्त्राभ्यां यमनसाधनाभ्याम् । मन्त्रलिङ्गं च ‘विशो यन्त्रे स्थः’ इति । एवंभूताभ्यामाभ्यां भ्रातृव्यान् एनान् विधमामि विविधं पीडयामि । ध्मा शब्दाग्निसंयोगयोः, पाघ्रादिना धमादेशः । ततश्च स्वानां आत्मीयानां जनानां उत्तमः उत्कृष्टः असानि भूयासं हे देवाः ।

विश्वास-प्रस्तुतिः

वि॒शो य॒न्त्रे नु॒दमा॑ने॒ अरा॑तिम् ।
विश्व॑म्पा॒प्मान॒मम॑तिन्दुर्मरा॒युम् ॥61॥
सीद॑न्ती दे॒वी सु॑कृ॒तस्य॑ लो॒के ।
धृती॑ स्थो॒ विधृ॑ती॒ स्वधृ॑ती ।

मूलम्

वि॒शो य॒न्त्रे नु॒दमा॑ने॒ अरा॑तिम् ।
विश्व॑म्पा॒प्मान॒मम॑तिन्दुर्मरा॒युम् ॥61॥
सीद॑न्ती दे॒वी सु॑कृ॒तस्य॑ लो॒के ।
धृती॑ स्थो॒ विधृ॑ती॒ स्वधृ॑ती ।

भट्टभास्कर-टीका

विशो यन्त्रे व्याख्यातम् । नुदमाने नाशयमाने अरातिं शत्रुं विश्वं च पाप्मानं अमतिं रोगम् । अमेरौणादिकोऽतिप्रत्ययः । दुर्मरायुं दुर्मरणहेतुं, औगादिक आयुप्रत्ययः । दुष्टस्य वा मरणस्य प्रापयितारं ‘छन्दसीणः’ इति उण्प्रत्ययः । सीदन्ती अस्मिन् स्थाने सदनानन्तरं सीदन्त्यौ देव्यौ द्योतनवत्यौ सुकृतस्य सुष्ठु कृतस्य कर्मणो लोके स्थाने अस्मिन् सीदन्त्यौ धृती धारयित्र्यौ सर्वस्य विधृती विधृतिसंज्ञके विविधधारणे वा स्वधृती स्वायत्तधारणे । ईदृश्यौ युवां स्थः ।

विश्वास-प्रस्तुतिः

प्रा॒णान्मयि॑ धारयतम् ।
प्र॒जाम्मयि॑ धारयतम् ।
प॒शून्मयि॑ धारयतम् ।

मूलम्

प्रा॒णान्मयि॑ धारयतम् ।
प्र॒जाम्मयि॑ धारयतम् ।
प॒शून्मयि॑ धारयतम् ।

भट्टभास्कर-टीका

ते युवां मयि प्राणान् चक्षुरादीन् प्रजां पुत्रादिकां पशून् गवादिकांश्च धारयतम् ॥

विश्वास-प्रस्तुतिः

अ॒यम्प्र॑स्त॒र उ॒भय॑स्य ध॒र्ता ।
ध॒र्ता प्र॑या॒जाना॑मु॒तानू॑या॒जाना॑म् ।
स दा॑धार स॒मिधो॑ वि॒श्वरू॑पाः ।
तस्मि॒न्त्स्रुचो॒ अध्यासा॑दयामि ।

मूलम्

अ॒यम्प्र॑स्त॒र उ॒भय॑स्य ध॒र्ता ।
ध॒र्ता प्र॑या॒जाना॑मु॒तानू॑या॒जाना॑म् ।
स दा॑धार स॒मिधो॑ वि॒श्वरू॑पाः ।
तस्मि॒न्त्स्रुचो॒ अध्यासा॑दयामि ।

भट्टभास्कर-टीका

13प्रस्तरे साद्यमाने जपति - अयं प्रस्तर इति त्रिष्टुभम् ॥ प्रस्तीर्यत इति प्रस्तरः अयं प्रस्तरः उभयस्य जुहपभृल्लक्षणस्य धर्ता धारयिता प्रयाजानां प्रयाजार्थानां अनूयाजार्थानांच आज्यानां धारयिता सोऽयं समिधः समिदादिकाः प्रयाजदेवताः विश्वरूपाः विश्वार्थस्थितिहेतून् दाधार धारयति तदीयाज्यधारणात् । छान्दसे लिटि तुजादित्वादभ्यासस्य दीर्घत्वम् । तस्मिन्नेव महाभागे स्रुच अध्यासादयामि उपरि सादयामि । पूजार्थं वहुवचनम् ॥

विश्वास-प्रस्तुतिः

आरो॑ह प॒थो जु॑हु देव॒याना॑न् ॥62॥
यत्रर्ष॑यᳶ प्रथम॒जा ये पु॑रा॒णाः ।
हिर॑ण्यपक्षाऽजि॒रा सम्भृ॑ताङ्गा ।
वहा॑सि मा सु॒कृताय्ँ॒यत्र॑ लो॒काः ।

मूलम्

आरो॑ह प॒थो जु॑हु देव॒याना॑न् ॥62॥
यत्रर्ष॑यᳶ प्रथम॒जा ये पु॑रा॒णाः ।
हिर॑ण्यपक्षाऽजि॒रा सम्भृ॑ताङ्गा ।
वहा॑सि मा सु॒कृताय्ँ॒यत्र॑ लो॒काः ।

भट्टभास्कर-टीका

14जुहूं साद्यमानामनुमन्त्रयते - आरोहेति त्रिष्टुभा ॥ हे जुहु! देवयानान् पथः मार्गानारोह देवा यैर्गच्छन्ति । यत्र ऋषयः दर्शनवन्तः प्रथमजाः अस्मत्पर्वूजाः ये पुराणाः पुरातनाः वसिष्ठादयः नियता वर्तन्ते तान् कर्ममार्गान् आरोह । कीदृशीति चेत्? हिरण्यपक्षा हितरमणयिपार्श्वा अजिरा गतिमती संभृताङ्गा सम्यक् निष्पादिताङ्गा । ईदृशी तान् पथ आरुह्य मा मामपि वहासि वह । क्व? यत्र सुकृतां शोभनकर्मकारिणां लोकाः । लेट्याडागमः ॥

विश्वास-प्रस्तुतिः

अवा॒हम्बा॑ध उप॒भृता॑ स॒पत्ना॑न् ।
जा॒तान्भ्रातृ॑व्या॒न्ये च॑ जनि॒ष्यमा॑णाः ।
दोहै॑ य॒ज्ञँ सु॒दुघा॑मिव धे॒नुम् ।
अ॒हमुत्त॑रो भूयासम् ।
अध॑रे॒ मत्स॒पत्नाः॑ ।

मूलम्

अवा॒हम्बा॑ध उप॒भृता॑ स॒पत्ना॑न् ।
जा॒तान्भ्रातृ॑व्या॒न्ये च॑ जनि॒ष्यमा॑णाः ।
दोहै॑ य॒ज्ञँ सु॒दुघा॑मिव धे॒नुम् ।
अ॒हमुत्त॑रो भूयासम् ।
अध॑रे॒ मत्स॒पत्नाः॑ ।

भट्टभास्कर-टीका

15उपमृतमनुमन्त्रयते - अवाहमिति पञ्चपदया जगत्या ॥ अहं अनया उपभृता सपत्नान् जातान् जनिष्यमाणांश्च अवबाधे । ततश्च निष्प्रत्यूहमिमं यज्ञं सर्वान् कामान् दोहै दुह्यासम्, सुदुघां शोभनदोहनां धेनुमिव गामिव । ‘दुहः कप् घश्च’ इति कप् । तथा दुहानस्य मम इदं चास्तु - अहं उत्तरः सपत्नेभ्यः उद्गततरो भूयासं सपत्नाश्च मत् मत्तः अधरे निकृष्टाः भूयासुः । संबन्धिशब्दात् मम सपत्ना इति गम्यते ॥

विश्वास-प्रस्तुतिः

यो मा॑ वा॒चा मन॑सा दुर्मरा॒युः ।
हृ॒दाऽरा॑ती॒याद॑भि॒दास॑दग्ने ॥63॥
इ॒दम॑स्य चि॒त्तमध॑रन्ध्रु॒वायाः॑ ।
अ॒हमुत्त॑रो भूयासम् ।
अध॑रे॒ मत्स॒पत्नाः॑ ।

मूलम्

यो मा॑ वा॒चा मन॑सा दुर्मरा॒युः ।
हृ॒दाऽरा॑ती॒याद॑भि॒दास॑दग्ने ॥63॥
इ॒दम॑स्य चि॒त्तमध॑रन्ध्रु॒वायाः॑ ।
अ॒हमुत्त॑रो भूयासम् ।
अध॑रे॒ मत्स॒पत्नाः॑ ।

भट्टभास्कर-टीका

16ध्रुवामनुमन्त्रयते - यो मेति । इयमपि पञ्चपदा जगती ॥ यो मा वाचा मनसा हृदा च अरातीयात् अरातीयति शत्रुमिवाचरति, आचारक्यजन्ताल्लेट्याडागमः । दुर्मरायुः दुष्टमरणकारी अरातीयति माम् । यश्च मां अभिदासत् अभिक्षपयति हे अग्ने! अस्य दुरात्मनः इदं एवंरूपं चित्तं ध्रुवायाः अधरं अधस्तात् न्यग्भूतं संस्थितं विनष्टप्रायमेव । तस्मात् अहमुत्तर इत्यादि गतम् ॥

विश्वास-प्रस्तुतिः

ऋ॒ष॒भो॑ऽसि शाक्व॒रः ।
घृ॒ताची॑नाँ सू॒नुः ।
प्रि॒येण॒ नाम्ना॑ प्रि॒ये सद॑सि सीद ।

मूलम्

ऋ॒ष॒भो॑ऽसि शाक्व॒रः ।
घृ॒ताची॑नाँ सू॒नुः ।
प्रि॒येण॒ नाम्ना॑ प्रि॒ये सद॑सि सीद ।

भट्टभास्कर-टीका

17ध्रुवायां स्रुवाज्यमवददाति - ऋषभोसीति परोष्णिहा ॥ ऋषभः प्रधानोऽसि हे स्रुव! शाक्वरः शक्वरीछन्दःप्रभवः शकनशीलो वा घृताचीनां सूनुः पुत्रस्थानीयः ततः रसहरणप्रक्षेपादिकारित्वात् । घृतमञ्चतीति क्वनिपि ‘चौ’ इति पूर्वपदस्य दीर्घत्वं, अन्तोदात्तत्वं च । स त्वं प्रियेण नाम्ना घृतलक्षणेन प्रिये सदसि स्थाने ध्रुवायां सीद ॥

विश्वास-प्रस्तुतिः

स्यो॒नो मे॑ सीद सु॒षद॑ᳶ पृथि॒व्याम् ।
प्रथ॑यि प्र॒जया॑ प॒शुभि॑स्सुव॒र्गे लो॒के ।
दि॒वि सी॑द पृथि॒व्याम॒न्तरि॑क्षे ।
अ॒हमुत्त॑रो भूयासम् ॥64॥
अध॑रे॒ मत्स॒पत्नाः॑ ।

मूलम्

स्यो॒नो मे॑ सीद सु॒षद॑ᳶ पृथि॒व्याम् ।
प्रथ॑यि प्र॒जया॑ प॒शुभि॑स्सुव॒र्गे लो॒के ।
दि॒वि सी॑द पृथि॒व्याम॒न्तरि॑क्षे ।
अ॒हमुत्त॑रो भूयासम् ॥64॥
अध॑रे॒ मत्स॒पत्नाः॑ ।

भट्टभास्कर-टीका

18स्रुवमाज्यस्य पूरयित्वा दक्षिणेन जुष्टं प्रस्तरे सादयति - स्योनो म इति जगत्या पञ्चपदया ॥ हे स्रुव! स्योनः मे सुखहेतुः अत्र स्थाने सीद, सुषदः सुष्ठु सादनीयः तादृशेन सुप्रथितेन त्वया अहमपि पृथिव्यां प्रजया पशुभिश्च प्रथयि प्रथितस्स्यां सुवर्गेऽपि लोके प्रस्थितस्स्याम् । प्रथेः छान्दसे लङि वर्णव्यत्ययेन शपः एत्वं ‘बडुल छन्दस्यमाङ्योगेऽपि’ इत्यडभावः । लिट्येव वा इकारोऽन्त्योपजनः । किञ्च - दिवि प्रस्तरस्योपरि द्युस्थानीये त्वं सदि । अहमपि तस्यां दिवि पृथिव्यां अन्तरिक्षे च उत्तरत्वसामान्यात् सपत्नेभ्यः उत्तरो भूयासम् । ते च सपत्नाः मत् मत्त अधरे सन्तु ॥

विश्वास-प्रस्तुतिः

इ॒यँ स्था॒ली घृ॒तस्य॑ पू॒र्णा ।
अच्छि॑न्नपयाश्श॒तधा॑र॒ उत्सः॑ ।
मा॒रु॒तेन॒ शर्म॑णा॒ दैव्ये॑न ।

मूलम्

इ॒यँ स्था॒ली घृ॒तस्य॑ पू॒र्णा ।
अच्छि॑न्नपयाश्श॒तधा॑र॒ उत्सः॑ ।
मा॒रु॒तेन॒ शर्म॑णा॒ दैव्ये॑न ।

भट्टभास्कर-टीका

19आज्यस्थालीं - इयं स्थालीति त्रिपदया विराजा ॥ इयं आज्यस्थाली घृतस्य पूर्णा, ‘पुरणगुण’ हति समासप्रतिषेधेन षष्ठी ज्ञापिता । केन तुल्येत्याह - अच्छिन्नपयाः अक्षीणपयाः अक्षीणोदकः शतधारः अनेकनिर्गमनद्वारः उत्सः उत्स्यन्दनः, तादर्थ्यात्ताच्छब्द्यम् । यद्वा - उत्सः अशोष्यह्रदः । अच्छिन्नपयाः प्रवाहः मारुतेन कदाऽप्यशोषणीयपयाः । अत एव दैव्येन शर्मणा सुखेन इत्थंभूतः । ईदृशः अस्तु इयं स्थाली ॥

विश्वास-प्रस्तुतिः

य॒ज्ञो॑ऽसि स॒र्वत॑श्श्रि॒तः ।
स॒र्वतो॒ माम्भू॒तम्भ॑वि॒ष्यच्छ्र॑यताम् ।
श॒तम्मे॑ सन्त्वा॒शिषः॑ ।

मूलम्

य॒ज्ञो॑ऽसि स॒र्वत॑श्श्रि॒तः ।
स॒र्वतो॒ माम्भू॒तम्भ॑वि॒ष्यच्छ्र॑यताम् ।
श॒तम्मे॑ सन्त्वा॒शिषः॑ ।

भट्टभास्कर-टीका

20आग्नेयं पुरोडाशमासन्नं अभिमर्शयति - यज्ञोऽसीति पञ्चपदया त्रिष्टुभा ॥ हे आग्नेय! पुरोडाश! त्वमेव सर्वतः श्रितः सर्वेणापि प्रकारेण सेवितः यज्ञः यज्ञहेतुः असि । अतः तादृशेन त्वया सहायेन मामपि भूतं भविष्यच्च पुत्रपौत्रादिकं फलं श्रयतां सेवताम् । किञ्च - मे मम आशिषः प्रार्थनीयाः कामाः शतं सन्तु बहुतरा भवन्तु ।

विश्वास-प्रस्तुतिः

स॒हस्र॑म्मे सन्तु सू॒नृताः॑ ।
इरा॑वतीᳶ पशु॒मतीः॑ ।

मूलम्

स॒हस्र॑म्मे सन्तु सू॒नृताः॑ ।
इरा॑वतीᳶ पशु॒मतीः॑ ।

भट्टभास्कर-टीका

तथा सहस्रं बडुतमाः सूनृताः प्रियाः सत्यात्मिकाः प्रार्थिताधिकप्रदायित्वात् सूनृताधिक्यम् । इरावत्यः बह्वन्नाः पशुमत्यः बहुपशुकाश्च भवन्तु, काः? आशिषः सूनृताश्च ।

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिरसि स॒र्वत॑श्श्रि॒तः ॥65॥
स॒र्वतो॒ माम्भू॒तम्भ॑वि॒ष्यच्छ्र॑यताम् ।
श॒तम्मे॑ सन्त्वा॒शिषः॑ ।
स॒हस्र॑म्मे सन्तु सू॒नृताः॑ ।
इरा॑वतीᳶ पशु॒मतीः॑ ।

मूलम्

प्र॒जाप॑तिरसि स॒र्वत॑श्श्रि॒तः ॥65॥
स॒र्वतो॒ माम्भू॒तम्भ॑वि॒ष्यच्छ्र॑यताम् ।
श॒तम्मे॑ सन्त्वा॒शिषः॑ ।
स॒हस्र॑म्मे सन्तु सू॒नृताः॑ ।
इरा॑वतीᳶ पशु॒मतीः॑ ।

भट्टभास्कर-टीका

प्रजापतिरसीति । पुरोडाश! प्रजापतिरेव त्वमसि वृष्ट्यादिना सर्वस्थितिहेतुत्वात् । सर्वतः श्रितः इत्यादि । तुल्यम् ॥

विश्वास-प्रस्तुतिः

इ॒दमि॑न्द्रि॒यम॒मृतव्ँ॑ वी॒र्य॑म् ।
अ॒नेनेन्द्रा॑य प॒शवो॑ऽचिकित्सन् ।
तेन॑ देवा अव॒तोप॒ माम् ।
इ॒हेष॒मूर्जय्ँ॒ यश॒स्सह॒ ओज॑स्सनेयम् ।
शृ॒तम्मयि॑ श्रयताम् ।

मूलम्

इ॒दमि॑न्द्रि॒यम॒मृतव्ँ॑ वी॒र्य॑म् ।
अ॒नेनेन्द्रा॑य प॒शवो॑ऽचिकित्सन् ।
तेन॑ देवा अव॒तोप॒ माम् ।
इ॒हेष॒मूर्जय्ँ॒ यश॒स्सह॒ ओज॑स्सनेयम् ।
शृ॒तम्मयि॑ श्रयताम् ।

भट्टभास्कर-टीका

21भूते साद्यमाने - इदमिति ॥ इदं क्षीरं इन्द्रियं इन्द्रेण जुष्टं अमृतं यागसाधनत्वेन विनाशरहितं वीर्यं वीर्यप्रदम् । अनेन क्षीरेण इन्द्रार्थं पशवोऽचिकित्सन् आरोग्यमकुर्वन् । पशुभिः क्षीराख्ये हविषि सम्पादिते योऽयमिन्द्रियस्य परितोषः सैवानिष्टस्य चिकित्सा । हे देवाः! तेन अनेन पयसा इह अस्मिन्कर्मणि वर्तमानं मामुपावत उपेत्य रक्षत । इहेति तृतीयपादान्तो युक्त इति लक्ष्यते । किञ्च - युष्मत्प्रसाददहं इषं ऊर्जं रसं क्षीरादि यशः कीर्तिं सहः बलं ओजः दीप्तिं च सनेयं भजेयम् । शृतं च इदं मयि श्रयतां पुनःपुनः मां भजताम् इन्द्रियवीर्ययोः मयि श्रयणाय । ब्राह्मणं च ‘इन्द्रियं वावस्मिन्वीर्यं तदश्रयन्’ इति ॥

विश्वास-प्रस्तुतिः

यत्पृ॑थि॒वीमच॑र॒त्तत्प्रवि॑ष्टम् ॥66॥
येनासि॑ञ्च॒द्बल॒मिन्द्रे॑ प्र॒जाप॑तिः ।
इ॒दन्तच्छु॒क्रम्मधु॑ वा॒जिनी॑वत् ।
येनो॒परि॑ष्टा॒दधि॑नोन्महे॒न्द्रम् ।
दधि॒ मान्धि॑नोतु ।

मूलम्

यत्पृ॑थि॒वीमच॑र॒त्तत्प्रवि॑ष्टम् ॥66॥
येनासि॑ञ्च॒द्बल॒मिन्द्रे॑ प्र॒जाप॑तिः ।
इ॒दन्तच्छु॒क्रम्मधु॑ वा॒जिनी॑वत् ।
येनो॒परि॑ष्टा॒दधि॑नोन्महे॒न्द्रम् ।
दधि॒ मान्धि॑नोतु ।

भट्टभास्कर-टीका

22दध्नि साद्यमाने - यत्पृथिवीमिति पञ्चपदया जगत्या ॥ यत् दधि पृथिवीं प्रविष्टमचरत् तृणादिरूपेण पृथिव्यामवर्तत, यद्भक्षणेन गावः समनैषुः, येन च प्रजापतिः इन्द्रे बलमसिञ्चत् स्थापितवान् इन्द्रियं वीर्यं च आनीतवान्, तदिदं सादितं दधि मधु मधुरं वाजिनीवत् विशिष्टगतिमत् विविधविप्रवृत्तिहेतुर्वा भवत्, शुक्रं बीजं प्रजानां वृद्धिहेतुर्भवति, येन उपरिष्टात् शृतावस्थाया अप्यूर्ध्वं महेन्द्रं धिनोत् अप्रीणयत् प्रजापतिः । ब्राह्मणं च - ‘तदेनमधिनोत्तद्दध्नो दधित्वम्’ इति । तत् दधि मामपि महेन्द्रमिव धिनोतु प्रीणयतु, धिवि प्रीणने, इदित्वान्नुम्, ‘धिन्विकृण्व्योर च’ इत्युप्रत्ययः ॥

विश्वास-प्रस्तुतिः

अ॒यव्ँ वे॒दᳶ पृ॑थि॒वीमन्व॑विन्दत् ।
गुहा॑ स॒तीङ्गह॑ने॒ गह्व॑रेषु ।
स वि॑न्दतु॒ यज॑मानाय लो॒कम् ।
अच्छि॑द्रय्ँ य॒ज्ञम्भूरि॑कर्मा करोतु ।

मूलम्

अ॒यव्ँ वे॒दᳶ पृ॑थि॒वीमन्व॑विन्दत् ।
गुहा॑ स॒तीङ्गह॑ने॒ गह्व॑रेषु ।
स वि॑न्दतु॒ यज॑मानाय लो॒कम् ।
अच्छि॑द्रय्ँ य॒ज्ञम्भूरि॑कर्मा करोतु ।

भट्टभास्कर-टीका

23वेदादाने - अयं वेद इति त्रिष्टुप् ॥ अयं वेदः पृथिवीं असुरेभ्यः अन्वविन्दत् अनुक्रमेणालभत । ‘वेदेन वै देवाः’ इत्यादि ब्राह्मणम् । गुहा गुहायां आवृते देशे । ‘सुपां सुलुक्’ इति सप्तम्या आकारः । गहने अप्रकाशे गह्वरे दुष्प्रापे देशे सतीं द्रष्टुमप्यशक्यां पृथिवीं वेदः अन्वविन्दत । स तादृशो महानुभावः यजमानाय लोकं प्रकाशवत् स्थानं विन्दतु लभतां दातुम् । तदर्थं किं कर्तव्यमिति चेत्? अच्छिद्रं यज्ञं अविकलं यज्ञं करोतु ततः हस्तस्थो लोक इति । स हि भूरिकर्मा बहुव्यापारः किंनाम न कुर्यादिति ॥

विश्वास-प्रस्तुतिः

अ॒यय्ँ य॒ज्ञस्सम॑सदद्ध॒विष्मा॑न् ।
ऋ॒चा साम्ना॒ यजु॑षा दे॒वता॑भिः ॥67॥
तेन॑ लो॒कान्त्सूर्य॑वतो जयेम ।
इन्द्र॑स्य स॒ख्यम॑मृत॒त्वम॑श्याम् ।

मूलम्

अ॒यय्ँ य॒ज्ञस्सम॑सदद्ध॒विष्मा॑न् ।
ऋ॒चा साम्ना॒ यजु॑षा दे॒वता॑भिः ॥67॥
तेन॑ लो॒कान्त्सूर्य॑वतो जयेम ।
इन्द्र॑स्य स॒ख्यम॑मृत॒त्वम॑श्याम् ।

भट्टभास्कर-टीका

24सर्वेषु हविष्षु - अयं यज्ञ इति त्रिष्टुम् ॥ अयं यज्ञः, यज्ञसाधनत्वात् ताच्छब्द्यम्, समसदत् सह सीदति । हविष्मान् हविर्भिः तद्वान् ऋचा साम्ना यजुषा देवताभिश्च सह सीदति । ‘अग्न आयाहि वीतय इत्याह रथन्तरस्यैषवर्णः’ इत्युक्तत्वात् साम्नेत्युक्तम् । तेन तादृशेन अनेन सूर्यवतः सूर्यकिरणापहततमिस्रान् लोकान् जयेम । ततः इन्द्रस्य सख्यं समानख्यानतां अमृतत्वं च अश्यां व्याप्नुयाम् ॥

विश्वास-प्रस्तुतिः

यो न॒ᳵ कनी॑य इ॒ह का॒मया॑तै ।
अ॒स्मिन् य॒ज्ञे यज॑मानाय॒ मह्य॑म् ।
अप॒ तमि॑न्द्रा॒ग्नी भुव॑नान्नुदेताम् ।
अ॒हम्प्र॒जाव्ँ वी॒रव॑तीव्ँ विदेय ।

मूलम्

यो न॒ᳵ कनी॑य इ॒ह का॒मया॑तै ।
अ॒स्मिन् य॒ज्ञे यज॑मानाय॒ मह्य॑म् ।
अप॒ तमि॑न्द्रा॒ग्नी भुव॑नान्नुदेताम् ।
अ॒हम्प्र॒जाव्ँ वी॒रव॑तीव्ँ विदेय ।

भट्टभास्कर-टीका

25ऐन्द्राग्ने - यो न इति त्रिष्टुप् ॥ इह कनीयः अल्पीयः अल्पतरान्निकृष्टं यः अस्माकं कामयातै कामयेत । लेट्याडागमः । ‘वैतोऽन्यत्र’ इत्यैकारः । अपि च अस्मिन् यज्ञे वर्तमानाय मह्यं च यजमानाय यः कनीयः कामयेत इमौ इन्द्राग्नी अस्मात् भुवनात् तं अपनुदेतां नाशयतां, अहं तु तत्प्रसादात् वीरवतीं वीर्यवतीं प्रजां विदेय लभेय । ‘लिङ्याशिष्यङ्’ ॥

विश्वास-प्रस्तुतिः

अग्ने॑ वाजजित् ।
वाज॑न्त्वा सरि॒ष्यन्त॑म् ।
वाज॑ञ्जे॒ष्यन्त॑म् ।
वा॒जिनव्ँ॑वाज॒जित॑म् ॥68॥
वा॒ज॒जि॒त्यायै॒ सम्मा॑र्ज्मि ।
अ॒ग्निम॑न्ना॒दम॒न्नाद्या॑य ।

मूलम्

अग्ने॑ वाजजित् ।
वाज॑न्त्वा सरि॒ष्यन्त॑म् ।
वाज॑ञ्जे॒ष्यन्त॑म् ।
वा॒जिनव्ँ॑वाज॒जित॑म् ॥68॥
वा॒ज॒जि॒त्यायै॒ सम्मा॑र्ज्मि ।
अ॒ग्निम॑न्ना॒दम॒न्नाद्या॑य ।

भट्टभास्कर-टीका

26अग्निसंमार्गे - अग्ने वाजजिदिति यजुः ॥ हे अग्ने! वाजजित्! अन्नस्य जेतः! तच्छील! वाजं अन्नं जेतुं त्वा सरिष्यन्तं सृत्वा च वाजं जेष्यन्तं ततः जित्वा वाजिनं बह्वन्नं एवं वाजजितं सर्वान्नस्य जेतारं त्वां वाजजित्यायै अन्नजयार्थं सम्मार्ज्मीति । छान्दसः क्यप् । अग्निं अङ्गनादिगुणं अन्नादं अन्नानां अत्तारं ईदृशं त्वां अन्नाद्याय सम्मार्ज्मीत्येव । अन्नादनसमर्थं अन्नाद्यम् । छान्दसो यत् ॥

विश्वास-प्रस्तुतिः

उप॑हूतो॒ द्यौᳶ पि॒ता ।
उप॒ मान्द्यौᳶ पि॒ता ह्व॑यताम् ।
अ॒ग्निराग्नी॑ध्रात् ।
आयु॑षे॒ वर्च॑से ।
जी॒वात्वै पुण्या॑य ।
उप॑हूता पृथि॒वी मा॒ता ।
उप॒ माम्मा॒ता पृ॑थि॒वी ह्व॑यताम् ।

मूलम्

उप॑हूतो॒ द्यौᳶ पि॒ता ।
उप॒ मान्द्यौᳶ पि॒ता ह्व॑यताम् ।
अ॒ग्निराग्नी॑ध्रात् ।
आयु॑षे॒ वर्च॑से ।
जी॒वात्वै पुण्या॑य ।
उप॑हूता पृथि॒वी मा॒ता ।
उप॒ माम्मा॒ता पृ॑थि॒वी ह्व॑यताम् ।

भट्टभास्कर-टीका

27अन्तर्वेद्याग्नीघ्रभागस्य चतुर्धाकरणे जपः - उपहूत इत्यादि यजुः ॥ उपहूतः अनुज्ञातः द्यौः द्युलोकः पिता पितृस्थानीयः वृष्ट्यादिप्रदानेन पालकत्वात् सः द्यौः पिता मामपि उपह्वयताम्। अग्निश्चोपहूतः सः मामप्युपह्वयताम् ।

विश्वास-प्रस्तुतिः

अ॒ग्निराग्नी॑ध्रात् ॥69॥
आयु॑षे॒ वर्च॑से ।
जी॒वात्वै पुण्या॑य ।

मूलम्

अ॒ग्निराग्नी॑ध्रात् ॥69॥
आयु॑षे॒ वर्च॑से ।
जी॒वात्वै पुण्या॑य ।

भट्टभास्कर-टीका

किमर्थम्? आग्नीध्रात् आग्नीध्रभागाद्धेतोः । तदपि किमर्थम्? आयुषेअस्माकं आयुराद्यर्थं आयुरादीनि स्युरिति । आयुषे अन्नाय जीवनाय वा । वर्चसे बलाय तेजसे वा । जीवात्वै जीवनौषधाय चिरजीविताय वा, पुण्याय लोकाय वा सर्वस्मै पुण्यफलाय वा । एवं उपहूता पृथिवी माता मातृस्थानीया सर्वार्थनिर्माणव्यापकत्वात् । शिष्टं स्पष्टम् ॥

विश्वास-प्रस्तुतिः

मनो॒ ज्योति॑र्जुषता॒माज्य॑म् ।
विच्छि॑न्नय्ँ य॒ज्ञँ समि॒मन्द॑धातु ।
बृह॒स्पति॑स्तनुतामि॒मन्नः॑ ।
विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ।

मूलम्

मनो॒ ज्योति॑र्जुषता॒माज्य॑म् ।
विच्छि॑न्नय्ँ य॒ज्ञँ समि॒मन्द॑धातु ।
बृह॒स्पति॑स्तनुतामि॒मन्नः॑ ।
विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ।

भट्टभास्कर-टीका

28विच्छिन्नसंधाने मार्जने - मनोज्योतिरिति त्रिष्टुब्विशेषः ॥ ‘भूमिर्भूम्ना’ इत्यत्र व्याख्यातः ॥

  • मनो॒ ज्योति॑र्जुषता॒माज्यव्ँ॒विच्छि॑न्नय्ँ य॒ज्ञँ समि॒मन्द॑धातु ।
    बृह॒स्पति॑स्तनुतामि॒मन्नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ॥

    • टीका7अग्निहोत्रमन्त्रावुपस्थानार्थौ - तत्र प्रथमा मन इति विराट् ॥ हे अग्ने तव ज्योतिः कीदृशं मननीयम् । यद्वा - मनश्शेषमुद्वासितेन पीडितं यन्मननीयमेवासीत् नान्यत्वे[त्र]विद्यते तदिदमाज्यं जुषतां सेवतां अनेन कर्मणा पूर्ववत्समृद्धमस्तु । यद्वा - मनस्सदा मननीयं मनोहरं अग्न्याख्यं ज्योतिः उद्वासनापराधं चेतस्यकृत्वा जुषतामाज्यमिति । ततो विच्छिन्नमुद्वासने तव यज्ञमिमं सन्दधातु । बृहस्पतिश्च नः अस्माकमिमं यज्ञं तनुतां विश्वे देवाश्च इहास्मिन्कर्मणि मादयन्तां मोद(य)न्ताम् । मद तृप्तियोगे चुरादिः । बृहस्पतिशब्दश्च पारस्करादिः, वनस्पत्यादिश्च । तेन सुडागमः, पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वं च ॥
विश्वास-प्रस्तुतिः

यन्ते॑ अग्न आवृ॒श्चामि॑ ।
अ॒हव्ँ वा॑ क्षिपि॒तश्चर॑न् ।
प्र॒जाञ्च॒ तस्य॒ मूल॑ञ्च ।
नी॒चैर्दे॑वा॒ निवृ॑श्चत ॥70॥

मूलम्

यन्ते॑ अग्न आवृ॒श्चामि॑ ।
अ॒हव्ँ वा॑ क्षिपि॒तश्चर॑न् ।
प्र॒जाञ्च॒ तस्य॒ मूल॑ञ्च ।
नी॒चैर्दे॑वा॒ निवृ॑श्चत ॥70॥

भट्टभास्कर-टीका

29अनूयाजसमिदाधाने - यं ते अग्न इत्याद्याः तिस्रोऽनुष्टुभः ॥ हे अग्ने! ते तव स्वभूतः अहं यं रिपुं आवृश्चामि सर्वतो नाशयितुं प्रवृत्तः अहं वा चरन् युष्मान् परिचरन् त्वदीयानि चरन् येन रिपुणा क्षिपितः क्षयहेतुं विषयीकृतोऽस्मि । वर्णविकारश्छान्दसः । क्षिपेर्वा निष्ठायामिडागमः । तस्य दुरात्मनः प्रजां पुत्रादि मूलं जीवनहेतुं च धनं नीचैः निवृश्चत न्यग्भूतं नाशयत हे देवाः! । एकस्मिन् पूजार्थं बहुवचनम् । सर्वदेवतामयत्वाद्वा ॥

विश्वास-प्रस्तुतिः

अग्ने॒ यो नो॑ऽभि॒दास॑ति ।
स॒मा॒नो यश्च॒ निष्ट्यः॑ ।
इ॒ध्मस्ये॑व प्र॒क्षाय॑तः ।
मा तस्योच्छे॑षि॒ किञ्च॒न ।

मूलम्

अग्ने॒ यो नो॑ऽभि॒दास॑ति ।
स॒मा॒नो यश्च॒ निष्ट्यः॑ ।
इ॒ध्मस्ये॑व प्र॒क्षाय॑तः ।
मा तस्योच्छे॑षि॒ किञ्च॒न ।

भट्टभास्कर-टीका

30अग्ने यो न इति ॥ व्याख्याता ‘जुष्टो दमूनाः’ इत्यत्र ॥

  • 4हे अग्रे! यः नः अस्मान् अभिदासति उपक्षयति समानजातीयः यश्च निष्ट्यः शिष्यश्चण्डालादिः । तस्य किंचन किंचिदपि मोच्छेषि । अग्नौ प्रक्षिप्तस्य इध्मस्य प्रक्षायतः दाहेन क्षीयमाणस्य दह्यमानस्य न किंचिदुच्छिष्यते तद्वत् ॥
विश्वास-प्रस्तुतिः

यो मान्द्वेष्टि॑ जातवेदः ।
यञ्चा॒हन्द्वेष्मि॒ यश्च॒ माम् ।
सर्वाँ॒ स्तान॑ग्ने॒ सन्द॑ह ।
याँ श्चा॒हन्द्वेष्मि॒ ये च॒ माम् ।

मूलम्

यो मान्द्वेष्टि॑ जातवेदः ।
यञ्चा॒हन्द्वेष्मि॒ यश्च॒ माम् ।
सर्वाँ॒ स्तान॑ग्ने॒ सन्द॑ह ।
याँ श्चा॒हन्द्वेष्मि॒ ये च॒ माम् ।

भट्टभास्कर-टीका

31यो मामिति ॥ हे जातवेदः! यः मां द्वेष्टि मया ज्ञातं, यं चाहं द्वेष्मि, तेन ज्ञातमिति सामर्थ्याद्गम्यते, ज्ञातविषयार्थत्वात् पुनर्वचनस्य । हे अग्ने! सर्वानपि तान् संदह । कान्? यांश्चाहं द्वेष्मि ये च मां द्विषन्ति तत्सहकारिणोऽपि सर्वान् ज्ञाताज्ञातस्वरूपान् संदह ॥

विश्वास-प्रस्तुतिः

अग्ने॑ वाजजित् ।
वाज॑न्त्वा ससृ॒वाँस॑म् ॥71॥
वाज॑ञ्जिगि॒वाँस॑म् ।
वा॒जिनव्ँ॑वाज॒जित॑म् ।
वा॒ज॒जि॒त्यायै॒ सम्मा॑र्ज्मि ।
अ॒ग्निम॑न्ना॒दम॒न्नाद्या॑य ।

मूलम्

अग्ने॑ वाजजित् ।
वाज॑न्त्वा ससृ॒वाँस॑म् ॥71॥
वाज॑ञ्जिगि॒वाँस॑म् ।
वा॒जिनव्ँ॑वाज॒जित॑म् ।
वा॒ज॒जि॒त्यायै॒ सम्मा॑र्ज्मि ।
अ॒ग्निम॑न्ना॒दम॒न्नाद्या॑य ।

भट्टभास्कर-टीका

32द्वितीयेऽग्निसंमार्ग - अग्रे वाजजिदिति ॥ गतं यजुः । भूतप्रत्ययो विशेषः ॥

विश्वास-प्रस्तुतिः

वेदि॑र्ब॒र्हिश्शृ॒तँ ह॒विः ।
इ॒ध्मᳶ प॑रि॒धय॒स्स्रुचः॑ ।
आज्यय्ँ॑ य॒ज्ञ ऋचो॒ यजुः॑ ।
या॒ज्या॑श्च वषट्का॒राः ।
सम्मे॒ सन्न॑तयो नमन्ताम् ।
इ॒ध्म॒स॒न्नह॑ने हु॒ते ॥72॥

मूलम्

वेदि॑र्ब॒र्हिश्शृ॒तँ ह॒विः ।
इ॒ध्मᳶ प॑रि॒धय॒स्स्रुचः॑ ।
आज्यय्ँ॑ य॒ज्ञ ऋचो॒ यजुः॑ ।
या॒ज्या॑श्च वषट्का॒राः ।
सम्मे॒ सन्न॑तयो नमन्ताम् ।
इ॒ध्म॒स॒न्नह॑ने हु॒ते ॥72॥

भट्टभास्कर-टीका

33इध्मसंनहनप्रक्षेपे - वेदिरिति षट्पदा जगती ॥ वेदादयः सन्नतयः सन्नमनशीलाः सन्तः मे मदर्थं सन्नमन्तां मदभिप्रेतफलार्थं पुनःपुनः विधेयीभूय वर्तन्ताम्, यावज्जीवमविच्छेदो यथा भवति कर्मणस्तथा वर्तन्तां स्वयमेव । कर्मकर्तर्यात्मनेपदं, ‘न दुहस्नुनमाम्’ इति यगभावः । इध्मसन्नहने हुते इदमेव निमित्तीकृत्य सन्नमन्तामिति ॥

विश्वास-प्रस्तुतिः

दि॒वᳵ खीलोऽव॑ततः ।
पृ॒थि॒व्या अध्युत्थि॑तः ।
तेना॑ स॒हस्र॑काण्डेन ।
द्वि॒षन्तँ॑ शोचयामसि ।
द्वि॒षन्मे॑ ब॒हु शो॑चतु ।
ओष॑धे॒ मो अ॒हँ शु॑चम् ।

मूलम्

दि॒वᳵ खीलोऽव॑ततः ।
पृ॒थि॒व्या अध्युत्थि॑तः ।
तेना॑ स॒हस्र॑काण्डेन ।
द्वि॒षन्तँ॑ शोचयामसि ।
द्वि॒षन्मे॑ ब॒हु शो॑चतु ।
ओष॑धे॒ मो अ॒हँ शु॑चम् ।

भट्टभास्कर-टीका

34प्रस्तरतृणप्रहरणे - दिवः खील इति जगती षट्पदा ॥ हे तृण! त्वं हि दिवः द्युलोकान् अवततः अधस्ताद्विस्तीर्णः पृथिव्याश्चाध्युत्थितः ऊर्ध्वं स्थितः खीलस्तम्भः धारणस्तम्भस्थानीयः लोकयोः । तेन तादृशेन त्वया । छान्दसं संहितायां दीर्घत्वम् । सहस्रकाण्डेन बहुप्ररोहेण द्विषन्तं शत्रुं शोचयामसि । इदन्तोमसि । स च मे द्विषन् शत्रुः बहु अत्यर्थं शोचतु अहं तु मो मैव शुचम् ॥

विश्वास-प्रस्तुतिः

यज्ञ॒ नम॑स्ते यज्ञ ।
नमो॒ नम॑श्च ते यज्ञ ।

मूलम्

यज्ञ॒ नम॑स्ते यज्ञ ।
नमो॒ नम॑श्च ते यज्ञ ।

भट्टभास्कर-टीका

35शंयुवाके जपः - यज्ञेत्यादि यजुः ॥ हे यज्ञ! तुभ्यं नमः प्रह्वीभावोऽस्तु प्रयोक्ता तव भूयासम् । हे यज्ञ! तुभ्यं नमोनमः पुनःपुनः प्रह्वीभावश्चास्तु ।

विश्वास-प्रस्तुतिः

शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व ।

मूलम्

शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व ।

भट्टभास्कर-टीका

हे यज्ञ! मदर्थं शिवेन निरुपद्रवतया इत्थंभूतः संतिष्ठस्व समाप्तिं गच्छ ।

विश्वास-प्रस्तुतिः

स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व ॥73॥
सु॒भू॒तेन॑ मे॒ सन्ति॑ष्ठस्व ।

मूलम्

स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व ॥73॥
सु॒भू॒तेन॑ मे॒ सन्ति॑ष्ठस्व ।

भट्टभास्कर-टीका

स्योनेन सुखेन सुभूतेन शोभननिर्वर्तितेन ।

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒व॒र्च॒सेन॑ मे॒ सन्ति॑ष्ठस्व ।

मूलम्

ब्र॒ह्म॒व॒र्च॒सेन॑ मे॒ सन्ति॑ष्ठस्व ।

भट्टभास्कर-टीका

ब्रह्मवर्चसेन मन्त्रबलेन ।

विश्वास-प्रस्तुतिः
मूलम्
भट्टभास्कर-टीका

यज्ञस्य यजमानस्य ऋद्धिं फलं अनु लक्षीकृत्य तया वा सह संतिष्ठस्व । लक्षणे ‘तृतीयार्थे’ इत्येव अनोः कर्मप्रवचनीयत्वम् । ‘समवप्रविभ्यः’ इत्यात्मनेपदम् ।

विश्वास-प्रस्तुतिः

य॒ज्ञस्यर्द्धि॒मनु॒ सन्ति॑ष्ठस्व ।

मूलम्

य॒ज्ञस्यर्द्धि॒मनु॒ सन्ति॑ष्ठस्व ।

भट्टभास्कर-टीका

हे यज्ञ! तवापि नमः नमनं मया प्रयोज्यत्वं मामुपगच्छतु मामुपनमेतेति यावत् । सामर्थ्यलभ्या गमनक्रिया ।

विश्वास-प्रस्तुतिः

उप॑ ते यज्ञ॒ नमः॑ ।
उप॑ ते॒ नमः॑ ।
उप॑ ते॒ नमः॑ ।

मूलम्

उप॑ ते यज्ञ॒ नमः॑ ।
उप॑ ते॒ नमः॑ ।
उप॑ ते॒ नमः॑ ।

भट्टभास्कर-टीका

उप ते नमः उप ते नमः इति पौनःपुन्यम् । आदरार्थं वाऽभ्यासः ॥

विश्वास-प्रस्तुतिः

त्रिष्फ॒लीक्रि॒यमा॑णानाम् ।
यो न्य॒ङ्गो अ॑व॒शिष्य॑ते ।
रक्ष॑साम्भाग॒धेय॑म् ।
आप॒स्तत्प्रव॑हतादि॒तः ॥74॥

मूलम्

त्रिष्फ॒लीक्रि॒यमा॑णानाम् ।
यो न्य॒ङ्गो अ॑व॒शिष्य॑ते ।
रक्ष॑साम्भाग॒धेय॑म् ।
आप॒स्तत्प्रव॑हतादि॒तः ॥74॥

भट्टभास्कर-टीका

36उत्करे तण्डुलप्रक्षाळननिनयनम् - त्रिष्फलीक्रियमाणानामित्यनुष्टुभा ॥ त्रिष्फलीक्रियमाणानां त्रिः तण्डुलीक्रियमाणानां शुक्लीक्रियमाणानां तण्डुलानां मध्ये यो न्यङ्गः निकृष्टाङ्गः कणादिरूपः स्वल्पतरः । ‘नेरनिधाने’ इत्युत्तरपदान्तोदात्तत्वम् । अवशिष्यते यागे अनुपयुक्तो भवति प्रमादात्, हे आपः! तत् रक्षसां भागधेयत्वेन इतः स्थानात् प्रवहतात् प्रवहत । ‘तस्य तात्’ इति तादादेशः । आप इति पादादित्वात् न निहन्यते । तदिति सामान्यविवक्षया नपुंसकत्वम् ॥

विश्वास-प्रस्तुतिः

उ॒लूख॑ले॒ मुस॑ले॒ यच्च॒ शूर्पे॑ ।
आ॒शि॒श्लेष॑ दृ॒षदि॒ यत्क॒पाले॑ ।
अ॒व॒प्रुषो॑ वि॒प्रुष॒स्सय्ँय॑जामि ।
विश्वे॑ दे॒वा ह॒विरि॒दञ्जु॑षन्ताम् ।

मूलम्

उ॒लूख॑ले॒ मुस॑ले॒ यच्च॒ शूर्पे॑ ।
आ॒शि॒श्लेष॑ दृ॒षदि॒ यत्क॒पाले॑ ।
अ॒व॒प्रुषो॑ वि॒प्रुष॒स्सय्ँय॑जामि ।
विश्वे॑ दे॒वा ह॒विरि॒दञ्जु॑षन्ताम् ।

भट्टभास्कर-टीका

37अन्वाहार्यपचने पिष्टलेपहोमः - उलूखल इति त्रिष्टुब्भ्याम् । प्रथमा चतुष्पदा । द्वितीया द्विपदा ॥ उलूखलादिषु यत् आशिश्लेष आश्लिष्टमनुपयोग्यमभूत्, तदवयवान् अवप्रुषः विष्वक् च्युतान् विप्रुषः सर्वान् संयजामि । इदं हविः विश्वेदेवाः जुषन्तां सेवन्ताम् ।

विश्वास-प्रस्तुतिः

य॒ज्ञे या वि॒प्रुष॒स्सन्ति॑ ब॒ह्वीः ।
अ॒ग्नौ तास्सर्वा॒स्स्वि॑ष्टा॒स्सुहु॑ता जुहोमि ।

मूलम्

य॒ज्ञे या वि॒प्रुष॒स्सन्ति॑ ब॒ह्वीः ।
अ॒ग्नौ तास्सर्वा॒स्स्वि॑ष्टा॒स्सुहु॑ता जुहोमि ।

भट्टभास्कर-टीका

किञ्च - अस्मिन् यज्ञे पिष्टसम्बन्धिन्यः या अन्या अपि विप्रुषः बह्व्यः उलूखलादिषु श्लिष्टाः ताः सर्वा अपि अग्नावेव स्विष्टाः सुहुताश्च जुहोमि शोभनयागफलप्रदा यथा भवन्ति तथा अग्नौ प्रक्षिपामि । स्वाहेति प्रदानार्थः ॥

विश्वास-प्रस्तुतिः

उ॒द्यन्न॒द्यमि॑त्र महः ।
स॒पत्ना॑न्मे अनीनशः ।
दिवै॑नान् वि॒द्युता॑ जहि ।
नि॒म्रोच॒न्नध॑रान्कृधि ॥75॥

मूलम्

उ॒द्यन्न॒द्यमि॑त्र महः ।
स॒पत्ना॑न्मे अनीनशः ।
दिवै॑नान् वि॒द्युता॑ जहि ।
नि॒म्रोच॒न्नध॑रान्कृधि ॥75॥

भट्टभास्कर-टीका

38’अगन्म सुवः’ इत्युपस्थानानन्तरं आदित्यमुपतिष्ठते - उद्यन्निति षड्भिरनुष्टुब्भिः ॥ हे आदित्य! मित्रमहः! दुःखात्त्रायकतेजः! त्वं उद्यन् उदयं गच्छन् अद्यैवाहनि मम सपत्नान् शत्रून् अनीनशः नाशय ‘छान्दसो लुङ् । तत्क्रममाह - एनान् सपत्नान् दिवा अहनि विद्युता विद्योतमानया भासा जहि नाशय । हन्तेर्जः । अथ निम्रोचन् अस्तं गच्छन् अधरान् निकष्टान् कृधि कुरु रात्रौ तमसैव पीडितान् कुरु । ‘श्रुशृणुपॄकृवृभ्यः’ इति धिभावश्छान्दसः । शपो लुक् ॥

विश्वास-प्रस्तुतिः

उ॒द्यन्न॒द्य वि नो॑ भज ।
पि॒ता पु॒त्रेभ्यो॒ यथा॑ ।
दी॒र्घा॒यु॒त्वस्य॑ हेशिषे ।
तस्य॑ नो देहि सूर्य ।

मूलम्

उ॒द्यन्न॒द्य वि नो॑ भज ।
पि॒ता पु॒त्रेभ्यो॒ यथा॑ ।
दी॒र्घा॒यु॒त्वस्य॑ हेशिषे ।
तस्य॑ नो देहि सूर्य ।

भट्टभास्कर-टीका

39उद्यन्निति ॥ अद्य अस्मिन्नेवाहनि नः अस्मभ्यं विभज धनादिकं पृथक् पृथक् देहि उद्यन् त्वं तवोदयकालमेवाद्य तत्समृद्धिहेतुरस्तु । यथा पिता पुत्रेभ्यो विभजति तथा अस्मभ्यं स्नेहेन विभज । किञ्च - दीर्घायुत्वस्यापि त्वं ईशिषे तस्य नेष्टे पिता । हशब्दस्समुच्चये । आयुषोऽन्त्यलोपश्छान्दसः । ‘अधीगर्थदयेशां कर्मणि’ इति षष्ठी । ‘ईशसे’ इति इडागमः । तस्मात् हे सूर्य! तस्य दीर्घायुष्ट्वस्य अस्मभ्यं देहि । कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी ॥

विश्वास-प्रस्तुतिः

उ॒द्यन्न॒द्य मि॑त्रमहः ।
आ॒रोह॒न्नुत्त॑रा॒न्दिव॑म् ।
हृ॒द्रो॒गम्मम॑ सूर्य ।
ह॒रि॒माण॑ञ्च नाशय ।

मूलम्

उ॒द्यन्न॒द्य मि॑त्रमहः ।
आ॒रोह॒न्नुत्त॑रा॒न्दिव॑म् ।
हृ॒द्रो॒गम्मम॑ सूर्य ।
ह॒रि॒माण॑ञ्च नाशय ।

भट्टभास्कर-टीका

40उद्यन्निति ॥ हे सूर्य! मित्रमहः! उत्तरां दिवं दिवो मध्यं आरोहन् अद्यैव मे हृद्रोगं मानसीं पीडां हरिमाणं हरिततां शोकप्रभवं वैवर्ण्यं कामिलादीन्वा व्याधीन् नाशय ॥

विश्वास-प्रस्तुतिः

शुके॑षु मे हरि॒माण॑म् ।
रो॒प॒णाका॑सु दध्मसि ॥76॥
अथो॑ हारिद्र॒वेषु॑ मे ।
ह॒रि॒माण॒न्निद॑ध्मसि ।

मूलम्

शुके॑षु मे हरि॒माण॑म् ।
रो॒प॒णाका॑सु दध्मसि ॥76॥
अथो॑ हारिद्र॒वेषु॑ मे ।
ह॒रि॒माण॒न्निद॑ध्मसि ।

भट्टभास्कर-टीका

41शुकेष्विति ॥ हे सूर्य! मम हरिमाणं हरिततां हृद्रोगनिमित्तां शुकेषु रोपणाकासु शुकशारिकासु च दध्मसि स्थापयामः ये हरिमाणं प्रार्थयन्ते । अथो अपि हारिद्रवेषु हरितालद्रुमेषु मम हरिमाणं निदध्मसि निभृतं स्थापयामः तत्र सुखमास्तां मा मां बाधिष्ट ॥

विश्वास-प्रस्तुतिः

उद॑गाद॒यमा॑दि॒त्यः ।
विश्वे॑न॒ सह॑सा स॒ह ।
द्वि॒षन्त॒म्मम॑ र॒न्धय॑न् ।
मो अ॒हन्द्वि॑ष॒तो र॑धम् ।

मूलम्

उद॑गाद॒यमा॑दि॒त्यः ।
विश्वे॑न॒ सह॑सा स॒ह ।
द्वि॒षन्त॒म्मम॑ र॒न्धय॑न् ।
मो अ॒हन्द्वि॑ष॒तो र॑धम् ।

भट्टभास्कर-टीका

42उदगादिति ॥ अयं आदित्यः विश्वेन सहसा बलेन सह उदगात् उदेति । किं कुर्वन्? मम द्विषन्तं शत्रुं रन्धयन् हिंसन् उदेति । रध हिंसायां, ‘रधिजभोरचि’ इति नुम् । यस्मात् अयं एवं कुर्वन् उदेति तस्मात् अस्य प्रसादात् अहं मो मैव द्विषतः रधं द्वेषम् । निग्रहक्लेशानुभवो नातःपरं मे भवितेति । उकारोऽवधारणे । रधेः पुषादित्वादङ् ॥

विश्वास-प्रस्तुतिः

यो न॒श्शपा॒दश॑पतः ।
यश्च॑ न॒श्शप॑त॒श्शपा॑त् ।
उ॒षाश्च॒ तस्मै॑ नि॒म्रुक्च॑ ।
सर्व॑म्पा॒पँ समू॑हताम् ॥77॥

मूलम्

यो न॒श्शपा॒दश॑पतः ।
यश्च॑ न॒श्शप॑त॒श्शपा॑त् ।
उ॒षाश्च॒ तस्मै॑ नि॒म्रुक्च॑ ।
सर्व॑म्पा॒पँ समू॑हताम् ॥77॥

भट्टभास्कर-टीका

43यो न इति ॥ अस्मान् अशपतः अनाक्रोशतः यः शपात् शपेत् । लेट्याडागमः । यश्चास्मान् शपतोऽपि वा शपात् । तस्मै तदर्थं तस्मिन् समर्पयितुं तद्विनाशार्थं वा सर्वे सर्वप्रजासम्बन्धि पापं समूहतां संहतं कृत्वा तस्मिन्नेव स्थापयताम् । उषाश्च उदयंश्च निम्रुक्च अस्तमयन् च । यद्वा - अहश्च रात्रिश्च - अस्मत्क्रोशपापवत् सर्वस्मिन्नप्यहोरात्रे पापान्येव कुर्वन् नश्यत्विति यावत् ॥

विश्वास-प्रस्तुतिः

यो न॑स्स॒पत्नो॒ यो रणः॑ ।
मर्तो॑ऽभि॒दास॑ति देवाः ।
इ॒ध्मस्ये॑व प्र॒क्षाय॑तः ।
मा तस्योच्छे॑षि॒ किञ्च॒न ।

मूलम्

यो न॑स्स॒पत्नो॒ यो रणः॑ ।
मर्तो॑ऽभि॒दास॑ति देवाः ।
इ॒ध्मस्ये॑व प्र॒क्षाय॑तः ।
मा तस्योच्छे॑षि॒ किञ्च॒न ।

भट्टभास्कर-टीका

44’समिद्धो अग्ने’ इत्युपसमिन्धनानन्तरं आहवनीयमुपतिष्ठते - यो न इत्यनुष्टुप् ॥ यः मर्तः अस्माकं सपत्नः शत्रुः अनर्थचिन्तकः यश्चास्माभिः सह रणः रणकारी भूत्वा अस्मान् अभिदासति उपक्षपयति । रणं करोतीति णिजन्तात् पचाद्यच् वृषादिर्द्रष्टव्यः । हे देवाः! इध्यस्य काष्ठस्येव प्रक्षायतः प्रकर्षेण क्षीयमाणस्य तस्य सम्बन्धि किंचिदपि मोच्छेषि सर्वमपि गृहधनपशुपुत्रादिकं नश्यतु । क्षै जै षै क्षये ॥

विश्वास-प्रस्तुतिः

अव॑सृष्ट॒ᳶ परा॑पत ।
श॒रो ब्रह्म॑सँशितः ।
गच्छा॒ऽमित्रा॒न्प्रवि॑श ।
मैषा॒ङ्कञ्च॒नोच्छि॑षः ॥78॥

मूलम्

अव॑सृष्ट॒ᳶ परा॑पत ।
श॒रो ब्रह्म॑सँशितः ।
गच्छा॒ऽमित्रा॒न्प्रवि॑श ।
मैषा॒ङ्कञ्च॒नोच्छि॑षः ॥78॥

भट्टभास्कर-टीका

45अभिचरत उपवेषोद्वासने विकल्पः - अवसृष्ट इत्यनुष्टुप् ॥ हे उपवेष! मया अवसृष्टः क्षिप्तः परापत अपुनरावृत्तो गच्छ शरो भूत्वा शरणशीलः शरो हिंसकः, पचाद्यच् । ब्रह्मसंशितः ब्रह्मणा मन्त्रेण ब्रह्मणैव वा संशितः निशितीकृतः स त्वं गच्छ इतः स्थानात् । ततो गत्वा अमित्रान् शत्रून् प्रविश्य कार्त्स्न्येन विषयीकुरु । प्रविश्य च एषां अमित्राणां सम्बन्धि किञ्चिदपि गृहादिकं मोच्छिषः माऽवस्थितं कार्षीः । ऌदित्वादङ् ॥

इति तैत्तिरीयब्राह्मणे तृतीये सप्तमे अच्छिद्रेषु षष्ठोऽनुवाकः ॥