मूलम्
अ॒ग्निम॒द्य होता॑रमवृणीता॒यय्ँयज॑मान॒ᳶ पच॑न्प॒क्तीᳶ पच॑न्पुरो॒डाश॑म्ब॒ध्नन्नि॑न्द्रा॒ग्निभ्या॒ञ्छागँ॑ सूप॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवदिन्द्रा॒ग्निभ्या॒ञ्छागे॒नाघ॑स्ता॒न्तम्मे॑द॒स्तᳶ प्रति॑पच॒ताग्र॑भीष्टा॒मवी॑वृधेताम्पुरो॒डाशे॑न॒ त्वाम॒द्यर्ष॑ आर्षेय ऋषीणान्नपादवृणीता॒यय्ँयज॑मानो ब॒हुभ्य॒ आ सङ्ग॑तेभ्य ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑क्ष्यत॒ इति॒ ता या दे॒वा दे॑व॒दाना॒न्यदु॒स्तान्य॑स्मा॒ आ च॒ शास्वा च॑ गुरस्वेषि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षस्सूक्तवा॒काय॑ सू॒क्ता ब्रू॑हि ॥37॥
विश्वास-प्रस्तुतिः
अ॒ग्निम॒द्य होता॑रमवृणीत ।
अ॒यय्ँयज॑मान॒ᳶ पच॑न्प॒क्तीᳶ पच॑न्पुरो॒डाश॑म्ब॒ध्नन् ।
इन्द्रा॒ग्निभ्या॒ञ्छागँ॑ ..
मूलम्
अ॒ग्निम॒द्य होता॑रमवृणीत ।
अ॒यय्ँयज॑मान॒ᳶ पच॑न्प॒क्तीᳶ पच॑न्पुरो॒डाश॑म्ब॒ध्नन् ।
इन्द्रा॒ग्निभ्या॒ञ्छागँ॑ ..
भट्टभास्कर-टीका
1अथ सूक्तवाकप्रैषा मैत्रावरुणस्य - अग्निमद्येति ॥ अद्य अस्मिन्नहनि अयं यजमानः अग्निं होतारं अवृणीत पक्तव्यानि पचन् पुरोडाशं च विशेषेण पचन् इन्द्राग्निभ्यां छागं बध्नन् यूपे नियुञ्जन् अग्निमवृणीत ।
विश्वास-प्रस्तुतिः
सूप॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवदिन्द्रा॒ग्निभ्या॑म् ।
मूलम्
सूप॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवदिन्द्रा॒ग्निभ्या॑म् ।
भट्टभास्कर-टीका
अथ अद्य देवनशीलो वनस्पतिः सूपस्थाः सूपस्थानः अभवत् । इन्द्राग्निभ्यां इन्द्राग्न्योः संबन्धिना छागेन सूपस्थानोऽभवत् ।
विश्वास-प्रस्तुतिः
अघ॑स्ताम् ।
मूलम्
अघ॑स्ताम् ।
भट्टभास्कर-टीका
अघस्तां तं मेदस्तः तं पशुं मेदस्तो वपाया आलभ्य इन्द्राग्नी अघस्तां अभक्षयताम् । अत्तेः ‘लुङ्सनोः घसॢ’ इति घस्लादेशः,‘मन्त्रे घस’ इति च्लेर्लुक्, वाक्यादित्वादाख्यातं न निहन्यते ।
विश्वास-प्रस्तुतिः
तम्मे॑द॒स्तᳶ प्रति॑पच॒ताग्र॑भीष्टा॒म् ।
मूलम्
तम्मे॑द॒स्तᳶ प्रति॑पच॒ताग्र॑भीष्टा॒म् ।
भट्टभास्कर-टीका
अथ प्रति पचताऽग्रभीष्टां पचता पचनानि पक्वानि सर्वाणि । पचेरौणादिकोऽतच्प्रत्ययः ।
प्रत्यग्रभीष्टां प्रतिगृहीतवन्तौ इन्द्राग्नी । ‘हृग्रहोर्भः’ इति भत्वम् ।
विश्वास-प्रस्तुतिः
अवी॑वृधेताम् पुरो॒डाशे॑न ।
मूलम्
अवी॑वृधेताम् पुरो॒डाशे॑न ।
भट्टभास्कर-टीका
किञ्च - ताविन्द्राग्नी पुरोडाशेन आत्मानं अवीवृधेताम् अवर्धयेतात् ॥
मन्त्रः
त्वाम॒द्यर्ष॑ आर्षेय ऋषीणान्नपादवृणीता॒यय्ँयज॑मानो ब॒हुभ्य॒ आ सङ्ग॑तेभ्य ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑क्ष्यत॒ इति॒ ता या दे॒वा दे॑व॒दाना॒न्यदु॒स्तान्य॑स्मा॒ आ च॒ शास्वा च॑ गुरस्वेषि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षस्सूक्तवा॒काय॑ सू॒क्ता ब्रू॑हि ॥37॥
2त्वामद्यर्ष इत्यादि ॥ सौत्रामण्यां व्याख्यातम् ॥
+++(अनुकृतव्याख्यानम् - प्रारम्भः)+++
-
त्वाम॒द्यर्ष॑ आर्षेयर्षीणान्नपादवृणीत ।
-
अ॒यँ सु॑तासु॒ती यज॑मानः ।
-
ब॒हुभ्य॒ आ सङ्ग॑तेभ्यः ।
-
ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑क्ष्यत॒ इति॑ ।
-
अ॒यँ सु॑तासु॒ती यज॑मानो ब॒हुभ्य॒ आ सङ्ग॑तेभ्य ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑क्ष्यत॒ इति॑ ।
-
अद्यास्मिन्कर्मणि हे ऋषे! अतीन्द्रियार्थदर्शिन्? हे होतः! त्वामयं यजमानोऽवृणीत वृतवान् । आर्षेय! हे ऋषिकुलोत्पन्न । ऋषीणां नपात्! हे ऋषिनप्तः? गोत्रप्रवर्तकमृषिं प्रति चतुर्थ! इत्यर्थः । एतदुभयमप्यृषिविशेषणम् । कीदृशो यजमानः? सुतासुती अभिषुतानभिषुतद्रव्यद्वयवान् ।
किमर्थं वृतवानिति तदुच्शते - आसंगतेभ्यो बहुभ्य आगत्यास्मिन्कर्मणि संबद्धानां बहूनां देवानामर्थे । केनाभिप्रायेण वृतवानिति सोऽभिप्राय उच्यते - एष होता मे वसु वारि पुरोडाशरूपं वसु पयस्सुरारूपं वारि च देवेष्वायक्ष्यते समन्ताद्यागं करिष्यतीति ।
-
-
मन्त्रः ता या दे॒वा दे॑व॒दाना॒न्यदुः॑ ।
तान्य॑स्मा॒ आ च॒ शास्व॑ ।- ता या देवदानानि यानि तानि देवेभ्यो दत्तानि हवींषि देवा अदुः ऋत्विजो दत्तवन्तः तानि सर्वाणि हविष्फलानि अस्मै यजमानाय आशास्व च सिध्यन्त्वित्येवमाशिषं च कुरु ।
-
मन्त्रः आ च॑ गुरस्व ।
- आगुरस्व च तत्सिद्ध्यर्थमुद्यमं च कुरु ।
-
इ॒षि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः ।
सू॒क्त॒वा॒काय॑ सू॒क्ता ब्रू॑हि ॥74 ॥ -
टीका हे होतः! इषितो मयाऽभिलषितः प्रेषितश्चासि । भद्रवाच्याय कल्याणवचनाय प्रेषितो मानुषो होता त्वं सूक्तस्य वचनं वाको यस्य देवस्य सोऽयं देवः सूक्तवाकः तस्मै सूक्तवाकदेवाय सूक्ता ब्रूहि ‘इदं द्यावापृथिवी’ इत्वेतदनुवाकोक्ताति शोभनानि वचनानि कथय ॥ +++(अनुकृतव्याख्यानम् -समाप्तम् )+++ इति श्रीभट्टभास्करमिश्रविरचिते तैत्तिरीयब्राह्मणभाष्ये ज्ञानयज्ञाख्ये तृतीयाष्टके षष्ठप्रपाठके पशुहौत्रे पञ्चदशोऽनुवाकः ॥ समाप्तश्च प्रपाठकः ॥