०२ अग्निहोत्रसान्नायासाधारणानि प्रायश्चित्तानि

मूलम्

यद्विष्ष॑ण्णेन जुहु॒यात् ।
अप्र॑जा अप॒शुर्यज॑मानस्स्यात् ।

यदना॑यतने नि॒नये॑त् ।
अ॒ना॒य॒त॒नस्स्या॑त् ।

विश्वास-प्रस्तुतिः

यद्विष्ष॑ण्णेन जुहु॒याद् अप्र॑जा अप॒शुर्यज॑मानस्स्यात् ।
यदना॑यतने नि॒नये॑द् अनायत॒नस्स्या॑त् ।

मूलम्

यद्विष्ष॑ण्णेन जुहु॒याद् अप्र॑जा अप॒शुर्यज॑मानस्स्यात् ।
यदना॑यतने नि॒नये॑द् अनायत॒नस्स्या॑त् ।

भट्टभास्कर-टीका

1यद्विष्षण्णेनेत्यादि ॥ अग्निहोत्रेण सान्नाय्येन वा विष्षण्णेन विष्यन्दितेन यदि जुहुयात् प्रजापशुहीनस्स्यात् । प्रजायत इति प्रजाः, असुन् ततस्तत्पुरुषे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अग्न्यायतनादन्यत्र निनयने स्वयमपि हीनग्रहस्स्यात् ।

विश्वास-प्रस्तुतिः

प्रा॒जा॒प॒त्यय॒र्चा व॑ल्मीकव॒पाया॒मव॑नयेत् ।
प्रा॒जा॒प॒त्यो वै व॒ल्मीकः॑ ।
य॒ज्ञᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑तावे॒व य॒ज्ञम्प्रति॑ष्ठापयति ।

मूलम्

प्रा॒जा॒प॒त्यय॒र्चा व॑ल्मीकव॒पाया॒मव॑नयेत् ।
प्रा॒जा॒प॒त्यो वै व॒ल्मीकः॑ ।
य॒ज्ञᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑तावे॒व य॒ज्ञम्प्रति॑ष्ठापयति ।

विश्वास-प्रस्तुतिः
मूलम्
भट्टभास्कर-टीका

प्राजापत्ययेति । ‘प्रजापते न त्वत्’ इति ।

विश्वास-प्रस्तुतिः

“भू"रित्या॑ह ।
भू॒तो वै प्र॒जाप॑तिः ॥10॥
भूति॑मे॒वोपै॑ति ।
तत्कृ॒त्वा ।

मूलम्

“भू"रित्या॑ह ।
भू॒तो वै प्र॒जाप॑तिः ॥10॥
भूति॑मे॒वोपै॑ति ।
तत्कृ॒त्वा ।

भट्टभास्कर-टीका

भूरित्युपस्थानम् । गतमन्यत् ।

विश्वास-प्रस्तुतिः

अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।

मूलम्

अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।

भट्टभास्कर-टीका

अन्यामिति । यस्या दुग्धं विष्षण्णं ततोऽन्याम् ॥

मूलम्

यत्की॒टाव॑पन्नेन जुहु॒यात् ।
अप्र॑जा अप॒शुर्यज॑मानस्स्यात् ।

यदना॑यतने नि॒नये॑त् ।
अ॒ना॒य॒त॒नस्स्या॑त् ।

विश्वास-प्रस्तुतिः

यत्की॒टाव॑पन्नेन जुहु॒याद् अप्र॑जा अप॒शुर्यज॑मानस्स्यात् ।
यदना॑यतने नि॒नये॑द् अनायत॒नस्स्या॑त् ।

मूलम्

यत्की॒टाव॑पन्नेन जुहु॒याद् अप्र॑जा अप॒शुर्यज॑मानस्स्यात् ।
यदना॑यतने नि॒नये॑द् अनायत॒नस्स्या॑त् ।

भट्टभास्कर-टीका

2यत्कीटावपन्नेनेति ॥ कीटावपन्नं कीटेनावपत्य दूषितम् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।

विश्वास-प्रस्तुतिः

म॒ध्य॒मेन॑ प॒र्णेन॑ द्यावापृथि॒व्य॑य॒र्चाऽन्त॑ᳶपरि॒धि निन॑येत् ।

द्यावा॑पृथि॒व्योरे॒वैन॒त्प्रति॑ष्ठापयति ॥11॥

मूलम्

म॒ध्य॒मेन॑ प॒र्णेन॑ द्यावापृथि॒व्य॑य॒र्चाऽन्त॑ᳶपरि॒धि निन॑येत् ।

द्यावा॑पृथि॒व्योरे॒वैन॒त्प्रति॑ष्ठापयति ॥11॥

मूलम्

तत्कृ॒त्वा ।
अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् ।

विश्वास-प्रस्तुतिः

तत्कृ॒त्वा +अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।

मूलम्

तत्कृ॒त्वा +अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।

भट्टभास्कर-टीका

पर्णेन पलाशपत्रेण । द्यावापृथिव्यया ‘मही द्यौः पृथिवी च नः’ इत्यनया । ‘द्यावापृथिवीशुनासीर’ इति यत् । द्यावापृथिव्योः प्रतिष्ठापनया अविनष्टत्वम् ॥

मूलम्

यदव॑वृष्टेन जुहु॒यात् ।
अप॑रूपमस्या॒त्मञ्जा॑येत ।

कि॒लासो॑ वा॒ स्याद॑र्श॒सो वा॑ ।
यत्प्रत्ये॒यात् ।
य॒ज्ञव्ँ विच्छि॑न्द्यात् ।

विश्वास-प्रस्तुतिः

यदव॑वृष्टेन जुहु॒याद् अप॑रूपमस्या॒त्मञ्जा॑येत ।

कि॒लासो॑ वा॒ स्याद॑र्श॒सो वा॒ यत्प्रत्ये॒याद् य॒ज्ञव्ँ विच्छि॑न्द्यात् ।
स जु॑हुयात् ।

मूलम्

यदव॑वृष्टेन जुहु॒याद् अप॑रूपमस्या॒त्मञ्जा॑येत ।

कि॒लासो॑ वा॒ स्याद॑र्श॒सो वा॒ यत्प्रत्ये॒याद् य॒ज्ञव्ँ विच्छि॑न्द्यात् ।
स जु॑हुयात् ।

भट्टभास्कर-टीका

3अववृष्टं अवपतितेन वर्षेण दूषितम् ॥ अपरूपं अपकृष्टं निन्दितं रूपमात्मनि प्रादुर्भवेत् । किलासः कुष्ठी, अर्शसा तद्वानर्शसः, अर्शाअदिलक्षणोऽच् । यत्प्रत्येयात् यद्यहुत्वैव प्रत्यागच्छेत्, यज्ञो विचिछन्नस्स्यात् ।

विश्वास-प्रस्तुतिः

मि॒त्रो जना॑न्कल्पयति प्रजा॒नन्न् ॥12॥
मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् ।
मि॒त्रᳵ कृ॒ष्टीरनि॑मिषा॒ऽभिच॑ष्टे ।
स॒त्याय॑ ह॒व्यङ्घृ॒तव॑ज्जुहो॒तेति॑ ।

मूलम्

मि॒त्रो जना॑न्कल्पयति प्रजा॒नन्न् ॥12॥
मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् ।
मि॒त्रᳵ कृ॒ष्टीरनि॑मिषा॒ऽभिच॑ष्टे ।
स॒त्याय॑ ह॒व्यङ्घृ॒तव॑ज्जुहो॒तेति॑ ।

भट्टभास्कर-टीका

मित्रो जनानिति । ‘त्वमग्ने बृहत्’ इत्यत्र व्याख्याता ।

  • मन्त्रः मि॒त्रो जना॑न्यातयति प्रजा॒नन्मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् ।
    मि॒त्रᳵ कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे स॒त्याय॑ ह॒व्यङ्घृ॒तव॑द्विधेम ।

    • टीका 16तत्रैव याज्या - मित्र इति त्रिष्टुप् ॥ मित्रो देवः जनान् सर्वान् यातयति चेष्टयति प्रजानन् तत्तदधिकारानुरूपविधानज्ञः मित्र एव पृथिवीमपि द्यामपि दाधार धारयितुं प्रभवति । ध्रियतेः छन्दसि लिटि तुजादित्वादभ्यासस्य दीर्घत्वम् । मित्र एव कृष्टीः मनुष्यान् विशेषेण अनिमिषा अनिमिषेणादरेणाभिचष्टे आभिमुख्येन पश्यति उपकरोतीत्यर्थः । दर्शनमुपकारः, तथाहि - ‘वक्तारो भवन्ति, सुपश्यति’ इति । मिषतेर्भावे क्विप् । यद्वा - अनिमिषाः देवाः । इगुपधलक्षणः कः, ‘सुपां सुलुक्’ इति शस आकारः । मनुष्यान् देवाश्च विशेषेण पश्यतीति । तस्मात्तस्मै सत्यायामोघफलाय देवाय हव्यं चरुलक्षणं घृतवत् घृतसंयुक्तं विधेम कुर्मः ददाम इत्यर्थः । विदधातिर्दानकर्मा, विध विधाने, तौदादिकः ॥
विश्वास-प्रस्तुतिः

मि॒त्रेणै॒वैन॑त्कल्पयति ।

मूलम्

मि॒त्रेणै॒वैन॑त्कल्पयति ।

मूलम़्

तत्कृ॒त्वा ।
अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् ।

विश्वास-प्रस्तुतिः

तत्कृ॒त्वा +अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।

मूलम्

तत्कृ॒त्वा +अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।

भट्टभास्कर-टीका

कल्पयति इष्टसाधनसमर्थं करोति ॥

मूलम्

यत्पूर्व॑स्या॒माहु॑त्याँ हु॒ताया॒मुत्त॒राऽऽहु॑ति॒स्स्कन्दे॑त् ।
द्वि॒पाद्भि॑ᳶ प॒शुभि॒र्यज॑मानो॒ व्यृ॑ध्येत ।

विश्वास-प्रस्तुतिः

यत्पूर्व॑स्या॒माहु॑त्याँ हु॒ताया॒मुत्त॒राऽऽहु॑ति॒स्स्कन्दे॑द् द्वि॒पाद्भि॑ᳶ प॒शुभि॒र्यज॑मानो॒ व्यृ॑ध्येत ।

मूलम्

यत्पूर्व॑स्या॒माहु॑त्याँ हु॒ताया॒मुत्त॒राऽऽहु॑ति॒स्स्कन्दे॑द् द्वि॒पाद्भि॑ᳶ प॒शुभि॒र्यज॑मानो॒ व्यृ॑ध्येत ।

भट्टभास्कर-टीका

4द्विपाद्भिरिति ॥ आहुतिद्वित्वनाशनात् । ‘द्वित्रिभ्यां पाद्दन्’ इति उत्तरपदान्तोदात्तत्वम् । अभिहोमः पूर्वस्या उपरिहोमः ।

मूलम्

यदुत्त॑रया॒ऽभिजु॑हु॒यात् ॥13॥
चतु॑ष्पाद्भिᳶ प॒शुभि॒र्यज॑मानो॒ व्यृ॑ध्येत ।

विश्वास-प्रस्तुतिः

यदुत्त॑रया॒ऽभिजु॑हु॒याच्चतु॑ष्पाद्भिᳶ प॒शुभि॒र्यज॑मानो॒ व्यृ॑ध्येत ।

मूलम्

यदुत्त॑रया॒ऽभिजु॑हु॒याच्चतु॑ष्पाद्भिᳶ प॒शुभि॒र्यज॑मानो॒ व्यृ॑ध्येत ।

भट्टभास्कर-टीका

चतुष्पाद्भिरिति । आहुतिद्वयनाशेन आहुतिद्रव्यकारणचतुष्पान्नाशः ।

मूलम्

“यत्र॒ वेत्थ॑ वनस्पते दे॒वाना॒ङ्गुह्या॒ नामा॑नि ।
तत्र॑ ह॒व्यानि॑ गाम॒ये"ति॑ वानस्प॒त्यय॒र्चा स॒मिध॑मा॒धाय॑ ।
तू॒ष्णीमे॒व पुन॑र्जुहुयात् ।

विश्वास-प्रस्तुतिः

“यत्र॒ वेत्थ॑ वनस्पते दे॒वाना॒ङ्गुह्या॒ नामा॑नि ।
तत्र॑ ह॒व्यानि॑ गाम॒ये"ति॑ वानस्प॒त्यय॒र्चा स॒मिध॑मा॒धाय॑ तू॒ष्णीमे॒व पुन॑र्जुहुयात् ।

वन॒स्पति॑नै॒व य॒ज्ञस्यार्ता॒ञ्चाना॑र्ता॒ञ्चाहु॑ती॒ विदा॑धार ।

मूलम्

“यत्र॒ वेत्थ॑ वनस्पते दे॒वाना॒ङ्गुह्या॒ नामा॑नि ।
तत्र॑ ह॒व्यानि॑ गाम॒ये"ति॑ वानस्प॒त्यय॒र्चा स॒मिध॑मा॒धाय॑ तू॒ष्णीमे॒व पुन॑र्जुहुयात् ।

वन॒स्पति॑नै॒व य॒ज्ञस्यार्ता॒ञ्चाना॑र्ता॒ञ्चाहु॑ती॒ विदा॑धार ।

मूलम्

तत्कृ॒त्वा ।
अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् ।

विश्वास-प्रस्तुतिः

तत्कृ॒त्वा +अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।

मूलम्

तत्कृ॒त्वा +अ॒न्यान्दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।

भट्टभास्कर-टीका

तत्र ‘यत्र वेत्थ’ इति ऋचा गायत्र्या समिधमाधाय तूष्णीमेव पुनर्जुहुयात् । तत एवं कुर्वन् आर्तानार्ते आहुती देवेषु विदाधार पृथगेव धारयति स्थापयति । यथा आर्ता अनार्ता न भवति यथा चानार्ता आर्ता न भवति तथा करोति । ‘तुजादीनाम्’ इत्यभ्यासस्य दीर्घत्वम् ।

मन्त्रार्थस्तु - हे वनस्पते! वनस्पतिविकार! समिद्रूप! देवानां गुह्यानि नामानि नमनस्थानानि यत्र वेत्थ जानासि यत्र देवाः स्थिताः तत्र एतानि हव्यानि गामय गमय । ह्रस्वाभावश्छान्दसः ॥

मूलम्

यत्पु॒रा प्र॑या॒जेभ्य॒ᳶ प्राङङ्गा॑र॒स्स्कन्दे॑त् ।
अ॒ध्व॒र्यवे॑ च॒ यज॑मानाय॒ चाकँ॑ स्यात् ॥14॥

यद्द॑क्षि॒णा ।
ब्र॒ह्मणे॑ च॒ यज॑मानाय॒ चाकँ॑ स्यात् ।

यत्प्र॒त्यक् ।
होत्रे॑ च॒ पत्नि॑यै च॒ यज॑मानाय॒ चाकँ॑ स्यात् ।

यदुदङ्ङ्॑ ।
अ॒ग्नीधे॑ च प॒शुभ्य॑श्च॒ यज॑मानाय॒ चाकँ॑ स्यात् ।

यद॑भिजुहु॒यात् ।
रु॒द्रो॑ऽस्य प॒शून्घातु॑कस्स्यात् ।

यन्नाभि॑जुहु॒यात् ।
अशा॑न्त॒ᳶ प्रह्रि॑येत ॥15॥

विश्वास-प्रस्तुतिः

यत्पु॒रा प्र॑या॒जेभ्य॒ᳶ प्राङङ्गा॑र॒स्स्कन्दे॑द् अध्व॒र्यवे॑ च॒ यज॑मानाय॒ चाकँ॑ स्यात् ॥

यद्द॑क्षि॒णा ब्र॒ह्मणे॑ च॒ यज॑मानाय॒ चाकँ॑ स्यात् ।

यत्प्र॒त्यग् होत्रे॑ च॒ पत्नि॑यै च॒ यज॑मानाय॒ चाकँ॑ स्यात् ।

यदुदङ्ङ्॑ +अ॒ग्नीधे॑ च प॒शुभ्य॑श्च॒ यज॑मानाय॒ चाकँ॑ स्यात् ।

मूलम्

यत्पु॒रा प्र॑या॒जेभ्य॒ᳶ प्राङङ्गा॑र॒स्स्कन्दे॑द् अध्व॒र्यवे॑ च॒ यज॑मानाय॒ चाकँ॑ स्यात् ॥

यद्द॑क्षि॒णा ब्र॒ह्मणे॑ च॒ यज॑मानाय॒ चाकँ॑ स्यात् ।

यत्प्र॒त्यग् होत्रे॑ च॒ पत्नि॑यै च॒ यज॑मानाय॒ चाकँ॑ स्यात् ।

यदुदङ्ङ्॑ +अ॒ग्नीधे॑ च प॒शुभ्य॑श्च॒ यज॑मानाय॒ चाकँ॑ स्यात् ।

भट्टभास्कर-टीका

5यत्पुरा प्रयाजेभ्य इति ॥ अकं दुःखं सुखाभाव एव वा भवति । बहिःपरिधि स्कन्दने दक्षिणा दक्षिणस्याम् । दक्षिणादाच्प्रत्ययः । क्रियाविशेषणम् ।

विश्वास-प्रस्तुतिः

यद॑भिजुहु॒याद् रु॒द्रो॑ऽस्य प॒शून्घातु॑कस्स्यात् ।

यन्नाभि॑जुहु॒याद् अशा॑न्त॒ᳶ प्रह्रि॑येत ॥

मूलम्

यद॑भिजुहु॒याद् रु॒द्रो॑ऽस्य प॒शून्घातु॑कस्स्यात् ।

यन्नाभि॑जुहु॒याद् अशा॑न्त॒ᳶ प्रह्रि॑येत ॥

भट्टभास्कर-टीका

अथ स्कन्नस्याङ्गारस्य उपरि यदि जुहुयात् रुद्रः क्रुद्धः पशूनां हननशीलस्त्यात् बहिर्भावमसहमानः । ‘लषपतपद’ डत्युकञ् । अनभिहोमे तु अशान्तः असुखहेतुरेवाग्नौ प्रह्रियेतायमङ्गारः ।

विश्वास-प्रस्तुतिः

स्रु॒वस्य॒ बुध्ने॑नाभि॒निद॑ध्यात् ।

मा त॑मो॒ मा य॒ज्ञस्त॑म॒न्मा यज॑मानस्तमत् ।

नम॑स्ते अस्त्वाय॒ते ।
नमो॑ रुद्र पराय॒ते ।
नमो॒ यत्र॑ नि॒षीद॑सि ।

मूलम्

स्रु॒वस्य॒ बुध्ने॑नाभि॒निद॑ध्यात् ।

मा त॑मो॒ मा य॒ज्ञस्त॑म॒न्मा यज॑मानस्तमत् ।

नम॑स्ते अस्त्वाय॒ते ।
नमो॑ रुद्र पराय॒ते ।
नमो॒ यत्र॑ नि॒षीद॑सि ।

भट्टभास्कर-टीका

तस्मात्स्रुवस्य बुध्नेन मूलेन अभिनिदध्यात् उपर्याक्रमेत् - मा तम इति पङ्क्त्या, अमुमित्यादियजुरन्तया । हे अग्ने! मा तमः मा नशः यज्ञो यजमानश्च मा तमत् मा नशत् । पुषादित्वादङ् । हे अग्ने! रुद्रात्मन्! नमः ते अस्तु नमश्चिकीर्षुरग्निं रुद्रात्मनाऽऽमन्त्रयते ‘यस्मै नमः’ इति नियमात् । आयते आगच्छते नमः मा गा इति यावत् । किं गत्वा आगम्यात् इति आगमाक्षेपणमेव निषिद्ध्यते ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् ।

परायते परागच्छते च तुभ्यं नमः तत्र वा अत्र वा को विशेषः प्रसन्नो यदि स्यादिति भावः । गत्वाऽपि शीघ्रमागन्तव्यमिति वा, तस्मात् कोऽर्थो गमनेनेति भावः । पूर्ववद्विभक्तेरुदात्तत्वम् ।

अथ यत्र निषीदसि गत्वा आसिष्यसि तस्मै च स्थानाय नमः । किमर्थं स्थानान्तरपरिग्रह इति भावः ।
यदि गन्तव्यं मन्यसे मा तत्र निषीद इति वा । अथ वा - सर्वावस्थागतो देवः नमस्कारेणाराध्यते । यत्र यदेत्यर्थः । निषीदते च तुभ्यं नम इति सर्वदा प्रसीदेति विवक्षितम् ।

विश्वास-प्रस्तुतिः

अ॒मुम्मा हिँ॑सीर॒मुम्मा हिँ॑सी॒रिति॒ येन॒ स्कन्दे॑त् ।
तम्प्रह॑रेत् ।

मूलम्

अ॒मुम्मा हिँ॑सीर॒मुम्मा हिँ॑सी॒रिति॒ येन॒ स्कन्दे॑त् ।
तम्प्रह॑रेत् ।

भट्टभास्कर-टीका

अमुमिति सामान्यनिर्देशो विशेषार्थः । वीप्सा सर्वदिगर्था । येन स्कन्देदिति तत्तद्विशेषोपस्थापनया ब्राह्मणं वा । एतदुक्तं भवति - येन दिग्भागेन अङ्गारः स्कन्देत् तत्र यस्यां कस्यां प्रागुक्तं तमध्वर्य्वादिकं अमुमित्यत्र निर्दिश्य मा हिंसीरिति तस्याहिंसां प्रार्थयेतेति । तद्यथा - अध्वर्युं मा हिंसीरिति ॥

विश्वास-प्रस्तुतिः

स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दाः ।
स्तोम॑पृष्ठो घृ॒तवा॑न्त्सु॒प्रती॑कः ।
मा नो॑ हासीन्मेत्थि॒तो नेत्त्वा॒ जहा॑म ।
गो॒पो॒षन्नो॑ वीरपो॒षञ्च॑ य॒च्छेति॑ ।
ब्रह्म॑णै॒वैन॒म्प्रह॑रति ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ॥16॥

मूलम्

स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दाः ।
स्तोम॑पृष्ठो घृ॒तवा॑न्त्सु॒प्रती॑कः ।
मा नो॑ हासीन्मेत्थि॒तो नेत्त्वा॒ जहा॑म ।
गो॒पो॒षन्नो॑ वीरपो॒षञ्च॑ य॒च्छेति॑ ।
ब्रह्म॑णै॒वैन॒म्प्रह॑रति ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ॥16॥

भट्टभास्कर-टीका

6अथ तमङ्गारं अग्नौ प्रहरेत् - सहस्रशृङ्ग इति त्रिष्टुभा ॥ सहस्रशृङ्गः बहुज्वालः वृषभः वर्षिता कामानां जातवेदाः जातानां वेदिता स्तोमपृष्ठः स्तोमैः त्रिवृदादिभिः साध्यः स्मृतः । घृतवान् घृताहुतिमान् सुप्रतीकः शोभनारम्भः शोभनज्वालो वा तादृशस्त्वं अस्मान् मा हासीः मा त्याक्षीः मेत्थितः मेधितः अस्माभिरेकीभूतः, येषु सङ्गमे वार्णोपजनश्छान्दसः । वयमपि त्वां नेत् नैव जहाम त्यजाम तथा नः त्वं अस्मभ्यं गोपोषं गवादिपोषं वीरपोषं वीरपुष्टिं पुत्रादिपुष्टिं च यच्छ देहि कुर्विति यावत् ॥

इति तैत्तिरीयब्राह्मणे तृतीये सप्तमे अच्छिद्रेषु द्वितीयोऽनुवाकः ॥