०५ ऐष्टिकयाजमानमन्त्राः

विश्वास-प्रस्तुतिः

देवा॑ दे॒वेषु॒ परा॑क्रमध्वम् ।
प्रथ॑मा द्वि॒तीये॑षु ।
द्विती॑यास्तृ॒तीये॑षु ।
त्रिरे॑कादशा इ॒ह मा॑ऽवत ।

इ॒दँ श॑केयय्ँ॒यदि॒दङ्क॒रोमि॑ ।
आ॒त्मा क॑रोत्वा॒त्मने॑ ।
इ॒दङ्क॑रिष्ये भेष॒जम् ।
इ॒दम्मे॑ विश्वभेषजा ।
अश्वि॑ना॒ प्राव॑तय्ँ यु॒वम् ।

मूलम्

देवा॑ दे॒वेषु॒ परा॑क्रमध्वम् ।
प्रथ॑मा द्वि॒तीये॑षु ।
द्विती॑यास्तृ॒तीये॑षु ।
त्रिरे॑कादशा इ॒ह मा॑ऽवत ।

इ॒दँ श॑केयय्ँ॒यदि॒दङ्क॒रोमि॑ ।
आ॒त्मा क॑रोत्वा॒त्मने॑ ।
इ॒दङ्क॑रिष्ये भेष॒जम् ।
इ॒दम्मे॑ विश्वभेषजा ।
अश्वि॑ना॒ प्राव॑तय्ँ यु॒वम् ।

भट्टभास्कर-टीका

1गार्हपत्याहवनयियोरन्यतरत्र जपित्वा शेते - देवा देवेष्विति ॥ अतिधृतिरियम् । सर्वे पादाष्षट्सप्तत्यक्षराः । ‘इह माऽवत’ इत्यर्धर्चान्तः । हे देवाः! प्रथमा यूयं देवेषु द्वितीयेषु देवेषु । हे देवा द्वितीयाः! यूयं तृतीयेषु देवेषु पराक्रमध्वं अप्रतिबन्धेन वर्तध्वम् । एवं द्यावापृथिव्यन्तरिक्षस्थाः हे त्रिरेकादशाः । त्रिरावृत्ताः एकादशा त्रयस्त्रिंशाः सर्वे यूयं संभूय इह कर्मणि वर्तमानं मां अवत रक्षत प्राप्नुत वा । युष्मत्प्रसादादिदं कर्म कर्तुं शकेयं निर्वर्तयितुं समर्थः स्याम्, यदिदं करोमि कर्तुमारभे । तत्र के वयं? आत्मैव आत्मने करोतु कोऽन्यस्सहायो भवितुमर्हति तद्यथा संपद्यते तथा युष्माभिः कर्तव्यम् । किञ्च - हे अश्विनौ! इदं कर्म भेषजं सर्वानिष्टोपशमनं करिष्ये कर्तुमुत्सहे । तत्र हे विश्वभेषजा! विश्वानिष्टोपशमनकुशलौ । अ- श्विनौ! युवामपि इदं कर्म मदीयं प्रावतं प्राप्नुतं प्रकर्षेणावतं रक्षतम् ॥

विश्वास-प्रस्तुतिः

इ॒दम॒हँ सेना॑या अ॒भीत्व॑र्यै ॥42॥
मुख॒मपो॑हामि ।

मूलम्

इ॒दम॒हँ सेना॑या अ॒भीत्व॑र्यै ॥42॥
मुख॒मपो॑हामि ।

भट्टभास्कर-टीका

2वेदेन कपालेभ्योऽङ्गारानपोहति - इदमहमित्यनुष्टुभोऽर्धर्चेन विवृद्धाक्षरेण ॥ सेनायै अङ्गारसमूहे अभीत्वर्यै अभिन्नगमनशीलायै अभिभवितुं प्रवृत्तायै मुखं प्रधानभूतं अङ्गारं पुरोडाशं दूषयितुं प्रवृत्तमिदं अहमेव अपोहामि अपनयामि । ‘इण्णशिजिसर्तिभ्यः क्वरप्’ ‘दिढ्ढाञ्’ इति ङीप् ॥

विश्वास-प्रस्तुतिः

सूर्य॑ ज्योति॒र्विभा॑हि ।
म॒ह॒त इ॑न्द्रि॒याय॑ ।

मूलम्

सूर्य॑ ज्योति॒र्विभा॑हि ।
म॒ह॒त इ॑न्द्रि॒याय॑ ।

भट्टभास्कर-टीका

3पुरोडाशमभिमन्त्रयते - सूर्यज्योतिरित्यनुष्टुभोऽर्धर्चान्तरेण ॥ सूर्यस्येव ज्योतिर्यस्य तादृशस्सन् विभहि विशेषेण शोभस्व हे पुरोडाश! महत इन्द्रियाय वीर्याय ॥

विश्वास-प्रस्तुतिः

आप्या॑यताङ्घृ॒तयो॑निः ।
अ॒ग्निर्ह॒व्याऽनु॑मन्यताम् ।
खम॑ङ्क्ष्व॒ त्वच॑मङ्क्ष्व ।
सु॒रू॒पन्त्वा॑ वसु॒विद॑म् ।
प॒शू॒नान्तेज॑सा ।
अ॒ग्नये॒ जुष्ट॑म॒भिघा॑रयामि ।

मूलम्

आप्या॑यताङ्घृ॒तयो॑निः ।
अ॒ग्निर्ह॒व्याऽनु॑मन्यताम् ।
खम॑ङ्क्ष्व॒ त्वच॑मङ्क्ष्व ।
सु॒रू॒पन्त्वा॑ वसु॒विद॑म् ।
प॒शू॒नान्तेज॑सा ।
अ॒ग्नये॒ जुष्ट॑म॒भिघा॑रयामि ।

भट्टभास्कर-टीका

4विरजीकृत्याभिघारयति - आप्यायतामिति जगत्या षट्पदया॥ आप्यायतां वर्धतां अग्निः अनेन घृतेन घृतयोनिः घृतकारणः उदकस्य वा हेतुः । पूर्वपदप्रकृतिस्वरत्वं छान्दसम् । हव्यानि च अनुमन्यतां त्वत्प्रसादाद्धविष्ट्वं भवतु एतेन घृतेन संस्कृतत्वात् । गार्हपत्यः अनुमन्यतां आहवनीयो वा, तत्पक्षे । हे पुरोडाश! त्वमपि खं रन्ध्रं पाकजा रञ्जिकां अङ्क्ष्व म्रक्षय त्वचं च अङ्क्ष्व म्रक्षय घृतेन पिहितरन्ध्रं स्निग्धच्छायं च आत्मानं कुरु । तदन्तः तथाकृते सुरूपं शोभनरूपं संजातं त्वा त्वां तत एव वसुविदं धनानां लम्भयितारं पशूनां तेजसा घृतेनानेन अग्नये जुष्टं प्रियं अभिघारयामि । घृ क्षरणे । क्षारणया संस्करोमि ॥

विश्वास-प्रस्तुतिः

स्यो॒नन्ते॒ सद॑नङ्करोमि ॥43॥
घृ॒तस्य॒ धार॑या सु॒शेव॑ङ्कल्पयामि ।
तस्मि॑न्त्सीदा॒मृते॒ प्रति॑तिष्ठ ।
व्री॒ही॒णाम्मे॑ध सुमन॒स्यमा॑नः ।

मूलम्

स्यो॒नन्ते॒ सद॑नङ्करोमि ॥43॥
घृ॒तस्य॒ धार॑या सु॒शेव॑ङ्कल्पयामि ।
तस्मि॑न्त्सीदा॒मृते॒ प्रति॑तिष्ठ ।
व्री॒ही॒णाम्मे॑ध सुमन॒स्यमा॑नः ।

भट्टभास्कर-टीका

5पात्र्यामुपस्तृणीते - स्योनं त इति त्रिष्टुभोऽर्धर्चेन, सादयत्यर्धर्चेन ॥ सदनकरण एवाचार्येण विनियुक्तः । स्योनं सुखहेतुं तव सदनं स्थानं करोमि हे पुरोडाशः । घृतस्य धारया सुशेवं सुखशयनाधारं कल्पयामि तस्मिन् तादृशे सीद । किं बहुना? अमृते अमरणहेतुस्थाने प्रतितिष्ठ प्रतिष्ठितो भव । हे व्रीहीणां मेध! सारपूत! सुमनस्यमानः प्रीयमाणः तस्मिन् सीद ॥

विश्वास-प्रस्तुतिः

आ॒र्द्रᳶ प्र॑थस्नु॒र्भुव॑नस्य गो॒पाः ।

मूलम्

आ॒र्द्रᳶ प्र॑थस्नु॒र्भुव॑नस्य गो॒पाः ।

भट्टभास्कर-टीका

6आज्येन संतर्पयति - आर्द्र इति ॥ इयं द्विपदा त्रिष्टुप् । आर्द्रः शीतीकृतः घृतेन प्रथस्नुः प्रथनशलिः । छान्दसः स्नुप्रत्ययः । भुवनस्य भूतजातस्य गोपाः गोपायिता भवेति शेषः ॥

विश्वास-प्रस्तुतिः

शृ॒त उत्स्ना॑ति जनि॒ता म॑ती॒नाम् ।

मूलम्

शृ॒त उत्स्ना॑ति जनि॒ता म॑ती॒नाम् ।

भट्टभास्कर-टीका

7उद्वासयति - शृत इति ॥ पाकेन शृतः पक्वः ‘शृतं पाके’ इति निपात्यते । उत्स्नाति उन्मुञ्चात्यात्मानं अग्नेः जनिता उत्पादयिता मतीनां प्रज्ञानाम् ॥

विश्वास-प्रस्तुतिः

यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः ।
दे॒वानाव्ँ॑ वि॒ष्ठामनु॒ यो वि॑त॒स्थे ।
आ॒त्म॒न्वान्त्सो॑म घृ॒तवा॒न् हि भू॒त्वा ।
दे॒वान्ग॑च्छ॒ सुव॑र्विन्द॒ यज॑मानाय॒ मह्य॑म् ।

मूलम्

यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः ।
दे॒वानाव्ँ॑ वि॒ष्ठामनु॒ यो वि॑त॒स्थे ।
आ॒त्म॒न्वान्त्सो॑म घृ॒तवा॒न् हि भू॒त्वा ।
दे॒वान्ग॑च्छ॒ सुव॑र्विन्द॒ यज॑मानाय॒ मह्य॑म् ।

भट्टभास्कर-टीका

8सान्नाय्यालङ्करणे - यस्त इति जगती ॥ चतुर्थपादो विवृद्धाक्षरः । हे सान्नाय्य! सोमसदृश! तव य आत्मा घृतलक्षणः पशुषु प्रविष्टः प्रविश्य वर्तते पशूनां वा स्थितिहेतुत्वेन तेषु प्रविष्टः । देवानां विष्ठां विविधं अवस्थानं अनु लक्षीकृत्य स्वयमपि तदनुरूपं वितस्थे वितिष्ठते, यस्तवात्मा घृतरूपः तेन आत्मना आत्मन्वान् बलवान् रक्षणवान् भूत्वा देवान् गच्छ तेषां स्थित्यर्थं सुवः स्वर्गं च विन्द लभस्व यजमानाय मह्यं मदर्थम् ॥

विश्वास-प्रस्तुतिः

इरा॒ भूति॑ᳶ पृथि॒व्यै रसो॒ मोत्क्र॑मीत् ॥44॥

मूलम्

इरा॒ भूति॑ᳶ पृथि॒व्यै रसो॒ मोत्क्र॑मीत् ॥44॥

भट्टभास्कर-टीका

9कपालोद्वासने - इरा भूतिरिति यजुः ॥ इरा अन्नं भूतिः भवनहेतुः प्रजानां पृथिव्या रसः रसवती इरा पृथिव्यास्संबन्धिरसांशः सः मोत्क्रमीत् मा नशत् इत्यनेनाभिप्रायेण त्वां उद्वासयामीति शेषः । ‘नेटि’ इति वृद्धिप्रतिषेधः ॥

विश्वास-प्रस्तुतिः

देवा॑ᳶ पितर॒ᳶ पित॑रो देवाः ।
यो॑ऽहम॑स्मि॒ स सन् य॑जे ।
यस्या॑स्मि॒ न तम॒न्तरे॑मि ।

{स्वम्म॑ इ॒ष्टँ स्वन्द॒त्तम् ।
स्वम्पू॒र्तँ स्वँ श्रा॒न्तम् ।
स्वँ हु॒तम् । }

{तस्य॑ मे॒ऽग्निरु॑पद्र॒ष्टा ।
वा॒युरु॑पश्रो॒ता ।
आ॒दि॒त्यो॑ऽनुख्या॒ता ।
द्यौᳶ पि॒ता ॥45॥
पृ॒थि॒वी मा॒ता ।
प्र॒जाप॑ति॒र्बन्धुः॑ ।
य ए॒वास्मि॒ स सन् य॑जे । }

मूलम्

देवा॑ᳶ पितर॒ᳶ पित॑रो देवाः ।
यो॑ऽहम॑स्मि॒ स सन् य॑जे ।
यस्या॑स्मि॒ न तम॒न्तरे॑मि ।

{स्वम्म॑ इ॒ष्टँ स्वन्द॒त्तम् ।
स्वम्पू॒र्तँ स्वँ श्रा॒न्तम् ।
स्वँ हु॒तम् । }

{तस्य॑ मे॒ऽग्निरु॑पद्र॒ष्टा ।
वा॒युरु॑पश्रो॒ता ।
आ॒दि॒त्यो॑ऽनुख्या॒ता ।
द्यौᳶ पि॒ता ॥45॥
पृ॒थि॒वी मा॒ता ।
प्र॒जाप॑ति॒र्बन्धुः॑ ।
य ए॒वास्मि॒ स सन् य॑जे । }

भट्टभास्कर-टीका

10अध्वर्युहोतृप्रवरे जपति - देवाः पितर इति यजुः ॥ ‘अन्तरेमि’ इति प्रथमावसानम् । ‘स्वं हुतम्’ इति द्वितीयम् । ‘स सन्यजे’ इति सर्वान्ते । हे देवाः! पितरः! पातारः प्रजानां हे पितरः देवाः दानादिगुणयुक्ताः यूयं वयं च इदं जानीम इति सामर्थ्याद्गम्यते । योऽहमस्मि यादृशाचारो यादृग्जातीयश्चास्मि स एव सन् यजे युष्मत्प्रसादेन तादृश एव युष्मान्यष्टुमर्हाणि ।

विश्वास-प्रस्तुतिः

यस्या॑स्मि॒ न तम॒न्तरे॑मि ।

मूलम्

यस्या॑स्मि॒ न तम॒न्तरे॑मि ।

भट्टभास्कर-टीका

किञ्च - यस्य अहमपत्यमस्मि यादृशाचारस्य यादृग्जातीयस्य वा तं तादृशं नान्तरेमि नान्तरितं करोमि नोत्सृजामि तादायनिरेव युष्मान्यष्टुमर्हाणि युष्मत्प्रसादात् । यद्वा - यस्य महाभागस्य साध्वाचारस्य अहमपत्यमस्मि तं अहं नान्तरेमि नान्तरितं करोमि नाच्छादयामि गुणहान्या । अपि तु युष्मत्प्रसादेन सम्यङ्निर्वर्तितयागः तद्गुणानां प्रकाशयिता भूयासम् । यद्वा - यादृशाचारस्य अहमपत्यमस्मि तं नान्तरेमि न त्यजामि सन्तमसन्तं वा तदीयमाचारं अनुप्रपद्ये, तस्य धर्म्यत्वात् ।

विश्वास-प्रस्तुतिः

स्वम्म॑ इ॒ष्टँ स्वन्द॒त्तम् ।
स्वम्पू॒र्तँ स्वँ श्रा॒न्तम् ।
स्वँ हु॒तम् ।

मूलम्

स्वम्म॑ इ॒ष्टँ स्वन्द॒त्तम् ।
स्वम्पू॒र्तँ स्वँ श्रा॒न्तम् ।
स्वँ हु॒तम् ।

भट्टभास्कर-टीका

ततश्चैवंकुर्वाणस्य मम यत् इष्टं वषट्कारेण देवोभ्यो दत्तं तत् ममैव स्वं भवतु ममैव भोगाय भवतु युष्मत्प्रसादात् स्वमेव भवतु । दत्तं दक्षिणाद्रव्यादिकं स्वमेव भवतु । पूर्तं पक्वमन्नादि । पितृभ्यो दत्तमेके । स्वमेव भवतु । श्रान्तं तप्तं तपः स्वमेव भवतु हुतं स्वाहाकारेण दत्तम् । यथा एतत् सर्वं एवं भवति तथा यूयं अनुमन्यध्वम् ।

मूलम्

तस्य॑ मे॒ऽग्निरु॑पद्र॒ष्टा ।
वा॒युरु॑पश्रो॒ता ।
आ॒दि॒त्यो॑ऽनुख्या॒ता ।
द्यौᳶ पि॒ता ॥45॥
पृ॒थि॒वी मा॒ता ।
प्र॒जाप॑ति॒र्बन्धुः॑ ।
य ए॒वास्मि॒ स सन् य॑जे ।

विश्वास-प्रस्तुतिः

तस्य॑ मे॒ऽग्निरु॑पद्र॒ष्टा, वा॒युरु॑पश्रो॒ता , आदि॒त्यो॑ऽनुख्या॒ता द्यौᳶ पि॒ता , पृ॑थि॒वी मा॒ता , प्र॒जाप॑ति॒र्बन्धु॒र् य ए॒वास्मि॒ स सन् य॑जे ।

मूलम्

तस्य॑ मे॒ऽग्निरु॑पद्र॒ष्टा, वा॒युरु॑पश्रो॒ता , आदि॒त्यो॑ऽनुख्या॒ता द्यौᳶ पि॒ता , पृ॑थि॒वी मा॒ता , प्र॒जाप॑ति॒र्बन्धु॒र् य ए॒वास्मि॒ स सन् य॑जे ।

भट्टभास्कर-टीका

तस्य तथा कुर्वतः मे अग्निरुपद्रष्टा द्रष्टव्यानां मया सह द्रष्टा अन्तः बहिश्च उपेत्य प्रकाशयिता वायुः उपश्रोता श्रोतव्यस्य मया सह अन्तर्बहिश्च श्रोता । आदित्यश्च अनुख्याता अनुख्यातव्यस्य अनुक्रमेण प्रकाश्यस्य मया सह अनुक्रमेण ख्यापयिता अन्तर्बहिश्च । द्यौः पिता उदकदानात् मम पितृवत्पालयित्री । पृथिवी च मम माता उत्सङ्गे धारणान्मातृस्थानीया । प्रजापतिः मम बन्धुः व्यसनेभ्यः उत्तारयिता हितकारी । एतच्च युष्माभिः विदितमस्तु । यस्मादेवं तस्मात् अहं य एवास्मि यादृशकर्मा यादायनिः यादृग्जातीयश्चास्मि स तादृश एव सन् यजे अविकलं यष्टुमर्हामि, योग्यतां मे कुरुतेति भावः ॥

विश्वास-प्रस्तुतिः

मा भेर्मा सव्ँ वि॑क्था॒ मा त्वा॑ हिँसिषम् ।

मूलम्

मा भेर्मा सव्ँ वि॑क्था॒ मा त्वा॑ हिँसिषम् ।

भट्टभास्कर-टीका

11पुरोडाशोपस्थाने - मा भेरिति जगती पञ्चपदा ॥ ‘भरतम्’ इत्यादिना तस्याभिमर्शः । हे पुरोडाश! मा भेः मा भैषीः मामयं भिनत्तीति । बिभेतेर्लुङि ‘बहुलं छन्दसि’ इतीडभावः । यद्यपि विध्यन्तरं नास्ति तथाऽपि व्यत्ययेन गुणः । ‘चवायोगे प्रथमा’ इति निघाताभावः । मा च संविक्थाः कम्पिष्ठाः त्वा मा हिंसिंषं न हिंसितुं प्रारभे ।

विश्वास-प्रस्तुतिः

मा ते॒ तेजोऽप॑क्रमीत् ।
भ॒र॒तमुद्ध॑रे॒मनु॑षिञ्च ।

मूलम्

मा ते॒ तेजोऽप॑क्रमीत् ।
भ॒र॒तमुद्ध॑रे॒मनु॑षिञ्च ।

भट्टभास्कर-टीका

मा च तव भीतस्य तेजोऽपक्रमीत् माऽपगात्, ‘नेटि’ इति वृद्धिप्रतिषेधः । अथाभिमर्शे - भरतः भरणात्, औणादिकोऽतच् प्रत्ययः । भरतः यजमानः देवेभ्यो हविर्भरणात् । ब्राह्मणं च भवति - ‘एष हि देवेभ्यो हव्यं भरति’ इति । मनोरपत्यभूता सर्वाऽपि प्रजा मनुषिः, यथा ‘मनुष्वद्भरतवदमुवदमुवत्’ इति । तौ अहं उद्धरे उच्छ्रिते स्वाम्यं धारयामि अन्याभ्यः प्रजाभ्यः तवावदानेन । तस्मात् महत्फलमवाप्स्यसि अतो मा भेरिति ।

केचिदाहुः - भरतः असुरविशेषः हविषां दूषकः तस्य भार्या मनुषिः तावहमुद्धरे ऊर्ध्वं हरामि उत्सारयामि तवावदानेन तस्मात्तवैवायं उपकारः । अतो मा भेरिति । अपरा योजना - भरतं अग्निं यजमानं वा उद्धर यागनिर्वृत्त्या ऊर्ध्वं प्रवर्तय । ईमित्ववधारणे समुच्चये वा । अनुषिञ्च अनन्तरं च सिञ्च वृष्टिमुत्पादय ।

यद्वा - इमां पृथिवीं अनुषिञ्च । इमामित्यस्य वर्णलोपे इमिति । एवं महाफलत्वात् अवदानस्य मा भेरिति । तवावदानानि प्रत्यवदास्यामि । यथोक्तं प्रत्येकमवदास्यामि । नमस्ते अस्तु मा हिंसिः प्रतिकूलकरणाभावात् ॥

विश्वास-प्रस्तुतिः

अ॒व॒दाना॑नि ते प्र॒त्यव॑दास्यामि ।
नम॑स्ते अस्तु॒ मा मा॑ हिँसीः ।
यद॑व॒दाना॑नि तेऽव॒द्यन् ।
विलो॒माका॑र्षमा॒त्मनः॑ ॥46॥

मूलम्

अ॒व॒दाना॑नि ते प्र॒त्यव॑दास्यामि ।
नम॑स्ते अस्तु॒ मा मा॑ हिँसीः ।
यद॑व॒दाना॑नि तेऽव॒द्यन् ।
विलो॒माका॑र्षमा॒त्मनः॑ ॥46॥

भट्टभास्कर-टीका

12प्रत्यनक्ति - यदवदानानीति ॥ इत आरभ्य चतस्रोऽनष्टुभः ॥ अवदानान्यवद्यन् अहं तव यद्विलोम प्रतिकूलमकार्षं आत्मनो मम च परंपरया । यद्वा - तवात्मनः शरीरस्य यद्विलोम विकारमकार्षम् । अव्ययपूर्वपदप्रकृतिरवरत्वे अडागमस्योदात्तत्वात् एकादेशस्य उदात्तत्वम् ।

विश्वास-प्रस्तुतिः

आज्ये॑न॒ प्रत्य॑नज्म्येनत् ।
तत्त॒ आप्या॑यता॒म्पुनः॑ ।

मूलम्

आज्ये॑न॒ प्रत्य॑नज्म्येनत् ।
तत्त॒ आप्या॑यता॒म्पुनः॑ ।

भट्टभास्कर-टीका

एनत् तव विलोम आज्येन प्रत्यनज्मि प्रतिकूलस्वभावमनज्मि यथा वैलोम्यं निवृत्तं स्यात् । किञ्च - तव विलोमनिवृत्तिमात्रमेव न प्रार्थये, अपि तु तत् विकलमङ्गं पुनः भूयोपि आप्यायताम् ॥

विश्वास-प्रस्तुतिः

अज्या॑यो यवमा॒त्रात् ।
आ॒व्या॒धात्कृ॑त्यतामि॒दम् ।

मूलम्

अज्या॑यो यवमा॒त्रात् ।
आ॒व्या॒धात्कृ॑त्यतामि॒दम् ।

भट्टभास्कर-टीका

13प्राशित्रावदाने - अज्याय इति ॥ यवमात्रात् यवप्रमाणात् अज्यायः अवृद्धतरम् । ‘वृद्धस्य च’ इति ज्यादेशः । यवमात्रमेव इदं प्राशित्रं कृत्यतां अवदीयताम् । कुतः प्रदेशात्? आव्याधात् यस्मिन् प्रदेशे देवो यज्ञमविध्यत् तत एव प्रदेशात् कृत्यताम् । कृती छेदने, ‘देवा वै यज्ञाद्रुद्रमन्तरायन् स यज्ञमविध्यत्’ इति ब्राह्मणं ‘रोपयेत्तद्यज्ञस्य'28 इत्यन्तम् ।

विश्वास-प्रस्तुतिः

मा रू॑रुपाम य॒ज्ञस्य॑ ।
शु॒द्धँ स्वि॑ष्टमि॒दँ ह॒विः ।

मूलम्

मा रू॑रुपाम य॒ज्ञस्य॑ ।
शु॒द्धँ स्वि॑ष्टमि॒दँ ह॒विः ।

भट्टभास्कर-टीका

माऽरूरुपाम । रूप विमोहने, माऽऽकुलयाम यज्ञस्य यज्ञम् । कर्मणि षष्ठी । तस्मात् यवमात्रमेव अवदेयम् । इदमेव शुद्धं हविः, देवेन स्पृष्टत्वात् । इदमेव च स्विष्टं शोभनयागहेतुः । यथोक्तं - ‘स्विष्टं वै न इदं भविप्यति’ इति । तस्मदेतावदेव गृह्यतामिति ॥

विश्वास-प्रस्तुतिः

मनु॑ना दृ॒ष्टाङ्घृतप॑दीम् ।
मि॒त्रावरु॑णसमीरिताम् ।
द॒क्षि॒णा॒र्धादस॑म्भिन्दन् ।
अव॑द्याम्येक॒तोमु॑खाम् ॥47॥

मूलम्

मनु॑ना दृ॒ष्टाङ्घृतप॑दीम् ।
मि॒त्रावरु॑णसमीरिताम् ।
द॒क्षि॒णा॒र्धादस॑म्भिन्दन् ।
अव॑द्याम्येक॒तोमु॑खाम् ॥47॥

भट्टभास्कर-टीका

14इडाऽवदाने - मनुनेति ॥ मनुना दृष्टां प्रथमदृष्टां यथा - ‘मनुर्ह्येतामग्रेऽपश्यत्’ इति । घृतपदीं उदकप्रवृत्तिहेतुं घृतस्यैव वा हेतुं पश्वात्मकत्वात् । यथा - यदेवास्यै पदाद्धृतमपीड्यत तस्मादेवमाह'29 इति । कुम्भपद्यादिर्द्रष्टव्यः । मित्रावरुणसमीरितां मित्रावरुणाभ्यां सह प्रेरिताम्, ‘मित्रावरुणौ ह्येनां समैरयताम्'29 इति । ईदृशीं इडां दक्षिणार्धात् पुरोडाशस्य दक्षिणभागात् अवद्यामि अवखण्डयामि असंभिन्दन् असंमिश्रयन् इतरावदानस्थानैः एकतोमुखां एकदिङ्मुखप्रभवाम् ॥

विश्वास-प्रस्तुतिः

इडे॑ भा॒गञ्जु॑षस्व नः ।
जिन्व॒ गा जिन्वार्व॑तः ।
तस्या॑स्ते भक्षि॒वाण॑स्स्याम ।
स॒र्वात्मा॑नस्स॒र्वग॑णाः ।

मूलम्

इडे॑ भा॒गञ्जु॑षस्व नः ।
जिन्व॒ गा जिन्वार्व॑तः ।
तस्या॑स्ते भक्षि॒वाण॑स्स्याम ।
स॒र्वात्मा॑नस्स॒र्वग॑णाः ।

भट्टभास्कर-टीका

15यजमानपञ्चमानां इडाभक्षणमन्त्रः - इडे भागमिति ॥ हे इडे! नः अस्माकं इमं भागं भक्ष्यमाणं जुषस्व प्रीत्या अनुमन्यस्व । ततः अस्माकं गाः जिन्व प्रीणय अर्वतः अश्वांश्च प्रीणय । तस्याश्च तथा कुर्वाणायास्तव भक्षिवाणः भक्षयितारः । ‘अन्येभ्योऽपि दृश्यते’ इति वनिप्प्रत्ययः । अन्तोदात्तत्वं च छान्दसम् । स्याम भवेम । सर्वात्मानः अविकलसकलरूपाः सर्वगणाः पुत्रपौत्रादिगणसहिताश्च स्यामेति । यद्वा - सर्वकालं तव भक्षयितारः स्यामेति ॥

विश्वास-प्रस्तुतिः

ब्रध्न॒ पिन्व॑स्व ।
दद॑तो मे॒ मा क्षा॑यि ।
कु॒र्व॒तो मे॒ मोप॑दसत् ।

मूलम्

ब्रध्न॒ पिन्व॑स्व ।
दद॑तो मे॒ मा क्षा॑यि ।
कु॒र्व॒तो मे॒ मोप॑दसत् ।

भट्टभास्कर-टीका

16बर्हिषदं पुरोडाशमभिमन्त्रयते - ब्रध्न पिन्वस्वेति । सर्वा त्रिपदा ॥ ‘अग्निर्मा दुरिष्टात्’ इत्यत्र व्याख्याता ।

  • ब्रध्न॒ पिन्व॑स्व॒ दद॑तो मे॒ मा क्षा॑यि कुर्व॒तो मे॒ मोप॑दसत्।

    • 7 ——ब्रध्नेति ॥ हे ब्रध्न बन्धक मनसां, त्वय्येव हि मनोस्माकं सर्वदा बद्धम् । ‘बन्धेर्ब्रधिबुधी च’ इति नक्प्रत्ययः । परिबृढस्यैवेयं संज्ञा । पिन्वस्व प्रीणय अस्मानृत्विजश्च । ददतो मे मा क्षायि देयेन धनेन क्षयो मा गामि, अपि तूपचीयताम् । कुर्वतो मे मोपदसत् सामर्थ्यं श्रद्धा वा मोपक्षयं गमत्, अपि तु पुनःपुनर्वर्धताम् । दसु उपक्षये, लुङि पुषादित्वादङ् ॥
विश्वास-प्रस्तुतिः

दि॒शाङ्कॢप्ति॑रसि ।

मूलम्

दि॒शाङ्कॢप्ति॑रसि ।

भट्टभास्कर-टीका

दिशां कॢप्तिरसीत्यादि । दिशां दिग्वासिनां जनानां कॢप्तिः सामर्थ्यं यथा वारवं आत्मलाभः सैव त्वमसि; तद्धेतुत्वात् त्वदुपयोगोपजनितसामर्थ्ये कर्मणि सति वर्षादिना दिग्वासिनां सामर्थ्यलाभ इति कृत्वा ।

विश्वास-प्रस्तुतिः

दिशो॑ मे कल्पन्ताम् ।
कल्प॑न्ताम्मे॒ दिशः॑ ॥48॥
दैवी॑श्च॒ मानु॑षीश्च ।

मूलम्

दिशो॑ मे कल्पन्ताम् ।
कल्प॑न्ताम्मे॒ दिशः॑ ॥48॥
दैवी॑श्च॒ मानु॑षीश्च ।

भट्टभास्कर-टीका

तस्मात् दिशो मे कल्पन्ताम्, त्वदुपयोगात् । किञ्च - मे दिशः प्राच्यादयश्च कल्पन्तां स्ववीर्यकारिण्यो भवन्तु । दैव्यः आदित्यादिकृताः मानुष्यः मनुष्याणां परस्परावस्थानापक्षासमुपजजनितनिबन्धनाः । एक एव हि ग्रामः विवक्षावशात् प्राच्यः प्रतीच्यश्च भवति । यद्वा - दिशा [शो] देवेन व्यवस्था । दैव्यः प्राजापत्यादिकृताः । मानुष्यः मन्वादिकृताः ।

विश्वास-प्रस्तुतिः

अ॒हो॒रा॒त्रे मे॑ कल्पेताम् ।
अ॒र्ध॒मा॒सा मे॑ कल्पन्ताम् ।
मासा॑ मे कल्पन्ताम् ।
ऋ॒तवो॑ मे कल्पन्ताम् ।
सव्ँ॒व॒त्स॒रो मे॑ कल्पताम् ।
कॢप्ति॑रसि॒ कल्प॑ताम्मे ।

मूलम्

अ॒हो॒रा॒त्रे मे॑ कल्पेताम् ।
अ॒र्ध॒मा॒सा मे॑ कल्पन्ताम् ।
मासा॑ मे कल्पन्ताम् ।
ऋ॒तवो॑ मे कल्पन्ताम् ।
सव्ँ॒व॒त्स॒रो मे॑ कल्पताम् ।
कॢप्ति॑रसि॒ कल्प॑ताम्मे ।

भट्टभास्कर-टीका

अहोरात्रे इत्यादि गतम् । तत्र सर्वत्र कॢप्तिरसि त्वमेव तत्तत्कॢप्तिहेतुः, तस्मात् त्वत्प्रसादादेव ममापि कल्पतां दिगादिकम् ॥

विश्वास-प्रस्तुतिः

आशा॑नान्त्वाऽऽशापा॒लेभ्यः॑ ।
च॒तुर्भ्यो॑ अ॒मृते॑भ्यः ।
इ॒दम्भू॒तस्याध्य॑क्षेभ्यः ॥49॥
वि॒धेम॑ ह॒विषा॑ व॒यम् ।

मूलम्

आशा॑नान्त्वाऽऽशापा॒लेभ्यः॑ ।
च॒तुर्भ्यो॑ अ॒मृते॑भ्यः ।
इ॒दम्भू॒तस्याध्य॑क्षेभ्यः ॥49॥
वि॒धेम॑ ह॒विषा॑ व॒यम् ।

भट्टभास्कर-टीका

17चतुर्धा करणे - आशानां त्वेत्यनुष्टुप् ॥ आशानां दिशां सम्बन्धिभ्यः आशापालेभ्यः दिशां नित्यपालकेभ्यः । ‘झत्युपोत्तमम्’ इति उपोत्तमस्य उदात्तत्वम् । अमृतेभ्यः अमरणेभ्यश्च इन्द्रयमवरुणकुबेरेभ्यः भूतस्य भुवनजातस्य सर्वस्य अध्यक्षेभ्यः स्वामिभ्यः तदर्थमिद्धये व्यापृतेभ्यः वयं हविषा अनेन इदं विधेम परिचरेम । तेषामेवेदं परिचरणं यदनेन ऋत्विजः परिचर्यन्त इति भावः । विध विधाने ॥

  • टीका 8अथाष्टमीमाह - हे पशो! त्वां आशानां दिशां मध्ये आशापालेभ्यो विशिष्टानां दिशां पालेभ्यः चतुर्भ्य इन्द्रयमवरुणसोमेभ्योऽमृतेभ्यो देवेभ्यः समर्पयामीति शेषः ॥ भूतस्य अस्मिन्कर्मणि प्राप्तस्य पशोरध्यक्षेभ्यः स्वामिभ्यो देवेभ्यो वयं हविषेदं विधेम शीघ्रमेव परिचरेम ॥॥
विश्वास-प्रस्तुतिः

भज॑ताम्भा॒गी भा॒गम् ।
मा भा॒गोऽभ॑क्त ।

मूलम्

भज॑ताम्भा॒गी भा॒गम् ।
मा भा॒गोऽभ॑क्त ।

भट्टभास्कर-टीका

18दक्षिणतः - भजतामिति यजुः ॥ भागी भागवान् भागार्हः स एवात्र भागं भजताम् । अभागार्हस्तु माऽभक्त भागं मा प्रापत् ।

विश्वास-प्रस्तुतिः

निर॑भा॒गम्भ॑जामः ।

मूलम्

निर॑भा॒गम्भ॑जामः ।

भट्टभास्कर-टीका

ततः वयं अभागं निर्भजामः भागान्निरस्यामः ।

विश्वास-प्रस्तुतिः

अ॒पस्पि॑न्व ।
ओष॑धीर्जिन्व ।
द्वि॒पात्पा॑हि ।
चतु॑ष्पादव ।
दि॒वो वृष्टि॒मेर॑य ।

मूलम्

अ॒पस्पि॑न्व ।
ओष॑धीर्जिन्व ।
द्वि॒पात्पा॑हि ।
चतु॑ष्पादव ।
दि॒वो वृष्टि॒मेर॑य ।

भट्टभास्कर-टीका

त्वं चास्माकं अपः कर्माणि उदकानि वा पिन्व वर्धयेत्यादि व्याख्यातं ‘ध्रुवक्षितिः’ इत्यत्र ॥

  • अ॒प स्पि॒न्वौष॑धीर्जिन्व द्वि॒पात्पा॑हि॒ चतु॑ष्पादव दि॒वो वृष्टि॒मेर॑य ॥ [9]

  • मन्त्रः अ॒प स्पि॑न्व

    • टीका कल्पः—अपस्पिन्वेति पञ्चापस्या अनुपरिहारम्” इति। पाठस्तु अपस्पिन्वेति । हे इष्टके त्वमपो जलानि पिष्व प्रीणय ।
  • मन्त्रः ओष॑धीर्जिन्व ।

    • टीका ओषधीश्च जिन्व प्रीणय ।
  • मन्त्रः द्वि॒पात्पा॑हि ।

    • टीका द्विपान्मनुष्यशरीरं पाहि पालय ।
  • मन्त्रः चतु॑ष्पादव ।

    • टीका चतुष्पात्पशुशरीरमव रक्ष ।
  • मन्त्रः दि॒वो वृष्टि॒मेर॑य ॥

    • टीका दिवः सकाशाद्वृष्टिमेरयाऽऽसमन्तात्प्रववर्तय । एतैर्मन्त्रेः साध्युपधानं विधत्ते— “वृष्टिसनीरुप दवाति वृष्टिमेवाव रुन्धे” (सं. का. ५ प्र. ३ अ. १) इति।
विश्वास-प्रस्तुतिः

ब्रा॒ह्म॒णाना॑मि॒दँ ह॒विः ॥50॥
सो॒म्यानाँ॑ सोमपी॒थिना॑म् ।
निर्भ॒क्तो ब्रा॑ह्मणः ।
नेहाब्रा॑ह्मणस्यास्ति ।

मूलम्

ब्रा॒ह्म॒णाना॑मि॒दँ ह॒विः ॥50॥
सो॒म्यानाँ॑ सोमपी॒थिना॑म् ।
निर्भ॒क्तो ब्रा॑ह्मणः ।
नेहाब्रा॑ह्मणस्यास्ति ।

भट्टभास्कर-टीका

9उत्तरतः - ब्राह्मणानामित्यनुष्टुप् ॥ ब्राह्मणानां इदं हविः सोम्यानां सोमार्हणां सोमपीथिनां सोमपानवतां अन्येषामार्त्विज्याभावात् । तस्मात् अब्राह्मणः अस्माभिः निर्भक्तः निरस्तः । न खल्विह यज्ञे सर्वात्मना अब्राह्मणस्यार्त्विज्यमस्ति ॥

विश्वास-प्रस्तुतिः

सम॑ङ्क्ताम्ब॒र्हिर्ह॒विषा॑ घृ॒तेन॑ ।
समा॑दि॒त्यैर्वसु॑भि॒स्सम्म॒रुद्भिः॑ ।
समिन्द्रे॑ण॒ विश्वे॑भिर्दे॒वेभि॑रङ्क्ताम् ।

  • {दि॒व्यन्नभो॑ गच्छतु॒ यत्स्वाहा॑ ।}
मूलम्

सम॑ङ्क्ताम्ब॒र्हिर्ह॒विषा॑ घृ॒तेन॑ ।
समा॑दि॒त्यैर्वसु॑भि॒स्सम्म॒रुद्भिः॑ ।
समिन्द्रे॑ण॒ विश्वे॑भिर्दे॒वेभि॑रङ्क्ताम् ।

  • {दि॒व्यन्नभो॑ गच्छतु॒ यत्स्वाहा॑ ।}
भट्टभास्कर-टीका

20बर्हिषो धातून् संप्रलुप्य ध्रुवायां समनक्ति - समङ्क्तामिति त्रिष्टुभा ॥ अनेन घृतेन हविषा समङ्क्तां एकीकृत्याक्तमस्तु । अनेन समक्तं आदित्यैः वसुभिः मरुद्भिः इन्द्रेण विश्वैर्देवैश्च समक्तमस्तु तत्सम्बन्धार्हमस्तु ॥

विश्वास-प्रस्तुतिः

दि॒व्यन्नभो॑ गच्छतु॒ यत्स्वाहा॑ ।

मूलम्

दि॒व्यन्नभो॑ गच्छतु॒ यत्स्वाहा॑ ।

भट्टभास्कर-टीका

21अग्नौ प्रहरति - दिव्यमिति पादेन ॥ दिव्यं दिविभवं यन्नभः आदित्याख्यं तेजः तद्गच्छतु प्राप्नोतु इदं बर्हिः । स्वाहेति प्रदानार्थः ॥

विश्वास-प्रस्तुतिः

इ॒न्द्रा॒णीवा॑ऽविध॒वा भू॑यासम् ।
अदि॑तिरिव सुपु॒त्रा ।
अ॒स्थू॒रि त्वा॑ गार्हपत्य ॥51॥
उप॒निष॑दे सुप्रजा॒स्त्वाय॑ ।

मूलम्

इ॒न्द्रा॒णीवा॑ऽविध॒वा भू॑यासम् ।
अदि॑तिरिव सुपु॒त्रा ।
अ॒स्थू॒रि त्वा॑ गार्हपत्य ॥51॥
उप॒निष॑दे सुप्रजा॒स्त्वाय॑ ।

भट्टभास्कर-टीका

22पत्नी जघनेन गार्हपत्यं उपसीदति - इन्द्राणीवेति । अयं बृहतीविशेषः ॥ इन्द्राणीव इन्द्रस्य पत्नीव अविधवा यावज्जीवं भर्तृमती भूयासम् । अदितिः देवमातेव सुपुत्रा शोभनप्रुत्रा भूयासम् । पुत्रवती भुयासम् । उभयत्रापि ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । हे गार्हपत्य! त्वां अस्थूरिणं शिरसा वोढव्यानां वोढारं सर्वार्थसाधकम् । उक्तं च - ‘सर्वं ह्यस्थूरिणाभ्यश्नुते’ इति । तादृशं त्वां उपनिषदे उपेत्य निषीदामि । व्यत्ययेन शः, आत्मनेपदम् । सुप्रजास्त्वाय शोभनापत्यत्वाय । ‘नित्यमसिच्’ इति समासान्ते छान्दसं दीर्घत्वम् ॥

विश्वास-प्रस्तुतिः

सम्पत्नी॒ पत्या॑ सुकृ॒तेन॑ गच्छताम् ।
य॒ज्ञस्य॑ यु॒क्तौ धुर्या॑वभूताम् ।
स॒ञ्जा॒ना॒नौ विज॑हता॒मरा॑तीः ।
दि॒वि ज्योति॑र॒जर॒मार॑भेताम् ।

मूलम्

सम्पत्नी॒ पत्या॑ सुकृ॒तेन॑ गच्छताम् ।
य॒ज्ञस्य॑ यु॒क्तौ धुर्या॑वभूताम् ।
स॒ञ्जा॒ना॒नौ विज॑हता॒मरा॑तीः ।
दि॒वि ज्योति॑र॒जर॒मार॑भेताम् ।

भट्टभास्कर-टीका

23संपत्नीयहोमः - सं पत्नीति त्रिष्टुप् ॥ पत्या सह पत्नी सुकृतेन सम्यगनुष्ठितकर्मफलेन संगच्छताम् । यज्ञस्य च धुर्यौ धुरो वोढारौ पत्नीयजमानौ सर्वदा युक्तौ धुर्याविव सङ्गतौ अभूतां भवताम् । छान्दसो लुङ्, ‘धुरो यढ्ढञौ’ सञ्जानानौ ऐकमत्यं गतौ अत एव अरातीः शत्रून्विजहतां विजहीताम् । छान्दसमत्वम् । दिवि स्थितं ज्योतिरादित्यात्मकं पुरुषं अजरं नित्यं आरभेतां आभिमुख्येन प्राप्नुताम् ॥

विश्वास-प्रस्तुतिः

दश॑ते त॒नुवो॑ यज्ञ य॒ज्ञियाः॑ ।
ताᳶ प्री॑णातु॒ यज॑मानो घृ॒तेन॑ ।
ना॒रि॒ष्ठयो॑ᳶ प्र॒शिष॒मीड॑मानः ।
दे॒वाना॒न्दैव्येऽपि॒ यज॑मानो॒ऽमृतो॑ऽभूत् ।

मूलम्

दश॑ते त॒नुवो॑ यज्ञ य॒ज्ञियाः॑ ।
ताᳶ प्री॑णातु॒ यज॑मानो घृ॒तेन॑ ।
ना॒रि॒ष्ठयो॑ᳶ प्र॒शिष॒मीड॑मानः ।
दे॒वाना॒न्दैव्येऽपि॒ यज॑मानो॒ऽमृतो॑ऽभूत् ।

भट्टभास्कर-टीका

24देहपातोत्तरकालं नारिष्ठहोमाः चत्वारः - दश त इति त्रिष्टुप् ॥ हे यज्ञ! तव दश तनुवः शरीराणि यज्ञिया यज्ञसंपादनार्हाः दश प्राणाः तव तनुस्थानीयाः ताः प्रीणातु तर्पयतु यजमानो धृतेन । नारिष्ठयोः देवयोः प्रशिषं प्रकृष्टशासनं ईडमानः स्तुवन् याचमानो वा प्रशासित्रोः तयोः प्रशासने वर्तमान इत्यर्थः । नॄ नये, अतिशयेन नेतारः यजमानाः नारिष्ठाः । ‘तुश्छन्दसि’ इतीष्ठन् । तेषां संबन्धिनौ देवौ नारिष्ठौ अग्निवायू, अग्न्यादित्यौ, अन्यौ वा कौचित् । ‘शासः क्वौ’ इतीत्वम् । ईडेर्व्यत्ययेन शप् । अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वम्, ‘अदुपदेशात्’ इति वा । देवानामपि सम्बन्धिनि दैव स्थाने देवैकयोग्ये । ‘देवाद्यञञौ’ इति यञ् । तत्रापि अयं यजमानोऽभूत् भवतु । छान्दसो लुङ्, लेटि वा शपो लुक्, ‘भूसुवोस्तिङि’ इति गुणाभावः । अमृतः अमरणः तत्र वर्ततामिति ॥

विश्वास-प्रस्तुतिः

यव्ँ वा॑न्दे॒वा अ॑कल्पयन्न् ॥52॥
ऊ॒र्जो भा॒गँ श॑तक्रतू ।
ए॒तद्वा॒न्तेन॑ प्रीणानि ।
तेन॑ तृप्यतमँहहौ ।

मूलम्

यव्ँ वा॑न्दे॒वा अ॑कल्पयन्न् ॥52॥
ऊ॒र्जो भा॒गँ श॑तक्रतू ।
ए॒तद्वा॒न्तेन॑ प्रीणानि ।
तेन॑ तृप्यतमँहहौ ।

भट्टभास्कर-टीका

25यं वामित्यनुष्टुप् ॥ हे नारिष्ठौ! वां युवयोः यं ऊर्जः रसस्य भागं देवाः अकल्पयन् हे शतक्रतू! बहुकर्माणौ तेन वां युवां प्रीणानि यदेतज्जुहोमि, तस्मात् तेन आत्मीयेन भागेन तृप्यत तृप्तौ भवतं हे अंहहौ! अंहसां हन्तारौ । व्यञ्जनलोपः छान्दसः । यद्वा - अंहानां गतीनां ज्ञातारौ ज्ञानानां वा गन्तारौ । अहि गतौ, ओ हाङ् गतौ ॥

विश्वास-प्रस्तुतिः

अ॒हन्दे॒वानाँ॑ सु॒कृता॑मस्मि लो॒के ।
ममे॒दमि॒ष्टन्न मिथु॑र्भवाति ।
अ॒हन्ना॑रि॒ष्ठावनु॑ यजामि वि॒द्वान् ।
यदा॑भ्या॒मिन्द्रो॒ अद॑धाद्भाग॒धेय॑म् ।

मूलम्

अ॒हन्दे॒वानाँ॑ सु॒कृता॑मस्मि लो॒के ।
ममे॒दमि॒ष्टन्न मिथु॑र्भवाति ।
अ॒हन्ना॑रि॒ष्ठावनु॑ यजामि वि॒द्वान् ।
यदा॑भ्या॒मिन्द्रो॒ अद॑धाद्भाग॒धेय॑म् ।

भट्टभास्कर-टीका

26अहं देवानामिति त्रिष्टुभौ ॥ अहं देवानां संबन्धिनि सुकृतां शोभनकर्मकारिणां यजमानानां लोके स्थाने अस्मि भविष्यामि भूयासं वा । ‘आशंसायां भूतवच्च’ इति वर्तमानवत्प्रत्ययः । कुत इत्याह मम इदं इष्टं यागः न मिथुः न मिथ्या भवाति । लेट्याडागमः । एतदपि कुत इत्याह - अहं हि नारिष्ठौ देवौ अनुयजामि यागस्यानन्तरं यजामि विद्वान् तयोः महिमानं जानन् । केन भागेनेत्याह - यत् आभ्यां देवाभ्यां भागधेयं इन्द्रः अदधात् व्यदधात्, तेन इमौ यजामि एवमिदं विद्वान्, ततः सुकृतां लोके अस्मीति ॥

विश्वास-प्रस्तुतिः

अदा॑रसृद्भवत देव सोम ।
अ॒स्मिन् य॒ज्ञे म॑रुतो मृडता नः ।
मा नो॑ विदद॒भिभा॒मो अश॑स्तिः ॥53॥
मा नो॑ विदद्वृ॒जना॒ द्वेष्या॒ या ।

मूलम्

अदा॑रसृद्भवत देव सोम ।
अ॒स्मिन् य॒ज्ञे म॑रुतो मृडता नः ।
मा नो॑ विदद॒भिभा॒मो अश॑स्तिः ॥53॥
मा नो॑ विदद्वृ॒जना॒ द्वेष्या॒ या ।

भट्टभास्कर-टीका

27अदारसृदिति ॥ हे देव! सोम! त्वं अदारसृत् भवत भव अस्माकं दाराणां पत्नीनां अस्रंसयिता, दारेभ्यो वा अस्रंसयिता, दारेभ्यो वा रेतसोऽस्रंसयिता अदारसृत् ‘सोमो वै रेतोधाः’ प्रजासमृद्धिं अस्मात् प्रार्थयते । व्यत्ययेन बहुवचनम् । हे मरुतः! यूयमपि अस्मिन् यज्ञे वर्तमानान् नः अस्मान् मृडत सुखयत । ततः युष्मत्प्रसादभाजः नः अस्मान् भामः क्रोधः माऽभिविदत् आभिमुख्येन मा प्रापत् शत्रूणां क्रोधफलं अस्मासु सङ्क्रान्तं माभूदिति यावत् । विन्दतिर्ल्वादिः, ऌदित्वादङ् । भाम क्रोधे । अशस्तिः अकीर्तिश्च अस्मान् माऽभिविददित्येव । मा चास्मान् विदत् वृजना वृजिनं पापं वर्जनीयं वा कर्म । ‘सुपां सुलुक्’ इत्याकारः । यद्वा - वृजना, वृजिनानि । शेर्लोपः । विदत् इति व्यत्ययेनैकवचनम् । यानि चान्यानि द्वेष्याणि तान्यपि मा अस्मान् विदन् ॥

विश्वास-प्रस्तुतिः

ऋ॒ष॒भव्ँ वा॒जिनव्ँ॑व॒यम् ।
पू॒र्णमा॑सय्ँयजामहे ।
स नो॑ दोहताँ सु॒वीर्य॑म् ।
रा॒यस्पोषँ॑ सह॒स्रिण॑म् ।
प्रा॒णाय॑ सु॒राध॑से ।
पू॒र्णमा॑साय॒ स्वाहा॑ ।

मूलम्

ऋ॒ष॒भव्ँ वा॒जिनव्ँ॑व॒यम् ।
पू॒र्णमा॑सय्ँयजामहे ।
स नो॑ दोहताँ सु॒वीर्य॑म् ।
रा॒यस्पोषँ॑ सह॒स्रिण॑म् ।
प्रा॒णाय॑ सु॒राध॑से ।
पू॒र्णमा॑साय॒ स्वाहा॑ ।

भट्टभास्कर-टीका

28पार्वणहोमौ - ऋषभमिति द्वौ ॥ प्रथमा पञ्चपदा पङ्क्तिर्यजुरन्ता पौर्णमास्याः । द्वितीया जगती यजुरन्ता त्रिष्टुप्चामावास्यायाः ॥ ऋषभं प्रधानं वाजिनं अन्नवन्तं अन्नसाधनत्वात्, हविर्वा । तद्वन्तं वयं पूर्णमासं पर्व पूर्णो माश्चन्द्रोऽस्मिन्निति पूर्णमासः । यजामहे अनयाऽऽहुत्या । स चास्माभिः इष्टः पूर्णमासः नः अस्माकं सुवीर्यं शोभनवीर्ययुक्तं रायस्पोषं धनपुष्टिं सहस्रिणं बहुत्ववन्तं, ‘तपस्सहस्राभ्यां विनीनी’ । दोहतां दुग्धाम्, ददातु । व्यत्ययेन शप् । प्राणाय सुराधसे शोभनधनहेतवे ईदृशप्राणस्थित्यर्थं रायस्पोषं दुग्धां, स्वाहा स्वाहुतं च इदमस्तु तस्मै पूर्णमासाय । यद्वा - प्राणस्थितिहेतवे सुराधसे पूर्णमासाय स्वाहुतमिदमस्त्विति । ‘सोर्मनसि’ इत्युत्तरपदाद्युदात्तत्वम् ॥

विश्वास-प्रस्तुतिः

अ॒मा॒वा॒स्या॑ सु॒भगा॑ सु॒शेवा॑ ।
धे॒नुरि॑व॒ भूय॑ आ॒प्याय॑माना ।
सा नो॑ दोहताँ सु॒वीर्य॑म् ।
रा॒यस्पोषँ॑ सह॒स्रिण॑म् ।
अ॒पा॒नाय॑ सु॒राध॑से ।
अ॒मा॒वा॒स्या॑यै॒ स्वाहा॑ ।

मूलम्

अ॒मा॒वा॒स्या॑ सु॒भगा॑ सु॒शेवा॑ ।
धे॒नुरि॑व॒ भूय॑ आ॒प्याय॑माना ।
सा नो॑ दोहताँ सु॒वीर्य॑म् ।
रा॒यस्पोषँ॑ सह॒स्रिण॑म् ।
अ॒पा॒नाय॑ सु॒राध॑से ।
अ॒मा॒वा॒स्या॑यै॒ स्वाहा॑ ।

भट्टभास्कर-टीका

29अमावास्येति ॥ अमा सहवसतः सूर्याचन्द्रमसौ अस्यां इत्यमावास्या । ‘अमावस्यदन्यतरस्याम्’ पक्षे ण्यत् । सुभगा शोभनधना सुशेवा सुसुखा । उभयत्रापि ‘द्व्यचश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । दुग्धा धेनुः यथा भूयोऽप्याप्यायते एवं पुनःपुनः आप्यायमाना वर्धमाना वर्धमानधना । सा न इत्यादि तुल्यम् । अपानहेतुत्वात्तेन ताच्छब्द्यम् । अमावास्याया इति विशेषः ॥

विश्वास-प्रस्तुतिः

अ॒भिस्तृ॑णीहि॒ परि॑धेहि॒ वेदि॑म् ।
जा॒मिम्मा हिँ॑सीरमु॒या शया॑ना ।
हो॒तृ॒षद॑ना॒ हरि॑तास्सु॒वर्णाः॑ ।
नि॒ष्का इ॒मे यज॑मानस्य ब्र॒ध्ने ॥54॥

मूलम्

अ॒भिस्तृ॑णीहि॒ परि॑धेहि॒ वेदि॑म् ।
जा॒मिम्मा हिँ॑सीरमु॒या शया॑ना ।
हो॒तृ॒षद॑ना॒ हरि॑तास्सु॒वर्णाः॑ ।
नि॒ष्का इ॒मे यज॑मानस्य ब्र॒ध्ने ॥54॥

भट्टभास्कर-टीका

30होतृषदनैः वेदिमभिस्तृणाति - अभिस्तृणीहीति त्रिष्टुभा ॥ हे बर्हिरोषधे! अभिस्तृणीहि वेदिं अभितः छादय परिधेहि परित आच्छादय वस्त्रेणेव, जामिं साहचर्यात् भगिनीस्थानीयां इमां वेदिं मा हिंसीः अमुया अनया सह शयाना । यद्वा - अमुत्र वेद्यां शयाना । ‘सुपां सुलुक्’ इति याजादेशः । इदानीं परोक्षवत् स्तूयते - होतृषदनाः होता येषु निषीदति हरिताः हरितवर्णाः सुवर्णाः शोभनच्छायाः इमे यजमानस्य ब्रध्ने परिवृढभोगस्थाने निष्काः अलङ्कारभूताः भविष्यन्ति । तस्मात् इत्थंभूतं त्वं वेदिमभिस्तृणीहि ॥

इति तैत्तिरीयब्राह्मणे तृतीये सप्तमे अच्छिद्रेषु पञ्चमोऽनुवाकः ॥