१३ अनूयाजप्रैषाः

विश्वास-प्रस्तुतिः

दे॒वम्ब॒र्हिस्सु॑दे॒वन्दे॒वैस्स्यात्सु॒वीरव्ँ॑ वी॒रैर् ..
वस्तो॑र्वृ॒ज्येत ..
अ॒क्तोᳶ प्रभ्रि॑ये॒त ..
अत्य॒न्यान्रा॒या ब॒र्हिष्म॑तो मदेम ..
वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।

मूलम्

दे॒वम्ब॒र्हिस्सु॑दे॒वन्दे॒वैस्स्यात्सु॒वीरव्ँ॑ वी॒रैर् ..
वस्तो॑र्वृ॒ज्येत ..
अ॒क्तोᳶ प्रभ्रि॑ये॒त ..
अत्य॒न्यान्रा॒या ब॒र्हिष्म॑तो मदेम ..
वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।

भट्टभास्कर-टीका

1अनूयाजप्रैषाः - देवं बर्हिरित्याद्याः ॥ देवं देवनशीलं बर्हिः बर्हिराधारोऽग्निः देवैः सुदेवं सुतृप्तदेवं यागद्वारेणास्तु । यद्वा - देवैस्सह सुदेवं शोभनदानमस्तु, वीरैश्च पुत्रादिभिः अस्मभ्यं देयैः सुवीरं शोभनपुत्रादिकमस्तु । वस्तोः देवानां वासाय वृज्येत लूयेत नित्यं, न वृधा वेद्यामाच्छादनाय । इडभावश्छान्दसः । अक्तोः स्रुचां हविषां वा अभिव्यक्तये प्रभ्रियेत संह्रियेत धार्येत नित्यम् । यद्वा - वस्तोः अहनि वृज्येत लूयेत । अक्तोः रात्रौ प्रभ्रियेत संह्रियेत । यथोक्तप्रतिपत्तिकमस्तु । अस्य बर्हिर्देवस्य प्रसादात् अन्यान् बर्हिष्मतः इतरान्यागयुक्तान् पुरुषान् राया धनेन अतिक्रम्य मदेम हृष्याम । वसुधेयस्य धनप्रदातुर्देवस्य वसुवने धनप्रदानाय वेतु आज्यं पिबतु । यज तदर्थं हे होतः! याज्यां पठ ॥

विश्वास-प्रस्तुतिः

दे॒वीर्द्वार॑स्सङ्घा॒ते वि॒ड्वीर्याम॑ञ्छिथि॒रा ध्रु॒वा दे॒वहू॑तौ व॒त्स ई॑मेना॒स्तरु॑ण॒ आमि॑मीयात् कुमा॒रो वा॒ नव॑जातो॒ ..
मैना॒ अर्वा॑ रे॒णुक॑काट॒ᳶ पृण॑ग् .. वसु॒वने॑ वसु॒धेय॑स्य वियन्तु यज॑ ।

2देवीर्द्वार इति ॥ देवनशीलाः द्वारः संघाते संयोजने पिधानकाले विड्वीः विड्व्यः दृढाः । वीडेः छान्दसं ह्रस्वत्वम् । ‘वीतो गुणवचनात्’ इति ङिषि ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । यामन् यामे निर्गमनकाले शिथिराः शिथिलाः शिथिलकवाटत्वात् । ध्रुवा नित्यप्रवृत्ता देवहूतौ देवानामाह्वाने एताः द्वारः वत्सो वा तरुणः कुमारो वा नवजातः जातमात्रः आ मिमीयात् आगत्य प्रविशेत् महावकाशत्वात् सर्वेषां प्रवेशमनु मन्यन्ते, न तु कश्चिदुपहन्यत इति, मानेन प्रवेशो लक्ष्यते । ईमिति चार्थे । यद्वा - ईमिति प्रश्ने, किं वत्सादिः कश्चिदपि एना आमिमीयात् आयात् आगत्य परिछिन्द्यात् आगत्य किं वा हिंस्यात् तस्मात् एना एवंगुणाः अर्वा पाप रेणुककाटः धूर्तः । यद्वा - अर्वा अकुशलः रेणुककाटः रेणूकृत्य दारणो विक्षेप्ता धुरणः । यद्वा - अर्वा अश्वः रोगुककाटः दुर्दान्तः अविधेयाः एता द्वारो मा पृणक् मा पृणक्तु आभिः संपृक्तो मा भूत् । पृची संपर्के, रौधादिकः, लङि लुङ्येव वा विकरणव्यत्ययेन श्नम् । वसुवन इत्यादि । गतम् ॥ वियन्त्विति विशेषः ॥

  • वसुधेयस्य धनप्रदातुर्देवस्य वसुवने धनप्रदानाय वेतु आज्यं पिबतु । यज तदर्थं हे होतः! याज्यां पठ ॥
विश्वास-प्रस्तुतिः

दे॒वी उ॒षासा॒नक्ताऽद्या॒स्मिन्य॒ज्ञे प्र॑य॒त्य॑ह्वेता॒म् ..
अपि॑ नू॒नन्दैवी॒र्विश॒ᳶ प्राया॑सिष्टाँ॒ सुप्री॑ते॒ सुधि॑ते ..
वसु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।

मूलम्

दे॒वी उ॒षासा॒नक्ताऽद्या॒स्मिन्य॒ज्ञे प्र॑य॒त्य॑ह्वेता॒म् ..
अपि॑ नू॒नन्दैवी॒र्विश॒ᳶ प्राया॑सिष्टाँ॒ सुप्री॑ते॒ सुधि॑ते ..
वसु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।

भट्टभास्कर-टीका

3देवी उषासा नक्तेति । । देवनशीले उषासा नक्ता अहश्च रात्रिश्च अद्य अस्मिन्नहनि अस्मिन् यज्ञे पशुयागे प्रयती प्रवर्तमाने अविच्छेदेन वर्तमाने अह्वेतां देवादीनाह्वातव्यानह्वयेताम् । छान्दसे लुडि; ‘लिपि सिचि ह्वश्च’ इत्यङ् । अपिनूनमिति अभिमतसिद्ध्युद्भावने । एते अहोरात्रे दैवीः विशः देवसम्बन्धिनीरपि प्रजा नूनं प्रायासिष्टां आह्वातुं तत्सकाशमपि प्रयाताम् । तत्किं नाम न साधयत एते । ‘देवाद्यञञौ’ इत्यञ्, यातेः छान्दसे लुङि ‘यमरमनमाताम्’ इति सगिटौ । सुप्रीते स्वयं च सुष्ठु प्रीते न तु वैमुख्यं भजमाने सुधिते सुष्ठु प्रारब्धनिर्वहणपरे च भूत्वा प्रायासिष्टां ननूमिति । ‘सुधितवसुधित’ इति निपात्यते । वसुवन इत्यादि । गतम् । वीतामिति विशेषः ॥

  • वसुधेयस्य धनप्रदातुर्देवस्य वसुवने धनप्रदानाय वेतु आज्यं पिबतु । यज तदर्थं हे होतः! याज्यां पठ ॥
विश्वास-प्रस्तुतिः

दे॒वी जोष्ट्री॒ वसु॑धिती॒ ययो॑र॒न्याऽघा द्द्वेषाँ॑सि यू॒यव॒दान्याव॑क्ष॒द् ..
वसु॒ वार्या॑णि॒ यज॑मानाय ..
वसु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।

मूलम्

दे॒वी जोष्ट्री॒ वसु॑धिती॒ ययो॑र॒न्याऽघा द्द्वेषाँ॑सि यू॒यव॒दान्याव॑क्ष॒द् ..
वसु॒ वार्या॑णि॒ यज॑मानाय ..
वसु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।

भट्टभास्कर-टीका

4देवी जोष्ट्री इति ॥ देव्यौ जोष्ट्र्यौ जोषयित्र्यौ यजमानानां विघ्ननिवारणेन अभिमतफलप्रापणेन च । तदेवाह - वसुधिती वसु यज्ञफलं तस्य दात्र्यौ, कर्तरि क्तिच्, दासीभारादिर्द्रष्टव्यः । यद्बा - वसूनि धितीनि देयानि ययोरिति कर्मणि क्तिनि बहुव्रीहिः । ‘सुधितवसुधित’ इति हिभावाभावः । ययोर्मध्ये अन्या एका अघा पापानि द्वेषांसि द्वेष्याणि च रक्षःप्रभृतीनि युयवत् पृथक्कुर्यात् नाशयेत् । यौतेर्लैटि अडागमः, शपः श्लुः, मध्योदात्तत्वं छान्दसम् । यद्वा - विकरणव्यत्ययेन शश्च क्रियते, ‘छन्दस्युभयथा ’ इत्यार्धधातुकत्वेन ङित्त्वाभावात् गुणः, ‘एकान्याभ्याम्’ इति निघाताभावः । ययोश्च अन्या एका वसूनि धनानि वार्याणि वरणीयानि यजमानाय आवक्षत् वहति । ‘सिब्बहुलं लेटि’ इति सिप्, ‘ईडवन्द’ इति ण्यदन्तस्य आद्युदात्तत्वम् । वसुवन इत्यादि । गतम् ॥

  • वसुधेयस्य धनप्रदातुर्देवस्य वसुवने धनप्रदानाय वेतु आज्यं पिबतु । यज तदर्थं हे होतः! याज्यां पठ ॥
विश्वास-प्रस्तुतिः

दे॒वी ऊ॒र्जाहु॑ती॒ इष॒मूर्ज॑म॒न्याव॑क्ष॒त्सग्धिँ॒ सपी॑तिम॒न्या ..
नवे॑न॒ पूर्व॒न्दय॑माना॒स्स्याम॑ पुरा॒णेन॒ नव॒न्तामूर्ज॑मू॒र्जाहु॑ती ऊ॒र्जय॑माने अधाताव्ँ ..
वसु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।

मूलम्

दे॒वी ऊ॒र्जाहु॑ती॒ इष॒मूर्ज॑म॒न्याव॑क्ष॒त्सग्धिँ॒ सपी॑तिम॒न्या ..
नवे॑न॒ पूर्व॒न्दय॑माना॒स्स्याम॑ पुरा॒णेन॒ नव॒न्तामूर्ज॑मू॒र्जाहु॑ती ऊ॒र्जय॑माने अधाताव्ँ ..
वसु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।

भट्टभास्कर-टीका

5देवी ऊर्जाहुती इत्यादि ॥ देव्यौ ऊर्जाहुत्यौ ऊर्जा रसस्य भावयित्र्यौ । पूर्ववत्पररूपे आकारोपजनश्च । हविषां निर्वोढ्र्यौ उच्येते । ययोः अन्या एका इषं अन्नं ऊर्जं रसं च देवेभ्यः वक्षत् वहति प्रापयति आवहति उत्पादयति वा । पूर्ववत् लेटि सिप् । ययोश्च अन्या सग्धिं सहाशनं सपीतिं सहपानं च देवानां वक्षदित्येव । चमकेषु पदे व्याख्याते ।

इदानीमात्मार्थमप्यूर्जं प्रार्थयते - नवेन व्रीह्यादिना सहैव पूर्वं पुराणव्रीह्यादिकं दयमानाः रक्षन्तः कुसूलादिषु स्थापयन्तः । यद्वा - दयमानाः दधानाः ब्राह्मणादिभ्यः सहैव ददानाः स्याम त्वत्प्रसादादिति यावत् । नवोत्पत्तिपर्यन्तं अक्षीणपुराणधान्याः पुराणदायिन एव स्याम, तथा पुराणेन धान्येन सहैव नवं धान्यं दयमानाः स्याम, सत्स्वेव पुराणेषु नवं दयमानाः स्याम, पुराणेषु क्षीणेषु लवितारो मा भूमेति यावत् । ‘चादिलोपे विभाषा’ इति निघाताभावः । तां तादृशीं उपर्युपर्युपचीयमानबहुदिधनवपुराणधान्यपूर्णमहाकुसूलशतसंकटग्रहोपग्रहव्यापिनीं ऊर्जं अन्नं व्रीह्यादिलक्षणं ऊर्जाहुती दैव्यौ अस्मभ्यं अधातां दत्तां ऊर्जयमाने सर्वस्य लोकस्य ऊर्जं अन्नं कुर्वाणे । ‘तत्करोति’ इति णिच् । ‘प्रकृत्यैकाच्’ इति प्रकृतिभावः । दधातेः छान्दसे लुङि ‘गातिस्था’ इति सिचो लुक् । वसुवन इत्यादि । गतम् ॥

  • वसुधेयस्य धनप्रदातुर्देवस्य वसुवने धनप्रदानाय वेतु आज्यं पिबतु । यज तदर्थं हे होतः! याज्यां पठ ॥
विश्वास-प्रस्तुतिः

दे॒वा दैव्या॒ होता॑रा॒ नेष्टा॑रा॒ पोता॑रा ह॒ताघ॑शँसावाभ॒रद्व॑सू ..
वसु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।

मूलम्

दे॒वा दैव्या॒ होता॑रा॒ नेष्टा॑रा॒ पोता॑रा ह॒ताघ॑शँसावाभ॒रद्व॑सू ..
वसु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।

भट्टभास्कर-टीका

6देवा दैव्येति ॥ देवा देवनशीलौ दैव्या देवानां संबन्धिनौ होतारौ नेष्टारौ नेतारौ यज्ञस्य पोतारौ शोधयितारौ । सर्वत्र ‘सुपां सुलुक्’ इत्याकारः । हताघशंसौ हता अघशंसा पापबुद्धयः याभ्यां तादृशौ आभरद्वसू आह्रियमाणधनौ । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । यद्वा - वसुनः आहर्तारौ, पूर्वापरविनिमयः छान्दसः । वसुवन इत्यादि । गतम् ॥

  • वसुधेयस्य धनप्रदातुर्देवस्य वसुवने धनप्रदानाय वेतु आज्यं पिबतु । यज तदर्थं हे होतः! याज्यां पठ ॥
विश्वास-प्रस्तुतिः

दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीरिडा॒ सर॑स्वती॒ भार॑ती॒ द्याम्भार॑त्यादि॒त्यैर॑स्पृक्ष॒त् सर॑स्वती॒मँ रु॒द्रैर्य॒ज्ञमा॑वीद्‌ ..
इ॒हैवेड॑या॒ वसु॑मत्या सध॒माद॑म्मदेम …
वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।

7देवीस्तिस्र इति ॥ देव्यः तिस्रः इडा सरस्वती भारती च, ताः सर्वदा तिस्रः संभूय देवीः देव्यः दीव्यन्त्यः । तासु मध्ये भारती देवी आदित्यैस्सह द्यां द्युस्थानं लोकं अस्पृक्षत् स्पृशतु हविर्भिः देवांस्तर्पयतु । छान्दसे लुङि ‘शल इगुपधात्’ इति क्सः । सरस्वती देवी रुद्रैस्सह इमं यज्ञं आवीत् अवतु रक्षतु अत्रैव स्थित्वा यज्ञं निर्वर्तयतु । अथ इडया देव्या वसुमत्या वसुभिः तद्वत्या सधमादं सहस्थानमदं यथातथा । यद्वा - सह मदित्वा मदित्वा मदेम माद्येम । ‘लिङ्याशिष्यङ्’ । इहैव यज्ञे यज्ञफलेन अस्मान् योजयत्विति । वसुवन इत्यादि । गतम् ॥

  • वसुधेयस्य धनप्रदातुर्देवस्य वसुवने धनप्रदानाय वेतु आज्यं पिबतु । यज तदर्थं हे होतः! याज्यां पठ ॥
विश्वास-प्रस्तुतिः

दे॒वो नरा॒शँस॑स्त्रिशी॒र्षा ष॑ड॒क्षश्श॒तमिदे॑नँ शितिपृ॒ष्ठा आद॑धति ..
स॒हस्र॑मी॒म्प्रव॑हन्ति ..
मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्ह॑तो॒ बृह॒स्पति॑स्स्तो॒त्रम॒श्विनाऽऽ ध्व॑र्यवव्ँ ..
वसु॒वने॑ वसु॒धेयस्य॑ वेतु॒ यज॑ ।

8देवो नराशंस इति ॥ देवनशीलो नरैः शंसनीयः यज्ञात्मा त्रिशीर्षा त्रिभिस्सवनैः प्रदानैः तद्वान्, निरुदकादित्वादुत्तरपदान्तोदात्तत्वम् । षडक्षः षड्भिरक्षस्थानीयैः ऋतुभिः तद्वान् ऋतुग्रहाभिप्रायं वा, सतिशिष्टः समासान्तस्स्वरः प्रवर्तते । ‘बहुव्रीहौ सक्थ्यक्ष्णोः’ इति षच् । शतमित् शतमेव बह्व्यः शितिपृष्ठाः शुक्लपृष्ठाः दक्षिणाः शुक्लधनात्मिका एनं यज्ञं आदधति आभिमुख्येन धारयन्ति, सहस्रमीं सहस्रमे दक्षिणाः एनं प्रवहन्ति फलसाधनसमर्थं कुर्वन्ति कस्यचित्सहस्रदक्षिणत्वात् यज्ञजात्यभिप्रायेणोच्यते । ‘शितेर्नित्या बह्वच्’ इत्युत्तरपदान्तोदात्तत्वम् । मित्रावरुणावेव, ‘देवताद्वन्द्वे च’ इति द्व्युदात्तत्वम् । अस्य यज्ञस्य होत्रं हवनं होतृत्वं अर्हतः नान्यः, बृहस्पतिरेव स्तोत्रं स्तवं औद्गात्रमर्हतीति । ‘चादिलोपे विभाषा’ इत्याख्यातं न निहन्यते । अश्विनावेव आध्वर्यवं अध्वर्योः कृत्यं अर्हतः । उत्सादित्वादङ् । वसुवन इति । गतम् ॥

  • वसुधेयस्य धनप्रदातुर्देवस्य वसुवने धनप्रदानाय वेतु आज्यं पिबतु । यज तदर्थं हे होतः! याज्यां पठ ॥
विश्वास-प्रस्तुतिः

दे॒वो वन॒स्पति॑र्व॒र्षप्रा॑वा घृ॒तनि॑र्णि॒ग्द्यामग्रे॒णास्पृ॑क्ष॒द् ..
आन्तरि॑क्ष॒म्मध्ये॑नाप्राᳶ पृथि॒वीमुप॑रेणादृँहीद् ..
वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।

मूलम्

दे॒वो वन॒स्पति॑र्व॒र्षप्रा॑वा घृ॒तनि॑र्णि॒ग्द्यामग्रे॒णास्पृ॑क्ष॒द् ..
आन्तरि॑क्ष॒म्मध्ये॑नाप्राᳶ पृथि॒वीमुप॑रेणादृँहीद् ..
वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।

भट्टभास्कर-टीका

9देवो वनस्पतिरिति ॥ देवनशलिः वनस्पतिः वर्षप्रावा वर्षस्य प्रापयिता यागद्वारेण । प्रपूर्वादवतेः ‘गतिकारकयोरपि’ इत्यसुन्, पूर्वपदप्रकृतिस्वरत्वं च । यद्वा - वर्षस्य प्रावा पूरयिता । ‘आतो मनिन्’ इति प्रातेर्वनिप्, दासीभारादिर्द्रष्टव्यः । घृतनिर्णिक् घृतस्य उदकस्य हेतुभूतं रूपमस्येति । यद्वा - उदकेन निर्वर्तितरूपः घृतस्य वा निर्णेक्ता शोधयिता समर्थयिता । दासीभारादिरेव । द्यां द्युलोकं अग्रेण अस्पृक्षत् स्पृशत्विति यावत् । लुङि पूर्ववत् क्सः । मध्येनान्तरिक्षमाप्राः आपूरयतु, रक्षार्थं व्याप्नोतु । प्रा पूरणे, लुङि पुरुषव्यत्ययः, ‘मन्त्रे घस’ इति च्छेर्लुक् । उपरेण मूलेन अतष्टप्रदेशेन पृथिवीं अदृंहीत् स्तम्भयतु । वसुवन इत्यादि । गतम् ॥

  • वसुधेयस्य धनप्रदातुर्देवस्य वसुवने धनप्रदानाय वेतु आज्यं पिबतु । यज तदर्थं हे होतः! याज्यां पठ ॥
विश्वास-प्रस्तुतिः

दे॒वम्ब॒र्हिर्वारि॑तीनान्नि॒धे धा॑ऽसि॒ ..
प्रच्यु॑तीना॒मप्र॑च्युतन्निकाम॒धर॑णम्पुरुस्पा॒र्हय्ँयश॑स्वदे॒ना ब॒र्हिषा॒ऽन्या ब॒र्हीँष्य॒भि ष्या॑म ..
वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।

मूलम्

दे॒वम्ब॒र्हिर्वारि॑तीनान्नि॒धे धा॑ऽसि॒ ..
प्रच्यु॑तीना॒मप्र॑च्युतन्निकाम॒धर॑णम्पुरुस्पा॒र्हय्ँयश॑स्वदे॒ना ब॒र्हिषा॒ऽन्या ब॒र्हीँष्य॒भि ष्या॑म ..
वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।

भट्टभास्कर-टीका

10देवं बर्हिरिति ॥ देवनशीलं बर्हिः बर्हयितृ वर्धयितृ वारितीनां उदकगतीनां यागद्वारेण उदकप्राप्तिहेतुः । निधे निदानार्थं अविचलितावस्थानार्थम् । क्विप्यातो लोपः, उदात्तनिवृतिस्वरेण विभक्तेरुदात्तत्वम् । यद्वा - कृत्यार्थे केप्रत्ययः । धासि ददाति हवींषि । पुरुषव्यत्ययः, वेत्वित्यनेन सामानाधिकरण्यात्, शपो लुक् । यद्वा - वारितीनां निधानाय दधाति । प्रच्युतीनां प्रच्युतिमतां अन्येषां शुष्यतां मध्ये स्वयं अप्रच्युतं अप्रच्युतिकम् । यद्वा - तेषामप्रच्युतहेतुः । निकामधरणं स्वेच्छया धारयितृ पर्याप्तं वा धारणाय पुरुस्पार्हं पुरुभिस्स्पृहणीयम् । विकारः छान्दसः । यशस्वत् यशस्करं उदकहेतुर्वा । एना एतेन महानुभावेन बर्हिषा अन्यानि बर्हींषि बर्हिष्मतो यजमानान् अभिष्याम अभिभवेम । ‘उपसर्गप्रादुर्भ्यां’ इति षत्वम् । वसुवन इत्यादि । गतम् ॥

  • वसुधेयस्य धनप्रदातुर्देवस्य वसुवने धनप्रदानाय वेतु आज्यं पिबतु । यज तदर्थं हे होतः! याज्यां पठ ॥
विश्वास-प्रस्तुतिः

दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत्सु॒द्रवि॑णा म॒न्द्रᳵ क॒विस्स॒त्यम॑न्माऽऽय॒जी होता॒ ..
होतु॑र्होतु॒राय॑जीया॒न् ..
अग्ने॒ यान्दे॒वानया॒ड् ..
याँ अपि॑प्रे॒र् …
ये ते॑ हो॒त्रे अम॑त्सत॒ ..
ताँ स॑स॒नुषीँ॒ होत्रा॑न्देवङ्ग॒मान्दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मँ स्वि॑ष्ट॒कृच्चाग्ने॒ होताऽभू॑र् …
वसु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॒ यज॑ ॥33॥

11देवो अग्निरिति ॥ इष्टिहौत्रे व्याख्यातम् । नमोवाके वीहि यजेति विशेषः । हे अग्ने! वसुवने लाभाय लब्धस्य च धारणाय अन्नस्य च पक्तृत्वाय अस्माकं इदं आज्यं वीहि पिब । होतस्त्वमपि यजेति ॥

  • सु॒द्रवि॑णा म॒न्द्रᳵ क॒विः ।
    दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् ।
    स॒त्यम॑न्माय॒जी होता॑ ।
    होतु॑र्होतु॒राय॑जीयान् ।
    अग्ने॒ यान्दे॒वानया॑ट् ।

  • सुद्रविणाः शोभनधनः सकारान्तं शब्दान्तरमिदम् । मन्द्रः मन्दनशीलः मन्दयिता वा सर्वेषां, कविः क्रान्तदशनः, सत्यमन्मा सत्यमनसः, अमोघमतिः, आयजी मर्यादया यथाविधानं‍ यष्टा, होतुर्होतुः सर्वस्मात् अन्यस्माद्धोतुः आयजीयान् अतिशयेनायष्टा, ‘तुश्छदसि’ इति आयष्टृशब्दात् ईयसुन् । हे अग्ने! ईदृशस्त्वं यान् देवान् अयाट् अयाक्षीः । पूर्वदिडभावो वृद्धिश्च । यानित्यस्य रुत्वानुनासिकावुक्तौ ।

  • याँ अपि॑प्रेः ।
    ये ते॑ हो॒त्रे अम॑त्सत ।
    ताँ स॑स॒नुषीँ॒ होत्रा॑न्देवङ्ग॒माम् ।
    दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मम् ।

  • याँ अपि॑प्रे॒र् ये ते॑ हो॒त्रे अम॑त्सत॒ ताँ स॑स॒नुषीँ॒ होत्रा॑न्देवङ्ग॒मान् दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मम् ।

    • टीका यांश्च देवान् अपिप्रेः अप्रीणयः । प्रीणतेर्लङि ‘बहुलं छन्दसि’ इति शपः श्लुः । ये च ते तव होत्रे होतृकृत्ये याजमाने अमत्सत अमाद्यन् तेषु देवेषु दिवि स्थितेषु तां त्वदीयां ससजुषीं हवींषि देवेभ्यो दत्तवतीम् । सनेतेः लिटः क्वसुरादेशः । होत्रां होतृकृत्यां देवंगमां देवानेव गच्छन्तीम् । ‘गमश्च ’ इति खच् । तां इमां एरय आभिमुख्येन प्रापय, इमं च यज्ञं एरय देवानां भोगाय कुरु ।
  • स्वि॒ष्ट॒कृच्चाग्ने॒ होताऽभूः॑ ।

    • टीका हे अग्ने! स्विष्टकृत् शोभनयजनकारी च होता अभूः अभवः छान्दसो लुङ् । ‘चवायोगे प्रथमा’ इति निघाताभावे आट उदात्तत्वम् ।

इति तैत्तिरीयब्राह्मणे तृतीये षष्ठे पशुहौत्रे त्रयोदशोऽनुवाकः ॥