१४ अनूयाजयाज्याः

विश्वास-प्रस्तुतिः

दे॒वम्ब॒र्हिर्वारि॑तीनान्नि॒धेधा॑ऽसि॒ प्रच्यु॑तीना॒मप्र॑च्युतन्निकाम॒धर॑णम्पुरुस्पा॒र्हय्ँयश॑स्वदे॒ना ब॒र्हिषा॒ऽन्या ब॒र्हीँष्य॒भि ष्या॑म वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।

दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृ त्सु॒द्रवि॑णा म॒न्द्रᳵ क॒विस्स॒त्यम॑न्माऽऽय॒जी होता॒ होतु॑र्होतु॒राय॑जीया॒नग्ने॒ यान्दे॒वानया॒ड्याँ अपि॑प्रे॒र्ये ते॑ हो॒त्रे अम॑त्सत॒ ताँ स॑स॒नुषीँ॒ होत्रा॑न्देवङ्ग॒मान्दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मँ स्वि॑ष्ट॒कृच्चाग्ने॒ होताऽभू॑र्वसु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि ।।

मूलम्

भट्टभास्कर-टीका

1अनूयाजयाज्याः - देवं बर्हिर्वसुवन इत्यादयो निगदसिद्धाः अनन्तरानुवाकसमाः । नमोवाके वीहि इत्युपरम्यते याज्यात्वात् ॥

इति तैत्तिरीयब्राह्मणे तृतीये षष्ठे पशुहौत्रे चतुर्दशोऽनुवाकः ॥