विश्वास-प्रस्तुतिः
जु॒षस्व॑ स॒प्रथ॑स्तमम् ।
वचो॑ दे॒वप्स॑रस्तमम् ।
ह॒व्या जुह्वा॑न आ॒सनि॑ ।
मूलम्
जु॒षस्व॑ स॒प्रथ॑स्तमम् ।
वचो॑ दे॒वप्स॑रस्तमम् ।
ह॒व्या जुह्वा॑न आ॒सनि॑ ।
भट्टभास्कर-टीका
1स्तोकेभ्यः प्रेषितो मैत्रावरुणः प्रतिपद्यते - जुषस्वेति गायत्री ॥ हे अग्ने! जुषस्व सेवस्व सप्रथस्तमं अतिशयेन प्रथनसहितं विस्तीर्णतमं मदीयं वचः स्तुतिलक्षणं देवप्सरस्तमं देवानां प्रीणयितृतमम् । स्पृ प्रीतौ, ‘गतिकारकयोरपि’ इत्यसुत्, पूर्वपदप्रकृतिस्वरत्वं, व्यञ्जनयोः स्थानविपर्ययः । किं मया कार्यमिति चेत्? हव्यानि हवींषि मे स्तोकान् आसनि आस्ये जुह्वानः प्रक्षिपन् ग्रसमानः आस्ये कुरु । एते स्तोकाः मा वृधा पतन्निति । लटि व्यत्ययेनात्मनेपदं ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । पद्दन्नादिना आस्यस्यासन्भावः ॥
विश्वास-प्रस्तुतिः
इ॒मन्नो॑ य॒ज्ञम॒मृते॑षु धेहि ।
इ॒मा ह॒व्या जा॑तवेदो जुषस्व ।
स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॑ ।
होत॒ᳶ प्राशा॑न प्रथ॒मो नि॒षद्य॑ ।
मूलम्
इ॒मन्नो॑ य॒ज्ञम॒मृते॑षु धेहि ।
इ॒मा ह॒व्या जा॑तवेदो जुषस्व ।
स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॑ ।
होत॒ᳶ प्राशा॑न प्रथ॒मो नि॒षद्य॑ ।
भट्टभास्कर-टीका
2इमं न इति ॥ अध्रिगो! हे अग्ने! इमं अस्मदीयं यज्ञं अमृतेषु देवेषु धेहि स्थापय । इमानि च हव्यानि स्तोकादीनि जुषस्व सेवस्व । हे जातवेदः! जातानां वेदितः! । किञ्च - स्तोकानां बिन्दूनां मेदसो वपाया घृतस्य च त्वमेव प्रथमः प्राशान प्रकर्षेणाशान । यद्वा - प्रथमः प्रधानः प्राशान प्रथममशान निषद्य आसित्वा हे होतः! देवानामाह्वातः! अग्ने! । सुहितार्थयोगे षष्ठी ज्ञापिता ॥
विश्वास-प्रस्तुतिः
घृ॒तव॑न्तᳶ पावक ते ।
स्तो॒काश्श्चो॑तन्ति॒ मेद॑सः ।
स्वध॑र्मन्दे॒ववी॑तये ॥17॥
श्रेष्ठ॑न्नो धेहि॒ वार्य॑म् ।
मूलम्
घृ॒तव॑न्तᳶ पावक ते ।
स्तो॒काश्श्चो॑तन्ति॒ मेद॑सः ।
स्वध॑र्मन्दे॒ववी॑तये ॥17॥
श्रेष्ठ॑न्नो धेहि॒ वार्य॑म् ।
भट्टभास्कर-टीका
3धृतवन्त इति द्वे अनुष्टुभौ ॥ हे पावक! शोधक! ते त्वदर्थं घृतवन्तः स्तोका मेदसो वपायाः चोतन्ति क्षरन्ति तत्रास्माकं स्वधर्मं कुलोचितं यागाद्यविच्छेदलक्षणं वा । यदाह - देववीतय इति देववीतिः यज्ञः तदर्थं अस्मदीयं स्वधर्मं श्रेष्ठं प्रशस्यतमं वार्यं वरणीयं धेहि देहि । ‘ईडवन्द’ इत्याद्युदात्तत्वम् । देववीतिशब्दो दासीभारादिः ॥
विश्वास-प्रस्तुतिः
तुभ्यँ॑ स्तो॒का घृ॑त॒श्चुतः॑ ।
अग्ने॒ विप्रा॑य सन्त्य ।
ऋषि॒श्श्रेष्ठ॒स्समि॑ध्यसे ।
य॒ज्ञस्य॑ प्रावि॒ता भ॑व ।
मूलम्
तुभ्यँ॑ स्तो॒का घृ॑त॒श्चुतः॑ ।
अग्ने॒ विप्रा॑य सन्त्य ।
ऋषि॒श्श्रेष्ठ॒स्समि॑ध्यसे ।
य॒ज्ञस्य॑ प्रावि॒ता भ॑व ।
भट्टभास्कर-टीका
4तुभ्यं स्तोका इति ॥ हे अग्ने! तुभ्यं विप्राय मेधाविने एते घृतश्चुतः घृतक्षरणाः स्तोकाः त्वदर्थेनेवौत्पद्यन्ते । हे सन्त्य! सनेन भव! । षणु दाने, ‘क्तिचि क्तौ च’ इति क्तिचि सन्तिः, ‘न क्तिचि दीर्घश्च’ इति दीर्घनलोपाभावः । ‘भवे छदसि’ इति यत् । ‘तत्र साधुः’ इति वा । कस्तव विशेष इति चेत्? त्वं हि ऋषिः द्रष्टा श्रेष्ठः प्रशस्यतमश्च अस्माभिः समिध्यसे तस्मादिमान् स्तोकान् प्राश्यास्य यज्ञस्य प्राविता प्रकृष्टो रक्षिता भव ॥
विश्वास-प्रस्तुतिः
तुभ्यँ॑ श्चोतन्त्यध्रिगो शचीवः ।
स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ ।
क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागाः॑ ।
ह॒व्या जु॑षस्व मेधिर ।
मूलम्
तुभ्यँ॑ श्चोतन्त्यध्रिगो शचीवः ।
स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ ।
क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागाः॑ ।
ह॒व्या जु॑षस्व मेधिर ।
भट्टभास्कर-टीका
5तुभ्यं श्चोतन्तीत्युपरिष्टात्ज्योतिस्त्रिष्टुप् ॥ हे अग्ने! अध्रिगो! अधृतरश्मे! शचीवः! कर्मवन्! ‘मतुवसोः’ इति रुत्वम् । तुभ्यं त्वदर्थमेवैते स्तोकासः मेदसो घृतस्य बिन्दवः श्चोतन्ति अतस्त्वं कविशस्तः मेधाविभिः स्तुतः । प्रवृद्धादित्वादन्तोदात्तत्वम् । यद्वा - कवीनां मध्ये शस्तः । तेन ‘तृतीया कर्मणि ’ इति न प्रवर्तते । बृहता भानुना तेजसा इत्थंभूतस्सन् आगाः आगच्छ । छान्दसो लुक् । एत्य च हव्या हवींषि स्तोकलक्षणानि जुषस्व । हे मेधिर! मेधवन्! यजनीय! वा ॥
विश्वास-प्रस्तुतिः
ओजि॑ष्ठन्ते मध्य॒तो मेद॒ उद्भृ॑तम् ।
प्र ते॑ व॒यन्द॑दामहे ।
श्चोत॑न्ति ते वसो स्तो॒का अधि॑त्व॒चि ।
प्रति॒ तान्दे॑व॒शोवि॑हि ॥18॥
मूलम्
ओजि॑ष्ठन्ते मध्य॒तो मेद॒ उद्भृ॑तम् ।
प्र ते॑ व॒यन्द॑दामहे ।
श्चोत॑न्ति ते वसो स्तो॒का अधि॑त्व॒चि ।
प्रति॒ तान्दे॑व॒शोवि॑हि ॥18॥
भट्टभास्कर-टीका
6ओजिष्ठं त इति सतःपङ्क्तिः ॥ ओजिष्ठं बलवत्तमं ते त्वदर्थं पशोः मध्यतः मेदः उद्भृतं उद्धृतं तस्मात् ते तुभ्यमेव वयं प्रददामहे । दद दाने, भौवादिकः । किञ्चान्यदप्युच्यसे - हे वसो! देवानामपि वासयितः! ते तव त्वचि शरीरे ज्वालासु अधि उपरि स्तोकाः श्चोतन्ति क्षरन्ति तान् सर्वान् देवशः देवंदेवंप्रति सर्वदेवार्थं विहि पिब । छान्दसं ह्रस्वत्वम् । यद्वा - देवशो देवाय देवाय स्तोकान् प्रतिविहि प्रत्येकं पिब । ‘संख्यैकवचनाच्च’ इति शस् ॥
इति तैत्तिरीयब्राह्मणे तृतीये षष्ठे सप्तमोऽनुवाकः ॥