१० मनोतासूक्तम्

विश्वास-प्रस्तुतिः

त्वँ ह्य॑ग्ने प्रथ॒मो म॒नोता॑ ।
अ॒स्या धि॒यो अभ॑वो दस्म॒होता॑ ।
त्वँ सीव्ँ॑ वृषन्नकृणोर्दु॒ष्टरी॑तु ।
सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ।

मूलम्

त्वँ ह्य॑ग्ने प्रथ॒मो म॒नोता॑ ।
अ॒स्या धि॒यो अभ॑वो दस्म॒होता॑ ।
त्वँ सीव्ँ॑ वृषन्नकृणोर्दु॒ष्टरी॑तु ।
सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ।

भट्टभास्कर-टीका

1मनोतायै प्रेषितोऽन्वाह - त्वं ह्यग्ने इति ॥ त्रैष्टुभः सर्वोऽनुवाकः । हे अग्ने! त्वमेव प्रथमः मुख्यः मनोता मनसा ऊता प्रार्थिता रक्षिता वा देवैः मनसा प्रार्थिता अजा मनोता तदर्थिनां प्रथमः त्वं तद्वद्भिरभेद उपचर्यते । स त्वं अस्याः धियः कर्मणः होता साधु यष्टा अभवः भव, त्वच्छेषः अन्यैः भुज्यते हे दस्म! दंसयितः! तत्तत्कर्मकुशल! । किञ्च - हे वृषन्! कामानां वर्षितः! त्वमेव दुष्टरीतु दुःखेन तरितव्यं निर्वर्त्यं कर्म अकृणोः सीं सर्वतः साकल्येन, अवधारणे वा, त्वमेवाकृणोरिति । तरतेस्तुः, छान्दस ईडागमः । दुस्तरं वा जगत् त्वमेव यागद्वारेण करोषि । त्वं हि सहः बलं विश्वस्मै सहसे अभिभवित्रे बलाय सहध्यै अभिभवितुं यद्विश्वमभिभवति तस्याभिभावुकं बलं त्वमसि । तुमर्थे अध्यैप्रत्ययः । तस्मात् त्वमेव होता भवेति ॥

विश्वास-प्रस्तुतिः

अधा॒ होता॒ न्य॑सीदो॒ यजी॑यान् ।
इ॒डस्प॒द इ॒षय॒न्नीड्य॒स्सन् ।
तन्त्वा॒ नर॑ᳶ प्रथ॒मन्दे॑व॒यन्तः॑ ।
म॒हो रा॒ये चि॒तय॑न्तो॒ अनु॑ग्मन् ।

मूलम्

अधा॒ होता॒ न्य॑सीदो॒ यजी॑यान् ।
इ॒डस्प॒द इ॒षय॒न्नीड्य॒स्सन् ।
तन्त्वा॒ नर॑ᳶ प्रथ॒मन्दे॑व॒यन्तः॑ ।
म॒हो रा॒ये चि॒तय॑न्तो॒ अनु॑ग्मन् ।

भट्टभास्कर-टीका

2अधा होतेति ॥ अथानन्तरमिदानीं होता भूत्वा न्यसीदः नियमेन सिद, छान्दसो लुङ् । यजीयान् यष्टृतरः मानुषात् होतुः । क्व? इडस्पदे वेद्याः स्थाने उत्तरनाभौ अन्नस्य वा उत्पत्तिस्थाने वेद्यामेव इषयन् इषमन्नं सर्वस्य कुर्वन् उत्पादयन् । ‘तत्करोति’ इति णिच्, ‘प्रकृत्यैकाच्’ इति प्रकृतिभावः । ईड्यः स्तुत्यस्सन् निषीद । यस्मात् नरः ऋत्विग्यजमानाः तं तादृशं त्वामेव प्रथमं प्रधानं चितयन्तः बुद्ध्यमानाः देवयन्तः देवान्यष्टुमिच्छन्तः तं त्वामेव अनुग्मन् अनुगच्छन्ति याचितुं भजन्ते । छान्दसे लुङि ‘मन्त्रे घस’ इति च्लेर्लुक् । चित संचेतने, चुरादिरदन्तः । महो राये महते धनाय अनुग्मन् । यद्वा - महते धनाय चितयन्तः त्वामेव अनुग्मन्निति । मह इति षष्ठी चतुर्थ्यर्थे ॥

विश्वास-प्रस्तुतिः

वृ॒तेव॒ यन्त॑म्ब॒हुभि॑र्वस॒व्यैः॑ ।
त्वे र॒यिञ्जा॑गृ॒वाँसो॒ अनु॑ग्मन्न् ॥22॥
रुश॑न्तम॒ग्निन्द॑र्श॒तम्बृ॒हन्त॑म् ।
व॒पाव॑न्तव्ँ वि॒श्वहा॑ दीदि॒वाँस॑म् ।

मूलम्

वृ॒तेव॒ यन्त॑म्ब॒हुभि॑र्वस॒व्यैः॑ ।
त्वे र॒यिञ्जा॑गृ॒वाँसो॒ अनु॑ग्मन्न् ॥22॥
रुश॑न्तम॒ग्निन्द॑र्श॒तम्बृ॒हन्त॑म् ।
व॒पाव॑न्तव्ँ वि॒श्वहा॑ दीदि॒वाँस॑म् ।

भट्टभास्कर-टीका

3वृतेव यन्तमिति ॥ वृता वर्तन्या पथा यन्तं गच्छन्तं बहुभिः वसव्यैः वर्धनसमूहैः सहितं राजानमिव त्वे त्वां रयिं रयिवन्तं महाधनम् । मत्वर्थीयो लुप्यते । युष्मच्छब्दात् द्वितीयायाः ‘सुपां सुलुक्’ इति शे आदेशः । जागृवांसः प्रबुद्धाः जनाः अनुग्मन् अनुगच्छन्ति । पूर्ववत् च्लेर्लुक् । अग्निर्विशेष्यते - रुशन्तं अमित्रान् हिंसन्तम् । रुश रिश हिंसायाम्, अग्निं अङ्गनादिगुणयुक्तं दर्शतं दर्शनीयं बृहन्तं महान्तं वपावन्तं वपादिभिः हविर्भिः तद्वन्तं विश्वहा विश्वान्यहानि । सवर्णदीर्घस्य छान्दसं ह्रस्वत्वम् । दीदिवांसं दीप्यमानम् । दीदितिः दीप्तिकर्मा छान्दसः ॥

विश्वास-प्रस्तुतिः

प॒दन्दे॒वस्य॒ नम॑सा वि॒यन्तः॑ ।
श्र॒व॒स्यव॒श्श्रव॑ आप॒न्नमृ॑क्तम् ।
नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि ।
भ॒द्राया॑न्ते रणयन्त॒ सन्दृ॑ष्टौ ।

मूलम्

प॒दन्दे॒वस्य॒ नम॑सा वि॒यन्तः॑ ।
श्र॒व॒स्यव॒श्श्रव॑ आप॒न्नमृ॑क्तम् ।
नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि ।
भ॒द्राया॑न्ते रणयन्त॒ सन्दृ॑ष्टौ ।

भट्टभास्कर-टीका

4पदमिति ॥ देवस्य तव पदं स्थानं अग्निहोत्रादि नमसा अनेन हविषा इत्थंभूः वियन्तः विशेषेण गच्छन्तः श्रवस्यवः श्रवोऽन्नं यशो वा इच्छन्तः । क्यजन्तात् ‘क्याच्छन्दसि’ इति उप्रत्ययः । तदेव श्रव आपन् आप्नुवन्ति । छान्दसो लङ् । अमृक्तं अमृदितं अमृष्टं वा । छान्दसो व्यञ्जनविकारः । किं बहुना? तव नामान्यपि अग्न्यादीनि ये दधिरे धारयान्त यज्ञियानि यज्ञार्हाणि यज्ञप्रतिपादनपरान्वा ग्रन्थान् त्वत्संन्कीर्तनपराण्येव धारयन्ति तेऽपि तव भद्रायां कल्याण्यां संदृष्टौ रणयन्त रमयन्ति । स्वार्थिको णिच् । किं पुनस्तव पदं वियन्त इति । रमेरन्त्यविकारश्छान्दसः ॥

विश्वास-प्रस्तुतिः

त्वाव्ँव॑र्धन्ति क्षि॒तय॑ᳶ पृथि॒व्याम् ।
त्वँ राय॑ उ॒भया॑सो॒ जना॑नाम् ।
त्वन्त्रा॒ता त॑रणे॒ चेत्यो॑भूः ।
पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ॥23॥

मूलम्

त्वाव्ँव॑र्धन्ति क्षि॒तय॑ᳶ पृथि॒व्याम् ।
त्वँ राय॑ उ॒भया॑सो॒ जना॑नाम् ।
त्वन्त्रा॒ता त॑रणे॒ चेत्यो॑भूः ।
पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ॥23॥

भट्टभास्कर-टीका

5त्वां वर्धन्तीत्यादि ॥ स्तुतिभिः हविर्भिर्वा क्षितयः मनुष्याः पृथिव्यां वर्तमानाः । ‘छन्दस्युभयथा’ इति शप आर्धधातुकत्वात् णिलोपः । त्वमेव जनानां जीवतां रायः धनानि । तद्धेतुत्वात्ताच्छब्द्यम् । उभयासः दिव्याः पार्थिवाश्च । यद्वा - जङ्गमाः स्थावराश्च । अत एव त्वमेव त्राता रक्षिता चेत्यः स्मर्तव्यः भूः भवसि । यद्वा - त्राता च चेत्यश्च त्वमेव । हे तरणे! दुर्गाणां तारणकुशल! दुर्गाणां तरणे कर्तव्य इति केचित् । तदानीं लिट्स्वरेण भाव्यम् । किञ्च - त्वमेव पिता माता च । मानुषाणां तत्तत्कार्यकरणात्, सदमित् सदैव । सदमिदिति निपात आद्युदात्तः ॥

विश्वास-प्रस्तुतिः

सप॒र्येण्य॒स्स प्रि॒यो वि॒क्ष्व॑ग्निः ।
होता॑ म॒न्द्रो निष॑सादा॒ यजी॑यान् ।
तन्त्वा॑ व॒यन्दम॒ आ दी॑दि॒वाँस॑म् ।
उप॑ज्ञु॒बाधो॒ नम॑सा सदेम ।

मूलम्

सप॒र्येण्य॒स्स प्रि॒यो वि॒क्ष्व॑ग्निः ।
होता॑ म॒न्द्रो निष॑सादा॒ यजी॑यान् ।
तन्त्वा॑ व॒यन्दम॒ आ दी॑दि॒वाँस॑म् ।
उप॑ज्ञु॒बाधो॒ नम॑सा सदेम ।

भट्टभास्कर-टीका

6स पर्येण्य इति ॥ सः त्वं पर्येण्यः सर्वात्मना गन्तव्यः । इण औणादिको ण्यप्रत्ययः । यद्वा - पर्येष्यः, छान्दसो वर्णविकारः । सपर्यतेः कण्ड्वादियगन्तादेण्य इत्यपरम्, तदानीं स इत्यस्योदात्तत्वं दुर्लभम् । स एव त्वं प्रियः प्रीणयिता भूत्वा अङ्गनादिगुणस्सन् विक्षु प्रजासु निषसाद निषीदसि । पुरुषव्यत्ययः । मन्द्रः स्वयं च तृप्यन् होता आह्वाता यजीयान् यष्टृतरः । यद्वा - स एव खलु होता पर्येण्यः प्रियश्च यो यष्टृतरः मन्द्रश्च भूत्या विक्षु निषीदसि तस्मात् तं तादृशं त्वां दमे यज्ञगृहे दीदिवासं दीप्यमानं नमसा हविषा प्रणिपातेन वा आसदेम आसीदामः भजामहे । लिङ्याशिष्यङ् । उपज्ञुबाधः उपजायमानबाधाः, बाधेर्भावे क्विप् । कर्मणि वा । संसारेण बाध्यमाना बाधाः उपज्ञु उपज्ञातं सुप्रसिद्धम् । छान्दसे स्व[र]रूपे ॥

विश्वास-प्रस्तुतिः

तन्त्वा॑ व॒यँ सु॒धियो॒ नव्य॑मग्ने ।
सु॒म्ना॒यव॑ ईमहे देव॒यन्तः॑ ।
त्वव्ँ विशो॑ अनयो॒ दीद्या॑नः ।
दि॒वो अ॑ग्ने बृह॒ता रो॑च॒नेन॑ ।

मूलम्

तन्त्वा॑ व॒यँ सु॒धियो॒ नव्य॑मग्ने ।
सु॒म्ना॒यव॑ ईमहे देव॒यन्तः॑ ।
त्वव्ँ विशो॑ अनयो॒ दीद्या॑नः ।
दि॒वो अ॑ग्ने बृह॒ता रो॑च॒नेन॑ ।

भट्टभास्कर-टीका

7तं त्वा वयमिति ॥ हे अग्ने! तादृशं त्वां नव्यं स्तुत्यं नवं वा वयं सुधियः शोभनप्रज्ञाः शोभनकर्माणो वा सुम्नायवः सुखमिच्छन्तः तदर्थं देवान् प्राप्तुमिच्छन्तः ईमहे याचामहे भजामहे वा । त्वं खलु दीद्यानः विशः मनुष्यान् अनयः नयसि प्रापयसि दिवः द्युलोकान् इष्टान् । छान्दसो लङ् । हे अग्ने! अङ्गनादिगुण रोचनेन दीप्त्या इत्थंभूतः ॥

विश्वास-प्रस्तुतिः

वि॒शाङ्क॒विव्ँ वि॒श्पतिँ॒ शश्व॑तीनाम् ।
नि॒तोश॑नव्ँ वृष॒भञ्च॑र्षणी॒नाम् ॥24॥
प्रेती॑षणि मि॒षय॑न्तम्पाव॒कम् ।
राज॑न्तम॒ग्निय्ँय॑ज॒तँ र॑यी॒णाम् ।

मूलम्

वि॒शाङ्क॒विव्ँ वि॒श्पतिँ॒ शश्व॑तीनाम् ।
नि॒तोश॑नव्ँ वृष॒भञ्च॑र्षणी॒नाम् ॥24॥
प्रेती॑षणि मि॒षय॑न्तम्पाव॒कम् ।
राज॑न्तम॒ग्निय्ँय॑ज॒तँ र॑यी॒णाम् ।

भट्टभास्कर-टीका

8विशां कविमिति ॥ विशां मनुष्याणां शश्वतीनां नित्यप्रवृत्तानां अविच्छिन्नसन्ततीनां विश्वपतिं नित्यस्वामिनम् । व्यासेन बहुत्वं प्रतिपाद्यते, समासेन नित्यसम्बन्धादि । कविं क्रान्तदर्शनं नितोशनं हन्तारममित्राणाम् । वृषभं वर्षितारं कामानाम् । चर्षणीनां मनुष्याणाम् । प्रकृष्टा इतिः गतिः प्रेतिः तस्याः सनितारं दातारम् । ‘छन्दसि वनमन’ इति इन्प्रत्ययः, सुषामादित्वात् षत्वम्, पूर्वपदप्रकृतिस्वरत्वं छान्दसम् । इषयन्तं अन्नं कुर्वाणम् । ‘तत्करोति’ हति णिच्, ‘प्रकृत्यैकाच्’ इति प्रकृतिभावः । पावकं शोधकं राजन्तं दीप्यमानं अग्निं अङ्गनादिगुणं यजतं सङ्गमयितारं रयीणां धनानां तं त्वां ईमहे इति प्रकृतेनान्वयिते ॥

विश्वास-प्रस्तुतिः

सो अ॑ग्न ईजे शश॒मे च॒ मर्तः॑ ।
यस्त॒ आन॑ट्त्स॒मिधा॑ ह॒व्यदा॑तिम् ।
य आहु॑ति॒म्परि॒ वेदा॒ नमो॑भिः ।
विश्वेत्सवा॒मा द॑धते॒ त्वोतः॑ ।

मूलम्

सो अ॑ग्न ईजे शश॒मे च॒ मर्तः॑ ।
यस्त॒ आन॑ट्त्स॒मिधा॑ ह॒व्यदा॑तिम् ।
य आहु॑ति॒म्परि॒ वेदा॒ नमो॑भिः ।
विश्वेत्सवा॒मा द॑धते॒ त्वोतः॑ ।

भट्टभास्कर-टीका

9सो अग्न इति ॥ हे अग्ने! स एव ईजे यजते । छान्दसो लिट् । स एव शशमे शाम्यति च शान्तिस्सुखं सर्वयागफलम् । मर्तः मरणधर्मा यो मनुष्यः ते त्वदर्थं हव्यदातिं, यज्ञं, अधिकरणे क्तिन् । समिधा समिद्भिः सहितं आनट् प्राप्नोति । अश्नोतेर्लङि व्यत्ययेन श्नम्, परस्मैपदं च, नशेर्वा गतिकर्मणो लङ् । किञ्च - यः ते त्वदर्थं आहुतिं आहुतिमात्रमपि नमोभिः नमस्कारैः सहितां परिवेद सर्वतो जानाति सर्वस्य अन्नस्य अंशमस्मै होतव्यं जानाति । सः मनुष्यः त्वोतः त्वया रक्षितः विश्वेत् विश्वान्येव वामा वामानि वननीयानि धनानि दधते धत्ते । वचनव्यत्ययः, लेटि वा अडागमः ॥

विश्वास-प्रस्तुतिः

अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम ।
नमो॑भिरग्ने स॒मिधो॒त ह॒व्यैः ।
वेदी॑सूनो सहसो गी॒र्भिरु॒क्थैः ।
आ ते॑ भ॒द्रायाँ॑ सुम॒तौ य॑तेम ॥25॥

मूलम्

अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम ।
नमो॑भिरग्ने स॒मिधो॒त ह॒व्यैः ।
वेदी॑सूनो सहसो गी॒र्भिरु॒क्थैः ।
आ ते॑ भ॒द्रायाँ॑ सुम॒तौ य॑तेम ॥25॥

भट्टभास्कर-टीका

10अस्मा इति ॥ अस्मा उ अस्मा एव एवंगुणाय ते तुभ्यं महे महते विधेम परिचरेम । कर्मणि षष्ठी । महि महत् नमोभिः नमस्कारैः समिधा समिद्भिः उत अपि च हव्यैः हविर्भिः वेदी वेद्याम्, ‘सुपां सुलुक्’ इति पूर्वसवर्णदीर्धत्वम् । स- हसो बलस्य सूनो! मथनप्रभवत्वात् । ‘परमपि छन्दसि’ इति पूर्वाङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायो निहन्यते । गीर्भिः स्तोत्रैः उक्थैः शस्त्रैश्च विधेम । एवं ते तव भद्रायां कल्याण्यां सुमतौ अनुग्रहात्मिकायां बुद्धौ निमित्तभूतायां तल्लाभाय आयतेम शास्त्रीयेण मार्गेण यतामहे । व्यत्ययेन परस्मैपदम् ॥

विश्वास-प्रस्तुतिः

आ॒ यस्त॒तन्थ॒ रोद॑सी॒ विभा॒सा ।
श्रवो॑भिश्च श्रव॒स्य॑स्तरु॑त्रः ।
बृ॒हद्भि॒र्वाजै॒स्स्थवि॑रेभिर॒स्मे ।
रे॒वद्भि॑रग्ने वित॒रव्ँ वि भा॑हि ।

मूलम्

आ॒ यस्त॒तन्थ॒ रोद॑सी॒ विभा॒सा ।
श्रवो॑भिश्च श्रव॒स्य॑स्तरु॑त्रः ।
बृ॒हद्भि॒र्वाजै॒स्स्थवि॑रेभिर॒स्मे ।
रे॒वद्भि॑रग्ने वित॒रव्ँ वि भा॑हि ।

भट्टभास्कर-टीका

11आ यस्ततन्थेति॥ यः त्वं रोदसी द्यावापृथिव्यौ भासा तेजसा व्याततन्थ व्याप्नौषि । छान्दसो लिट्,‘बभूथा ततन्थ’ इति निपात्यते । श्रवोभिः अन्नैश्च रोदसी व्याततन्थेत्येव । श्रवस्यः श्रवः अन्नं प्रजाभ्यः इच्छन् । ‘छन्दसि परेच्छायामपि’ इति क्यच्, क्यजन्तात्पचाद्यच् । अन्तरितं मृग्यम् । यद्वा - श्रवसे हितं श्रवसि वा साधु: । तरुत्रः तारीयता दुर्गेभ्यः, ‘तरुत्रपरः ’ इति निपात्यते, अकारोपजनः छान्दसः पचाद्यज्वा । ‘न धातुलोप आर्धधातुके’ इति गुणाभावः, आद्युदात्तत्वं छान्दसम् । अतस्त्वं बृहद्भिः वाजैः अन्नैः स्थविरेभिः चिरन्तनैः रेवद्भिः पुत्रादिधनसमृद्धिहेतुभिः अस्मे अस्मभ्यं देवैः वितरं विभाहि सर्वातिशायिना विशेषेण विभाहि दीप्यस्व देहीत्युक्तं भवति हे अग्ने! । ‘अमु च छन्दसि इत्यमुप्रत्ययः ॥

विश्वास-प्रस्तुतिः

नृ॒वद्व॑सो॒ सद॒मिद्धे॑ह्य॒स्मे ।
भूरि॑तो॒काय॒ तन॑याय प॒श्वः ।
पू॒र्वीरिषो॑ बृह॒तीरा॒रे अ॑घाः ।
अ॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ सन्तु ।

मूलम्

नृ॒वद्व॑सो॒ सद॒मिद्धे॑ह्य॒स्मे ।
भूरि॑तो॒काय॒ तन॑याय प॒श्वः ।
पू॒र्वीरिषो॑ बृह॒तीरा॒रे अ॑घाः ।
अ॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ सन्तु ।

भट्टभास्कर-टीका

12नृवद्वसो इति ॥ हे वसो! वासयितः! प्रजानां नृवत् नृभिः दासादिभिः तद्वत् धनं भूरि बहु अस्मे अस्मभ्यं धेहि देहि । ‘ह्रस्वनुड्भ्यां मतुप्’ इति मतुप उदात्तत्वम् । सदमित् सदैव । किञ्च - तोकाय पुत्राय तनयाय तत्पुत्राय च धेहीत्येव । पश्वः पशूंश्च अस्मभ्यं धेहि । किञ्च - पूर्वीः चिरन्तनीं पूर्वपुरुषोचिताः इषः अन्नानि बृहतीः महतीः प्रभूता आरे अन्तिके क्षिप्रमेव अधाः क्षारय अस्मासु वर्षय । धृ क्षरणे लुङि सिचि वृद्धावीडभावे रूपम् । किञ्च - अस्मे अस्माकं भद्रा भद्राणि सौश्रवसानि सुश्रवसां शोभनानां पुरुषाणां संबन्धीनि कर्माणि स्थानासनादीनि सन्तु ॥

विश्वास-प्रस्तुतिः

पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या ।
वसू॑नि राजन्व॒सुता॑ते अश्याम् ।
पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्ति॑ ।
अग्ने॒ वसु॑ विध॒ते राज॑नि॒त्वे ॥26॥

मूलम्

पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या ।
वसू॑नि राजन्व॒सुता॑ते अश्याम् ।
पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्ति॑ ।
अग्ने॒ वसु॑ विध॒ते राज॑नि॒त्वे ॥26॥

भट्टभास्कर-टीका

13पुरूणीति ॥ हे अग्ने! राजन्! दीप्यमान! हे वसुताते! वसूनां धनानां कर्तः! । छान्दसे तातलि ‘लिति’ इति प्रत्ययात्पुर्वस्योदात्तत्वम् । त्वाया त्वया हेतुना । ‘सुपां सुलुक्’ इति याजादेशः । दीर्घत्वं वर्णविकारः । पुरुधा बहुप्रकारभिन्नानि वसूनि धनानि अश्यां भुञ्जीय । तव विशेषः श्रूयतां - हे अग्ने! पुरुवार! बहुभिर्वरणीय! सर्वकालवर्तित्वात् त्वे त्वयि पृरूणि बहूनि वसु वसूनि सन्ति । ‘सुपां सुलुक्’ इति लुक् । त्वयि खलु बहूनि धनानि विद्यन्ते । कीदृशे त्वयि? विधते परिचरते जनाय यजमानाय । ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । परिचारकजनार्थमेव राजनि दीप्यमाने त्वयि पुरूणि वसूनि सन्ति । तस्मात्तादृशेन त्वया पुरूणि वसूनि अश्यामिति ॥

इति तैत्तिरीये ब्राह्मणे तृतीये षष्ठे दशमोऽनुवाकः ॥