१२ हविर्वनस्पतिस्विष्टकृतां याज्याः

विश्वास-प्रस्तुतिः

उपो॑ ह॒ यद्वि॒दथव्ँ॑वा॒जिनो॒ गूः ।
गी॒र्भिर्विप्रा॒ᳶ प्रम॑तिमि॒च्छमा॑नाः ।
अ॒र्वन्तो॒ न काष्ठा॒न्नक्ष॑माणाः ।
इ॒न्द्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते ।

मूलम्

उपो॑ ह॒ यद्वि॒दथव्ँ॑वा॒जिनो॒ गूः ।
गी॒र्भिर्विप्रा॒ᳶ प्रम॑तिमि॒च्छमा॑नाः ।
अ॒र्वन्तो॒ न काष्ठा॒न्नक्ष॑माणाः ।
इ॒न्द्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते ।

भट्टभास्कर-टीका

2हविषो याज्या - उपोहयदिति त्रिष्ठुप् ॥ विदथं यज्ञं उपोह यज्ञस्य समीपत एव गूः गच्छन्तः, क्विपि ‘ऊञ्चगमादीनाम्’ इत्यूकारः, ‘सुपां सुलुक्’ इति जसः स्वादेशः । वाजिनः अन्नवन्तः हविष्मन्तः गीर्भिः स्तुतिभिः इत्थंभूता प्रमतिं प्रकृष्टं मन्तव्यं फलं इच्छमानाः प्राप्तुमिच्छन्तः विप्राः मेधाविनः ऋत्विजः यत् ये प्रकृष्टफलार्थिनः यज्ञसमीपं गच्छन्तीत्यर्थः । पूर्ववत् जसो लुक् । ते तथाकुर्वन्तो नरः नेतारो मनुष्याः ऋत्विजः इन्द्राग्नी एव जोहुवतो भृशं होमेनाराधयन्तः अर्वन्तोन अश्वा इव काष्ठा नक्षमाणाः व्याप्तुमिच्छन्तः णशेः गतिकर्मणः अभ्यासस्य लोपादिकं छान्दसम् । ते नरा इन्द्राग्नी एव जुहुवतो भवन्ति ॥

विश्वास-प्रस्तुतिः

वन॑स्पते रश॒नया॑ऽभि॒धाय॑ ।
पि॒ष्टत॑मया व॒युना॑नि वि॒द्वान् ।
वह॑ देव॒त्रा दि॑धिषो ह॒वीँषि॑ ।
प्र च॑दा॒तार॑म॒मृते॑षु वोचः ।

मूलम्

वन॑स्पते रश॒नया॑ऽभि॒धाय॑ ।
पि॒ष्टत॑मया व॒युना॑नि वि॒द्वान् ।
वह॑ देव॒त्रा दि॑धिषो ह॒वीँषि॑ ।
प्र च॑दा॒तार॑म॒मृते॑षु वोचः ।

भट्टभास्कर-टीका

2वनस्पतेर्याज्या - वनस्पते रशनयेति त्रिष्टुप् ॥ हे वनस्पते! यूप! रशनया पिष्टतमया श्लिष्टतमया आत्मानं अभिधाय बद्ध्वा वयुनानि ज्ञानानि अभिप्रायमस्माकं देवानां वा विद्वान् जानन् तदनुरूपं हवींषि वह प्रापय । क्व? देवत्रा देवेषु, ‘देवमनुष्य’ इति त्राप्रत्ययः । हे दिधिषो! धारणकुशल! । यद्वा - हविषो देवेभ्यो दानकुशल! तथा कृत्वा तेषां हविषां दातारं यजमानं अमृतेषु अमरणेषु देवेषु प्रवोचः अनेनैतानि दत्तानीति प्रब्रूहि । छान्दसे लुङि ‘वच उम्’ ‘बडुलं छन्दस्यमाङ्योगेऽपि’ इत्यडभावः ॥

विश्वास-प्रस्तुतिः

अ॒ग्निँ स्वि॑ष्ट॒कृत॑म् ।
अया॑ड॒ग्निरि॑न्द्राग्नि॒योश्छग॑स्य ह॒विष॑ᳶ प्रि॒या धामा॑नि ॥31॥

अया॒ड्वन॒स्पते॑ᳶ प्रि॒या पाथाँ॑सि ।
अया॑ड्दे॒वाना॑माज्य॒पाना॑म्प्रि॒या धामा॑नि ।
यक्ष॑द॒ग्नेर्होतु॑ᳶ प्रि॒या धामा॑नि ।
यक्ष॒त्स्वम्म॑हि॒मान॑म् ।
आय॑जता॒मेज्या॒ इषः॑ ।
कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः ।
जु॒षताँ॑ ह॒विः ।

मूलम्

अ॒ग्निँ स्वि॑ष्ट॒कृत॑म् ।
अया॑ड॒ग्निरि॑न्द्राग्नि॒योश्छग॑स्य ह॒विष॑ᳶ प्रि॒या धामा॑नि ॥31॥

अया॒ड्वन॒स्पते॑ᳶ प्रि॒या पाथाँ॑सि ।
अया॑ड्दे॒वाना॑माज्य॒पाना॑म्प्रि॒या धामा॑नि ।
यक्ष॑द॒ग्नेर्होतु॑ᳶ प्रि॒या धामा॑नि ।
यक्ष॒त्स्वम्म॑हि॒मान॑म् ।
आय॑जता॒मेज्या॒ इषः॑ ।
कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः ।
जु॒षताँ॑ ह॒विः ।

भट्टभास्कर-टीका

3-4स्विष्टकृतो याज्या - अग्निं स्विष्टकृतमिति ॥

  • यस्मात् अग्निं स्विष्टकृतं अग्निः दैव्यो होता अयाट् यजति । छान्दसोऽङ् हलन्तलक्षणायां वृद्धौ इडभावे रूपम् । तत् अग्नेः आज्यभागाग्नेः प्रियाणि धानानि जन्मानि तेजांसि वा यजति, येषु स यष्टव्यो भाति । एवं अयाट्सोमस्येत्यादि द्रष्टव्यम् । +++(अयाड् वनस्पते इत्यादिष्वपि द्रष्टव्यम् )+++

  • यद्वा - ये यजामहे अग्निं स्विष्टकृतमिति यष्टव्यानामादेशः । लिङ्गं चेदं यष्टव्यानामादेशस्य यथा ये यजामहे अग्निं, येयजामहे सोममिति । तदा स्विष्टकृत् अग्निः अग्न्यादीनां प्रियाणि धामानि यजतीति योज्यम् ।
    एवं अयं अग्नेः होतुः होतृसंपादिनः स्विष्टकृतश्च प्रियाणि धामानि यक्षत् यजति । लेटि ‘सिब्बहुलं लेटि’ इति सिप् । स्वं च महिमानं यक्षत् ‘स्वं महिमानमावह’ इत्यावहनीयतया उक्तमिदानीं यजतु ।

  • अथ एज्याः अस्मदाभिमुख्येन आगमयितव्याः अस्मभ्यं देयाः इषः अन्नानि आयजतां आगमयतु ।

  • यद्वा - अन्या अपि देवताः एज्याः एष्टव्याः इषः भागमिच्छतीः प्राप्ताः अयमग्निः आयजतां इषत्तर्पयतु । किञ्च - सः अग्निः स्विष्टकृत् अध्वरा अध्वरं यज्ञं हिंसकरहितं कृणोतु करोतु । ‘सुपां सुलुक्’ इत्याकारः । यद्वा अध्वराः हिंसकरहिताः इषः करोतु । किञ्च - अयं स्विष्टकृत् अग्निः इदं हविः जुषतां सेवताम् ।

विश्वास-प्रस्तुतिः

अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः ।
पाव॑क शोचे॒ वेष्ट्वँ हि यज्वा॑ ।
ऋ॒ता य॑जासि महि॒ना वियद्भूः ।
ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥32॥

मूलम्

अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः ।
पाव॑क शोचे॒ वेष्ट्वँ हि यज्वा॑ ।
ऋ॒ता य॑जासि महि॒ना वियद्भूः ।
ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥32॥

भट्टभास्कर-टीका

अग्ने यदद्येति ॥ व्याख्याता ‘अग्रिर्वृत्राणि’ इत्यत्र ॥

  • अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होत॒ᳶ पाव॑क [32] शो॒चे॒ वेष्ट्वँ हि यज्वा॑ ।
    ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ।
    • टीका तत्रैव याज्यामाह— अग्ने यदद्येति । हे स्विष्टकृदग्ने विशः प्रविष्टस्यानुष्ठितस्याध्वरस्य संबन्धि यद्धविरस्ति तदद्य वरेशान भक्षय । होतर्होमकर्तः पावक शोधक शोचे दीप्यमान, तान्येतान्यग्निविशेषणानि । हि यस्मात्त्वं यज्वा यागस्य कर्ता तस्मादृता ऋतेऽस्मदीययज्ञे मषिम्ना यजासि । देवान्प्रीणयसि । यद्यस्मात्कारणाद्विभूर्विशिष्टो भवति तत्तस्मात्कारणाद्धे यविष्ठ युवतमाद्य ते तव या हव्या यानि हव्यानि अस्माभिर्दीयन्ते तानि ( वह ) स्वी कुरु । यद्यप्येतन्मन्त्रद्वयं दार्शिकहौत्रकाण्डे स माम्नातत्वाच्चोदकादेव प्राप्तं तथाऽपि विस्पाष्टार्थं पुनर्वचनमिति द्रष्टव्यम् ।

इति तैत्तिरीयब्राह्मणे तृतीये षष्ठे द्वादशोनुवाकः ॥