विश्वास-प्रस्तुतिः
आवृ॑त्रहणा वृत्र॒हभि॒श्शुष्मैः॑ ।
इन्द्र॑ या॒तन्नमो॑भिरग्ने अ॒र्वाक् ।
यु॒वँ राधो॑भि॒रक॑वेभिरिन्द्र ।
अग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ।
मूलम्
आवृ॑त्रहणा वृत्र॒हभि॒श्शुष्मैः॑ ।
इन्द्र॑ या॒तन्नमो॑भिरग्ने अ॒र्वाक् ।
यु॒वँ राधो॑भि॒रक॑वेभिरिन्द्र ।
अग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ।
भट्टभास्कर-टीका
1वपापुरोडाशस्विष्टकृतां पुरोरुक्प्रैषा मैत्रावरुणस्य - आ वृत्रहणेति त्रिष्टुप् ॥ हे वृत्रहणा! वृत्रस्य पापादेः हन्तारौ! हे इन्द्र! हे अग्ने! युवां आयातं आगच्छतं अर्वाक् अस्मदाभिमुख्येन नमोभिः अस्मदीयैर्नमस्कारैः हविर्लक्षणै अन्नैर्वा हेतुभिः आयातं, वृत्रहभिः पापादिहननसमर्थैः शुष्मैः बलैः इत्थंभूतौ युवाम् । किञ्च - हे इन्द्र! हे अग्ने! युवं युवां राधोभिः अस्मभ्यं देयैः अन्नैः अस्मे अस्मासु भवतम् । कीदृशैरिति चेत्? अकवेभिः अकुत्सितैः कुत्सितवाचि शब्दान्तरमेवेदं, उत्तमेभिः उतमैः इत्थंभूतौ भवतम् । मा भूतं निकृष्टैः देयैः । उत्तमशब्दः उञ्छादित्वादन्तोदात्तः ॥
विश्वास-प्रस्तुतिः
होता॑ यक्षदिन्द्रा॒ग्नी ।
छाग॑स्य व॒पाया॒ मेद॑सः ।
जु॒षेताँ॑ ह॒विः ।
होत॒र्यज॑ ।
मूलम्
होता॑ यक्षदिन्द्रा॒ग्नी ।
छाग॑स्य व॒पाया॒ मेद॑सः ।
जु॒षेताँ॑ ह॒विः ।
होत॒र्यज॑ ।
भट्टभास्कर-टीका
2होता यक्षदित्यादि ॥ गतम् । होता दैव्यः यक्षत् यजतु । इन्द्राग्नी इन्द्रश्च अग्निश्च ‘नोत्तरपदे अनुदात्तादौ’ इति द्व्युदात्तत्वाभावः । यजेर्लेटि सिप्प्रत्ययः । तथा तौ देवौ छागस्य संबन्धिन्या वपायाः मेदसः स्नेहवत्याः यद्धवीरूपं तत् जुषेतां सेवेताम् । हे होतः! मानुष! त्वमपि यज ॥
विश्वास-प्रस्तुतिः
विह्यख्य॒न्मन॑सा॒ वस्य॑ इ॒च्छन् ।
इन्द्रा॑ग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान् ॥19॥
नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्य॑म् ।
स वा॒न्धियव्ँ॑वाज॒यन्ती॑मतक्षम् ।
मूलम्
विह्यख्य॒न्मन॑सा॒ वस्य॑ इ॒च्छन् ।
इन्द्रा॑ग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान् ॥19॥
नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्य॑म् ।
स वा॒न्धियव्ँ॑वाज॒यन्ती॑मतक्षम् ।
भट्टभास्कर-टीका
3वि ह्यख्यदिति ॥ हे इन्द्राग्नी! यो हि मनसा वस्यः वसीयः वरिष्ठं धनमिच्छन् भवति उत वा अपि वा यः सजातान् समानजन्मनो बन्धून् इच्छन् मनसा भवति, स हि युवाभ्यामेव व्यख्यत् विचष्टे प्रकाशयति अभिप्रायं नान्यस्मै कस्मैचित् । छान्दसे लुङि ‘अस्यति’ इत्यादिना अङ्, ‘हि च’ इति निघाताभावः । तद्युवयोः महाभाग्यमपि ज्ञासे जाने । लेटि उत्तमैकवचने, शपो लुक्, ‘सिब्बहुळं लेटि’ इति सिप् । यस्मादेवं तस्मात् युवत् युवाभ्यां अन्या मह्यं मम प्रमतिः प्रकृष्टो मन्तव्यो नास्ति । कर्मणि क्तिनि ‘क्तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । युवामेव प्रकृष्टौ मन्ये । सः अहं तथा जानन् तथैव च मन्यमानः वां युवयोरेव सकाशात् वाजयन्तीं अन्नमिच्छन्तीं धियं प्रज्ञां कर्म अतक्षं तक्षामि संस्कृत्योत्पादयामि । यद्वा - युवयोरर्थाय धियं वाजयन्तीं हविर्लक्षणं अन्नं इच्छन्तीं अतक्षं सदा उत्पादयेयम् । वाजशब्दात् क्यचि ‘न छन्दस्यपुत्रस्य’ इतीत्वाभावः ॥
विश्वास-प्रस्तुतिः
होता॑ यक्षदिन्द्रा॒ग्नी ।
पु॒रो॒डाश॑स्य जु॒षेताँ॑ ह॒विः ।
होत॒र्यज॑ ।
मूलम्
होता॑ यक्षदिन्द्रा॒ग्नी ।
पु॒रो॒डाश॑स्य जु॒षेताँ॑ ह॒विः ।
होत॒र्यज॑ ।
भट्टभास्कर-टीका
3होता यक्षदिति ॥ गतम् । पुरोडाशस्येति विशेषः ॥
विश्वास-प्रस्तुतिः
त्वामी॑डते अजि॒रन्दू॒त्या॑य ।
ह॒विष्म॑न्त॒स्सद॒मिन्मानु॑षासः ।
यस्य॑ दे॒वैरास॑दो ब॒र्हि॒र॑ग्ने ।
अहा॑न्यस्मै सु॒दिना॑ भवन्तु ।
मूलम्
त्वामी॑डते अजि॒रन्दू॒त्या॑य ।
ह॒विष्म॑न्त॒स्सद॒मिन्मानु॑षासः ।
यस्य॑ दे॒वैरास॑दो ब॒र्हि॒र॑ग्ने ।
अहा॑न्यस्मै सु॒दिना॑ भवन्तु ।
भट्टभास्कर-टीका
4त्वामीडत इति त्रिष्टुम् ॥ हे अग्ने! त्वां अजिरं अजरकुशलं गमनागमनसमर्थं ईडते स्तुवन्ति याचन्ते वा सर्वे मानुषासः मानुषा अपि हविष्मन्तस्सन्तः सदमित् सदैव दूत्याय दुतकर्मणे भवत्ययं देवाह्वाता । ‘दूतवणिग्भ्यां’ इति यः । अभीष्टोऽर्थः तर्ह्युच्यतामिति चेत्? श्रूयताम् - हे अग्ने! यस्य यजमानस्य बर्हिः यज्ञं देवैस्सह त्वं आसदः आसीदसि अधितिष्ठसि । छान्दसे लुङि ऌदितादङ् । अस्मै यजमानाय अहानि दिनानि सुदिना शोभनदिनानि सुप्रातस्त्ववन्ति सम्यक् निर्वर्तितयागानि भवन्तु ॥
विश्वास-प्रस्तुतिः
होता॑ यक्षद॒ग्निम् ।
पु॒रो॒डाश॑स्य जु॒षताँ॑ ह॒विः ।
होत॒र्यज॑ ॥20॥
मूलम्
होता॑ यक्षद॒ग्निम् ।
पु॒रो॒डाश॑स्य जु॒षताँ॑ ह॒विः ।
होत॒र्यज॑ ॥20॥
भट्टभास्कर-टीका
5होता यक्षदित्यादि ॥ गतम् । अग्निः स्विष्टकृत् पुरोडाशस्य जुषतामिति विशेषः ॥
इति तैत्तिरीये ब्राह्मणे तृतीये षष्ठे प्रपाठके पशुहौत्रे अष्टमोऽनुवाकः ॥