०१ दर्शपूर्णमासेष्टिविषयाणि कानि चित्प्रायश्चित्तानि

मूलम्‌

सर्वा॒न्वा ए॒षो॑ऽग्नौ कामा॒न्प्रवे॑शयति ।
यो॑ऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ ।

विश्वास-प्रस्तुतिः

सर्वा॒न्वा ए॒षो॑ऽग्नौ कामा॒न्प्रवे॑शयति यो॑ऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ ।

मूलम्

सर्वा॒न्वा ए॒षो॑ऽग्नौ कामा॒न्प्रवे॑शयति यो॑ऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ ।

भट्टभास्कर-टीका

1अथाच्छिद्रं काण्डं वैश्वदेवमारभ्यते - छिद्रपूरणप्रायश्चित्तादिप्रायत्वात् अच्छिद्रम् । सर्वान्वा इत्यादि ॥ एष खलु सर्वानपि कामान् अभिलषितानर्थान् अग्नौ प्रवेशयति अग्नावेव दातृत्वेन स्थापयति तत्प्रसादैकलभ्यान् निश्रित्य प्रवर्तते यथा ‘त्वयाऽध्यक्षेण पृतना जयेम’ इत्यादि । यद्वा - सर्वान् कामान् अग्नौ प्रवेशयति अग्निरेव इमे सर्वे कामाः नाग्नेरन्यत्काम्यमस्तीति अग्निमेव कामैः विषयीकरोति । कः? यः अग्नीनन्वाधाय व्रतोपायनादि करोति करिष्यमाणयागोपलक्षणं व्रतोपायनम् ।

मूलम्

स यदनि॑ष्ट्वा प्रया॒यात् ।
अका॑मप्रीता एन॒ङ्कामा॒ नानु॒प्रया॑युः ।

विश्वास-प्रस्तुतिः

स यदनि॑ष्ट्वा प्रया॒यादका॑मप्रीता एन॒ङ्कामा॒ नानु॒प्रया॑युः ।

मूलम्

स यदनि॑ष्ट्वा प्रया॒यादका॑मप्रीता एन॒ङ्कामा॒ नानु॒प्रया॑युः ।

भट्टभास्कर-टीका

तदेवाह - अनिष्ट्वा प्रयायादिति । तत्र सोऽन्वाहिताग्निः यदनिष्ट्वा व्रतोपायनादिकां इष्टिं अकृत्वा अनादृताग्निः प्रयायात् प्रवसेत् । तत एनं एवंकुर्वाणं कामा नानुप्रयायुः जहति तं कामाः । कुतः? अकामप्रीतत्वात् कामेन प्रीताः कामप्रीताः न कामप्रीताः अकामप्रीताः पूर्वमग्नौ प्रवेशनकाले अस्य कामेन प्रीताः काम्याः अर्थाः इदानीं तदनादरेण सा प्रीतिः व्यपगता किमनेन कृतमिति । तस्मात् अकामप्रीता एनं जहति ।

विश्वास-प्रस्तुतिः

अ॒ते॒जा अ॑वी॒र्य॑स्स्यात् ।

मूलम्

अ॒ते॒जा अ॑वी॒र्य॑स्स्यात् ।

भट्टभास्कर-टीका

ततश्च अतेजा अवीर्यः स्यात् तेजोवीर्यग्रहणणं च सर्वकामोपलक्षणम् ।

विश्वास-प्रस्तुतिः

स जु॑हुयात् ।

मूलम्

स जु॑हुयात् ।

भट्टभास्कर-टीका

तस्मात् सोऽन्वाहिताग्निः दैवादनिष्ट्वा प्रयास्यन् उक्तदोषपरिहाराय जुहुयात् -

विश्वास-प्रस्तुतिः

तुभ्य॒न्ता अ॑ङ्गिरस्तम ।
विश्वा॑स्सुक्षि॒तय॒ᳶ पृथ॑क् ।
अग्ने॒ कामा॑य येमिर॒ इति॑ ।
कामा॑ने॒वास्मि॑न्दधाति ॥1॥

मूलम्

तुभ्य॒न्ता अ॑ङ्गिरस्तम ।
विश्वा॑स्सुक्षि॒तय॒ᳶ पृथ॑क् ।
अग्ने॒ कामा॑य येमिर॒ इति॑ ।
कामा॑ने॒वास्मि॑न्दधाति ॥1॥

भट्टभास्कर-टीका

तुभ्यं ता इति । इयं गायत्रो । ‘त्वमग्ने रुद्रः’ इत्यत्र व्याख्याता, । वास्तोष्पतीयप्रत्याम्नायोऽयमित्याहुः । ततः यत्र वसेत् तत्र एतामिष्टिं संस्थापयेदिति । ततश्च ‘कामाय येमिरे’ इति लिङ्गात्सर्वे कामाः अस्मिन्निहिता भवन्ति ।

  • तुभ्य॒न्ता अ॑ङ्गिरस्तम॒ विश्वाः॑ सुक्षि॒तय॒ᳶ पृथ॑क् ।
    अग्ने॒ कामा॑य येमिरे ॥

    • टीका 7’अग्नये कामाय पुरोडाशमष्टाकपालं निर्वपेद्यं कामो नोपनमेत्’ इत्यस्य पुरोनुवाक्या - तुभ्यं ता इति गायत्री ॥ हे अङ्गिरस्स्तम गन्तव्यतम गतिमत्तमेति वा । अगि रगि लघि गत्यर्थाः, अस्मादसुनि इरुडागमो निपात्यते । हे अग्ने तुभ्यं ताः प्रसिद्धाः विश्वास्तुक्षितयः शोभना क्षितिर्गतिर्यासां ताः प्रजाः । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - शोभनं क्षयन्ति वसन्तीति सुक्षितयो मनुष्याः । ‘मन्क्तिन्व्याख्यान’ इत्युत्तरपदान्तोदात्तत्वम् । पृथक्कामाय नानाविधेभ्यः कामेभ्यः कामसिद्धये येमिरे यमन्ति त्वामाराधयितुमात्मानं विषयेभ्यो व्यावर्तयन्ति । व्यत्ययेनात्मनेपदम् । यद्वा - पृथग्यमयन्ति नानाविधैरुपायैरात्मानं यमयन्ति त्वामाराधयितुम् । तस्माद्वयमप्यस्मत्कामसिद्धये त्वामेव भजामह इति भावः । ‘स एवैनं कामेन समर्धयत्युपैनं कामो नमति’ `इति ब्राह्मणम् ॥
विश्वास-प्रस्तुतिः

काम॑प्रीता एन॒ङ्कामा॒ अनु॒प्रया॑न्ति ।

मूलम्

काम॑प्रीता एन॒ङ्कामा॒ अनु॒प्रया॑न्ति ।

भट्टभास्कर-टीका

ततः कामप्रीताः एनं अनुप्रयान्ति कामाः सम्यगाचरितमिति । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।

विश्वास-प्रस्तुतिः

ते॒ज॒स्वी वी॒र्या॑वान्भवति ।

मूलम्

ते॒ज॒स्वी वी॒र्या॑वान्भवति ।

भट्टभास्कर-टीका

ततः तेजःप्रभृत्यभिमतार्थसम्पन्नो भवति ॥

विश्वास-प्रस्तुतिः

सन्त॑ति॒र्वा ए॒षा य॒ज्ञस्य॑ ।

मूलम्

सन्त॑ति॒र्वा ए॒षा य॒ज्ञस्य॑ ।

मूलम्

सन्त॑ति॒र्वा ए॒षा य॒ज्ञस्य॑ ।

यो॑ऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ ।
स यदु॒द्वाय॑ति ।
विच्छि॑त्तिरे॒वास्य॒ सा ।

विश्वास-प्रस्तुतिः

यो॑ऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॒ स यदु॒द्वाय॑ति॒ विच्छि॑त्तिरे॒वास्य॒ सा ।

मूलम्

यो॑ऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॒ स यदु॒द्वाय॑ति॒ विच्छि॑त्तिरे॒वास्य॒ सा ।

भट्टभास्कर-टीका

2सन्ततिर्वा इत्यादि ॥ सन्ततिः सन्तानः प्रक्रान्तस्याविच्छेदः । यज्ञस्यैषा सन्ततिः इदानीमेव यज्ञः प्रारब्धः सन्तायते । एषेत्युक्तम्, केत्याह - य इति ॥ यदित्यर्थः । यत्प्रथममेवाग्नीन् अन्वाधाय व्रतोपायनादि करोति न तु यदाऽग्निनाऽर्थः तद्यज्ञस्य सन्ततिरित्यर्थः । अन्यथा अग्निकार्यस्य यागत्वात् अनन्वाधाय व्रतोपायनादौ क्रियमाणे तस्याग्निकार्यत्वात् यज्ञोऽप्रक्रान्तः स्यात् तस्मात्प्रथममेवान्वाधानाद्यज्ञः प्रक्रान्तः सन्तायते ततः सः अग्निरन्वाहितः यदि उद्वायति विनश्यति, पै ओ वै शोषणे । विच्छित्तिरेव सा अस्य यज्ञस्य प्रक्रान्तस्य । यद्वा - सन्ततिः सन्तारयिता यज्ञस्य । कः? योऽग्नीनन्वाधायेति । नन्वग्नयः प्रकृताः तत्कथं स यदुद्वायतीति? उच्यते - सामर्थ्यादाहवनीय इति गम्यते । यथोक्तमाचार्यैः - ‘यद्यन्वाहिताग्नेराहवनीयोऽनुगच्छेत्’ इति ॥

मूलम्

तम्प्राञ्च॑मु॒द्धृत्य॑ । मन॒सोप॑तिष्ठेत ।

विश्वास-प्रस्तुतिः

तम्प्राञ्च॑मु॒द्धृत्य॒ मन॒सोप॑तिष्ठेत ।

मूलम्

तम्प्राञ्च॑मु॒द्धृत्य॒ मन॒सोप॑तिष्ठेत ।

भट्टभास्कर-टीका

3अथ प्रायश्चित्तमाह - तमिति ॥ प्राञ्चं तमुद्धृत्य अन्यं आहवनीयं प्रणीय ततः व्रतोपायनीयं यजुर्जपेत् । मनसोपतिष्ठेत ।

विश्वास-प्रस्तुतिः

मनो॒ वै प्र॒जाप॑तिः ।
प्रा॒जा॒प॒त्यो य॒ज्ञः ॥2॥
मन॑सै॒व य॒ज्ञँ सन्त॑नोति ।

मूलम्

मनो॒ वै प्र॒जाप॑तिः ।
प्रा॒जा॒प॒त्यो य॒ज्ञः ॥2॥
मन॑सै॒व य॒ज्ञँ सन्त॑नोति ।

भट्टभास्कर-टीका

मनो वा इति । अव्यक्तरूपत्वात् ।

विश्वास-प्रस्तुतिः

“भू"रित्या॑ह ।
भू॒तो वै प्र॒जाप॑तिः ।
भूति॑मे॒वोपै॑ति ।

मूलम्

“भू"रित्या॑ह ।
भू॒तो वै प्र॒जाप॑तिः ।
भूति॑मे॒वोपै॑ति ।

भट्टभास्कर-टीका

भूरिति प्रणयनानन्तरं उपस्थानम् ।
भूतो वा इत्यादि । प्रपञ्चरूपेणाविर्भूतत्वात् । ततः विच्छित्तिदोषनिर्घातात् भूतिमुपैति ॥

विश्वास-प्रस्तुतिः

वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते ।

मूलम्

वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते ।

मूलम्

यस्याहि॑ताग्नेर॒ग्निर॑प॒क्षाय॑ति ।
याव॒च्छम्य॑या प्र॒विध्ये॑त् ।
यदि॒ ताव॑दप॒क्षाये॑त् ।

विश्वास-प्रस्तुतिः

यस्याहि॑ताग्नेर॒ग्निर॑प॒क्षाय॑ति॒ याव॒च्छम्य॑या प्र॒विध्ये॒द् यदि॒ ताव॑दप॒क्षाये॑त् ।
तँ सम्भ॑रेत् ।

मूलम्

यस्याहि॑ताग्नेर॒ग्निर॑प॒क्षाय॑ति॒ याव॒च्छम्य॑या प्र॒विध्ये॒द् यदि॒ ताव॑दप॒क्षाये॑त् ।
तँ सम्भ॑रेत् ।

भट्टभास्कर-टीका

4वि वा इत्यादि ॥ अपक्षायति आयतनादपक्रम्य नश्यति । क्षै जै षै क्षये, नाशः लौकिकीभावः । नोद्वानम् । अथ यावति प्रदेशे शम्यया लक्ष्यं प्रविध्येत् यावति दूरे वा शम्या परास्यते यदि तावदन्तरे अपक्षायेत् अथ तमग्निं संभरेत् आदाय आयतने प्रक्षिपेत् - इदं त एकमिति त्रिष्टुभा । एनं ब्रह्मणा मन्त्रसामर्थ्येन सम्भरत्येव । यद्वा - ब्रह्मणा परवस्तुना एनं सम्भरति एकीकरोति । सैव ततो दोषात् प्रायश्चित्तिः प्रायणं प्रायः अपगमः तदर्था चित्तिर्ज्ञानं प्रायश्चित्तिः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।

विश्वास-प्रस्तुतिः

इ॒दन्त॒ एक॑म्प॒र उ॑त॒ एक॑म् ॥3॥

मूलम्

इ॒दन्त॒ एक॑म्प॒र उ॑त॒ एक॑म् ॥3॥

भट्टभास्कर-टीका

मन्त्रार्थस्तु - इदमपक्रान्तं एकं ते तव ज्योतिः तृतीयेन ज्योतिषेति वचनात् इदं ज्योतिरिति गम्यते । पूरणप्रत्ययस्य समानजातीयविषयत्वात् ।

विश्वास-प्रस्तुतिः

तृ॒तीये॑न॒ ज्योति॑षा॒ सव्ँ वि॑शस्व ।

मूलम्

तृ॒तीये॑न॒ ज्योति॑षा॒ सव्ँ वि॑शस्व ।

भट्टभास्कर-टीका

अथ परः परस्तात् स्थितमुत्कृष्टं अजहच्छ्रौतरूपं च तव एकं रूपं द्वितीयमाहवनीयादौ स्थितं, स त्वमिदानीं अस्मिन्रूपे वर्तमानः तव तृतीयेन परमात्मरूपेण ज्योतिषा संविशस्व यतः त्वं अपक्रान्तो रूपान्तरेण भवसि तेनैकीभव, व्यत्ययेनात्मनेपदम् ।

विश्वास-प्रस्तुतिः

सव्ँ॒वेश॑नस्त॒नुवै॒ चारु॑रेधि ।
प्रि॒ये दे॒वाना॑म्पर॒मे ज॒नित्र॒ इति॑ ।
ब्रह्म॑णै॒वैनँ॒ सम्भ॑रति ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।

मूलम्

सव्ँ॒वेश॑नस्त॒नुवै॒ चारु॑रेधि ।
प्रि॒ये दे॒वाना॑म्पर॒मे ज॒नित्र॒ इति॑ ।
ब्रह्म॑णै॒वैनँ॒ सम्भ॑रति ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।

भट्टभास्कर-टीका

तत्र तस्य तथा तृतीये ज्योतिषि तनुवै शरीरस्य संवेशनः त्वम्, अत एव चारुः क्षाळितदोषो विकाररहितः भवान् देवानां प्रिये परमे प्रकृष्टे जनित्रे जनके स्थितिहेतौ यागे एधि साधकत्वेन वर्तस्व । यद्वा - निमित्तात्सप्तमी, ईदृशयागनिमित्तं चारुविकारो भवेति ॥

मूलम्

यदि॑ परस्त॒राम॑प॒क्षाये॑त् । अ॒नु॒प्र॒यायाव॑स्येत् ।
सो ए॒व तत॒ᳶ प्राय॑श्चित्तिः ।

विश्वास-प्रस्तुतिः

यदि॑ परस्त॒राम॑प॒क्षाये॑द् अनुप्र॒यायाव॑स्येत् ।
सो ए॒व तत॒ᳶ प्राय॑श्चित्तिः ।

मूलम्

यदि॑ परस्त॒राम॑प॒क्षाये॑द् अनुप्र॒यायाव॑स्येत् ।
सो ए॒व तत॒ᳶ प्राय॑श्चित्तिः ।

भट्टभास्कर-टीका

5यदि परस्तरामित्यादि ॥ स्वार्थिकस्तरप् । ‘अल्पाच्तरम्’ इति यथा । ‘किमेत्तिङव्ययघादाम्’ इति आमुप्रत्ययः । यदि शम्या परास्या[प्रासा]त् परस्तात् अपक्षायेत् अनुप्रयायावस्येत् तत्रैव गत्वा देवयजनमध्यवसाय यजेत अग्नये पथिकृते पुरोडाशं निर्वपेत् । श्वो भूते गृहेषु प्रत्यवस्यति सा उ सो, उकारोऽप्यर्थे । ततोऽपि दोषात् सा प्रायश्चित्तिः ॥

विश्वास-प्रस्तुतिः

ओष॑धी॒र्वा ए॒तस्य॑ प॒शून्पय॒ᳶ प्रवि॑शति ।
यस्य॑ ह॒विषे॑ व॒त्सा अ॒पाकृ॑ता॒ धय॑न्ति ॥4॥

मूलम्

ओष॑धी॒र्वा ए॒तस्य॑ प॒शून्पय॒ᳶ प्रवि॑शति ।
यस्य॑ ह॒विषे॑ व॒त्सा अ॒पाकृ॑ता॒ धय॑न्ति ॥4॥

भट्टभास्कर-टीका

6ओषधीर्वा इति ॥ ओषधीः पशूंश्च अन्यान् पातव्यो रसः प्रविशति वत्सद्वारेण । यस्य सम्बन्धिनः पशून् हविषे अपाकृता वत्साः पिबन्ति ।

मूलम्

तान् यद्दु॒ह्यात् । या॒तया॑म्ना ह॒विषा॑ यजेत ।

विश्वास-प्रस्तुतिः

तान् यद्दु॒ह्याद् या॒तया॑म्ना ह॒विषा॑ यजेत ।

मूलम्

तान् यद्दु॒ह्याद् या॒तया॑म्ना ह॒विषा॑ यजेत ।

भट्टभास्कर-टीका

अथ तान् पीतपयसो यदि दुह्यात् यातयाम्ना आत्तसारेण हविषा यजेत ।

मूलम्

यन्न दु॒ह्यात् । य॒ज्ञ॒प॒रुर॒न्तरि॑यात् ।

विश्वास-प्रस्तुतिः

यन्न दु॒ह्याद् यज्ञप॒रुर॒न्तरि॑यात् ।

मूलम्

यन्न दु॒ह्याद् यज्ञप॒रुर॒न्तरि॑यात् ।

भट्टभास्कर-टीका

यदि न दुह्यात् यज्ञावयवो लुप्तः स्यात् ।

विश्वास-प्रस्तुतिः

वा॒य॒व्याय्ँ॑यवा॒गून्निर्व॑पेत् ।

मूलम्

वा॒य॒व्याय्ँ॑यवा॒गून्निर्व॑पेत् ।

भट्टभास्कर-टीका

तस्मात् तत्स्थाने वायव्यां यवागूं निर्वपेत् ।

विश्वास-प्रस्तुतिः

वा॒युर्वै पय॑सᳶ प्रदापयि॒ता ।
स ए॒वास्मै॒ पय॒ᳶ प्रदा॑पयति ।
पयो॒ वा ओष॑धयः ।
पय॒ᳶ पयः॑ ।
पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे ॥5॥

मूलम्

वा॒युर्वै पय॑सᳶ प्रदापयि॒ता ।
स ए॒वास्मै॒ पय॒ᳶ प्रदा॑पयति ।
पयो॒ वा ओष॑धयः ।
पय॒ᳶ पयः॑ ।
पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे ॥5॥

भट्टभास्कर-टीका

वायुर्वा इति । प्राणात्मकत्वात् प्रदापयिता वत्सैः । पयो वा इति यवागूस्तुतिः । ओषधिविकारत्वात् यवागूः ओषधिशब्देनोच्यते । पयसा तुल्यत्वात् पयः पातव्यरसत्वाद्वा, पयस्तु स्वयमेव पयः पातव्यरसं वा, तस्मात् पयसैव यवाग्वा पयो वत्सैः पीतमवरुन्धे ।

मूलम्

अथोत्त॑रस्मै ह॒विषे॑ व॒त्सान॒पाकु॑र्यात् ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।

विश्वास-प्रस्तुतिः

अथोत्त॑रस्मै ह॒विषे॑ व॒त्सान॒पाकु॑र्यात्त् सैव तत॒ᳶ प्राय॑श्चित्तिः ।

मूलम्

अथोत्त॑रस्मै ह॒विषे॑ व॒त्सान॒पाकु॑र्यात्त् सैव तत॒ᳶ प्राय॑श्चित्तिः ।

भट्टभास्कर-टीका

अथैवं निर्हृते दोषे उत्तरस्य अनन्तरदिवसकर्तव्याय हविषे वत्सानपाकृत्य उपवसेत् । सा तथाकरणं ततः प्रायश्चित्तिः ॥

विश्वास-प्रस्तुतिः

अ॒न्य॒त॒रान् वा ए॒ष दे॒वान्भा॑ग॒धेये॑न॒ व्य॑र्धयति ।

मूलम्

अ॒न्य॒त॒रान् वा ए॒ष दे॒वान्भा॑ग॒धेये॑न॒ व्य॑र्धयति ।

मूलम्

ये यज॑मानस्य सा॒यङ्गृ॒हमा॒गच्छ॑न्ति ।
यस्य॑ सायन्दु॒ग्धँ ह॒विरार्ति॑मा॒र्च्छति॑ ।
इन्द्रा॑य व्री॒हीन्नि॒रुप्योप॑वसेत् ।

विश्वास-प्रस्तुतिः

ये यज॑मानस्य सा॒यङ्गृ॒हमा॒गच्छ॑न्ति॒ यस्य॑ सायन्दु॒ग्धँ ह॒विरार्ति॑मा॒र्च्छतीन्द्रा॑य व्री॒हीन्नि॒रुप्योप॑वसेत् ।

मूलम्

ये यज॑मानस्य सा॒यङ्गृ॒हमा॒गच्छ॑न्ति॒ यस्य॑ सायन्दु॒ग्धँ ह॒विरार्ति॑मा॒र्च्छतीन्द्रा॑य व्री॒हीन्नि॒रुप्योप॑वसेत् ।

भट्टभास्कर-टीका

7अन्यतरान्वा इति ॥ सायमागच्छतो देवान् भागहीनान् करोति सायं दुग्धार्त्या । ततो निर्वीर्यं स्यात् । तत्र प्रायश्चित्तार्थं इन्द्राय व्रीहीन्निरूप्योपवसेत् ।

मूलम्

पयो॒ वा ओष॑धयः ।
पय॑ ए॒वारभ्य॑ गृही॒त्वोप॑वसति ।

यत्प्रा॒तस्स्यात् । तच्छृ॒तङ्कु॑र्यात् ॥6॥

विश्वास-प्रस्तुतिः

यत्प्रा॒तस्स्या॒त् तच्छृ॒तङ्कु॑र्यात् ॥

मूलम्

यत्प्रा॒तस्स्या॒त् तच्छृ॒तङ्कु॑र्यात् ॥

भट्टभास्कर-टीका

पयो वा इत्यादि । गतम् । यत्प्रातर्दुग्धं स्यात् तच्छृतं कुर्यात् अनार्तत्वात् ।

मूलम्

अथेत॑र ऐ॒न्द्रᳶ पु॑रो॒डाश॑स्स्यात् ।
इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति ।

विश्वास-प्रस्तुतिः

अथेत॑र ऐ॒न्द्रᳶ पु॑रो॒डाश॑स्स्याद् इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति ।

मूलम्

अथेत॑र ऐ॒न्द्रᳶ पु॑रो॒डाश॑स्स्याद् इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति ।

भट्टभास्कर-टीका

अथ अस्मात् इतर ऐन्द्रः पुरोडाशः स्यात् सायं यो निरुप्तः तस्य प्रातर्दोहेन समवदाय प्रचरेत् । प्रातर्दोहे आर्तिगतेऽप्येतदेव प्रायश्चित्तम् । तस्य सायं दोहे नास्य समवदाय प्रचरेत् । एवं कुर्वन् द्वे इन्द्रिये अस्य समीची सम्यगञ्चिते स्थापयति ऐन्द्रहविर्द्वयसम्पत्त्वा ।

विश्वास-प्रस्तुतिः

पयो॒ वा ओष॑धयः ।
पय॒ᳶ पयः॑ ।
पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे ।

अथोत्त॑रस्मै ह॒विषे॑ व॒त्सान॒पाकु॑र्यात् । सैव तत॒ᳶ प्राय॑श्चित्तिः ।

मूलम्

पयो॒ वा ओष॑धयः ।
पय॒ᳶ पयः॑ ।
पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे ।

अथोत्त॑रस्मै ह॒विषे॑ व॒त्सान॒पाकु॑र्यात् । सैव तत॒ᳶ प्राय॑श्चित्तिः ।

भट्टभास्कर-टीका

पयो वा इत्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

उ॒भया॒न्वा ए॒ष दे॒वान्भा॑ग॒धेये॑न॒ व्य॑र्धयति ।

मूलम्

उ॒भया॒न्वा ए॒ष दे॒वान्भा॑ग॒धेये॑न॒ व्य॑र्धयति ।

मूलम्

ये यज॑मानस्य सा॒यञ्च॑ प्रा॒तश्च॑ गृ॒हमा॒गच्छ॑न्ति ।
यस्यो॒भयँ॑ ह॒विरार्ति॑मा॒र्च्छति॑ ॥7॥
ऐ॒न्द्रम्पञ्च॑शरावमोद॒नन्निर्व॑पेत् ।

विश्वास-प्रस्तुतिः

ये यज॑मानस्य सा॒यञ्च॑ प्रा॒तश्च॑ गृ॒हमा॒गच्छ॑न्ति॒ यस्यो॒भयँ॑ ह॒विरार्ति॑मा॒र्च्छत्य् ऐ॒न्द्रम्पञ्च॑शरावमोद॒नन्निर्व॑पेत् ।

मूलम्

ये यज॑मानस्य सा॒यञ्च॑ प्रा॒तश्च॑ गृ॒हमा॒गच्छ॑न्ति॒ यस्यो॒भयँ॑ ह॒विरार्ति॑मा॒र्च्छत्य् ऐ॒न्द्रम्पञ्च॑शरावमोद॒नन्निर्व॑पेत् ।

भट्टभास्कर-टीका

8उभयान्वा इति ॥ उभयहविरार्त्या उभयकालगामिदेवताभागलोपः । तत्र प्रायश्चित्तं - ऐन्द्रं पञ्चशरावमोदनं आग्नेयं चाष्टाकपालं निर्वपेत् । देवतानां प्रथममिति वचनमाग्नेयस्य सर्वदेवतातृप्तिहेतुत्वं सूचयितुम् ।

विश्वास-प्रस्तुतिः

अ॒ग्निन्दे॒वता॑नाम्प्रथ॒मय्ँय॑जेत् ।
अ॒ग्निमु॑खा ए॒व दे॒वता॑ᳶ प्रीणाति ।

अ॒ग्निव्ँ वा अन्व॒न्या दे॒वताः॑ ।
इन्द्र॒मन्व॒न्याः ।
ता ए॒वोभयी॑ᳶ प्रीणाति ।

मूलम्

अ॒ग्निन्दे॒वता॑नाम्प्रथ॒मय्ँय॑जेत् ।
अ॒ग्निमु॑खा ए॒व दे॒वता॑ᳶ प्रीणाति ।

अ॒ग्निव्ँ वा अन्व॒न्या दे॒वताः॑ ।
इन्द्र॒मन्व॒न्याः ।
ता ए॒वोभयी॑ᳶ प्रीणाति ।

भट्टभास्कर-टीका

तदेवाह - अग्निमुखा इति । अग्निं वा अन्विति । अग्निना सह वर्तन्ते काश्चिद्देवताः । इन्द्रेण सह काश्चित् । ‘तृतीयार्थे’ इत्यनोः कर्मप्रवचनीयत्वम् । हीने वा । अग्नेः गुणभूताः काश्चित् । इन्द्रस्य काश्चित् । उभयीस्ताः प्रीणाति उभाभ्यां हविर्भ्याम् ।

विश्वास-प्रस्तुतिः

पयो॒ वा ओष॑धयः ।
पय॒ᳶ पयः॑ ।
पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे ।
अथोत्तर॑स्मै ह॒विषे॑ व॒त्सान॒पाकु॑र्यात् ॥8॥
सैव तत॒ᳶ प्राय॑श्चित्तिः ।

मूलम्

पयो॒ वा ओष॑धयः ।
पय॒ᳶ पयः॑ ।
पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे ।
अथोत्तर॑स्मै ह॒विषे॑ व॒त्सान॒पाकु॑र्यात् ॥8॥
सैव तत॒ᳶ प्राय॑श्चित्तिः ।

भट्टभास्कर-टीका

पयो वा इत्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

अथोत्तर॑स्मै ह॒विषे॑ व॒त्सान॒पाकु॑र्यात् ॥8॥
सैव तत॒ᳶ प्राय॑श्चित्तिः ।
अ॒र्धो वा ए॒तस्य॑ य॒ज्ञस्य॑ मीयते ।

मूलम्

अथोत्तर॑स्मै ह॒विषे॑ व॒त्सान॒पाकु॑र्यात् ॥8॥
सैव तत॒ᳶ प्राय॑श्चित्तिः ।
अ॒र्धो वा ए॒तस्य॑ य॒ज्ञस्य॑ मीयते ।

मूलम्

यस्य॒ व्रत्येऽह॒न्पत्न्य॑नालम्भु॒का भव॑ति ।
ताम॑प॒रुध्य॑ यजेत

विश्वास-प्रस्तुतिः

यस्य॒ व्रत्येऽह॒न्पत्न्य॑नालम्भु॒का भव॑ति॒ ाम॑प॒रुध्य॑ यजेत ।

मूलम्

यस्य॒ व्रत्येऽह॒न्पत्न्य॑नालम्भु॒का भव॑ति॒ ाम॑प॒रुध्य॑ यजेत ।

भट्टभास्कर-टीका

9अर्धो वा इत्यादि ॥ यज्ञस्यैव एकदेशो हीयते । व्रतोपायनाय साधु व्रत्यमहः । अनालम्भुका अस्पर्शार्हा मलवद्वासाः । लभेः छान्दस उकञ् । ‘लभेरशब्लिटोः’ इति नुम् । ततश्चैकदेशलोपादकृत एव यज्ञः स्यात् । तत्र प्रायश्चित्तार्थं तामपरुध्य बहिर्यन्त्रितां स्थापयित्वा जघनेन वेदिमन्तर्वेदि वा उदक् शुल्बसन्नहनं स्तीर्त्वा यजेत ।

विश्वास-प्रस्तुतिः

सर्वे॑णै॒व य॒ज्ञेन॑ यजते ।

मूलम्

सर्वे॑णै॒व य॒ज्ञेन॑ यजते ।

भट्टभास्कर-टीका

एवं कुर्वन् सर्वेणैव यज्ञेन यजते ।

विश्वास-प्रस्तुतिः
मूलम्
भट्टभास्कर-टीका

अथ इष्ट्यनन्तरं यदा त्रिरात्रीणा स्यात् अथैनां मैथुनकाले उपह्वयेत - अमूहमस्मीति पङ्क्त्या, रायस्पोषायेत्यादियजुरन्तया ॥

विश्वास-प्रस्तुतिः

तामि॒ष्ट्वोप॑ह्वयेत ।
अमू॒हम॑स्मि ।
सा त्वम् ।

द्यौर॒हम् ।
पृ॒थि॒वी त्वम् ।

सामा॒हम् ।
ऋक्त्वम् ।

मूलम्

तामि॒ष्ट्वोप॑ह्वयेत ।
अमू॒हम॑स्मि ।
सा त्वम् ।

द्यौर॒हम् ।
पृ॒थि॒वी त्वम् ।

सामा॒हम् ।
ऋक्त्वम् ।

भट्टभास्कर-टीका

एवं कुर्वन् यज्ञस्य यो लुप्तोऽर्धः तत्रैवैनां उपह्वयते । ततः सर्वेणैव यज्ञेन इष्टं भवतीति सा प्रायश्चित्तिः । मन्त्रार्थस्तु - अमूहमस्मि सा त्वमिति । आद्युदात्तत्वात् नायमदश्शब्दः । साम सान्त्वप्रयोगः, तत्र सान्त्वप्रयोगाधारभूतकर्मप्रक्रान्तौ दम्पती अनुरागातिशयप्रकटीकरणाय सामपदावयववर्णद्वयात्मना निरूप्येते । अमशब्दोऽहं, साशब्दस्त्वमिति । तत्रामोऽहमिति वक्तव्ये वर्णविकारः छान्दसः । अतः परस्परोपकारित्वप्रतिपादनाय द्यावापृथिवीरुपेण ।

द्यौः पिता । ‘पृथिवी माता’ इति विशेषलाभात् । पुनरपि विश्लेषभीत्या नित्यसंयुक्तऋक्सामत्वेन वर्णना ।

साम गीतियोनिः । तस्या ऋग्योनित्वादेव स्त्रिया ऋक्त्वेन रूपणम् । आधारत्वाच्च ।

विश्वास-प्रस्तुतिः

तावेहि॒ सम्भ॑वाव ।
स॒ह रेतो॑ दधावहै ।
पुँ॒से पु॒त्राय॒ वेत्त॑वै ।
रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॒येति॑ ।

अ॒र्ध ए॒वैना॒मुप॑ह्वयते ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ॥9॥

मूलम्

तावेहि॒ सम्भ॑वाव ।
स॒ह रेतो॑ दधावहै ।
पुँ॒से पु॒त्राय॒ वेत्त॑वै ।
रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॒येति॑ ।

अ॒र्ध ए॒वैना॒मुप॑ह्वयते ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ॥9॥

भट्टभास्कर-टीका

तौ तादृशौ आवां सम्भवाव तदर्थमेहि आयाहि आवां सह रेतो दधावहै एकत्र स्थापयावहै । किमर्थं - पुंसे पुत्राय नरकात्त्रायकाय पुंव्यपदेशार्हाय वेत्तवै लाभाय । कर्मणि षष्ठो । कृत्यार्थे तवैप्रत्ययः । रायः धनस्य पोषाय परंपरया सुप्रजास्त्वाय शोभनापत्योऽयमिति व्यपदेशाय सुवीर्यत्वाय चेति ॥

इति तैत्तिरीयब्राह्मणे तृतीये सप्तमे अच्छिद्रेषु प्रथमोऽनुवाकः ॥