विश्वास-प्रस्तुतिः
आ भ॑रतँ शिक्षतव्ँवज्रबाहू ।
अ॒स्माँ इ॑न्द्राग्नी अवतँ॒ शची॑भिः ।
इ॒मे नु ते र॒श्मय॒स्सूर्य॑स्य ।
येभि॑स्सपि॒त्वम्पि॒तरो॑ न॒ आय॑न् ।
मूलम्
आ भ॑रतँ शिक्षतव्ँवज्रबाहू ।
अ॒स्माँ इ॑न्द्राग्नी अवतँ॒ शची॑भिः ।
इ॒मे नु ते र॒श्मय॒स्सूर्य॑स्य ।
येभि॑स्सपि॒त्वम्पि॒तरो॑ न॒ आय॑न् ।
भट्टभास्कर-टीका
1हविषः पुरोरुक् - आभरतमिति त्रिष्टुप् ॥ हे इन्द्राग्नी! वज्रबाहू! सायुधपाणी! आभरतं सामर्थ्याद्धनमाहरतं आहृत्य तत् शिक्षतं संस्कुरुतं, अतः तत्प्रदानेन अस्मानवतं रक्षतम् । शचीभिः कर्मभिः यैः विश्वं रक्षतः । किञ्च - ये च इमे ते जगत्प्रसिद्धाः रक्षकत्वेन सर्वस्य रश्मयः येभिः यैः सपित्वं समवेतत्वं एकत्वम् । षच समवाये, ‘इन् सर्वधातुभ्यः’ इति इन् । नः अस्माकं पितरः पूर्वपुरुषाः आयन् गताः तैश्च सह अस्मानवतमिति ॥
विश्वास-प्रस्तुतिः
होता॑ यक्षदिन्द्रा॒ग्नी ।
छाग॑स्य ह॒विष॒ आत्ता॑म॒द्य ।
म॒ध्य॒तो मेद॒ उद्भृ॑तम् ।
पु॒रा द्वेषो॑भ्यः ।
पु॒रा पौरु॑षेय्या गृ॒भः ।
घस्ता॑न्नू॒नम् ॥27॥
मूलम्
होता॑ यक्षदिन्द्रा॒ग्नी ।
छाग॑स्य ह॒विष॒ आत्ता॑म॒द्य ।
म॒ध्य॒तो मेद॒ उद्भृ॑तम् ।
पु॒रा द्वेषो॑भ्यः ।
पु॒रा पौरु॑षेय्या गृ॒भः ।
घस्ता॑न्नू॒नम् ॥27॥
भट्टभास्कर-टीका
2होता यक्षदित्यादि ॥ होता दैव्यो यजत्विति । इन्द्राग्नी तौ चेज्यमानौ छागस्य हविषः हविर्भूतस्य मध्यतः उद्भृतं उद्धृतं मेदःप्रभृति सारभूतं आत्तां भुञ्जाताम् । अत्तेः छान्दसो लुङ् । अद्य अस्मिन्नहनि । पुरा द्वेषोभ्यो द्वेष्याणि रक्षःप्रभृतीनि यावन्नोपघ्नन्ति तावदात्ताम् । पुरा च पौरुषेय्याः पुरुषैः कृतायाः । ‘पुरुषात् ढक् विकारे’ इति ढञ् । गृभः ग्रहणात् पूरुषार्थात् ग्रहेः संपदादित्वात् किम् । घस्तां नूनं शोभनं भुञ्जातां, अस्मिन्काले नूनं शोभनमेव भोजनमिति दर्शयति । ‘बहुलं छन्दसि’ इत्यदेः घस्लादेशः ॥
विश्वास-प्रस्तुतिः
घा॒से अ॑ज्राणाय्ँ॒यव॑सप्रथमानाम् ।
सु॒मत्क्ष॑राणाँ श॒तरु॑द्रियाणाम् ।
अ॒ग्नि॒ष्वा॒त्ताना॒म्पीवो॑पवसनानाम् ।
पा॒र्श्व॒तश्श्रो॑णि॒तश्शि॑ताम॒त उ॑त्साद॒तः ।
अङ्गा॑दङ्गा॒दव॑त्तानाम् ।
कर॑त ए॒वेन्द्रा॒ग्नी ।
जु॒षेताँ॑ ह॒विः ।
होत॒र्यज॑ ।
मूलम्
घा॒से अ॑ज्राणाय्ँ॒यव॑सप्रथमानाम् ।
सु॒मत्क्ष॑राणाँ श॒तरु॑द्रियाणाम् ।
अ॒ग्नि॒ष्वा॒त्ताना॒म्पीवो॑पवसनानाम् ।
पा॒र्श्व॒तश्श्रो॑णि॒तश्शि॑ताम॒त उ॑त्साद॒तः ।
अङ्गा॑दङ्गा॒दव॑त्तानाम् ।
कर॑त ए॒वेन्द्रा॒ग्नी ।
जु॒षेताँ॑ ह॒विः ।
होत॒र्यज॑ ।
भट्टभास्कर-टीका
3इदानीमवदानानि वर्ण्यन्ते - घासे अज्राणामिति ॥ अदन्ति अस्मिन् हवींषि देवा इति घासो यागः । ‘घञपोश्च’ इति घस्लादेशः, निमित्तात्सप्तमी । यागनिमित्तमेव अज्राणां अजनीयानां गन्तव्यानां, यद्वा - करणे घञ्, घसि आस्ये अजनीयानां क्षेप्याणां सुसंस्कृतानामिति यावत् । यवसप्रथमानां अन्नानां मध्ये श्रेष्ठानां, आद्युदात्तत्वं छान्दसम् । सुमत्क्षराणां सुष्ठु मादयति येषां क्षरणं मुखादुदरप्रवेशः तादृशानां शतरुद्रियाणां शतं रुद्रा देवता येषां अनुष्ठातृभूताः तादृशाः प्राणा वा । ‘शतरुद्राद्घ च’ इति घः, छान्दसं पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - शतं रुद्रियाणि रुद्रार्हाणि कर्माणि येषु तादृशानां, अग्निष्वात्तानां अग्निना वैश्वानरेण जाठरेण वैतानेन वा आस्वादितानाम् । प्रवृद्धादित्वादुत्तरपदान्तोदात्तत्वम् । पीवोपवसनानां पीवास्थूलत्वक् उपवसनं आच्छादनस्थानीयं येषां तादृशानां पार्श्वादिम्यः प्रथममवर्तानां ततः अङ्गादङ्गादवत्तानां सर्वस्मादङ्गादवत्तानां ‘अपादाने चाहीयरुहोः’ इति तसिः । पशूनां समूहः पार्श्वं ‘पर्श्वा णस्वक्तव्यः’ इति णस् । श्रेणी प्रसिद्धे । शितामः दोर्यकृद्वा । उत्सादः गुदकाण्डं भेदप्रदेशो वा एवमेतेषां एवंगुणानां इन्द्राग्नी एव करतः कुरुतः । कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । करोतेः व्यत्ययेन शप् । यस्मात् तौ एतान्युत्पादितवन्तौ तस्मादिमौ देवौ इदं हविः जुषेतां सेवेतां सेवित्वा वा प्रियेतां तदर्थं हे मनुष्य! होतः! त्वमपि यज ॥
विश्वास-प्रस्तुतिः
दे॒वेभ्यो॑ वनस्पते ह॒वीँषि॑ ।
हिर॑ण्यपर्ण प्र॒दिव॑स्ते॒ अर्थ॑म् ॥28॥
प्र॒द॒क्षि॒णिद्र॑श॒नया॑ नि॒यूय॑ ।
ऋ॒तस्य॑ वक्षि प॒थिभी॒ रजि॑ष्ठैः ।
मूलम्
दे॒वेभ्यो॑ वनस्पते ह॒वीँषि॑ ।
हिर॑ण्यपर्ण प्र॒दिव॑स्ते॒ अर्थ॑म् ॥28॥
प्र॒द॒क्षि॒णिद्र॑श॒नया॑ नि॒यूय॑ ।
ऋ॒तस्य॑ वक्षि प॒थिभी॒ रजि॑ष्ठैः ।
भट्टभास्कर-टीका
4वनस्पतेः पुरोरुक् - देवेभ्यो वनस्पते इति त्रिष्टुप् ॥ अग्न्यभेदेन यूपस्स्तूयते । हे वनस्पते! यूपात्मन्नग्रे! हिरण्यपर्ण! हितरमणीयपतन! हिरण्यवर्णज्वाल! वा देवेभ्यो हवींषि वक्षि वह । लेटि शपो लुक् । कीदृशानि? ते तव अर्थं प्रयोजनं प्रयोजनभूतानि प्रदिवः पुराणं यथापूर्वमिति यावत् । कीदृशो भूत्वेति चेत्? प्रदक्षिणित् प्रदक्षिणमीयते वेष्ट्यत इति प्रदक्षिणित्, छान्दसं ह्नस्वत्वम् । रशनया नियूय निबद्ध्यात्मानं, यथा नहनकाले शैथिल्यं स्यात्, यौतेर्ल्यपि छान्दसं दीर्घत्वम् । ऋतस्य यज्ञस्य संबन्धीनि हवींषि वह पथिभिः मार्गैः रजिष्ठैः ऋजुतमैः । ऋजुशब्दादिष्ठनि, ‘विभाषर्जोश्छन्दसि’ इति टिलोपः॥
विश्वास-प्रस्तुतिः
होता॑ यक्षद्वन॒स्पति॑म॒भिहि ।
पि॒ष्टत॑मया॒ रभि॑ष्ठया रश॒नयाधि॑त ।
यत्रे॑न्द्राग्नि॒योश्छाग॑स्य ह॒विष॑ᳶ प्रि॒या धामा॑नि ।
यत्र॒ वन॒स्पते॑ᳶ प्रि॒या पाथाँ॑सि ।
यत्र॑ दे॒वाना॑माज्य॒पाना॑म्प्रि॒या धामा॑नि ।
यत्रा॒ग्नेर्होतु॑ᳶ प्रि॒या धामा॑नि ।
मूलम्
होता॑ यक्षद्वन॒स्पति॑म॒भिहि ।
पि॒ष्टत॑मया॒ रभि॑ष्ठया रश॒नयाधि॑त ।
यत्रे॑न्द्राग्नि॒योश्छाग॑स्य ह॒विष॑ᳶ प्रि॒या धामा॑नि ।
यत्र॒ वन॒स्पते॑ᳶ प्रि॒या पाथाँ॑सि ।
यत्र॑ दे॒वाना॑माज्य॒पाना॑म्प्रि॒या धामा॑नि ।
यत्रा॒ग्नेर्होतु॑ᳶ प्रि॒या धामा॑नि ।
भट्टभास्कर-टीका
5होता यक्षदित्यादि ॥ होता दैव्यः यजतु वनस्पतिम् । स चैतं पशुं इन्द्राग्न्यादिसकाशं प्रापयतु इति वक्ष्यति । तत्रास्य को विशेष इत्याह - हि यस्मात् पिष्टतमया श्लक्ष्णतमया रभिष्ठया रभस्वत्तमया स्वकार्ये शीघ्रप्रवृत्तया । पूर्ववन्मतुब्लोपटिलोपौ । आरब्धतमया वा सद्यस्स्वकार्यम् । ‘तुश्छन्दसि’ इतीष्ठनि ‘तुरिष्ठेमेयस्सु’ इति लोपः । ईदृश्या रशनया वनस्पतिः आत्मानं अभ्याधित अबध्नात्, यथोक्तं ‘रशनया नियूय’ इति, अभिधानं बन्धनं, लुङि ‘स्थाघ्वोरिच्च’ इतीत्वे ‘ह्रस्वादङ्गात्’ इति सिचो लुक् । तस्मात् तादृशः अयं यूपः एतं पशुं तत्रोपावस्रक्षत् तस्मिन् स्थाने उपावसृजतु उपसंप्रापयतु । लेटि सिपि अमागमः । कुत्र? यत्र इन्द्राग्नियोः संबन्धिनः छागस्य हविषः प्रिया धामानि स्थानानि यत्र निहितानि इन्द्राग्न्योः प्रीतये भवन्ति, यत्र च वनस्पतेः यूपस्य प्रियाणि पाथांसि अन्नानि यत्र निहितानि वानस्पत्यात्माग्नेः प्रीतये भवन्ति । यत्र च देवांनां आज्यपानां प्रयाजदेवतानां प्रियाणि धामानि, यत्र चाग्नेः होतुः स्विष्टकृतः प्रियाणि धामानि तत्रैतं पशुं उपावस्त्रक्षत्, किं कृत्वा? प्रस्तुत्येव यथा राज्ञे प्रथमं निवेद्यते तथा प्रथममेव प्रस्तुत्य श्रावयित्वा, अवधारणे निपातः ।
विश्वास-प्रस्तुतिः
तत्रै॒तम्प्र॒स्तुत्ये॑वोप॒स्तुत्ये॑ वो॒पाव॑स्रक्षत् ।
मूलम्
तत्रै॒तम्प्र॒स्तुत्ये॑वोप॒स्तुत्ये॑ वो॒पाव॑स्रक्षत् ।
भट्टभास्कर-टीका
किञ्च - उपस्तुत्येव सन्निधावेव प्रशस्य उपावसृजतु ।
विश्वास-प्रस्तुतिः
रभी॑याँसमिव कृ॒त्वी ॥29॥
मूलम्
रभी॑याँसमिव कृ॒त्वी ॥29॥
भट्टभास्कर-टीका
एवं कृते कीदृशः कृतो भवतीत्याह - रभीयांस देवानां प्रीत्युत्पादने रभसवत्तरं आरब्धतरं वा एवं कृत्वी कृत्वेव उपावसृजतु ।
विश्वास-प्रस्तुतिः
कर॑दे॒वन्दे॒वो वन॒स्पतिः॑ ।
मूलम्
कर॑दे॒वन्दे॒वो वन॒स्पतिः॑ ।
भट्टभास्कर-टीका
आदरार्थं पुनश्च संग्रहेणाह - करत् कुर्यात् एवं उक्तप्रकारं अवश्यं करोत्येव ।
विश्वास-प्रस्तुतिः
जु॒षताँ॑ ह॒विः ।
होत॒र्यज॑ ।
मूलम्
जु॒षताँ॑ ह॒विः ।
होत॒र्यज॑ ।
भट्टभास्कर-टीका
अयं देवः देवनशीलः वनस्पतिः जुषतां सेवतां चेदं हविः, हे होतः! मानुष! त्वमपि यज ॥
विश्वास-प्रस्तुतिः
पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ ।
वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह ।
ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने ।
त्वँ होतॄ॑णाम॒स्याय॑जिष्ठः ।
होता॑ यक्षद॒ग्निँ स्वि॑ष्ट॒कृत॑म् ।
अया॑ड॒ग्निरि॑न्द्राग्नि॒योश्छाग॑स्य ह॒विष॑ᳶ प्रि॒या धामा॑नि ।
- यस्मात् अग्निं स्विष्टकृतं अग्निः दैव्यो होता अयाट् यजति । छान्दसोऽङ् हलन्तलक्षणायां वृद्धौ इडभावे रूपम् । तत् अग्नेः आज्यभागाग्नेः प्रियाणि धानानि जन्मानि तेजांसि वा यजति, येषु स यष्टव्यो भाति । एवं अयाट्सोमस्येत्यादि द्रष्टव्यम् । +++(अयाड् वनस्पते इत्यादिष्वपि द्रष्टव्यम् )+++
- यद्वा - ये यजामहे अग्निं स्विष्टकृतमिति यष्टव्यानामादेशः । लिङ्गं चेदं यष्टव्यानामादेशस्य यथा ये यजामहे अग्निं, येयजामहे सोममिति । तदा स्विष्टकृत् अग्निः अग्न्यादीनां प्रियाणि धामानि यजतीति योज्यम् ।
एवं अयं अग्नेः होतुः होतृसंपादिनः स्विष्टकृतश्च प्रियाणि धामानि यक्षत् यजति । लेटि ‘सिब्बहुलं लेटि’ इति सिप् । स्वं च महिमानं यक्षत् ‘स्वं महिमानमावह’ इत्यावहनीयतया उक्तमिदानीं यजतु ।
अया॒ड्वन॒स्पते॑ᳶ प्रि॒या पाथाँ॑सि ।
अया॑ड्दे॒वाना॑माज्य॒पाना॑म्प्रि॒या धामा॑नि ।
यक्ष॑द॒ग्नेर्होतु॑ᳶ प्रि॒या धामा॑नि ।
यक्ष॒त्स्वम्म॑हि॒मान॑म् ।
आय॑जता॒मेज्या॒ इषः॑ । - अथ एज्याः अस्मदाभिमुख्येन आगमयितव्याः अस्मभ्यं देयाः इषः अन्नानि आयजतां आगमयतु ।
कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः ।
जु॒षताँ॑ ह॒विः ।
होत॒र्यज॑ ॥30॥
- यद्वा - अन्या अपि देवताः एज्याः एष्टव्याः इषः भागमिच्छतीः प्राप्ताः अयमग्निः आयजतां इषत्तर्पयतु । किञ्च - सः अग्निः स्विष्टकृत् अध्वरा अध्वरं यज्ञं हिंसकरहितं कृणोतु करोतु । ‘सुपां सुलुक्’ इत्याकारः । यद्वा अध्वराः हिंसकरहिताः इषः करोतु । किञ्च - अयं स्विष्टकृत् अग्निः इदं हविः जुषतां सेवताम् ।
मूलम्
पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ ।
वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह ।
ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने ।
त्वँ होतॄ॑णाम॒स्याय॑जिष्ठः ।
होता॑ यक्षद॒ग्निँ स्वि॑ष्ट॒कृत॑म् ।
अया॑ड॒ग्निरि॑न्द्राग्नि॒योश्छाग॑स्य ह॒विष॑ᳶ प्रि॒या धामा॑नि ।
- यस्मात् अग्निं स्विष्टकृतं अग्निः दैव्यो होता अयाट् यजति । छान्दसोऽङ् हलन्तलक्षणायां वृद्धौ इडभावे रूपम् । तत् अग्नेः आज्यभागाग्नेः प्रियाणि धानानि जन्मानि तेजांसि वा यजति, येषु स यष्टव्यो भाति । एवं अयाट्सोमस्येत्यादि द्रष्टव्यम् । +++(अयाड् वनस्पते इत्यादिष्वपि द्रष्टव्यम् )+++
- यद्वा - ये यजामहे अग्निं स्विष्टकृतमिति यष्टव्यानामादेशः । लिङ्गं चेदं यष्टव्यानामादेशस्य यथा ये यजामहे अग्निं, येयजामहे सोममिति । तदा स्विष्टकृत् अग्निः अग्न्यादीनां प्रियाणि धामानि यजतीति योज्यम् ।
एवं अयं अग्नेः होतुः होतृसंपादिनः स्विष्टकृतश्च प्रियाणि धामानि यक्षत् यजति । लेटि ‘सिब्बहुलं लेटि’ इति सिप् । स्वं च महिमानं यक्षत् ‘स्वं महिमानमावह’ इत्यावहनीयतया उक्तमिदानीं यजतु ।
अया॒ड्वन॒स्पते॑ᳶ प्रि॒या पाथाँ॑सि ।
अया॑ड्दे॒वाना॑माज्य॒पाना॑म्प्रि॒या धामा॑नि ।
यक्ष॑द॒ग्नेर्होतु॑ᳶ प्रि॒या धामा॑नि ।
यक्ष॒त्स्वम्म॑हि॒मान॑म् ।
आय॑जता॒मेज्या॒ इषः॑ । - अथ एज्याः अस्मदाभिमुख्येन आगमयितव्याः अस्मभ्यं देयाः इषः अन्नानि आयजतां आगमयतु ।
कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः ।
जु॒षताँ॑ ह॒विः ।
होत॒र्यज॑ ॥30॥
- यद्वा - अन्या अपि देवताः एज्याः एष्टव्याः इषः भागमिच्छतीः प्राप्ताः अयमग्निः आयजतां इषत्तर्पयतु । किञ्च - सः अग्निः स्विष्टकृत् अध्वरा अध्वरं यज्ञं हिंसकरहितं कृणोतु करोतु । ‘सुपां सुलुक्’ इत्याकारः । यद्वा अध्वराः हिंसकरहिताः इषः करोतु । किञ्च - अयं स्विष्टकृत् अग्निः इदं हविः जुषतां सेवताम् ।
भट्टभास्कर-टीका
6स्विष्टत्कृतः पुरोनुवाक्या - पिप्रीहीति त्रिष्टुप् ॥ व्याख्याता ।
-
पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह ।
ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वँ होतॄ॑णाम॒स्याय॑जिष्ठः ।- टीका अथ तत्रैव स्विष्टकृतः पुरोनुवाक्यामाह— पिप्रीहि देवानिति । हे यविष्ठ युवतमाग्न उशतः कामयमानान्दवोन्पिप्रीह्यतिशयेन प्रीणय । हे स्त्रतुपते सूर्यात्मना कालपरिपालक त्वमृतून्कालविशेषा २०३७ न्विद्वाञ्जानन्वर्तसे । तस्मादिहोचिते काले यज । देवेषु भवा ये दैव्या ऋत्विजः सन्ति ‘अग्निर्होता । अश्विनाऽध्वर्यू । त्वष्टाऽग्नीत्” इत्यादिनाऽऽम्रातास्तेमिर्स्तेदवैः सह त्वमस्य यजमानस्य संबन्धिनां होतॄणामृत्विजां मध्य आयजिष्ठः सर्वतो यष्टृतमोऽसि ।
अयाडग्निरिन्द्राग्नियोरित्यादि च इष्टिहोत्रे व्याख्यातम् ।
इन्द्राग्न्योश्छागस्येति विशेषः होतर्यजेत्युपरम्यते ॥
इति तैत्तिरीये ब्राह्मणे तृतीये षष्ठे एकादशोऽनुवाकः ॥