०३ मुख्याग्न्यसम्भवे होमाधाराः

मूलम्

वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते ।
यस्याहि॑ताग्नेर॒ग्निर्म॒थ्यमा॑नो॒ न जाय॑ते ।
यत्रा॒न्यम्पश्ये॑त् ।
तत॑ आ॒हृत्य॑ होत॒व्य॑म् ।

विश्वास-प्रस्तुतिः

वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ यस्याहि॑ताग्नेर॒ग्निर्म॒थ्यमा॑नो॒ न जाय॑ते ।

यत्रा॒न्यम्पश्ये॒त् तत॑ आ॒हृत्य॑ होत॒व्य॑म् ।

मूलम्

वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ यस्याहि॑ताग्नेर॒ग्निर्म॒थ्यमा॑नो॒ न जाय॑ते ।

यत्रा॒न्यम्पश्ये॒त् तत॑ आ॒हृत्य॑ होत॒व्य॑म् ।

भट्टभास्कर-टीका

1वि वा इत्यादि ॥ यस्याहिताग्नेर्मथने कर्तव्ये सति अग्निर्मथ्यमानो न जायते स एष इन्द्रियेण वीर्येण व्यृद्ध्यते विहीनो भवति । तत्राग्निहोत्रकालसन्निकर्षे चेत् कंचिदप्यन्यमाहृत्य जुहुयात् अग्निहोत्रं शीघ्रम् । अथात्वरमाणः पुनर्मन्थेत् ।

विश्वास-प्रस्तुतिः

अ॒ग्नावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।

मूलम्

अ॒ग्नावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।

भट्टभास्कर-टीका

एवं कृते अग्नावेव मुख्येऽग्निहोत्रं हुतं भवति ॥

मूलम्

यद्य॒न्यन्न वि॒न्देत् ।
अ॒जायाँ॑ होत॒व्य॑म् ।

विश्वास-प्रस्तुतिः

यद्य॒न्यन्न वि॒न्देद॒जायाँ॑ होत॒व्य॑म् ।

मूलम्

यद्य॒न्यन्न वि॒न्देद॒जायाँ॑ होत॒व्य॑म् ।

मूलम्

आ॒ग्ने॒यी वा ए॒षा ।
यद॒जा ।

विश्वास-प्रस्तुतिः

आ॒ग्ने॒यी वा ए॒षा यद॒जा ।

मूलम्

आ॒ग्ने॒यी वा ए॒षा यद॒जा ।

भट्टभास्कर-टीका

2अन्यस्याग्नेरलाभे अजायां होतव्यं दक्षिणे कर्णे । तस्या आग्नेयत्वात् ।

विश्वास-प्रस्तुतिः

अ॒ग्नावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ॥17॥
अ॒जस्य॒ तु नाश्ञी॑यात् ।

मूलम्

अ॒ग्नावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ॥17॥
अ॒जस्य॒ तु नाश्ञी॑यात् ।

भट्टभास्कर-टीका

एवं कृतेऽग्नावेव हुतं भवति । किन्तु तत ऊर्ध्वं अजस्य नाश्नीयात् । कर्मणि षष्ठीं ।

मूलम्

यद॒जस्या॑श्ञी॒यात् ।
यामे॒वाग्नावाहु॑तिञ्जुहु॒यात् ।
ताम॑द्यात् ।

विश्वास-प्रस्तुतिः

यद॒जस्या॑श्ञी॒याद् यामे॒वाग्नावाहु॑तिञ्जुहु॒यात् ।
ताम॑द्यात् ।

मूलम्

यद॒जस्या॑श्ञी॒याद् यामे॒वाग्नावाहु॑तिञ्जुहु॒यात् ।
ताम॑द्यात् ।

भट्टभास्कर-टीका

यद्यश्नीयात् या त्वग्रौ अन्याऽप्याहुतिः साऽप्यनेन भक्षिता स्यात् ।

विश्वास-प्रस्तुतिः

तस्मा॑द॒जस्य॒ नाश्य॑म् ।

मूलम्

तस्मा॑द॒जस्य॒ नाश्य॑म् ।

भट्टभास्कर-टीका

तस्मादजं नाश्नीयात् ॥

मूलम्‌

यद्य॒जान्न वि॒न्देत् ।
ब्रा॒ह्म॒णस्य॒ दक्षि॑णे॒ हस्ते॑ होत॒व्य॑म् ।

ए॒ष वा अ॒ग्निर्वै॑श्वान॒रः ।
यद्ब्रा॑ह्म॒णः ।

विश्वास-प्रस्तुतिः

यद्य॒जान्न वि॒न्देद् ब्राह्म॒णस्य॒ दक्षि॑णे॒ हस्ते॑ होत॒व्य॑म् ।

ए॒ष वा अ॒ग्निर्वै॑श्वान॒रो यद्ब्रा॑ह्म॒णः ।

अ॒ग्नावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ॥18॥

मूलम्

यद्य॒जान्न वि॒न्देद् ब्राह्म॒णस्य॒ दक्षि॑णे॒ हस्ते॑ होत॒व्य॑म् ।

ए॒ष वा अ॒ग्निर्वै॑श्वान॒रो यद्ब्रा॑ह्म॒णः ।

अ॒ग्नावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ॥18॥

भट्टभास्कर-टीका

3अजाया अलाभे तु ब्राह्मणस्य दक्षिणे हस्ते होतव्यम्, स्वयं वेश्वानरोऽग्निः ब्राह्मणः । गतमन्यत् ।

मूलम्

ब्रा॒ह्म॒णन्तु व॑स॒त्यै॑ नाप॑रुन्ध्यात् ।

यद्ब्रा॑ह्म॒णव्ँव॑स॒त्या अ॑परु॒न्ध्यात् ।
यस्मि॑न्ने॒वाग्नावाहु॑तिञ्जुहु॒यात् ।
तम्भा॑ग॒धेये॑न॒ व्य॑र्धयेत् ।

तस्मा॑द्ब्राह्म॒णो व॑स॒त्यै॑ नाप॒रुध्यः॑ ।

यदि॑ ब्राह्म॒णन्न वि॒न्देत् ।
द॒र्भ॒स्त॒म्बे हो॑त॒व्य॑म् ।

विश्वास-प्रस्तुतिः

यद्ब्रा॑ह्म॒णव्ँव॑स॒त्या अ॑परु॒न्ध्याद् यस्मि॑न्ने॒वाग्नावाहु॑तिञ्जुहु॒यात् तम्भा॑ग॒धेये॑न॒ व्य॑र्धयेत् ।

तस्मा॑द्ब्राह्म॒णो व॑स॒त्यै॑ नाप॒रुध्यः॑ ।

यदि॑ ब्राह्म॒णन्न वि॒न्देद् दर्भ॒स्त॒म्बे हो॑त॒व्य॑म् ।

ततः परन्तु ब्राह्मणं वसतिकामं ततो नापरुन्ध्यात् न प्रत्याचक्षीत । अपरोद्धा तु यस्मिन्नग्नौ अन्या आहुतिः हुता तमपि विहीनभागं कुर्यात्, तस्मान्नापरोध्यः । छान्दसः क्यप् ॥

विश्वास-प्रस्तुतिः

अ॒ग्नि॒वान् वै द॑र्भस्त॒म्बः ।
अ॒ग्नावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
द॒र्भाँस्तु नाध्या॑सीत ॥19॥

मूलम्

अ॒ग्नि॒वान् वै द॑र्भस्त॒म्बः ।
अ॒ग्नावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
द॒र्भाँस्तु नाध्या॑सीत ॥19॥

भट्टभास्कर-टीका

4ब्राह्मणालाभे दर्भस्तम्बे होतव्यम् । अग्निवानिति । ‘छन्दसीरः’ इति मतो वत्वम् । दर्भाध्यासने सर्वस्याहुतिमध्यासिता स्यात् ॥

मूलम्

यामे॒वाग्नावाहु॑तिञ्जुहु॒यात् ।
तामध्या॑सीत ।
तस्मा॑द्द॒र्भा नाध्या॑सित॒व्याः॑ ।

यदि॑ द॒र्भान्न वि॒न्देत् ।
अ॒प्सु हो॑त॒व्य॑म् ।

आपो॒ वै सर्वा॑ दे॒वताः॑ ।
दे॒वता॑स्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।

विश्वास-प्रस्तुतिः

यामे॒वाग्नावाहु॑तिञ्जुहु॒यात् तामध्या॑सीत ।
तस्मा॑द्द॒र्भा नाध्या॑सित॒व्याः॑ ।

यदि॑ द॒र्भान्न वि॒न्देद् अ॒प्सु हो॑त॒व्य॑म् ।

5दर्भाभावे अप्सु होतव्यं, अग्नेस्सर्वदेवतात्मकत्वात् सर्वदेवतात्मिकास्वप्सु हुतं अग्नावेव हुतं भवति ।

विश्वास-प्रस्तुतिः

आप॒स्तु न परि॑चक्षीत ।

मूलम्

आप॒स्तु न परि॑चक्षीत ।

मूलम्

यदाप॑ᳶ परि॒चक्षी॑त ॥20॥
यामे॒वाप्स्वाहु॑तिञ्जुहु॒यात् ।
ताम्परि॑चक्षीत ।

विश्वास-प्रस्तुतिः

यदाप॑ᳶ परि॒चक्षी॑त॒ यामे॒वाप्स्वाहु॑तिञ्जुहु॒यात् ताम्परि॑चक्षीत ।
तस्मा॒दापो॒ न प॑रि॒चक्ष्याः॑ ।

मूलम्

यदाप॑ᳶ परि॒चक्षी॑त॒ यामे॒वाप्स्वाहु॑तिञ्जुहु॒यात् ताम्परि॑चक्षीत ।
तस्मा॒दापो॒ न प॑रि॒चक्ष्याः॑ ।

भट्टभास्कर-टीका

न परिचक्षीतेति, सर्वत्र प्राप्तावेकदेशवर्जनं परिसंख्या, यथा इमा भोजनीया इति, तां न कुर्यात् । अन्यथा अप्सु कृतां सर्वामप्याहुतिं परिचक्षीत । परिचक्ष्या इति ‘छन्दस्युभयथा’ इति ण्यतः सार्वधातुकत्वात् ख्याञादेशाभावः । सांवत्सरिकाण्येतानि व्रतानीत्याश्मरथ्यः, यावज्जीवमित्यालेखनः ॥

विश्वास-प्रस्तुतिः

मेध्या॑ च॒ वा ए॒तस्या॑मे॒ध्या च॑ त॒नुवौ॒ सँसृ॑ज्येते ।

मूलम्

मेध्या॑ च॒ वा ए॒तस्या॑मे॒ध्या च॑ त॒नुवौ॒ सँसृ॑ज्येते ।

मूलम्

यस्याहि॑ताग्नेर॒न्यैर॒ग्निभि॑र॒ग्नय॑स्सँसृ॒ज्यन्ते॑ ।
अ॒ग्नये॒ विवि॑चये पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् ।

विश्वास-प्रस्तुतिः

यस्याहि॑ताग्नेर॒न्यैर॒ग्निभि॑र॒ग्नय॑स्सँसृ॒ज्यन्त॑ +अ॒ग्नये॒ विवि॑चये पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् ।

मेध्या॑ञ्चै॒वास्या॑मे॒ध्याञ्च॑ त॒नुवौ॒ व्याव॑र्तयति ।

अ॒ग्नये॑ व्र॒तप॑तये पु॒रो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
अ॒ग्निमे॒व व्र॒तप॑तिँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वैन॑व्व्ँर॒तमाल॑म्भयति ॥21॥

6मेध्या चेत्यादि । । गतम् ॥ अमेध्येति । ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । व्रातपतिं द्वितीयमिष्टिं कुर्यात् ॥

विश्वास-प्रस्तुतिः

गर्भँ॒ स्रव॑न्तमग॒दम॑कः ।
अ॒ग्निरिन्द्र॒स्त्वष्टा॒ बृह॒स्पतिः॑ ।
पृ॒थि॒व्यामव॑चुश्चोतै॒तत् ।
नाभिप्राप्नो॑ति॒ निर्ऋ॑तिम्परा॒चैः ।

मूलम्

गर्भँ॒ स्रव॑न्तमग॒दम॑कः ।
अ॒ग्निरिन्द्र॒स्त्वष्टा॒ बृह॒स्पतिः॑ ।
पृ॒थि॒व्यामव॑चुश्चोतै॒तत् ।
नाभिप्राप्नो॑ति॒ निर्ऋ॑तिम्परा॒चैः ।

भट्टभास्कर-टीका

7गर्भ स्रवन्तमिति विराजा अग्निहोत्रस्थालीं स्रवन्तीमभिमन्त्रयते ॥ गर्भं गर्भतुल्यं इदं होमद्रव्यं स्रवन्तं स्थानान्निर्गच्छन्तं अगदं अविनाशं अकः करोतु । छान्दसे लुङि ‘मन्त्रे घस’ इति च्लेर्लुक् । अग्निश्चेन्द्रश्च त्वष्टा च बृहस्पतिश्च । ततः तथाकृते पृथिव्यामेव एतद्द्रव्यं अवचुश्चोत अवक्षरितमस्तु पृथिवीस्थमेव अस्मदर्थं अविनष्टं तिष्ठतु । निर्ऋतिं रक्षः प्रभृतीनि नाभिप्राप्नोति आभिमुख्येन न प्राप्नोतु पराचैः अस्मत्पराङ्मुखम् ॥

विश्वास-प्रस्तुतिः

रेतो॒ वा ए॒तद्वाजि॑न॒माहि॑ताग्नेः ।

मूलम्

रेतो॒ वा ए॒तद्वाजि॑न॒माहि॑ताग्नेः ।

मूलम्

यद॑ग्निहो॒त्रम् ।
तद्यत्स्रवे॑त् ।

विश्वास-प्रस्तुतिः

यद॑ग्निहो॒त्रन् तद्यत्स्रवे॑त् ।

रेतो॑ऽस्य॒ वाजि॑नँ स्रवेत् ।
“गर्भँ॒ स्रव॑न्तमग॒दम॑क॒"रित्या॑ह ।
रेत॑ ए॒वास्मि॒न्वाजि॑नन्दधाति ॥22॥

“अ॒ग्नि"रित्या॑ह ।
अ॒ग्निर्वै रे॑तो॒धाः ।
रेत॑ ए॒व तद्द॑धाति ।

“इन्द्र॒” इत्या॑ह ।
इ॒न्द्रि॒यमे॒वास्मि॑न्दधाति ।

“त्वष्टे"त्या॑ह ।
त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृत् ।
रू॒पमे॒व प॒शुषु॑ दधाति ।

“बृह॒स्पति॒"रित्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒वास्मै॑ प्र॒जाᳶ प्रज॑नयति ।

8अत्रैव ब्राह्मणमान्तादनुवाकस्य - रेतो वा इत्यादि ॥ रेतःस्थानीयं वाजिनस्थानीयं चाग्निहोत्रं, पशुनिष्पत्तिहेतुत्वात् । गतमन्यत् ।

विश्वास-प्रस्तुतिः

“पृ॒थि॒व्यामव॑ चुश्चोतै॒तदि"त्या॑ह ।
अ॒स्यामे॒वैन॒त्प्रति॑ष्ठापयति ।

मूलम्

“पृ॒थि॒व्यामव॑ चुश्चोतै॒तदि"त्या॑ह ।
अ॒स्यामे॒वैन॒त्प्रति॑ष्ठापयति ।

भट्टभास्कर-टीका

अस्यामेवेति । अविनष्टमेवार्थं स्थापयति ।

विश्वास-प्रस्तुतिः

“नाभिप्राप्नो॑ति॒ निर्ऋ॑तिम्पराचै॒"रित्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ॥23॥

मूलम्

“नाभिप्राप्नो॑ति॒ निर्ऋ॑तिम्पराचै॒"रित्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ॥23॥

भट्टभास्कर-टीका

रक्षसामिति निर्ऋतिपदं व्याख्यातम् ॥

इति तैत्तिरीयब्राह्मणे तृतीये सप्तमे अच्छिद्रेषु तृतीयोऽनुवाकः ॥