०९ वपापरोडाशस्विष्टकृतां याज्याः

विश्वास-प्रस्तुतिः

गी॒र्भिर्विप्र॒ᳶ प्रम॑तिमि॒च्छमा॑नः ।
ईट्टे॑ र॒यिय्ँ य॒शस॑म्पूर्व॒भाज॑म् ।
इन्द्रा॑ग्नी वृत्रहणा सुवज्रा ।
प्र णो॒ नव्ये॑भिस्तिरतन्दे॒ष्णैः ।

मूलम्

गी॒र्भिर्विप्र॒ᳶ प्रम॑तिमि॒च्छमा॑नः ।
ईट्टे॑ र॒यिय्ँ य॒शस॑म्पूर्व॒भाज॑म् ।
इन्द्रा॑ग्नी वृत्रहणा सुवज्रा ।
प्र णो॒ नव्ये॑भिस्तिरतन्दे॒ष्णैः ।

भट्टभास्कर-टीका

1अथ तेषामेव च वपापरोडाशस्विष्टकृतां याज्याः - गीर्भिर्विप्र इति तिस्रस्त्रिष्टुभः ॥ हे इन्द्राग्नी! वृत्रहणा! पापादेः हन्तारौ! सुवज्रा! शोभनायुधौ! अयं विप्रः यजमानः युवां गीर्भिरीट्टे स्तौति याचते वा । कीदृशः? प्रमतिं प्रकर्षेण मन्तव्यं यशसं यशस्विनं न त्वयशस्यम् । मत्वर्थीयो लुप्यते । तेन तद्विषयत्वाभावात् आद्युदात्तत्वाभावः । अर्शआदिलक्षणे वाऽचि मध्योदात्तत्वं छान्दसम् । पूर्वभाजं पूर्वानस्य पुरुषान् यादृगभजत तादृशं रयिं धनं इच्छमानः लब्धुमिच्छन् युवां ईट्टे स्तौति । युवामपि तादृशं धनं अस्मभ्यं प्रतिरतं प्रवर्धयतं नव्येभिः नवतरैः अपूर्वैः नवितव्यैर्वा देष्णैः दानप्रकारैः ॥

विश्वास-प्रस्तुतिः

माच्छे॑द्म र॒श्मीँरिति॒ नाध॑मानाः ।
पि॒तृ॒णाँ शक्ती॑रनु॒यच्छ॑मानाः ।
इ॒न्द्रा॒ग्निभ्या॒ङ्कव्ँ वृष॑णो मदन्ति ।
ताह्यद्री॑ धि॒षणा॑या उ॒पस्थे॑ ।

मूलम्

माच्छे॑द्म र॒श्मीँरिति॒ नाध॑मानाः ।
पि॒तृ॒णाँ शक्ती॑रनु॒यच्छ॑मानाः ।
इ॒न्द्रा॒ग्निभ्या॒ङ्कव्ँ वृष॑णो मदन्ति ।
ताह्यद्री॑ धि॒षणा॑या उ॒पस्थे॑ ।

भट्टभास्कर-टीका

2माच्छेद्मेति ॥ वयं मा छेद्म मा छिन्द्म रश्मीन् यमनानि कर्माणि इष्टापूर्तलक्षणानि । छान्दसस्सिचो लुक्, गुणश्च । इति नाधमानाः एवमुक्तमर्थं त्वां याचमानाः । ‘दीर्घात्’ इति संहितायां रुत्वानुनासिकौ । पितृणां अस्मत्पूर्वपुरुषाणां शक्तीः कर्माणि यागादीनि अनुयच्छमानाः अनुगन्तुमुद्यच्छमानाः उत्तिष्ठमाना माच्छेद्मेति । इदानीमिन्द्राग्नी ममापीदृशाभिमतावाप्तये स्तोतव्यावित्याह पञ्चमीसामर्थ्यादन्यमिति लभ्यते । इन्द्राग्निभ्यामन्यं कं वृषणः विद्वद्वृषभाः ।‘वा पूर्वस्य’ इति दीर्घाभावः । मदन्ति स्तुवन्ति । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु नुमभावश्छान्दसः परस्मैपदं च । यद्वा - मदन्ति तर्पयन्ति मद तृप्तियोगे । कोऽनयोर्विशेष इत्याह - तौ खलु अद्री महान्तौ । यद्वा - आदरणीयौ केनाप्यनभिभाव्यौ धिषणायाः बुद्धेः उपस्थे उत्सङ्गे स्थितौ अर्थिनां बुद्धिषु स्थितौ महात्मानाविति यावत् ॥

विश्वास-प्रस्तुतिः

अ॒ग्निँ सु॑दी॒तिँ सु॒दृश॑ङ्गृ॒णन्तः॑ ।
न॒म॒स्याम॒स्त्वेड्य॑ञ्जातवेदः ।
त्वान्दू॒तम॑र॒तिँ ह॑व्य॒वाह॑म् ।
दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥21॥

मूलम्

अ॒ग्निँ सु॑दी॒तिँ सु॒दृश॑ङ्गृ॒णन्तः॑ ।
न॒म॒स्याम॒स्त्वेड्य॑ञ्जातवेदः ।
त्वान्दू॒तम॑र॒तिँ ह॑व्य॒वाह॑म् ।
दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥21॥

भट्टभास्कर-टीका

3अग्निं सुदीतिमिति ॥ हे जातवेदाः! जातानां वेदितः! त्वां अग्निं अङ्गनादिगुणं सुदीतिं शोभनदानं सुदृशं सुष्ठु द्रष्टारं श्रेयसां ईड्यं सर्वैस्स्तुत्यं गृणन्तः स्तुवन्तः वयं नमस्यामः परिचरामः । त्वां हि दूतं हितकारिणं अरतिं पर्याप्तमतिं अरणीयं वा हव्यवाहं हविषां वोढारं त्वां देवा अकृण्वन् अकुर्वन् अमृतस्य अमरणस्य नाभिं नहनस्थानं उदकस्य वा कारणं यज्ञद्वारेण ॥

इति तैत्तिरीये ब्राह्मणे तृतीये षष्ठे नवमोऽनुवाकः ॥