भास्करोक्त-विनियोगः
1प्रणीताः प्रणीयमाना अनुमन्त्रयते - याः पुरस्तादिति ॥ आनुष्टुभोऽनुवाकः । विशेषो वक्ष्यते ।
विश्वास-प्रस्तुतिः ...{Loading}...
याᳶ पु॒रस्ता॑त् प्र॒स्रव॑न्ति ।
उ॒परि॑ष्टात् स॒र्वत॑श् च॒ याः ।
ताभी॑ र॒श्मि-प॑वित्राभिः ।
श्र॒द्धाय्ँ य॒ज्ञम् आर॑भे ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
याᳶ पु॒रस्ता॑त्प्र॒स्रव॑न्ति ।
उ॒परि॑ष्टात्स॒र्वत॑श्च॒ याः ।
ताभी॑ र॒श्मिप॑वित्राभिः ।
श्र॒द्धाय्ँ य॒ज्ञमार॑भे ।
भट्टभास्कर-टीका
याः आपः पुरस्तात् पूर्वस्यां दिशि प्रस्रवन्ति नद्यो भूत्वा प्रकर्षेण गच्छन्ति । उपरिष्टात् ऊर्ध्वायां दिशि याः प्रस्रवन्तीत्येव । आदित्यरश्मिषु प्रविशन्ति । सर्वतः सर्वासु च दिक्षु याः प्रस्रवन्ति नदीकुल्यादिरूपेण । ताभिः सर्वाभिः रश्मिपवित्राभिः सूर्यरश्मयः पवित्रं शोधका यासां तादृशीभिः अद्भिः श्रद्धां श्रद्धेयं श्रद्धासाध्यं यज्ञमारभे । यद्वा - ‘श्रद्धा वा आपः’ इति तादृशीभिरद्भिः साध्यं यज्ञमारभे । ताभिः श्रद्धावन्तं वा ॥
भास्करोक्त-विनियोगः
2विहृतेष्व् अग्निषु अन्वाधानात् प्राक् जपति - देवा गातुविद इति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
देवा॑ गातुविदः ।
गा॒तुय्ँ+++(=मार्गं)+++ य॒ज्ञाय॑ विन्दत ।
मन॑स॒स्पति॑ना दे॒वेन॑ ।
वाता॑द् य॒ज्ञᳶ प्रयु॑ज्यताम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
देवा॑ गातुविदः ।
गा॒तुय्ँ य॒ज्ञाय॑ विन्दत ।
मन॑स॒स्पति॑ना दे॒वेन॑ ।
वाता॑द्य॒ज्ञᳶ प्रयु॑ज्यताम् ।
भट्टभास्कर-टीका
हे देवाः! देवनशीलाः! धातुविदः! गमनज्ञाः! यज्ञनिर्वहणोपायज्ञाः! यज्ञाय यज्ञनिर्वृत्त्यर्थं गातुं गतिं विन्दत लभध्वम् । मनसस्पतिना मनसोपि पालयित्रा परमात्मना देवेन दीप्तिमता वातात्सर्वपरिस्पन्दाश्रयात् प्राणात् ईश्वरस्य क्रियाशक्तिरूपात् अपादाय यज्ञः प्रयुज्यतां निर्वर्त्यताम् ॥
भास्करोक्त-विनियोगः
3परिवेषपरिवासनशकलमादाय प्रज्ञातं निदधाति - तृतीयस्यै दिव इति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
तृ॒तीय॑स्यै दि॒वः ।
गा॒य॒त्रि॒या सोम॒ आभृ॑तः ॥24॥
सो॒म॒पी॒थाय॒ सन्न॑यितुम् ।
वक॑ल॒मन्त॑र॒माद॑दे ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
तृ॒तीय॑स्यै दि॒वः ।
गा॒य॒त्रि॒या सोम॒ आभृ॑तः ॥24॥
सो॒म॒पी॒थाय॒ सन्न॑यितुम् ।
वक॑ल॒मन्त॑र॒माद॑दे ।
भट्टभास्कर-टीका
तृतीयात् द्युसंज्ञिकाल्लोकात् । यद्वा - द्योतनात्सर्वे लोका दिवः, यथा ‘तृतीयस्यामितो दिवि सोम आसीत्’ इति। ततो लोकात् गायत्रिया सोम आभृतः आहृतः पुरा, पलाशश्चायं सोमाहरणकाले छिन्नं तदीयं पर्णं, तस्मात् अन्तरं तयोर्मध्ये स्थितं वकलं आददे गृह्णामि । किमर्थं? सोमपीथाय सोमपानाय सन्नयितुं सन्नेतुम् । छान्दस इडागमः । ‘सोमः खलु वै सान्नाय्यम्’ इति तस्य सोमतुल्यत्वात् । सान्नाय्यकरणं सोमपानायोपचर्यते । सान्नाय्यस्य तदातञ्चननिमित्तत्वात् तादर्थ्यं वकलादानस्य ॥
भास्करोक्त-विनियोगः
4सान्नाय्यपात्रप्रोक्षणे जपति - आपो देवीरिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
आपो॑ देवीश्शु॒द्धास्स्थ॑ ।
इ॒मा पात्रा॑णि शुन्धत ।
उ॒पा॒त॒ङ्क्या॑य दे॒वाना॑म् ।
प॒र्ण॒व॒ल्कमु॒त शु॑न्धत ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
आपो॑ देवीश्शु॒द्धास्स्थ॑ ।
इ॒मा पात्रा॑णि शुन्धत ।
उ॒पा॒त॒ङ्क्या॑य दे॒वाना॑म् ।
प॒र्ण॒व॒ल्कमु॒त शु॑न्धत ।
भट्टभास्कर-टीका
देवीः देवनवत्यः । पूर्वसवर्णः । नित्यं शुद्धाः स्थ यूयम् । ता यूयं इमा इमानि पात्राणि शुन्धत शोधयत । किञ्च - देवानां पयसः उपातङ्क्याय आतञ्चनार्थं पर्णवल्कं पलाशशकलमपि शुन्धत तदपि तत्र निधाय प्रोक्षणं युक्तमिति गम्यते ॥
भास्करोक्त-विनियोगः
5वल्केनातञ्चन-पक्षे आतञ्चन-मन्त्रः - पयो गृहेष्विति त्रिष्टुप् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ ।
पयो॑ व॒त्सेषु॒ पय॒ इन्द्रा॑य ह॒विषे॑ ध्रियस्व ।
गा॒य॒त्री प॑र्णव॒ल्केन॑ ।
पय॒स्सोम॑ङ्करोत्वि॒मम् ॥25॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ ।
पयो॑ व॒त्सेषु॒ पय॒ इन्द्रा॑य ह॒विषे॑ ध्रियस्व ।
गा॒य॒त्री प॑र्णव॒ल्केन॑ ।
पय॒स्सोम॑ङ्करोत्वि॒मम् ॥25॥
भट्टभास्कर-टीका
द्वितीयः पादो विवृद्धाक्षरः । यत्पयः गृहेषु प्रजाभिः उपयुज्यते । अघ्नियासु गोषु च यत्पयस्तिष्ठति, वत्सेषु च यत्पयः पीतमस्ति यच्चेदं पयः त्वयि निहितं एतत्सर्वमपि इन्द्राय हविरुत्पादनार्थं ध्रियस्व धारय । अन्तर्भावितण्यर्थः। यद्वा - गृहादिष्विव त्वयि निहितमपि पयो यस्माद्धविरर्थमेव, तस्मात् ते बिभ्रति त्वं ध्रियस्व गृहादय इव त्वमविचला अवतिष्ठस्व । ततः त्वयि तादृश्यां सत्यां गायत्रीपर्णवल्कातञ्चनेनेदं पयः सोमसदृशं करोतु । सोमापेक्षं इममिति पुल्लिङ्गत्वम् ॥
भास्करोक्त-विनियोगः
6आहवनीयान्वावाधाने जपः - अग्निं गृह्णामीति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निङ्गृ॑ह्णामि सु॒रथय्ँ॒यो म॑यो॒भूः ।
य उ॒द्यन्त॑मा॒रोह॑ति॒ सूर्य॒मह्ने॑ ।
आ॒दि॒त्यञ्ज्योति॑षा॒ञ्ज्योति॑रुत्त॒मम् ।
श्वो य॒ज्ञाय॑ रमतान्दे॒वता॑भ्यः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अ॒ग्निङ्गृ॑ह्णामि सु॒रथय्ँ॒यो म॑यो॒भूः ।
य उ॒द्यन्त॑मा॒रोह॑ति॒ सूर्य॒मह्ने॑ ।
आ॒दि॒त्यञ्ज्योति॑षा॒ञ्ज्योति॑रुत्त॒मम् ।
श्वो य॒ज्ञाय॑ रमतान्दे॒वता॑भ्यः ।
भट्टभास्कर-टीका
प्रथमा त्रिष्टुप् । जगती वा, तृतीयाचतुर्थ्यौ जगत्यौ । अग्निं सुरथं शोभनरंहणं गृह्णामि पूर्वम्, योऽग्निः मयोभूः सुखस्य भावयिता प्रजानां, यश्च उद्यन्तं सूर्यमारोहति । यथोक्तं ‘उद्यन्तं वावादित्यमग्निरनु समारोहति’ इति । अह्ने अह्नो निर्वृत्त्यर्थम् । सूर्यं विशिनष्टि - आदित्यं अदितेः पुत्रं ज्योतिषां उत्तमं ज्योतिः ईदृशं सूर्यं य आरोहति तं अग्निं गृह्णामि । किमर्थं श्वो देवताभ्यः देवता आराधयितुं यज्ञाय यज्ञनिर्वृत्तये यजमानो रमतामित्येवमर्थम् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
वसू॑न्रु॒द्राना॑दि॒त्यान् ।
इन्द्रे॑ण स॒ह दे॒वताः॑ ।
ताᳶ पूर्व॒ᳶ परि॑गृह्णामि ।
स्व आ॒यत॑ने मनी॒षया॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
वसू॑न्रु॒द्राना॑दि॒त्यान् ।
इन्द्रे॑ण स॒ह दे॒वताः॑ ।
ताᳶ पूर्व॒ᳶ परि॑गृह्णामि ।
स्व आ॒यत॑ने मनी॒षया॑ ।
भट्टभास्कर-टीका
7वसूनित्यादि ॥ वसून् रुद्रान् आदित्यान् अन्याश्च देवताः इन्द्रेण सह या वर्तन्ते मरुदादयः तास्सर्वाः पूर्वः प्रथमभाव्यहं परिगृह्णामि अग्नेरनन्तरं स्व आयतने आहवनीये गृह्णामि मनीषया मनस ईशया विशिष्टया प्रज्ञया ॥
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒माम् ऊर्ज॑म् पञ्चद॒शीय्ँ ये प्रवि॑ष्टाः ।
तान् दे॒वान् परि॑गृह्णामि॒ पूर्वः॑ ॥26॥
अ॒ग्निर् ह॑व्य॒वाड् इ॒ह तान् आव॑हतु ।
पौ॒र्णमा॒सँ ह॒विरि॒दमे॑षा॒म्मयि॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
इ॒मामूर्ज॑म्पञ्चद॒शीय्ँय्ँ ये प्रवि॑ष्टाः ।
तान्दे॒वान्परि॑गृह्णामि॒ पूर्वः॑ ॥26॥
अ॒ग्निर्ह॑व्य॒वाडि॒ह तानाव॑हतु ।
पौ॒र्णमा॒सँ ह॒विरि॒दमे॑षा॒म्मयि॑ ।
भट्टभास्कर-टीका
8इमामूर्जमिति ॥ इमां प्रत्यासन्नां ऊर्जं अन्नस्य हेतुं पञ्चदशीं तिथिं ये प्रविष्टाः तान् देवान् पूर्वोऽहं परिगृह्णामि । अयं अग्निः हव्यवाट् हविषा वोढा तान् देवान् इह आवहतु । किमर्थं? इदं पौर्णमासं हविरेषामर्थे मयि वर्तते तदर्थं तानावहतु ।
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒मा॒वा॒स्यँ॑ ह॒विर्, इ॒दम् ए॑षा॒म् मयि॑ ।
[इ॒माम् ऊर्ज॑म् पञ्चद॒शीय्ँ ये प्रवि॑ष्टाः ।
तान् दे॒वान् परि॑गृह्णामि॒ पूर्वः॑ ॥26॥
अ॒ग्निर् ह॑व्य॒वाड् इ॒ह तान् आव॑हतु ।]
सर्वाष् टीकाः ...{Loading}...
मूलम्
आ॒मा॒वा॒स्यँ॑ ह॒विरि॒दमे॑षा॒म्मयि॑ ।
[इ॒मामूर्ज॑म्पञ्चद॒शीय्ँय्ँ ये प्रवि॑ष्टाः ।तान्दे॒वान्परि॑गृह्णामि॒ पूर्वः॑ ॥26॥अ॒ग्निर्ह॑व्य॒वाडि॒ह तानाव॑हतु ।]
भट्टभास्कर-टीका
आमावास्यमिति । इमामूर्जमित्यादिकायाः चअमावास्यायाम् । पादत्रयं समानम् । आमावास्यं हविः इदं एषां कृते मयि वर्तते इति ॥
भास्करोक्त-विनियोगः
9अन्तरा गार्हपत्याहवनीयौ वेद्यां स्थितो जपति - अन्तरेति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्त॒राऽग्नी प॒शवः॑ ।
दे॒व॒सँ॒सद॒माग॑मन् ।
तान्पूर्व॒ᳶ परि॑गृह्णामि ।
स्व आ॒यत॑ने मनी॒षया॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अ॒न्त॒राऽग्नी प॒शवः॑ ।
दे॒व॒सँ॒सद॒माग॑मन् ।
तान्पूर्व॒ᳶ परि॑गृह्णामि ।
स्व आ॒यत॑ने मनी॒षया॑ ।
भट्टभास्कर-टीका
अग्नी गार्हपत्याहवनीयौ अन्तरा तयोर्मध्ये प्रदेशं देवसंसदं देवानां सहावस्थानाधिकरणम् । सीदतेः संपदादित्वादधिकरणे क्विप् । तत् स्थानं पशवः आगमन् आगताः तस्मात् तान् तत्रस्थान् पूर्वः परिगृह्णामीत्यादि । गतम् ॥
- तास् सर्वाः पूर्वः प्रथमभाव्यहं परिगृह्णामि अग्नेरनन्तरं स्व आयतने आहवनीये गृह्णामि मनीषया मनस ईशया विशिष्टया प्रज्ञया ॥
भास्करोक्त-विनियोगः
10गार्हपत्यान्वाधाने जपः - इह प्रजा इति ॥ द्वे पङ्क्ती ॥
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒ह प्र॒जा वि॒श्वरू॑पा रमन्ताम् ।
अ॒ग्निङ्गृ॒हप॑तिम॒भिसव्ँ॒वसा॑नाः ।
ताᳶ पूर्व॒ ᳶ परि॑गृह्णामि ॥27॥
स्व आ॒यत॑ने मनी॒षया॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
इ॒ह प्र॒जा वि॒श्वरू॑पा रमन्ताम् ।
अ॒ग्निङ्गृ॒हप॑तिम॒भिसव्ँ॒वसा॑नाः ।
ताᳶ पूर्व॒ ᳶ परि॑गृह्णामि ॥27॥
स्व आ॒यत॑ने मनी॒षया॑ ।
भट्टभास्कर-टीका
इह स्थाने निमित्ते प्रजाः विश्वरूपाः पुत्रपौत्रदासादिरूपाः रमन्तां क्रीडन्तु । अग्निं गृहपतिं अभि गृहपतिना अग्निना इत्थंभूता रमन्ताम् । ‘अभिरभागे’ इति इत्थंभूतत्वे कर्मप्रवचनीयत्वम् । संवसानाः तेन सह वसन्त्यः तेन आत्मानं छादयन्त्यो वा तत्स्वामित्वात् । ताः पूर्व इत्यादि गतम् ॥
- तास्सर्वाः पूर्वः प्रथमभाव्यहं परिगृह्णामि अग्नेरनन्तरं स्व आयतने आहवनीये गृह्णामि मनीषया मनस ईशया विशिष्टया प्रज्ञया ॥
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒ह प॒शवो॑ वि॒श्वरू॑पा रमन्ताम् ।
अ॒ग्निङ्गृ॒हप॑तिम॒भिसव्ँ॒वसा॑नाः ।
तान्पूर्व॒ᳶ परि॑गृह्णामि ।
स्व आ॒यत॑ने मनी॒षया॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
इ॒ह प॒शवो॑ वि॒श्वरू॑पा रमन्ताम् ।
अ॒ग्निङ्गृ॒हप॑तिम॒भिसव्ँ॒वसा॑नाः ।
तान्पूर्व॒ᳶ परि॑गृह्णामि ।
स्व आ॒यत॑ने मनी॒षया॑ ।
भट्टभास्कर-टीका
11इह पशव इति ॥ पूर्वया व्याख्याता । तानिति विशेषः । पशवो गवादयः ॥
- अग्निं गृहपतिं अभि गृहपतिना अग्निना इत्थंभूता रमन्ताम् । ‘अभिरभागे’ इति इत्थंभूतत्वे कर्मप्रवचनीयत्वम् । संवसानाः तेन सह वसन्त्यः तेन आत्मानं छादयन्त्यो वा तत्स्वामित्वात् ।
- तास्सर्वाः पूर्वः प्रथमभाव्यहं परिगृह्णामि अग्नेरनन्तरं स्व आयतने आहवनीये गृह्णामि मनीषया मनस ईशया विशिष्टया प्रज्ञया ॥
भास्करोक्त-विनियोगः
12दक्षिणाग्निमुपतिष्ठते - अयं पितृणामिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यम्पि॑तृ॒णाम॒ग्निः ।
अवा॑ड्ढ॒व्या पि॒तृभ्य॒ आ ।
तम्पूर्व॒ᳶ परि॑गृह्णामि ।
अवि॑षन्नᳶ पि॒तुङ्क॑रत् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अ॒यम्पि॑तृ॒णाम॒ग्निः ।
अवा॑ड्ढ॒व्या पि॒तृभ्य॒ आ ।
तम्पूर्व॒ᳶ परि॑गृह्णामि ।
अवि॑षन्नᳶ पि॒तुङ्क॑रत् ।
भट्टभास्कर-टीका
अयं पितृणां सम्बन्धी अग्निः, तस्मात्पितृभ्यः हव्यानि आऽवाट् आवहति । वहेः छान्दसे लुङि हलन्तलक्षणायां वृद्धौ इडभावे रूपम् । तमहं पूर्वः परिगृह्णामि । सोऽपि अस्माकं अविषं पथ्यं पितुं अन्नं करत् करोतु । लुङि ‘कृमृदृरुहिभ्यः’ इत्यङ् ॥
- तास्सर्वाः पूर्वः प्रथमभाव्यहं परिगृह्णामि अग्नेरनन्तरं स्व आयतने आहवनीये गृह्णामि मनीषया मनस ईशया विशिष्टया प्रज्ञया ॥
भास्करोक्त-विनियोगः
13सभ्यम् उपतिष्ठते - अजस्रमिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अज॑स्र॒न्त्वाँ स॑भापा॒लाः ॥28॥
वि॒ज॒यभा॑गँ॒ समि॑न्धताम् ।
अग्ने॑ दी॒दा॑य मे सभ्य ।
विजि॑त्यै श॒रद॑श्श॒तम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अज॑स्र॒न्त्वाँ स॑भापा॒लाः ॥28॥
वि॒ज॒यभा॑गँ॒ समि॑न्धताम् ।
अग्ने॑ दी॒दा॑य मे सभ्य ।
विजि॑त्यै श॒रद॑श्श॒तम् ।
भट्टभास्कर-टीका
हे सभ्य! सभायां साधो! यत्र दीव्यन्ति तां सभां पालयन्तः अस्मदीयाः त्वां विजयभागं दीव्यतां विजया भागा यस्य तादृशं त्वां अजस्रं अनुपरतं समिन्धतां तत्रस्थं त्वां सम्यक् पलयन्तु, हे अग्ने! तथा समिद्धः त्वं मदर्थं दीदाय दीप्य । दीदिरिति छान्दसः अभ्यस्तसंज्ञः । ततः छान्दसो लिट् । शरदश्शतं शतं वर्षाणि मम विजित्यै विजयाय ॥
भास्करोक्त-विनियोगः
14आवसत्थ्यमुपतिष्ठते - अन्नमिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अन्न॑मावस॒थीय॑म् ।
अ॒भिह॑राणि श॒रद॑श्श॒तम् ।
आ॒व॒स॒थे श्रिय॒म्मन्त्र॑म् ।
अहि॑र्बु॒ध्नियो॒ निय॑च्छतु ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अन्न॑मावस॒थीय॑म् ।
अ॒भिह॑राणि श॒रद॑श्श॒तम् ।
आ॒व॒स॒थे श्रिय॒म्मन्त्र॑म् ।
अहि॑र्बु॒ध्नियो॒ निय॑च्छतु ।
भट्टभास्कर-टीका
आवसथीयं आवसथप्रयोजनं आवसथे भवं वा यदावसथ्याय भवति तदन्नं अभिहराणि आभिमुख्येनोपहरामि । शरदश्शतम् । गतम् । स चाहिर्बुध्नियः अस्माकमावसथे गृहे श्रियं धनादिसमृद्धिं मन्त्रं ऋगादिसमृद्धिं च नियच्छतु दधातु ॥
भास्करोक्त-विनियोगः
15सर्वेष्व् अन्वाहितेषु जपति - इदम् इत्यादि यजुः ॥
विश्वास-प्रस्तुतिः - यजुः
इ॒दम॒हम॒ग्निज्ये॑ष्ठेभ्यः ।
वसु॑भ्यो य॒ज्ञम्प्रब्र॑वीमि ।
इ॒दम॒हमिन्द्र॑ज्येष्ठेभ्यः ॥29॥
रु॒द्रेभ्यो॑ य॒ज्ञम्प्रब्र॑वीमि ।
इ॒दम॒हव्ँवरु॑णज्येष्ठेभ्यः ।
आ॒दि॒त्येभ्यो॑ य॒ज्ञम्प्रब्र॑वीमि ।
मूलम्
इ॒दम॒हम॒ग्निज्ये॑ष्ठेभ्यः ।
वसु॑भ्यो य॒ज्ञम्प्रब्र॑वीमि ।
इ॒दम॒हमिन्द्र॑ज्येष्ठेभ्यः ॥29॥
रु॒द्रेभ्यो॑ य॒ज्ञम्प्रब्र॑वीमि ।
इ॒दम॒हव्ँवरु॑णज्येष्ठेभ्यः ।
आ॒दि॒त्येभ्यो॑ य॒ज्ञम्प्रब्र॑वीमि ।
भट्टभास्कर-टीका
इदमिति क्रियाविशेषणं, इदं प्रब्रवीमि युष्मदर्थोऽयमिति विवृणोमि यज्ञं अहं इमं आचरन् । अग्निज्येष्ठेभ्यः अग्निप्रधानेभ्यः वसुभ्यः । इन्द्रप्रधानेभ्यः रुद्रेभ्यः वरुणप्रधानेभ्यः आदित्येभ्य इति सर्वेषां युगपत्, यज्ञभेदाभावात् अग्निनियमाभावाच्च ॥
भास्करोक्त-विनियोगः
16जायापत्योरशनम् - पयस्वतीरिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
पय॑स्वती॒रोष॑धयः ।
पय॑स्वद्वी॒रुधा॒म्पयः॑ ।
अ॒पाम्पय॑सो॒ यत्पयः॑ ।
तेन॒ मामि॑न्द्र॒ सँसृ॑ज ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
पय॑स्वती॒रोष॑धयः ।
पय॑स्वद्वी॒रुधा॒म्पयः॑ ।
अ॒पाम्पय॑सो॒ यत्पयः॑ ।
तेन॒ मामि॑न्द्र॒ सँसृ॑ज ।
भट्टभास्कर-टीका
व्याख्यातेयं ‘मम नाम’ इत्यत्र ॥
-
पय॑स्वती॒रोष॑धयः [44] पय॑स्वद्वी॒रुधा॒म्पयः॑ ।
अ॒पाम्पय॑सो॒ यत्पय॒स्तेन॒ मामि॑न्द्र॒ सँ सृ॑ज ॥- टीका 7अतः परमिष्टियाजमानकाण्डं प्राजापत्यम् । तत्राप आचामति - पयस्वतीरित्यनुष्टुभा ॥ पयस्वतीः पयस्वत्यः क्षीरवत्यस्सारवत्यो वा । पानरसेन तद्वत्य ओषधय ओषध्यः फलपाकान्ताः । ‘वा छन्दसि’ पूर्वसवर्णदीर्घत्वम् । वीरुधां तु पयः पयस्वत् ओषधीनां पयोपि पयस्वत् सारवत् पेयत्वगुणवत् । विविधं रोहन्तीति वीरुधः लतादयः । पृषोदरादिः । अपां वा सम्बन्धि यत्पयः ईदृशं पयसोपि पयः, यत्किञ्चित्पय ओषधीनां वीरुधां वा तस्यापि पयस्ततोपि सारवत् । तेन मां संसृज योजय हे इन्द्र । एतदुक्तं भवति - ओषधयो न केवलं पयस्वत्यः वीरुधान्तु पयोपि पयस्वत्, अपान्तु ततोपि पयस्वत्पय इति ॥
विश्वास-प्रस्तुतिः - यजुः
अग्ने॑ व्रतपते व्र॒तञ्च॑रिष्यामि ।
तच्छ॑केय॒न्तन्मे॑ राध्यताम् ।
वायो॑ व्रतपत॒ आदि॑त्य व्रतपते ॥30॥
व्र॒ताना॑व्व्ँरतपते व्र॒तञ्च॑रिष्यामि ।
तच्छ॑केय॒न्तन्मे॑ राध्यताम् ।
मूलम्
अग्ने॑ व्रतपते व्र॒तञ्च॑रिष्यामि ।
तच्छ॑केय॒न्तन्मे॑ राध्यताम् ।
वायो॑ व्रतपत॒ आदि॑त्य व्रतपते ॥30॥
व्र॒ताना॑व्व्ँरतपते व्र॒तञ्च॑रिष्यामि ।
तच्छ॑केय॒न्तन्मे॑ राध्यताम् ।
भट्टभास्कर-टीका
17व्रतमुपैष्यन् जपति - अग्ने व्रतपत इत्यादि यजुः ॥ तत्रैव13 व्याख्यातम् । प्रथमो मन्त्रो ब्राह्मणस्य, उत्तरे त्रयः क्षत्रियवैश्ययोः । सर्वे वा ब्राह्मणस्य ॥
-
[संयुक्तमन्त्रः - अग्ने॑ व्रतपते व्र॒तञ्च॑रिष्यामि॒ तच्छ॑केय॒न्तन्मे॑ राध्यताम् ॥ ]
-
अग्ने॑ व्रतपते व्र॒तञ्च॑रिष्यामि ।
- टीका 8व्रतमुपैति - अग्ने व्रतपत इति यजुषा ॥ हे अग्ने व्रतानां ब्रह्मचर्यादीनां पते पालयितः । ‘नामन्त्रिते समानाधिकरणे सामान्यवचनम्’ इति पूर्वस्याविद्यमानवत्वनिषेधाद्द्वितीयं निहन्यते । व्रतं यथोक्तं चरिष्यामि ।
-
मन्त्रः तच्छ॑केयम् ।
- टीका तद्व्रतमहं शकेयं चरितुं समर्थो भूयासम् । लिङ्याशिष्यङ् ।
-
मन्त्रः तन्मे॑ राध्यताम् ॥
-
टीका तद्व्रतं त्वत्प्रसादाच्चरितं मे मम राध्यतां सिद्ध्यतु । राध हिंसासिद्दयोः, दैवादिकः ॥
भास्करोक्त-विनियोगः
18शाखाम् आहरति - इमामिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒माम्प्राची॒मुदी॑चीम् ।
इष॒मूर्ज॑म॒भिसँस्कृ॑ताम् ।
ब॒हु॒प॒र्णामशु॑ष्काग्राम् ।
हरा॑मि पशु॒पाम॒हम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
इ॒माम्प्राची॒मुदी॑चीम् ।
इष॒मूर्ज॑म॒भिसँस्कृ॑ताम् ।
ब॒हु॒प॒र्णामशु॑ष्काग्राम् ।
हरा॑मि पशु॒पाम॒हम् ।
भट्टभास्कर-टीका
मन्त्रलिङ्गात् प्राच्या उदीच्या प्रागुदीच्या आहरणम् । इमां प्राचीं प्रागञ्चितां उदीचीं उदगञ्चितां उभयाञ्चितां वा शाखां आहरामि । इषं अन्नं ऊर्जं रसं चाभिसंस्कृतां शाखारूपेण परिणता, यद्वा - इडूर्जोः हेतुभूतां मन्त्रेणाभिसंस्कृतां बहुपर्णां बहुपलाशाम् । ‘बहोर्नञ्वत्’ इत्युत्तरपदान्तोदात्तत्वम् । अशुष्काग्रां पशुपां पशूनां पालयित्रीम् ॥
भास्करोक्त-विनियोगः
19शुल्ब इध्मं संभरति - यत्कृष्ण इति द्वाभ्याम् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
यत्कृष्णो॑ रू॒पङ्कृ॒त्वा ।
प्रावि॑श॒स्त्वव्ँवन॒स्पती॑न् ।
तत॒स्त्वामे॑कविँशति॒धा ।
सम्भ॑रामि सुस॒म्भृता॑ ॥31॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
यत्कृष्णो॑ रू॒पङ्कृ॒त्वा ।
प्रावि॑श॒स्त्वव्ँवन॒स्पती॑न् ।
तत॒स्त्वामे॑कविँशति॒धा ।
सम्भ॑रामि सुस॒म्भृता॑ ॥31॥
भट्टभास्कर-टीका
हे अग्ने! यत् यस्मात् त्वं कृष्णो मृगो भूत्वा रूपं च तदीयं कृत्वा वनस्पतीन् त्वं प्राविशः प्रविष्टवानसि । यथा - ‘अग्निर्देवेभ्यो निलायत । कृष्णो रूपं कृत्वा’ इत्यादि । तस्मान् त्वां एकविंशतिधा एकविंशतिवनस्पत्यवयवेध्मरूपेण वर्तमानं संभरामि सर्वावयवसहितं एकत्र संगृह्णामि । सुसंभृता सुष्ठु संभ्रियते येन तादृशेन शुल्बेन ॥
विश्वास-प्रस्तुतिः ...{Loading}...
त्रीन्प॑रि॒धीँ स्ति॒स्रस्स॒मिधः॑ ।
य॒ज्ञायु॑रनुसञ्च॒रान् ।
उ॒प॒वे॒षम्मेक्ष॑ण॒न्धृष्टि॑म् ।
सम्भ॑रामि सुस॒म्भृता॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
त्रीन्प॑रि॒धीँ स्ति॒स्रस्स॒मिधः॑ ।
य॒ज्ञायु॑रनुसञ्च॒रान् ।
उ॒प॒वे॒षम्मेक्ष॑ण॒न्धृष्टि॑म् ।
सम्भ॑रामि सुस॒म्भृता॑ ।
भट्टभास्कर-टीका
20त्रीनित्यादि ॥ त्रीन् परिधीन् परितो धेयान् तिस्रः समिधः ऊर्ध्वानूयाजसमिदाख्याः यज्ञायुः अनुयाजसमिधं दीर्घकालं यज्ञस्य रक्षकत्वात्, समुदायेनोक्तस्यापि पुनर्वचनं स्तुत्यर्थम् । यज्ञमेति व्याप्नोतीति यज्ञायुः । अनुसंचरान् अन्याः पञ्चदश समिधः अनुगता एव सञ्चरन्ति एकस्मिन् काले प्रक्षिष्यन्त इति । उपवेषं अङ्गारोदङ्निरूहणे, मेक्षणं चरोरुपादाने, धृष्टिं अङ्गारप्रत्यङ्निरूहणे, संभरामीत्यादि गतम् ॥
भास्करोक्त-विनियोगः
21परिस्तरणानाम् आहरण-च्छेदन-संनहन-मन्त्राः क्रमेण - या जाता इत्याद्याः ॥ तृतीया पङ्क्तिः ।
विश्वास-प्रस्तुतिः ...{Loading}...
या जा॒ता ओष॑धयः ।
दे॒वेभ्य॑स्त्रियु॒गम्पु॒रा ।
तासा॒म्पर्व॑ राध्यासम् ।
प॒रि॒स्त॒रमा॒हर॑न् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
या जा॒ता ओष॑धयः ।
दे॒वेभ्य॑स्त्रियु॒गम्पु॒रा ।
तासा॒म्पर्व॑ राध्यासम् ।
प॒रि॒स्त॒रमा॒हर॑न् ।
भट्टभास्कर-टीका
या जाता इत्यग्निकाण्डे अर्धचो व्याख्यातः । तासां पर्व पर्वाणि राध्यासं वर्धयामि परिस्तरमाहरन् । न त्वनेनाहरणेन पर्वं पीडयामि । मन्त्रान्तरं च ‘पर्व ते राध्यासम्’ इति इति ॥
-
या जा॒ता ओष॑धयो दे॒वेभ्य॑स्त्रियु॒गम्पु॒रा ।
मन्दा॑मि ब॒भ्रूणा॑महँ श॒तन्धामा॑नि स॒प्त च॑ । -
टीका १९११ (अथ चतुर्थकाण्डे द्वितीयप्रपाठके षष्ठोऽनुवाकः )।
पञ्चमेऽनुवाकेऽग्निक्षेत्रकर्षणमुक्तम् । अथ षष्ठ ओषधिवापो विधीयते ।
कल्पः—“या जाता ओषधय इति चतुर्दशभिरोवधीर्वपति” इति ।
तत्र प्रथमामाह– या जाता इति। युगशब्दः कालवाची । त्रियुगं वर्षाः शरद्वसन्त इति कालत्रयमुद्दिश्य पुरा सृष्ट्यादौ देवेभ्यः सकाशाद्या ओषधय उत्पन्ना बभ्रूणां प्राणिभ-रणसमर्थानां परिपपाकेन (ण) पिङ्गलवर्णानां वा तासामोषधीनां शतं धामानि शतसं-ख्याकाञ्जातिभेदान्सप्त च विशेषाकारेण ग्राम्यानारण्यांश्च सप्त धान्यमेदानवेक्ष्य मन्दामि हृष्यामि ।
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पाम्मेध्यय्ँ॑ य॒ज्ञिय॑म् ।
सदे॑वँ शि॒वम॑स्तु मे ॥32॥
आ॒च्छे॒त्ता वो॒ मा रि॑षम् ।
जीवा॑नि श॒रद॑श्श॒तम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अ॒पाम्मेध्यय्ँ॑ य॒ज्ञिय॑म् ।
सदे॑वँ शि॒वम॑स्तु मे ॥32॥
आ॒च्छे॒त्ता वो॒ मा रि॑षम् ।
जीवा॑नि श॒रद॑श्श॒तम् ।
भट्टभास्कर-टीका
22अपां मेध्यमिति ॥ ‘तासां यन्मेध्यं यज्ञियं सदेवमासीत् । तदपोदक्रामत् । ते दर्भा अभवन्’ इत्युक्तं ब्राह्मणे । तदाह - अपां मेध्यादिरूपं यद्दर्भात्मना परिणतं तदिदं युष्मद्रूपं मम शिवं सुखहेतुरस्तु, हे दर्भाः! युष्माकं आच्छेत्ताऽपि अहं मा रिषं मा नशं अपि तु शरदश्शतं जीवानि ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अप॑रिमिताना॒म्परि॑मिताः ।
सन्न॑ह्ये सुकृ॒ताय॒ कम् ।
एनो॒ मा निगा॑ङ्कत॒मच्च॒नाहम् ।
पुन॑रु॒त्थाय॑ बहु॒ला भ॑वन्तु ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अप॑रिमिताना॒म्परि॑मिताः ।
सन्न॑ह्ये सुकृ॒ताय॒ कम् ।
एनो॒ मा निगा॑ङ्कत॒मच्च॒नाहम् ।
पुन॑रु॒त्थाय॑ बहु॒ला भ॑वन्तु ।
भट्टभास्कर-टीका
23अपरिमितानामिति ॥ यस्मादपरिमितानां अनन्तानां दर्भाणां मध्ये एते मया परिमिताः कतिपये गृहीताः न तु सर्वे, तेषां परिमितत्वात् सन्तानच्छेदं न करोमि, तस्मात् युष्मान् सुकृताय शोभनाय कर्मणे यज्ञाय आच्छिद्य संनह्ये बध्नामि कं सुखम् । सुकृतायेतिवचनात् अनर्थकं चेत् अप्रत्यहूं संनह्ये बाधकाभावात् । तदेवाह - एनः पापं कतमच्चन किंचिदपि स्वल्पमपि अहं मा निगां मा निकृष्टं गमम् । ननु कतिपयहिंसां कुर्वन् कथमनेनाः स्यात् तत्राह - पुनरुत्थाय भूयोऽप्याच्छेदस्थानादन्ये प्ररोहाः उत्थाय बहुला भवन्तु एकैकस्मात् शतं सहस्रं च प्ररोहन्तु युष्माकमेवायमुपकार इति ॥
भास्करोक्त-विनियोगः
24सकृदाच्छिन्नं बर्हिस्स्तृणाति - सकृदाच्छिन्नमिति जगत्या ॥
विश्वास-प्रस्तुतिः ...{Loading}...
स॒कृ॒दा॒च्छि॒न्नं ब॒र्हिर् ऊर्णा॑-मृदु ।
स्यो॒नं पि॒तृभ्य॑स् त्वा भराम्य् अ॒हम् ।
अ॒स्मिन् सी॑दन्तु मे पि॒तर॑स् सो॒म्याः ।
पि॒ता॒म॒हाः प्रपि॑तामहाश् चानु॒गैस् स॒ह ॥33॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
स॒कृ॒दा॒च्छि॒न्नं ब॒र्हिरूर्णा॑मृदु ।
स्यो॒नम्पि॒तृभ्य॑स्त्वा भराम्य॒हम् ।
अ॒स्मिन्त्सी॑दन्तु मे पि॒तर॑स्सो॒म्याः ।
पि॒ता॒म॒हाᳶ प्रपि॑तामहाश्चानु॒गैस्स॒ह ॥33॥
भट्टभास्कर-टीका
सकृदाच्छिन्नं एकवारलूनं बर्हिः ऊर्णामृदु ऊर्णावन्मृदुस्पर्शम् । उपमानपूर्वपदप्रकृतिस्वरत्वम् । स्योनं सुखहेतुं त्वा पितृभ्यो भरामि पित्रर्थं हरामि । अस्मिन् सकृदाछिन्ने बर्हिषि सोम्याः सोमार्हाः मे पितरः पितामहाः प्रपितामहाश्च अनुगैस्सह सीदन्तु ॥
भास्करोक्त-विनियोगः
25शाखापवित्रस्य क्रियमाणस्य अनुमन्त्रणार्थौ द्वौ मन्त्रौ । तत्र प्रथमः - त्रिवृदिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
त्रि॒वृत्प॑ला॒शे द॒र्भः ।
इया॑न्प्रादे॒शस॑म्मितः ।
य॒ज्ञे प॒वित्र॒म्पोतृ॑तमम् ।
पयो॑ ह॒व्यङ्क॑रोतु मे ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
त्रि॒वृत्प॑ला॒शे द॒र्भः ।
इया॑न्प्रादे॒शस॑म्मितः ।
य॒ज्ञे प॒वित्र॒म्पोतृ॑तमम् ।
पयो॑ ह॒व्यङ्क॑रोतु मे ।
भट्टभास्कर-टीका
पलाशे पलाशशाखाविशेषे दर्भः पवित्ररूप आश्रित इति शेषः । कीदृशो दर्भः? त्रिवृत् त्रिगुणः । तद्दर्भस्य परिमाणमियानित्यभिनीय प्रदर्श्यते । प्रादेशसम्मित इति वचनेनापि स्पष्टीक्रियते । तदिदमस्मिन् यज्ञे पवित्रं पोतृतमं हविषां शोधयितृतमं सर्वशोधकातिशयन वर्तमानं इदं मदीय पयः हव्यं हवनार्हं करोतु ॥
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मौ प्रा॑णापा॒नौ ।
य॒ज्ञस्याङ्गा॑नि सर्व॒शः ।
आ॒प्या॒यय॑न्तौ॒ सञ्च॑रताम् ।
प॒वित्रे॑ हव्य॒शोध॑ने ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
इ॒मौ प्रा॑णापा॒नौ ।
य॒ज्ञस्याङ्गा॑नि सर्व॒शः ।
आ॒प्या॒यय॑न्तौ॒ सञ्च॑रताम् ।
प॒वित्रे॑ हव्य॒शोध॑ने ।
भट्टभास्कर-टीका
26इमौ प्राणापानौ प्राणापानस्थानीये पवित्रे । प्राणापानापेक्षं पुल्लिङ्गत्वम् । यज्ञस्याङ्गानि सर्वशः सर्वाणि आप्याययन्तौ वर्धयन्तौ सञ्चरतां हव्यशोधने उत्पवनादिना हविषां शोधके ॥
भास्करोक्त-विनियोगः
28तयोः छेदनं - पवित्रे स्थ इति यजुः ॥
विश्वास-प्रस्तुतिः - यजुः
प॒वित्रे॑ स्थो वैष्ण॒वी ।
वा॒युर् वा॒म् मन॑सा पुनातु ॥34॥
मूलम्
प॒वित्रे॑ स्थो वैष्ण॒वी ।
वा॒युर्वा॒म्मन॑सा पुनातु ॥34॥
भट्टभास्कर-टीका
पवित्रे शोधके स्थः सर्वहविषां वैष्णवी विष्णोर्थज्ञात्मनः स्वभूते । शीभावे अकारलोपः छान्दसः । ते वां युवां वायुः मनसा मनस्कारेण पुनातु ॥
भास्करोक्त-विनियोगः
28प्रस्तरे तयोर् निधानं - अयमिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यम्प्रा॒णश्चा॑पा॒नश्च॑ ।
यज॑मान॒मपि॑गच्छताम् ।
य॒ज्ञे ह्यभू॑ता॒म्पोता॑रौ ।
प॒वित्रे॑ हव्य॒शोध॑ने ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अ॒यम्प्रा॒णश्चा॑पा॒नश्च॑ ।
यज॑मान॒मपि॑गच्छताम् ।
य॒ज्ञे ह्यभू॑ता॒म्पोता॑रौ ।
प॒वित्रे॑ हव्य॒शोध॑ने ।
भट्टभास्कर-टीका
पवित्रयोः प्रत्येकनिर्देशः पूर्ववत्पुल्लिङ्गता । इमे प्राणापानस्थानीये पवित्रे यजमानं प्रस्तरं ‘यजमानो वै प्रस्तरः’ इति । अपिगच्छतां अनुप्रविश्य वर्तेताम् । यद्वा - अनेन प्रस्तरपवित्रयोगेन यजमानः प्राणापानवान् भवतु । कः पुनरनयोर्विशेष इत्याह -इमे हि यज्ञे सर्वस्य पोतारौ शोधके । पूर्ववत् प्राणापानाभिप्रायेण पुल्लिङ्गता । अभूतां भवतः । छान्दसो लुङ् । तदपि कुत इत्यत आह - इमे हि पवित्रे हविषां शोधने, तस्मात् सर्वस्यापि यज्ञस्य शोधने, तस्मादेव यजमानमपि प्राणवन्तं कुरुतामिति ॥
भास्करोक्त-विनियोगः
29वेदकरणं - त्वयेति त्रिष्टुप् ॥ अत्र ब्राह्मणम् - ‘वेदेन वै देवा असुराणां वित्तं वेद्यमविन्दन्त तद्वेदस्य वेदत्वम्’ इति । असुराणां सम्बन्धि यद्यद्वेदिप्रभृतिकं वित्तं वेत्तव्यं लब्धव्यं तत्सर्वं वेदेनालभन्त, तद्वेदत्वं वेदस्येति । तदिदमुच्यते ।
विश्वास-प्रस्तुतिः ...{Loading}...
त्वया॒ वेदिव्ँ॑विविदुᳶ पृथि॒वीम् ।
त्वया॑ य॒ज्ञो जा॑यते विश्व॒दानिः॑ ।
अच्छि॑द्रय्ँ य॒ज्ञमन्वे॑षि वि॒द्वान् ।
त्वया॒ होता॒ सन्त॑नोत्यर्धमा॒सान् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
त्वया॒ वेदिव्ँ॑ विविदुᳶ पृथि॒वीम् ।
त्वया॑ य॒ज्ञो जा॑यते विश्व॒दानिः॑ ।
अच्छि॑द्रय्ँ य॒ज्ञम् अन्वे॑षि वि॒द्वान् ।
त्वया॒ होता॒ सन्त॑नोत्य् अर्ध-मा॒सान् ।
भट्टभास्कर-टीका
हे वेद! त्वया साधनेन देवा वेदिं विविदुः लेभिरे पृथिवीं प्रथितां सर्वपृथिव्यात्मिकां वा ‘सा वा इयं सर्वैव वेदिः’ इति । त्वया यज्ञो जायते निष्पद्यते, फलप्रदत्वं निष्पत्तिः । तदेवाह - विश्वदानिः विश्वस्य फलस्य दाता । औणादिको निप्रत्ययः, विश्वदानशब्दान्मत्वर्थीय इकारो वा, सर्वदा ‘परादिश्छन्दसि’ इत्युतरपदाद्युदात्तत्वम् । किञ्च - त्वं खलु अच्छिद्रं अविगुणं यज्ञमन्वेषि उत्पादयसि । यद्वा - अन्वेषि अनुगच्छ उत्पादय, विद्वान् तदुपायज्ञः । किञ्च - त्वया होता संतनोति अविच्छेदेन तनोति विस्तारयति अर्धमासान् अनुवृत्तयज्ञान् सर्वानर्धमासान् करोति, ब्राह्मणं च - ‘यज्ञमेव तत्संतनोत्योत्तरस्मादर्धमासात् । तं सन्ततमुतरेऽर्धमास आलभते । तं कालेकाल आगते यजते’ इति । एवं पुनःपुनः अनुष्ठानादर्धमासानित्युक्तम् ॥
भास्करोक्त-विनियोगः
30सन्धान-रज्ज्व्-आदाने - त्रयस्त्रिंश इति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
त्र॒य॒स्त्रिँ॒शो॑ऽसि॒ तन्तू॑नाम् ।
प॒वित्रे॑ण स॒हाग॑हि ॥35॥
शि॒वेयँ रज्जु॑रभि॒धानी॑ ।
अ॒घ्नि॒यामुप॑सेवताम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
त्र॒य॒स्त्रिँ॒शो॑ऽसि॒ तन्तू॑नाम् ।
प॒वित्रे॑ण स॒हाग॑हि ॥35॥
शि॒वेयँ रज्जु॑रभि॒धानी॑ ।
अ॒घ्नि॒यामुप॑सेवताम् ।
भट्टभास्कर-टीका
तायमानाः तन्तवः गुणा उच्यन्ते । तेषां त्वं त्रयस्त्रिंशोऽसि अन्त्योऽसि त्वत्तः परो नास्ति, देवा अपि त्रयस्त्रिंशत् न ततः परं किंचिदस्तीति प्रतिपादनाय संख्याविशेषापादानम् । स त्वं पवित्रेण पवित्रत्वेन पावनत्वेन सहागहि आगच्छ । छान्दसश्शपो लुक् । इदानीं परोक्षवदुच्यते रज्जुत्वेन - इयं रज्जुश्शिवा सुखकरी अभिधानी बन्धनी अघ्नियां गां उपसेवताम् ॥
भास्करोक्त-विनियोगः
31उखाधिश्रयणे - साकंप्रस्थायीय इत्यन्ये - अप्रस्रंसायेति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अप्र॑स्रँसाय य॒ज्ञस्य॑ ।
उ॒खे उप॑दधाम्य॒हम् ।
प॒शुभि॒स्सन्नी॑तम्बिभृताम् ।
इन्द्रा॑य शृ॒तन्दधि॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अप्र॑स्रँसाय य॒ज्ञस्य॑ ।
उ॒खे उप॑दधाम्य॒हम् ।
प॒शुभि॒स्सन्नी॑तम्बिभृताम् ।
इन्द्रा॑य शृ॒तन्दधि॑ ।
भट्टभास्कर-टीका
अप्रस्रंसाय अप्रस्रवणार्थं यज्ञस्य यज्ञार्थस्य सान्नाय्यस्य उखे उपदधामि उपस्थापयाम्यहम् । कैमर्थक्येन? पशुभिः सन्नीतं सम्यगुपनीतं यया ‘एतदस्मै सन्नयत’ इति पूर्वं शृतं दधि च पश्चात्कृतं यथा ‘एतदस्मै शृतं कुरुत’ एतदस्मै दधि कुरुत'22 इति तादृशं सान्नाय्यं इन्द्रार्थं इमे बिभृतामित्यैदमर्थ्येनोपदधामि ॥
भास्करोक्त-विनियोगः
32उपवेषकरणे - उपवेषोऽसीति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒प॒वे॒षो॑ऽसि य॒ज्ञाय॑ ।
त्वाम्प॑रिवे॒षम॑धारयन् ।
इन्द्रा॑य ह॒विᳵ कृ॒ण्वन्तः॑ ।
शि॒वश्श॒ग्मो भ॑वासि नः ॥36॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
उ॒प॒वे॒षो॑ऽसि य॒ज्ञाय॑ ।
त्वाम्प॑रिवे॒षम॑धारयन् ।
इन्द्रा॑य ह॒विᳵ कृ॒ण्वन्तः॑ ।
शि॒वश्श॒ग्मो भ॑वासि नः ॥36॥
भट्टभास्कर-टीका
उपवेषोऽसि उपेत्य व्यापकोऽसि यज्ञाय सर्वस्य यज्ञस्य उपेत्य अङ्गारादिव्याप्त्या यज्ञं निर्वर्तयसि । तस्मात्तादृशं त्वां परिवेषं सर्वतो व्यापकं यज्ञस्य वनस्पतीनां वा त्वां अधारयन् अस्मत्तोऽन्येऽपि इन्द्रार्थं हविः कृण्वन्तः कुर्वन्तः, तस्मात्तादृशः त्वं अस्माकमपि शिवः सुखकरः शग्मः शान्तश्च भवासि भवसि उपेत्य । भवतेर्लेट्याडागमः ॥
भास्करोक्त-विनियोगः
33अपिधीयमाने यजमानो जपति - अमृन्मयमिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अमृ॑न्मयन्देवपा॒त्रम् ।
य॒ज्ञस्यायु॑षि॒ प्रयु॑ज्यताम् ।
ति॒र॒ᳶप॒वि॒त्रमति॑नीताः ।
आपो॑ धारय॒ माऽति॑गुः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अमृ॑न्मयन्देवपा॒त्रम् ।
य॒ज्ञस्यायु॑षि॒ प्रयु॑ज्यताम् ।
ति॒र॒ᳶप॒वि॒त्रमति॑नीताः ।
आपो॑ धारय॒ माऽति॑गुः ।
भट्टभास्कर-टीका
अमृन्मयं अमृद्विकारभूतं ‘एकाचो नित्यम’ इति मयट् । देवपात्रं देवानां योग्यं पात्रं अपिधानपात्रं अयोमयं दारुमयं वा, यज्ञस्यायुस्स्थानीयं सान्नाय्यं तन्निमित्तं तन्निर्वृत्त्यर्थं प्रयुज्यतां अपिधाने साधनीक्रियताम् । किमर्थमित्याह - तिरःपवित्रं तत्र पवित्रमन्तर्धाय अतिनीताः आनीता आपः कुम्भ्यां तिरःपवित्रं आसिक्ताः दोहने संक्षाळनीया आपो माऽतिगुः कुम्भीमतिक्रम्य मा गमन् । सत्यपि दुग्धे अपां ग्रहणं तासामुपरिस्थितत्वात् ताभिरेव दुग्धातिगमनं परिह्रियत इति । यद्वा - पवित्रासिक्तसंक्षाळनीयनिमित्तत्वात् सान्नाय्यस्यैवमुक्तमिति मन्तव्यम् । तदर्थं हे! अध्वर्यो इमा आपो धारय निरुद्धनिर्गमाः कुरु पिधानपात्रं विधारय ॥
भास्करोक्त-विनियोगः
34सान्नाय्य-पात्राणि प्रोक्ष्यमाणान्य् अभिमन्त्रयते - देवेनेति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वेन॑ सवि॒त्रोत्पू॑ताः ।
वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ ।
गान्दो॑हपवि॒त्रे रज्जु॑म् ।
सर्वा॒ पात्रा॑णि शुन्धत ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
दे॒वेन॑ सवि॒त्रोत्पू॑ताः ।
वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ ।
गान्दो॑हपवि॒त्रे रज्जु॑म् ।
सर्वा॒ पात्रा॑णि शुन्धत ।
भट्टभास्कर-टीका
सवित्रा आदित्येन वसोर्जगतां वासयितुः सूर्यस्य सूतिकृतः उत्पत्तिस्थितिहेतोः आत्मसम्बन्धिभिः रश्मिभिः उत्पूताः ताः यूयं गां च दोहपवित्रे च दोहनपात्रं च पवित्रं च रज्जुं च बन्धनीं इत्थं सर्वाणि सान्नाय्यपात्राणि शुन्धत शोधयत । शुधि शौचकर्मणि, चुरादिराधृषीयः ॥
भास्करोक्त-विनियोगः
35गा आयतीः प्रतीक्षते - एता इति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ता आच॑रन्ति॒ मधु॑म॒द्दुहा॑नाः ।
प्र॒जाव॑तीर्य॒शसो॑ वि॒श्वरू॑पाः ॥37॥
ब॒ह्वीर्भव॑न्ती॒रुप॒जाय॑मानाः ।
इ॒ह व॒ इन्द्रो॑ रमयतु गावः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
ए॒ता आच॑रन्ति॒ मधु॑म॒द्दुहा॑नाः ।
प्र॒जाव॑तीर्य॒शसो॑ वि॒श्वरू॑पाः ॥37॥
ब॒ह्वीर्भव॑न्ती॒रुप॒जाय॑मानाः ।
इ॒ह व॒ इन्द्रो॑ रमयतु गावः ।
भट्टभास्कर-टीका
एताः गावः आचरन्ति आगच्छन्ति मधुमत् मधुरसं दुग्धं दुहानाः प्रजावत्यो बहुप्रजाः उभयप्रजासमृद्धिहेतवः यशसः यशस्स्विन्यः । मत्त्वर्थीयो लुप्यते, पुंसि संक्रान्तत्वादाद्युदात्तत्वाभावः । विश्वरूपाः सर्वरूपान्विताः बह्वीः भवन्तीः सन्तानवृद्ध्या बह्व्यो भवन्त्यः उपजायमानाः कर्मसु पुनःपुनः उपयुज्यमानाः वः हे गावः! तादृशीः इह कर्मणि इन्द्रो रमयतु क्षीरादिसमृद्ध्या रतिहेतून् करोतु ॥
भास्करोक्त-विनियोगः
36वत्समभिदधाति - पूषा स्थेति यजुषा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
पू॒षा स्थ॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
पू॒षा स्थ॑ ।
भट्टभास्कर-टीका
वचनव्यत्ययः । पूषा पुष्टिहेतुः क्षीरस्य । पूषैव वा पशूनां स्वामी त्वमसि इति स्तुतिः ॥
भास्करोक्त-विनियोगः
37दोग्धोपसीदति - अयक्ष्माव इति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒य॒क्ष्मा व॑ᳶ प्र॒जया॒ सँसृ॑जामि ।
रा॒यस्पोषे॑ण बहु॒लाभव॑न्तीः ।
ऊर्ज॒म्पय॒ᳶ पिन्व॑माना घृ॒तञ्च॑ ।
जी॒वो जीव॑न्ती॒रुप॑ वस्सदेयम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अ॒य॒क्ष्मा व॑ᳶ प्र॒जया॒ सँसृ॑जामि ।
रा॒यस्पोषे॑ण बहु॒लाभव॑न्तीः ।
ऊर्ज॒म्पय॒ᳶ पिन्व॑माना घृ॒तञ्च॑ ।
जी॒वो जीव॑न्ती॒रुप॑ वस्सदेयम् ।
भट्टभास्कर-टीका
हे गावः! वः युष्मान् अयक्ष्मा अरोगाः प्रजया संसृजामि देग्धुं वत्सेन योजयामि । यद्वा - प्रजयोपलक्षिता युष्मान् संसृजामि दोग्धुं संगच्छामि । रायस्पोषेण क्षीरादिधनपुष्ट्या बहुलाः प्रथिताः भवन्तीः क्षेत्रादिपुष्टेरपि हेतुभूता भवन्ती ऊर्जं रसवत् पयश्च घृतं च पिन्वमानाः क्षरतीः । पिवि सेचने, इदित्त्वान्नुम् । जीवन्तीः दीर्घायुषः जीवयन्तीर्वा प्रजाः क्षीरादिना अहमपि जीवः युष्मत्संबन्धेन चिरं जीवन् जीवयित्वा प्रजा यागद्वारेण । पचाद्यच्, उभयत्रापि ‘बहुलमन्यत्रापि संज्ञाछन्दसोः’ इति ‘णिलुक्’ ईदृशी वः उपसदेयं उपसीदामि समीपतो भजामि । ‘लिङ्याशिष्यङ्’ ॥
भास्करोक्त-विनियोगः
38दुह्यमानामनुमन्त्रयते - द्यौश्चेति त्रिपदया बृहत्या ॥
विश्वास-प्रस्तुतिः ...{Loading}...
द्यौश्चे॒मय्ँ य॒ज्ञम्पृ॑थि॒वी च॒ सन्दु॑हाताम् ।
धा॒ता सोमे॑न स॒ह वाते॑न वा॒युः ।
यज॑मानाय॒ द्रवि॑णन्दधातु ॥38॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
द्यौश्चे॒मय्ँ य॒ज्ञम्पृ॑थि॒वी च॒ सन्दु॑हाताम् ।
धा॒ता सोमे॑न स॒ह वाते॑न वा॒युः ।
यज॑मानाय॒ द्रवि॑णन्दधातु ॥38॥
भट्टभास्कर-टीका
इमं यज्ञं यज्ञसाधनं पयः द्यौः पृथिवी च संदुहाताम् । वृष्ट्यादिक्रमेण तन्निष्पत्तिहेतुत्वात् ते एव प्रार्थ्येते । धाता सर्वस्य स्रष्टा सोमेन ओषधीशेन सह दुग्धां तौ च संदुहातामिति स एवानुषङ्गः । वायुर्भूतात्मा वातेन प्राणेनात्मना सह दुग्धाम् । अथ सर्वोऽयं देवतागणो यजमानाय द्रविणं प्रशस्तं फलं धनमेव वा यागनिर्वृत्त्या दधातु ददातु । वचनव्यत्ययो वा । सर्वेऽप्येते यजमानाय द्रविणं दधतु ॥
भास्करोक्त-विनियोगः
39धाराघोषम् अनुमन्त्रयते - उत्समिति जगत्या ॥
विश्वास-प्रस्तुतिः ...{Loading}...
उत्स॑न्दुहन्ति क॒लश॒ञ्चतु॑र्बिलम् ।
इडा॑न्दे॒वीम्मधु॑मतीँ सुव॒र्विद॑म् ।
तदि॑न्द्रा॒ग्नी जि॑न्वतँ सू॒नृता॑वत् ।
तद्यज॑मानममृत॒त्वे द॑धातु ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
उत्स॑न्दुहन्ति क॒लश॒ञ्चतु॑र्बिलम् ।
इडा॑न्दे॒वीम्मधु॑मतीँ सुव॒र्विद॑म् ।
तदि॑न्द्रा॒ग्नी जि॑न्वतँ सू॒नृता॑वत् ।
तद्यज॑मानममृत॒त्वे द॑धातु ।
भट्टभास्कर-टीका
उत्स उत्स्यन्दमानं उद्भूतधाराघोषस्यन्दनं बहुक्षीरत्वात् कलशं ऊधः कलशाधारत्वात् क्षीरस्य । चतुर्बिलं चतुस्तनरन्ध्रं दुहन्ति । किं? पय डति सामर्थ्यात् गम्यते, इडां गां देवीं दानशीलां दीप्तिमतीं वा मधुमतीं मधुरक्षीरादिकां सुवर्विदं स्वर्गस्य लम्भयित्रीं दुहन्ति, एवं त्रीणि कर्माणि गां कलशं पयो दुहन्तीति । तत्रोपयुज्यमानयोः निमित्तयोः गोकलशयोः ‘अकथितं च’ इति कर्मत्वम् । यद्वा - उत्स्यन्दमानं चतुर्बिलस्रावि कलशस्थं पयः कलशशब्देनोच्यते । तत् दोहं इन्द्राग्नी जिन्वतं जिन्वतु प्रीणयतु । यद्वा - इन्द्राग्नी तज्जिन्वतां प्रीणयतां प्रीतिहेतुं कुरुतां, तत्र वा प्रवृत्तान् अस्मान् इन्द्राग्नी जिन्वतां प्रीणयताम् । सर्वथा वचनव्यत्ययान्न मुच्यामहे । इन्द्राग्न्योर्वा आमन्त्रणे छान्दसो निघाताभावः । सूनृतावत् प्रियसत्यात्मवचनवत् निर्दोषत्वेन तद्धेतुत्वात् । अथ तत् इन्द्राग्न्योः कर्म इन्द्राग्न्यनुगृहीतं वा तदेव दोहनं यजमानं अमृतत्वे अमृतत्वहेतौ फले दधातु स्थापयतु ॥
भास्करोक्त-विनियोगः
40दुग्धमानयन्तं पृच्छति - कामधुक्ष इति ॥
41अथ प्रत्याह - अमूमिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
काम॑धुक्ष॒ᳶ प्र णो॑ ब्रूहि ।
इन्द्रा॑य ह॒विरि॑न्द्रि॒यम् ।
अ॒मूय्ँयस्या॑न्दे॒वाना॑म् ।
म॒नु॒ष्या॑णा॒म्पयो॑ हि॒तम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
काम॑धुक्ष॒ᳶ प्र णो॑ ब्रूहि ।
इन्द्रा॑य ह॒विरि॑न्द्रि॒यम् ।
अ॒मूय्ँयस्या॑न्दे॒वाना॑म् ।
म॒नु॒ष्या॑णा॒म्पयो॑ हि॒तम् ।
भट्टभास्कर-टीका
हे दोग्धः! कां गां अधुक्षः दुग्धवानसि इदं पयः । दुहेर्लुङि ‘शल इगुपधादनिटः क्स’ । नः अस्माकं प्रब्रूहि व्यक्तमाचक्ष्व । कोऽस्य पयसो विशेष इति चेत्? इन्द्राय इन्द्रार्थं खलु हविः इदं तत्रापि इन्द्रियं इन्द्रजुष्टं इन्द्रप्रियं वा, इन्द्रेण वा सेवितं पुनःपुनः, तस्मात् एवं महानुभावं पयः कामदुग्धा इति ॥
+++(प्रतिवचनम्-)+++ नामधेयविशेषमात्रं निर्दिशति गङ्गां सरस्वतीमिति वा । अस्याश्च वैशिष्ट्यमाह - यस्यां गवि देवानां मनुष्याणां च प्रीणनं पयो हितं निहितं तादृशीं महाभागां तादृशं पयोऽदुहि ॥
विश्वास-प्रस्तुतिः ...{Loading}...
ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यः॑ ।
ह॒व्यमाप्या॑यता॒म्पुनः॑ ॥39॥
व॒त्सेभ्यो॑ मनु॒ष्ये॑भ्यः ।
पु॒न॒र्दो॒हाय॑ कल्पताम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यः॑ ।
ह॒व्यमाप्या॑यता॒म्पुनः॑ ॥39॥
व॒त्सेभ्यो॑ मनु॒ष्ये॑भ्यः ।
पु॒न॒र्दो॒हाय॑ कल्पताम् ।
भट्टभास्कर-टीका
42तिस्रो दोहयित्वा वाचं विसृजति - बहु दुग्धीति ॥ इन्द्रार्थं देवार्थं च बहु पयो दुग्धि हे गौः! तच्च हव्यं हविर्भूत्वा पुनराप्यायतां भूयो विवर्धताम् ।
अथ वत्सेभ्यः मनुष्येभ्यश्च पुनः ततो बहुतरस्य दोहाय कल्पतां दोहसामर्थ्यं तवास्तु पयश्च तथा प्रभूतमस्तु इत्यर्थः ॥
भास्करोक्त-विनियोगः
43अग्रिहोत्रोच्छेषणं अभ्यातनक्ति - यज्ञस्येति यजुषा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
य॒ज्ञस्य॒ सन्त॑तिरसि ।
य॒ज्ञस्य॑ त्वा॒ सन्त॑ति॒मनु॒सन्त॑नोमि ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
य॒ज्ञस्य॒ सन्त॑तिरसि ।
य॒ज्ञस्य॑ त्वा॒ सन्त॑ति॒मनु॒सन्त॑नोमि ।
भट्टभास्कर-टीका
यज्ञस्य सन्ततिः अविच्छेदकारणं त्वं असि । तादृशं त्वां यज्ञस्य सन्ततिमेव लक्षीकृत्य संतनोमि दुग्धेन सन्ततं करोमि त्वयि हि सन्तते यज्ञ एव संतन्यत इति ॥
भास्करोक्त-विनियोगः
44दारुपात्रादिना कुम्भ्या अपिधानम् - अदस्तमिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
+++(क्षीर!)+++ अद॑स् तमसि॒ विष्ण॑वे त्वा ।
य॒ज्ञायापि॑दधाम्य॒हम् ।
अ॒द्भिर् अरि॑क्तेन॒ पात्रे॑ण ।
याᳶ पू॒ताᳶ प॑रि॒शेर॑ते ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अद॑स्तमसि॒ विष्ण॑वे त्वा ।
य॒ज्ञायापि॑दधाम्य॒हम् ।
अ॒द्भिररि॑क्तेन॒ पात्रे॑ण ।
याᳶ पू॒ताᳶ प॑रि॒शेर॑ते ।
भट्टभास्कर-टीका
हे क्षीर! अदस्तं अनुपक्षीणं त्वमसि । अद्भिः अरिक्तेन जलसहितेन पात्रेण विष्णवे व्याप्तिमते यज्ञाय त्वा अपिदधाम्यहम् । कीदृशीभिः अद्भिः? या आपः पूताः शुद्धाः परिशेरते उपरि शेरते पिधानपात्रे सर्वां रात्रिं रक्षणार्थमिव शेरते ताभिः अरिक्तेन पात्रेणापिदधामि तव रक्षणार्थमिति ॥
भास्करोक्त-विनियोगः
45परिवासनशकलं दुग्धेऽन्ववदधाति - अयमिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यम् पय॒स् सोम॑ङ् कृ॒त्वा ।
स्वाय्ँ योनि॒म् अपि॑गच्छतु ॥40॥
प॒र्ण॒-व॒ल्कᳶ प॒वित्र॑म् ।
सौ॒म्यस् सोमा॒द् +धि निर्मि॑तः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अ॒यम्पय॒स्सोम॑ङ्कृ॒त्वा ।
स्वाय्ँ योनि॒मपि॑गच्छतु ॥40॥
प॒र्ण॒व॒ल्कᳶ प॒वित्र॑म् ।
सौ॒म्यस्सोमा॒द्धि निर्मि॑तः ।
भट्टभास्कर-टीका
अयं पर्णवल्कः इदं पयः सोमं सोमसदृशं कृत्वा यथोक्तं ग्रहणकाले - ‘सोमपीथाय सन्नयितुम् । वकलमन्तरमाददे’ इति, तदिदमुच्यते । तत्सोमीकृतं स्वां योनिं आत्मीययोनिभूतं अपिगच्छतु अनुप्रविशतु । पर्णवल्कः पवित्रं शोधयिता । आविष्टनपुंसकोऽयम् । सौम्यः सोमापत्यम् । तत्कथमित्याह - सोमाद्धि निर्मितः उत्पन्नः । यथोक्तम् - ‘तृतीयस्यै दिवः । गायत्र्या सोम आभृतः’ इत्यादि । तस्मात् सोमप्रभवत्वात् अस्य सोमः स्वा योनिः ॥
भास्करोक्त-विनियोगः
46शाखापवित्रं क्वचित्प्रज्ञातं निदधाति - इमाविति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मौ प॒र्णञ्च॑ द॒र्भञ्च॑ ।
दे॒वानाँ॑ हव्य॒-शोध॑नौ ।
प्रा॒त॒र् वे॒षाय॑ गोपाय ।
विष्णो॑ ह॒व्यँ हि रक्ष॑सि ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
इ॒मौ प॒र्णञ्च॑ द॒र्भञ्च॑ ।
दे॒वानाँ॑ हव्य॒शोध॑नौ ।
प्रा॒त॒र्वे॒षाय॑ गोपाय ।
विष्णो॑ ह॒व्यँ हि रक्ष॑सि ।
भट्टभास्कर-टीका
पर्णविकारे शाखायां पर्णशब्दः । पर्णं च पलाशशाखां च दर्भं च शाखापवित्रं च इतीमौ देवानां हव्यशोधनौ हविषां शोधकौ प्रातर्वेषाय प्रातर्दोहात्मने यज्ञाय व्यापनाय गोपाय रक्ष हे विष्णो! । कस्मादेवमुच्यस इति चेत् - त्वं खलु हव्यं हि रक्षसि । यथोक्तम् - ‘विष्णो हव्यं रक्षस्व’ इति, अतः हव्यरक्षार्थमेव इमौ रक्षेति । एतद्रक्षणे हि हव्यं रक्षितं स्यात् ॥
भास्करोक्त-विनियोगः
47नक्तं परिस्तरणकाले जपति - उभाविति चतुर्नवका बृहती ॥
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒भाव॒ग्नी उ॑पस्तृण॒ते ।
दे॒वता॒ उप॑वसन्तु मे ।
अ॒हङ् ग्रा॒म्यान् उप॑वसामि ।
मह्य॒ङ् गोप॑तये प॒शून् ॥41॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
उ॒भाव॒ग्नी उ॑पस्तृण॒ते ।
दे॒वता॒ उप॑वसन्तु मे ।
अ॒हङ्ग्रा॒म्यानुप॑वसामि ।
मह्य॒ङ्गोप॑तये प॒शून् ॥41॥
भट्टभास्कर-टीका
उभावग्नी गार्हपत्याहवनीयौ प्राधान्यादनयोरुपादानं दक्षिणाग्नावपि भवत्येव । उपस्तृणते दर्भैः समीपतः छादयति । बहुवचनं कर्तृनियमार्थमिति केचित् । उपस्तीर्णाग्निके स्थाने अत्र देवता उपवसन्तु अनशना वर्तन्तां मे मदर्थम् । यद्वा - मदीया देवता उपवसन्तु अहं हि ग्राम्यान् पशून् उपवसामि नाश्नामि, मद्वत् मम देवता अपि उपवसन्तु ग्राम्यानिति ॥ यद्वा - देवता उपवसन्तु उपेत्य वसन्तु मदर्थम्, मम को विशेष इति चेतू - अहं हि ग्राम्यान् पशून् उपवसामि नाश्नामि । किमर्थं? मह्यं गोपतये अहं गोपतिः गवां स्वामी यथा स्यामिति । यथोक्तम् - ‘यद्ग्राम्यानुपवसति तेन ग्राम्यानवरुन्धे’ इति ॥
इति तैत्तिरीये ब्राह्मणे तृतीये सप्तमे चतुर्थोऽनुवाकः ॥